Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
जनक उवाच
आकाशवदनंतोऽहं घटवत् प्राकृतं जगत् । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ 6-1
महोदधिरिवाहं स प्रपंचो वीचिसन्निभः । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ 6-2॥
अहं स शुक्तिसंकाशो रूप्यवद् विश्वकल्पना । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ 6-3॥
अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ 6-4॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts