Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ दशमः सर्गः ॥ ॥ चतुरचतुर्भुजः ॥
अत्रांतरे मसृणरोषवशामसीम्-निःश्वासनिःसहमुखीं सुमुखीमुपेत्य । सव्रीडमीक्षितसखीवदनां दिनांते सानंदगद्गदपदं हरिरित्युवाच ॥ 53 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
॥ गीतं 19 ॥
वदसि यदि किंचिदपि दंतरुचिकौमुदी हरति दरतिमिरमतिघोरम् । स्फुरदधरसीधवे तव वदनचंद्रमा रोचयतु लोचनचकोरम् ॥ प्रिये चारुशीले मुंच मयि मानमनिदानं सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥ 1 ॥
सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखशरघातम् । घटय भुजबंधनं जनय रदखंडनं येन वा भवति सुखजातम् ॥ 2 ॥
त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि भवजलधिरत्नम् । भवतु भवतीह मयि सततमनोरोधिनि तत्र मम हृदयमतिरत्नम् ॥ 3 ॥
नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् । कुसुमशरबाणभावेन यदि रंजयसि कृष्णमिदमेतदनुरूपम् ॥ 4 ॥
स्फुरतु कुचकुंभयोरुपरि मणिमंजरी रंजयतु तव हृदयदेशम् । रसतु रशनापि तव घनजघनमंडले घोषयतु मन्मथनिदेशम् ॥ 5 ॥
स्थलकमलगंजनं मम हृदयरंजनं जनितरतिरंगपरभागम् । भण मसृणवाणि करवाणि पदपंकजं सरसलसदलक्तकरागम् ॥ 6 ॥
स्मरगरलखंडनं मम शिरसि मंडनं देहि पदपल्लवमुदारम् । ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् ॥ 7 ॥
इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् । जयति पद्मावतीरमणजयदेवकवि-भारतीभणितमतिशातम् ॥ 8 ॥
परिहर कृतातंके शंकां त्वया सततं घन-स्तनजघनयाक्रांते स्वांते परानवकाशिनि । विशति वितनोरन्यो धन्यो न कोऽपि ममांतरं स्तनभरपरीरंभारंभे विधेहि विधेयताम् ॥ 54 ॥
मुग्धे विधेहि मयि निर्दयदंतदंश-दोर्वल्लिबंधनिबिडस्तनपीडनानि । चंडि त्वमेव मुदमंच न पंचबाण-चंडालकांडदलनादसवः प्रयांतु ॥ 55 ॥
व्यथयति वृथा मौनं तन्वि प्रपंचय पंचमं तरुणी मधुरालापैस्तापं विनोदय दृष्टिभिः । सुमुखि विमुखीभावं तावद्विमुंच न मुंच मां स्वयमतिशयस्निग्धो मुग्धे प्रियिऽहमुपस्थितः ॥ 56 ॥
बंधूकद्युतिबांधवोऽयमधरः स्निग्धो मधूकच्चवि-र्गंडश्चंडि चकास्ति नीलनलिनश्रीमोचनं लोचनम् । नासाभ्येति तिलप्रसूनपदवीं कुंदाभदांति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ 57 ॥
दृशौ तव मदालसे वदनमिंदुसंदीपकं गतिर्जनमनोरमा विधुतरंभमूरुद्वयम् । रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥ 58 ॥
॥ इति श्रीगीतगोविंदे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥
Browse Related Categories: