Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
गोप्य ऊचुः । जयति तेऽधिकं जन्मना व्रजः श्रयत इंदिरा शश्वदत्र हि । दयित दृश्यतां दिक्षु तावका- स्त्वयि धृतासवस्त्वां विचिन्वते ॥ 1॥
शरदुदाशये साधुजातस- त्सरसिजोदरश्रीमुषा दृशा । सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥ 2॥
विषजलाप्ययाद्व्यालराक्षसा- द्वर्षमारुताद्वैद्युतानलात् । वृषमयात्मजाद्विश्वतोभया- दृषभ ते वयं रक्षिता मुहुः ॥ 3॥
न खलु गोपिकानंदनो भवा- नखिलदेहिनामंतरात्मदृक् । विखनसार्थितो विश्वगुप्तये सख उदेयिवान्सात्वतां कुले ॥ 4॥
विरचिताभयं वृष्णिधुर्य ते चरणमीयुषां संसृतेर्भयात् । करसरोरुहं कांत कामदं शिरसि धेहि नः श्रीकरग्रहम् ॥ 5॥
व्रजजनार्तिहन्वीर योषितां निजजनस्मयध्वंसनस्मित । भज सखे भवत्किंकरीः स्म नो जलरुहाननं चारु दर्शय ॥ 6॥
प्रणतदेहिनां पापकर्शनं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदांबुजं कृणु कुचेषु नः कृंधि हृच्छयम् ॥ 7॥
मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यती- रधरसीधुनाऽऽप्याययस्व नः ॥ 8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् । श्रवणमंगलं श्रीमदाततं भुवि गृणंति ते भूरिदा जनाः ॥ 9॥
प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमंगलम् । रहसि संविदो या हृदिस्पृशः कुहक नो मनः क्षोभयंति हि ॥ 10॥
चलसि यद्व्रजाच्चारयन्पशून् नलिनसुंदरं नाथ ते पदम् । शिलतृणांकुरैः सीदतीति नः कलिलतां मनः कांत गच्छति ॥ 11॥
दिनपरिक्षये नीलकुंतलै- र्वनरुहाननं बिभ्रदावृतम् । घनरजस्वलं दर्शयन्मुहु- र्मनसि नः स्मरं वीर यच्छसि ॥ 12॥
प्रणतकामदं पद्मजार्चितं धरणिमंडनं ध्येयमापदि । चरणपंकजं शंतमं च ते रमण नः स्तनेष्वर्पयाधिहन् ॥ 13॥
सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुंबितम् । इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥ 14॥
अटति यद्भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम् । कुटिलकुंतलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ 15॥
पतिसुतान्वयभ्रातृबांधवा- नतिविलंघ्य तेऽंत्यच्युतागताः । गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥ 16॥
रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः ॥ 17॥
व्रजवनौकसां व्यक्तिरंग ते वृजिनहंत्र्यलं विश्वमंगलम् । त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥ 18॥
यत्ते सुजातचरणांबुरुहं स्तनेष भीताः शनैः प्रिय दधीमहि कर्कशेषु । तेनाटवीमटसि तद्व्यथते न किंस्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ 19॥
इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां दशमस्कंधे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥
Browse Related Categories: