Bhartruhari Shataka Trishati · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
दिक्कालाद्यनवच्छिन्नानंतचिन्मात्रमूर्तये । स्वानुभूत्येकमानाय नमः शांताय तेजसे ॥ 1.1 ॥
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अबोधोपहताः चान्ये जीर्णमंगे सुभाषितम् ॥ 1.2 ॥
Offered for worship and study, not as prediction. Non-commercial.
अज्ञः सुखं आराध्यः सुखतरं आराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रंजयति ॥ 1.3 ॥
प्रसह्य मणिं उद्धरेन्मकरवक्त्रदंष्ट्रांतरात् समुद्रं अपि संतरेत्प्रचलदूर्मिमालाकुलम् । भुजंगं अपि कोपितं शिरसि पुष्पवद्धारयेत् न तु प्रतिनिविष्टमूर्खजनचित्तं आराधयेत् ॥ 1.4 ॥
लभेत सिकतासु तैलं अपि यत्नतः पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । क्वचिदपि पर्यटन्शशविषाणं आसादयेत् न तु प्रतिनिविष्टमूर्खचित्तं आराधयेत् ॥ 1.5 ॥
व्यालं बालमृणालतंतुभिरसौ रोद्धुं समुज्जृंभते छेत्तुं वज्रमणिं शिरीषकुसुमप्रांतेन सन्नह्यति । माधुर्यं मधुबिंदुना रचयितुं क्षारामुधेरीहते नेतुं वांछंति यः खलान्पथि सतां सूक्तैः सुधास्यंदिभिः ॥ 1.6 ॥
स्वायत्तं एकांतगुणं विधात्रा विनिर्मितं छादनं अज्ञतायाः । विशेषतः सर्वविदां समाजे विभूषणं मौनं अपंडितानाम् ॥ 1.7 ॥
यदा किंचिज्ज्ञोऽहं द्विप इव मदांधः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः यदा किंचित्किंचिद्बुधजनसकाशादवगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ 1.8 ॥
कृमिकुलचित्तं लालाक्लिन्नं विगंधिजुगुप्सितं निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् । सुरपतिं अपि श्वा पार्श्वस्थं विलोक्य न शंकते न हि गणयति क्षुद्रो जंतुः परिग्रहफल्गुताम् ॥ 1.9 ॥
शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुंगादवनिं अवनेश्चापि जलधिम् । अधोऽधो गंगेयं पदं उपगता स्तोकम् अथवाविवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ 1.10 ॥
शक्यो वारयितुं जलेन हुतभुक्च्छत्रेण सूर्यातपो नागेंद्रो निशितांकुशेन समदो दंडेन गोगर्दभौ । व्याधिर्भेषजसंग्रहैश्च विविधैर्मंत्रप्रयोगैर्विषं सर्वस्यौषधं अस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधिम् ॥ 1.11 ॥
साहित्यसंगीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानस् तद्भागधेयं परमं पशूनाम् ॥ 1.12 ॥
येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरंति ॥ 1.13 ॥
वरं पर्वतदुर्गेषु भ्रांतं वनचरैः सह न मूर्खजनसंपर्कः सुरेंद्रभवनेष्वपि ॥ 1.14 ॥
शास्त्रोपस्कृतशब्दसुंदरगिरः शिष्यप्रदेयागमा विख्याताः कवयो वसंति विषये यस्य प्रभोर्निर्धनाः । तज्जाड्यं वसुधादिपस्य कवयस्त्वर्थं विनापीश्वराः कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ॥ 1.15 ॥
हर्तुर्याति न गोचरं किं अपि शं पुष्णाति यत्सर्वदाऽप्य् अर्थिभ्यः प्रतिपाद्यमानं अनिशं प्राप्नोति वृद्धिं पराम् । कल्पांतेष्वपि न प्रयाति निधनं विद्याख्यं अंतर्धनं येषां तान्प्रति मानं उज्झत नृपाः कस्तैः सह स्पर्धते ॥ 1.16 ॥
अधिगतपरमार्थान्पंडितान्मावमंस्थास् तृणं इव लघु लक्ष्मीर्नैव तान्संरुणद्धि । अभिनवमदलेखाश्यामगंडस्थलानां न भवति बिसतंतुर्वारणं वारणानाम् ॥ 1.17 ॥
अंभोजिनीवनविहारविलासं एव हंसस्य हंति नितरां कुपितो विधाता । न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्धीकीर्तिं अपहर्तुं असौ समर्थः ॥ 1.18 ॥
केयूराणि न भूषयंति पुरुषं हारा न चंद्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः । वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते क्षीयंते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ 1.19 ॥
विद्या नाम नरस्य रूपं अधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बंधुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः ॥ 1.20 ॥
क्षांतिश्चेत्कवचेन किं किं अरिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधं किं फलम् । किं सर्पैर्यदि दुर्जनाः किं उ धनैर्विद्याऽनवद्या यदि व्रीडा चेत्किं उ भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ 1.21 ॥
दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् । शौर्यं शत्रुजने क्षमा गुरुजने कांताजने धृष्टता ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ 1.22 ॥
जाड्यं धियो हरति सिंचति वाचि सत्यं मानोन्नतिं दिशति पापं अपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिं सत्संगतिः कथय किं न करोति पुंसाम् ॥ 1.23 ॥
जयंति ते सुकृतिनो रससिद्धाः कवीश्वराः । नास्ति येषां यशःकाये जरामरणजं भयम् ॥ 1.24 ॥
सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः स्निग्धं मित्रं अवंचकः परिजनो निःक्लेशलेशं मनः । आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं तुष्टे विष्टपकष्टहारिणि हरौ संप्राप्यते देहिना ॥ 1.25 ॥
प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् । तृष्णास्रोतो विभंगो गुरुषु च विनयः सर्वभूतानुकंपा सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसां एष पंथाः ॥ 1.26 ॥
प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमंति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धं उत्तमजना न परित्यजंति ॥ 1.27 ॥
असंतो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः प्रिया न्याय्या वृत्तिर्मलिनं असुभंगेऽप्यसुकरम् । विपद्युच्चैः स्थेयं पदं अनुविधेयं च महतां सतां केनोद्दिष्टं विषमं असिधाराव्रतं इदम् ॥ 1.28 ॥
क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशाम् आपन्नोऽपि विपन्नदीधितिरिति प्राणेषु नश्यत्स्वपि । मत्तेभेंद्रविभिन्नकुंभपिशितग्रासैकबद्धस्पृहः किं जीर्णं तृणं अत्ति मानमहतां अग्रेसरः केसरी ॥ 1.29 ॥
स्वल्पस्नायुवसावशेषमलिनं निर्मांसं अप्यस्थि गोः श्वा लब्ध्वा परितोषं एति न तु तत्तस्य क्षुधाशांतये । सिंहो जंबुकं अंकं आगतं अपि त्यक्त्वा निहंति द्विपं सर्वः कृच्छ्रगतोऽपि वांछंति जनः सत्त्वानुरूपं फलम् ॥ 1.30 ॥
लांगूलचालनं अधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिंडदस्य कुरुते गजपुंगवस्तु धीरं विलोकयति चाटुशतैश्च भुंक्ते ॥ 1.31 ॥
परिवर्तिनि संसारे मृतः को वा न जायते । स जातो येन जातेन याति वंशः समुन्नतिम् ॥ 1.32 ॥
कुसुमस्तवकस्येव द्वयी वृत्तिर्मनस्विनः । मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ 1.33 ॥
संत्यन्येऽपि बृहस्पतिप्रभृतयः संभाविताः पंचषास् तान्प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते । द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्करौ भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥ 1.34 ॥
वहति भुवनश्रेणिं शेषः फणाफलकस्थितां कमठपतिना मध्येपृष्ठं सदा स च धार्यते । तं अपि कुरुते क्रोडाधीनं पयोधिरनादराद् अहह महतां निःसीमानश्चरित्रविभूतयः ॥ 1.35 ॥
वरं पक्षच्छेदः समदमघवन्मुक्तकुलिशप्रहारैर् उद्गच्छद्बहुलदहनोद्गारगुरुभिः । तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे न चासौ संपातः पयसि पयसां पत्युरुचितः ॥ 1.36 ॥
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ 1.37 ॥
जातिर्यातु रसातलं गुणगणैस्तत्राप्यधो गम्यतां शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना । शौर्ये वैरिणि वज्रं आशु निपतत्वर्थोऽस्तु नः केवलं येनैकेन विना गुणस्तृणलवप्रायाः समस्ता इमे ॥ 1.38 ॥
धनं अर्जय काकुत्स्थ धनमूलं इदं जगत् । अंतरं नाभिजानामि निर्धनस्य मृतस्य च ॥ 1.39 ॥
तानींद्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः क्षणेन सोऽप्यन्य एव भवतीति विचित्रं एतत् ॥ 1.40 ॥
यस्यास्ति वित्तं स नरः कुलीनः स पंडितः स श्रुतवान्गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः कांचनं आश्रयंति ॥ 1.41 ॥
दौर्मंत्र्यान्नृपतिर्विनश्यति यतिः संगात्सुतो लालनात् विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान् मैत्री चाप्रणयात्समृद्धिरनयात्त्यागप्रमादाद्धनम् ॥ 1.42 ॥
दानं भोगो नाशस्तिस्रो गतयो भवंति वित्तस्य । यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति ॥ 1.43 ॥
मणिः शाणोल्लीढः समरविजयी हेतिदलितो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः । कलाशेषश्चंद्रः सुरतमृदिता बालवनिता तन्निम्ना शोभंते गलितविभवाश्चार्थिषु नराः ॥ 1.44 ॥
परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये स पश्चात्संपूर्णः कलयति धरित्रीं तृणसमाम् । अतश्चानैकांत्याद्गुरुलघुतयाऽर्थेषु धनिनाम् अवस्था वस्तूनि प्रथयति च संकोचयति च ॥ 1.45 ॥
राजंदुधुक्षसि यदि क्षितिधेनुं एतां तेनाद्य वत्सं इव लोकं अमुं पुषाण तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नानाफलैः फलति कल्पलतेव भूमिः ॥ 1.46 ॥
सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुरनित्यधनागमा च वारांगनेव नृपनीतिरनेकरूपा ॥ 1.47 ॥
आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च येषां एते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ 1.48 ॥
यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् । तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ 1.49 ॥
त्वं एव चातकाधारोऽ सीति केषां न गोचरः । किं अंभोदवरास्माकं कार्पण्योक्तं प्रतीक्षसे ॥ 1.50 ॥
रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम् अंभोदा बहवो वसंति गगने सर्वेऽपि नैतादृशाः । केचिद्वृष्टिभिरार्द्रयंति वसुधां गर्जंति केचिद्वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ 1.51 ॥
अकरुणत्वं अकारणविग्रहः परधने परयोषिति च स्पृहा । सुजनबंधुजनेष्वसहिष्णुता प्रकृतिसिद्धं इदं हि दुरात्मनाम् ॥ 1.52 ॥
दुर्जनः परिहर्तव्यो विद्ययाऽलकृतोऽपि सन् । मणिना भूषितः सर्पः किं असौ न भयंकरः ॥ 1.53 ॥
जाड्यं ह्रीमति गण्यते व्रतरुचौ दंभः शुचौ कैतवं शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नांकितः ॥ 1.54 ॥
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मंडनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ 1.55 ॥
शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखं अनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपांगणगतः खलो मनसि सप्त शल्यानि मे ॥ 1.56 ॥
न कश्चिच्चंडकोपानाम् आत्मीयो नाम भूभुजाम् । होतारं अपि जुह्वानं स्पृष्टो वहति पावकः ॥ 1.57 ॥
मौनोमूकः प्रवचनपटुर्बाटुलो जल्पको वा धृष्टः पार्श्वे वसति च सदा दूरतश्चाप्रगल्भः । क्षांत्या भीरुर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनां अप्यगम्यः ॥ 1.58 ॥
उद्भासिताखिलखलस्य विशृंखलस्य प्राग्जातविस्तृतनिजाधमकर्मवृत्तेः । दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतैः सुखं आप्यते ॥ 1.59 ॥
आरंभगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥ 1.60 ॥
मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ 1.61 ॥
वांछा सज्जनसंगमे परगुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् । भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले येष्वेते निवसंति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ 1.62 ॥
विपदि धैर्यं अथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धं इदं हि महात्मनाम् ॥ 1.63 ॥
प्रदानं प्रच्छन्नं गृहं उपगते संभ्रमविधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्यां अनभिभवगंधाः परकथाः सतां केनोद्दिष्टं विषमं असिधाराव्रतं इदम् ॥ 1.64 ॥
करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयि भुजयोर्वीर्यं अतुलम् । हृदि स्वच्छा वृत्तिः श्रुतिं अधिगतं च श्रवणयोर् विनाप्यैश्वर्येण प्रकृतिमहतां मंडनं इदम् ॥ 1.65 ॥
संपत्सु महतां चित्तं भवत्युत्पलकोमलम् । आपत्सु च महाशैलशिला संघातकर्कशम् ॥ 1.66 ॥
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ 1.67 ॥
प्रीणाति यः सुचरितैः पितरं स पुत्रो यद्भर्तुरेव हितं इच्छति तत्कलत्रम् । तन्मित्रं आपदि सुखे च समक्रियं यद् एतत्त्रयं जगति पुण्यकृतो लभंते ॥ 1.68 ॥
एको देवः केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा । एको वासः पत्तने वा वने वा ह्येका भार्या सुंदरी वा दरी वा ॥ 1.69 ॥
नम्रत्वेनोन्नमंतः परगुणकथनैः स्वान्गुणान्ख्यापयंतः स्वार्थान्संपादयंतो विततपृथुतरारंभयत्नाः परार्थे । क्षांत्यैवाक्षेपरुक्षाक्षरमुखरमुखांदुर्जनांदूषयंतः संतः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥ 1.70 ॥
भवंति नम्रास्तरवः फलोद्गमैर् नवांबुभिर्दूरावलंबिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एष परोपकारिणाम् ॥ 1.71 ॥
श्रोत्रं श्रुतेनैव न कुंडलेन दानेन पाणिर्न तु कंकणेन । विभाति कायः करुणपराणां परोपकारैर्न तु चंदनेन ॥ 1.72 ॥
पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान्प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणं इदं प्रवदंति संतः ॥ 1.73 ॥
पद्माकरं दिनकरो विकचीकरोति चंद्रप्रभोल्लासयति कैरवचक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति संतः स्वयं परहिते विहिताभियोगाः ॥ 1.74 ॥
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यजंति ये सामान्यास्तु परार्थं उद्यमभृतः स्वार्थाविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नंति ये ये तु घ्नंति निरर्थकं परहितं ते के न जानीमहे ॥ 1.75 ॥
क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा तेऽखिला क्षीरोत्तापं अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः । गंतुं पावकं उन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ 1.76 ॥
इतः स्वपिति केशवः कुलं इतस्तदीयद्विषाम् इतश्च शरणार्थिनां शिखरिणां गणाः शेरते । इतोऽपि बडवानलः सह समस्तसंवर्तकैः अहो विततं ऊर्जितं भरसहं सिंधोर्वपुः ॥ 1.77 ॥
तृष्णां छिंधि भज क्षमां जहि मदं पापे रतिं मा कृथाः सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् । मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं कीर्तिं पालय दुःखिते कुरु दयां एतत्सतां चेष्टितम् ॥ 1.78 ॥
मनसि वचसि काये पुण्यपीयूषपूर्णास् त्रिभुवनं उपकारश्रेणिभिः प्रीणयंतः । परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसंतः संत संतः कियंतः ॥ 1.79 ॥
किं तेन हेमगिरिणा रजताद्रिणा वा यत्राश्रिताश्च तरवस्तरवस्त एव । मन्यामहे मलयं एव यदाश्रयेण कंकोलनिंबकटुजा अपि चंदनाः स्युः ॥ 1.80 ॥
रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् । सुधां विना न परयुर्विरामं न निश्चितार्थाद्विरमंति धीराः ॥ 1.81 ॥
क्वचित्पृथ्वीशय्यः क्वचिदपि च परंकशयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । क्वचित्कंथाधारी क्वचिदपि च दिव्यांबरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ 1.82 ॥
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्वाजता सर्वेषां अपि सर्वकारणं इदं शीलं परं भूषणम् ॥ 1.83 ॥
निंदंतु नीतिनिपुणा यदि वा स्तुवंतु लक्ष्मीः समाविशतु गच्छतु वा यथेष्ठम् । अद्यैव वा मरणं अस्तु युगांतरे वा न्याय्यात्पथः प्रविचलंति पदं न धीराः ॥ 1.84 ॥
भग्नाशस्य करंडपिंडिततनोर्म्लानेंद्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरं असौ तेनैव यातः यथा लोकाः पश्यत दैवं एव हि नृणां वृद्धौ क्षये कारणम् ॥ 1.85 ॥
आलस्यं हि मनुष्याणां शरीरस्थो महान्रिपुः । नास्त्युद्यमसमो बंधुः कुर्वाणो नावसीदति ॥ 1.86 ॥
छिन्नोऽपि रोहति तर्क्षीणोऽप्युपचीयते पुनश्चंद्रः । इति विमृशंतः संतः संतप्यंते न दुःखेषु ॥ 1.87 ॥
नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः स्वर्गो दुर्गं अनुग्रहः किल हरेरैरावतो वारणः । इत्यैश्वर्यबलान्वितोऽपि बलभिद्भग्नः परैः संगरे तद्व्यक्तं ननु दैवं एव शरणं धिग्धिग्वृथा पौरुषम् ॥ 1.88 ॥
कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥ 1.89 ॥
खल्वातो दिवसेश्वरस्य किरणैः संताडितो मस्तके वांछंदेशं अनातपं विधिवशात्तालस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यांत्यापदः ॥ 1.90 ॥
रविनिशाकरयोर्ग्रहपीडनं गजभुजंगमयोरपि बंधनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ 1.91 ॥
सृजति तावदशेषगुणकरं पुरुषरत्नं अलंकरणं भुवः । तदपि तत्क्षणभंगि करोति चेदहह कष्टं अपंडितता विधेः ॥ 1.92 ॥
पत्रं नैव यदा करीरविटपे दोषो वसंतस्य किम् नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । धारा नैव पतंति चातकमुखे मेघस्य किं दूषणम् यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥ 1.93 ॥
नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा विधिर्वंद्यः सोऽपि प्रतिनियतकर्मैकफलदः । फलं कर्मायत्तं यदि किं अमरैः किं च विधिना नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ 1.94 ॥
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माडभांडोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यं एव गगने तस्मै नमः कर्मणे ॥ 1.95 ॥
नैवाकृतिः फलति नैवा कुलं न शीलं विद्यापि नैव न च यत्नकृतापि सेवा । भाग्यानि पूर्वतपसा खलु संचितानि काले फलंति पुरुषस्य यथैव वृक्षाः ॥ 1.96 ॥
वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षंति पुण्यानि पुराकृतानि ॥ 1.97 ॥
या साधूंश्च खलान्करोति विदुषो मूर्खान्हितांद्वेषिणः प्रत्यक्षं कुरुते परीक्षं अमृतं हालाहलं तत्क्षणात् । तां आराधय सत्क्रियां भगवतीं भोक्तुं फलं वांछितं हे साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः ॥ 1.98 ॥
गुणवदगुणवद्वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पंडितेन । अतिरभसकृतानां कर्मणां आविपत्तेर् भवति हृदयदाही शल्यतुल्यो विपाकः ॥ 1.99 ॥
स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चंदनैरिंधनौघैः सौवर्णैर्लांगलाग्रैर्विलिखति वसुधां अर्कमूलस्य हेतोः । कृत्वा कर्पूरखंडान्वृत्तिं इह कुरुते कोद्रवाणां समंतात् प्राप्येमां करंभूमिं न चरति मनुजो यस्तोप मंदभाग्यः ॥ 1.100 ॥
मज्जत्वंभसि यातु मेरुशिखरं शत्रुं जयत्वाहवे वाणिज्यं कृषिसेवने च सकला विद्याः कलाः शिक्षताम् । आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ 1.101 ॥
भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः स्वजनतां उपयाति तस्य । कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ 1.102 ॥
को लाभो गुणिसंगमः किं असुखं प्राज्ञेतरैः संगतिः का हानिः समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः । कः शूरो विजितेंद्रियः प्रियतमा काऽनुव्रता किं धनं विद्या किं सुखं अप्रवासगमनं राज्यं किं आज्ञाफलम् ॥ 1.103 ॥
अप्रियवचनदरिद्रैः प्रियवचनधनाढ्यैः स्वदारपरितुष्टैः । परपरिवादनिवृत्तैः क्वचित्क्वचिन्मंडिता वसुधा ॥ 1.104 ॥
कदर्थितस्यापि हि धैर्यवृत्तेर् न शक्यते धैर्यगुणः प्रमार्ष्टुम् । अधोमुखस्यापि कृतस्य वह्नेर् नाधः शिखा याति कदाचिदेव ॥ 1.105 ॥
कांताकटाक्षविशिखा न लुनंति यस्य चित्तं न निर्दहति कृपकृशानुतापः । कर्षंति भूरिविषयाश्च न लोभपाशैर् लोकत्रयं जयति कृत्स्नं इदं स धीरः ॥ 1.106 ॥
एकेनापि हि शूरेण पादाक्रांतं महीतलम् । क्रियते भास्करेणैव स्फारस्फुरिततेजसा ॥ 1.107 ॥
वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान् मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरंगायते । व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते यस्यांगेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ 1.108 ॥
लज्जागुणौघजननीं जननीं इव स्वाम् अत्यंतशुद्धहृदयां अनुवर्तमानाम् । तेजस्विनः सुखं असूनपि संत्यजनति सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ 1.109 ॥
Browse Related Categories: