Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ षष्ठः सर्गः ॥ ॥ कुंठवैकुंठः ॥
अथ तां गंतुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा । तच्चरितं गोविंदे मनसिजमंदे सखी प्राह ॥ 37 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
॥ गीतं 12 ॥
पश्यति दिशि दिशि रहसि भवंतम् । तदधरमधुरमधूनि पिबंतम् ॥ नाथ हरे जगन्नाथ हरे सीदति राधा वासगृहे - ध्रुवम् ॥ 1 ॥
त्वदभिसरणरभसेन वलंती । पतति पदानि कियंति चलंती ॥ 2 ॥
विहितविशदबिसकिसलयवलया । जीवति परमिह तव रतिकलया ॥ 3 ॥
मुहुरवलोकितमंडनलीला । मधुरिपुरहमिति भावनशीला ॥ 4 ॥
त्वरितमुपैति न कथमभिसारम् । हरिरिति वदति सखीमनुवारम् ॥ 5 ॥
श्लिष्यति चुंबति जलधरकल्पम् । हरिरुपगत इति तिमिरमनल्पम् ॥ 6 ॥
भवति विलंबिनि विगलितलज्जा । विलपति रोदिति वासकसज्जा ॥ 7 ॥
श्रीजयदेवकवेरिदमुदितम् । रसिकजनं तनुतामतिमुदितम् ॥ 8 ॥
विपुलपुलकपालिः स्फीतसीत्कारमंत-र्जनितजडिमकाकुव्याकुलं व्याहरंती । तव कितव विधत्तेऽमंदकंदर्पचिंतां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ 38 ॥
अंगेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशंकते वितनुते शय्यां चिरं ध्यायति । इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत-व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ 39 ॥
किं विश्राम्यसि कृष्णभोगिभवने भांडीरभूमीरुहि भ्रात र्याहि नदृष्टिगोचरमितस्सानंदनंदास्पदम्। रधायावचनं तदध्वगमुखान्नंदांतिकेगोपतो गोविंदस्यजयंति सायमतिथिप्राशस्त्यगर्भागिरः॥ 40 ॥
॥ इति गीतगोविंदे वासकसज्जावर्णने कुंठवैकुंठो नाम षष्ठः सर्गः ॥
Browse Related Categories: