Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ तृतीयः सर्गः ॥ ॥ मुग्धमधुसूदनः ॥
कंसारिरपि संसारवासनाबंधशृंखलाम् । राधामाधाय हृदये तत्याज व्रजसुंदरीः ॥ 18 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
इतस्ततस्तामनुसृत्य राधिका-मनंगबाणव्रणखिन्नमानसः । कृतानुतापः स कलिंदनंदिनी-तटांतकुंजे विषसाद माधवः ॥ 19 ॥
॥ गीतं 7 ॥
मामियं चलिता विलोक्य वृतं वधूनिचयेन । सापराधतया मयापि न वारितातिभयेन ॥ हरि हरि हतादरतया गता सा कुपितेव ॥ 1 ॥
किं करिष्यति किं वदिष्यति सा चिरं विरहेण । किं धनेन जनेन किं मम जीवनेन गृहेण ॥ 2 ॥
चिंतयामि तदाननं कुटिलभ्रु कोपभरेण । शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ 3 ॥
तामहं हृदि संगतामनिशं भृशं रमयामि । किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ 4 ॥
तन्वि खिन्नमसूयया हृदयं तवाकलयामि । तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ 5 ॥
दृश्यते पुरतो गतागतमेव मे विदधासि । किं पुरेव ससंभ्रमं परिरंभणं न ददासि ॥ 6 ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि । देहि सुंदरि दर्शनं मम मन्मथेन दुनोमि ॥ 7 ॥
वर्णितं जयदेवकेन हरेरिदं प्रवणेन । किंदुबिल्वसमुद्रसंभवरोहिणीरमणेन ॥ 8 ॥
हृदि बिसलताहारो नायं भुजंगमनायकः कुवलयदलश्रेणी कंठे न सा गरलद्युतिः । मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रांत्यानंग क्रुधा किमु धावसि ॥ 20 ॥
पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् । तस्या एव मृगीदृशो मनसिजप्रेंखत्कटाक्षाशुग-श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ 21 ॥
भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् । मोहं तावदयं च तन्वि तनुतां बिंबादरो रागवान् सद्वृत्तस्तनमण्दलस्तव कथं प्राणैर्मम क्रीडति ॥ 22 ॥
तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा-स्तद्वक्त्रांबुजसौरभं स च सुधास्यंदी गिरां वक्रिमा । सा बिंबाधरमाधुरीति विषयासंगेऽपि चेन्मानसं तस्यां लग्नसमाधि हंत विरहव्याधिः कथं वर्धते ॥ 23 ॥
भ्रूपल्लवं धनुरपांगतरंगितानि बाणाः गुणः श्रवणपालिरिति स्मरेण । तस्यामनंगजयजंगमदेवतायां अस्त्राणि निर्जितजगंति किमर्पितानि ॥ 24 ॥
[एषः श्लोकः केषुचन संस्करणेषु विद्यते]
तिर्यक्कंठ विलोल मौलि तरलोत्तं सस्य वंशोच्चरद्- दीप्तिस्थान कृतावधान ललना लक्षैर्न संलक्षिताः । संमुग्धे मधुसूदनस्य मधुरे राधामुखेंदौ सुधा- सारे कंदलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्म्मय ॥ (25) ॥
॥ इति श्रीगीतगोविंदे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥
Browse Related Categories: