Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अग्रे कुरूणामथ पांडवानां दुःशासनेनाहृतवस्त्रकेशा । कृष्णा तदाक्रोशदनन्यनाथा गोविंद दामोदर माधवेति ॥ 1॥
श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकंपिन् भगवन् मुरारे । त्रायस्व मां केशव लोकनाथ गोविंद दामोदर माधवेति ॥ 2॥
विक्रेतुकामा किल गोपकन्या मुरारिपादार्पितचित्तवृत्तिः । दध्यादिकं मोहवशादवोचद् गोविंद दामोदर माधवेति ॥ 3॥
उलूखले संभृततंडुलांश्च संघट्टयंत्यो मुसलैः प्रमुग्धाः । गायंति गोप्यो जनितानुरागा गोविंद दामोदर माधवेति ॥ 4॥
काचित्करांभोजपुटे निषण्णं क्रीडाशुकं किंशुकरक्ततुंडम् । अध्यापयामास सरोरुहाक्षी गोविंद दामोदर माधवेति ॥ 5॥
गृहे गृहे गोपवधूसमूहः प्रतिक्षणं पिंजरसारिकाणाम् । स्खलद्गिरां वाचयितुं प्रवृत्तो गोविंद दामोदर माधवेति ॥ 6॥
पर्य्यंकिकाभाजमलं कुमारं प्रस्वापयंत्योऽखिलगोपकन्याः । जगुः प्रबंधं स्वरतालबंधं गोविंद दामोदर माधवेति ॥ 7॥
रामानुजं वीक्षणकेलिलोलं गोपी गृहीत्वा नवनीतगोलम् । आबालकं बालकमाजुहाव गोविंद दामोदर माधवेति ॥ 8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
विचित्रवर्णाभरणाभिरामे- ऽभिधेहि वक्त्रांबुजराजहंसि । सदा मदीये रसनेऽग्ररंगे गोविंद दामोदर माधवेति ॥ 9॥
अंकाधिरूढं शिशुगोपगूढं स्तनं धयंतं कमलैककांतम् । संबोधयामास मुदा यशोदा गोविंद दामोदर माधवेति ॥ 10॥
क्रीडंतमंतर्व्रजमात्मजं स्वं समं वयस्यैः पशुपालबालैः । प्रेम्णा यशोदा प्रजुहाव कृष्णं गोविंद दामोदर माधवेति ॥ 11॥
यशोदया गाढमुलूखलेन गोकंठपाशेन निबध्यमानः । रुरोद मंदं नवनीतभोजी गोविंद दामोदर माधवेति ॥ 12॥
निजांगणे कंकणकेलिलोलं गोपी गृहीत्वा नवनीतगोलम् । आमर्दयत्पाणितलेन नेत्रे गोविंद दामोदर माधवेति ॥ 13॥
गृहे गृहे गोपवधूकदंबाः सर्वे मिलित्वा समवाययोगे । पुण्यानि नामानि पठंति नित्यं गोविंद दामोदर माधवेति ॥ 14॥
मंदारमूले वदनाभिरामं बिंबाधरे पूरितवेणुनादम् । गोगोपगोपीजनमध्यसंस्थं गोविंद दामोदर माधवेति ॥ 15॥
उत्थाय गोप्यो¶रात्रभागे स्मृत्वा यशोदासुतबालकेलिम् । गायंति प्रोच्चैर्दधि मंथयंत्यो गोविंद दामोदर माधवेति ॥ 16॥
जग्धोऽथ दत्तो नवनीतपिंडो गृहे यशोदा विचिकित्सयंती । उवाच सत्यं वद हे मुरारे गोविंद दामोदर माधवेति ॥ 17॥
अभ्यर्च्य गेहं युवतिः प्रवृद्ध- प्रेमप्रवाहा दधि निर्ममंथ । गायंति गोप्योऽथ सखीसमेता गोविंद दामोदर माधवेति ॥ 18॥
क्वचित् प्रभाते दधिपूर्णपात्रे निक्षिप्य मंथं युवती मुकुंदम् । आलोक्य गानं विविधं करोति गोविंद दामोदर माधवेति ॥ 19॥
क्रीडापरं भोजनमज्जनार्थं हितैषिणी स्त्री तनुजं यशोदा । आजूहवत् प्रेमपरिप्लुताक्षी गोविंद दामोदर माधवेति ॥ 20॥
सुखं शयानं निलये च विष्णुं देवर्षिमुख्या मुनयः प्रपन्नाः । तेनाच्युते तन्मयतां व्रजंति गोविंद दामोदर माधवेति ॥ 21॥
विहाय निद्रामरुणोदये च विधाय कृत्यानि च विप्रमुख्याः । वेदावसाने प्रपठंति नित्यं गोविंद दामोदर माधवेति ॥ 22॥
वृंदावने गोपगणाश्च गोप्यो विलोक्य गोविंदवियोगखिन्नाम् । राधां जगुः साश्रुविलोचनाभ्यां गोविंद दामोदर माधवेति ॥ 23॥
प्रभातसंचारगता नु गावस्- तद्रक्षणार्थं तनयं यशोदा । प्राबोधयत् पाणितलेन मंदं गोविंद दामोदर माधवेति ॥ 24॥
प्रवालशोभा इव दीर्घकेशा वातांबुपर्णाशनपूतदेहाः । मूले तरूणां मुनयः पठंति गोविंद दामोदर माधवेति ॥ 25॥
एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः । विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविंद दामोदर माधवेति ॥ 26॥
गोपी कदाचिन्मणिपंजरस्थं शुकं वचो वाचयितुं प्रवृत्ता । आनंदकंद व्रजचंद्र कृष्ण गोविंद दामोदर माधवेति ॥ 27॥
गोवत्सबालैः शिशुकाकपक्षं बध्नंतमंभोजदलायताक्षम् । उवाच माता चिबुकं गृहीत्वा गोविंद दामोदर माधवेति ॥ 28॥
प्रभातकाले वरवल्लवौघा गोरक्षणार्थं धृतवेत्रदंडाः । आकारयामासुरनंतमाद्यं गोविंद दामोदर माधवेति ॥ 29॥
जलाशये कालियमर्दनाय यदा कदंबादपतन्मुरारिः । गोपांगनाश्चुक्रुशुरेत्य गोपा गोविंद दामोदर माधवेति ॥ 30॥
अक्रूरमासाद्य यदा मुकुंदश्- चापोत्सवार्थं मथुरां प्रविष्टः । तदा स पौरैर्जयसीत्यभाषि गोविंद दामोदर माधवेति ॥ 31॥
कंसस्य दूतेन यदैव नीतौ वृंदावनांताद् वसुदेवसूनू । (सूनौ) रुरोद गोपी भवनस्य मध्ये गोविंद दामोदर माधवेति ॥ 32॥
सरोवरे कालियनागबद्धं शिशुं यशोदातनयं निशम्य । चक्रुर्लुठंत्यः पथि गोपबाला गोविंद दामोदर माधवेति ॥ 33॥
अक्रूरयाने यदुवंशनाथं संगच्छमानं मथुरां निरीक्ष्य । ऊचुर्वियोगत् किल गोपबाला गोविंद दामोदर माधवेति ॥ 34॥
चक्रंद गोपी नलिनीवनांते कृष्णेन हीना कुसुमे शयाना । प्रफुल्लनीलोत्पललोचनाभ्यां गोविंद दामोदर माधवेति ॥ 35॥
मातापितृभ्यां परिवार्यमाणा गेहं प्रविष्टा विललाप गोपी । आगत्य मां पालय विश्वनाथ गोविंद दामोदर माधवेति ॥ 36॥
वृंदावनस्थं हरिमाशु बुद्ध्वा गोपी गता कापि वनं निशायाम् । तत्राप्यदृष्ट्वाऽतिभयादवोचद् गोविंद दामोदर माधवेति ॥ 37॥
सुखं शयाना निलये निजेऽपि नामानि विष्णोः प्रवदंति मर्त्याः । ते निश्चितं तन्मयतां व्रजंति गोविंद दामोदर माधवेति ॥ 38॥
सा नीरजाक्षीमवलोक्य राधां रुरोद गोविंदवियोगखिन्नाम् । सखी प्रफुल्लोत्पललोचनाभ्यां गोविंद दामोदर माधवेति ॥ 39॥
जिह्वे रसज्ञे मधुरप्रिया त्वं सत्यं हितं त्वां परमं वदामि । आवर्णयेथा मधुराक्षराणि गोविंद दामोदर माधवेति ॥ 40॥
आत्यंतिकव्याधिहरं जनानां चिकित्सकं वेदविदो वदंति । संसारतापत्रयनाशबीजं गोविंद दामोदर माधवेति ॥ 41॥
ताताज्ञया गच्छति रामचंद्रे सलक्ष्मणेऽरण्यचये ससीते । चक्रंद रामस्य निजा जनित्री गोविंद दामोदर माधवेति ॥ 42॥
एकाकिनी दंडककाननांतात् सा नीयमाना दशकंधरेण । सीता तदाक्रंददनन्यनाथा गोविंद दामोदर माधवेति ॥ 43॥
रामाद्वियुक्ता जनकात्मजा सा विचिंतयंती हृदि रामरूपम् । रुरोद सीता रघुनाथ पाहि गोविंद दामोदर माधवेति ॥ 44॥
प्रसीद विष्णो रघुवंशनाथ सुरासुराणां सुखदुःखहेतो । रुरोद सीता तु समुद्रमध्ये गोविंद दामोदर माधवेति ॥ 45॥
अंतर्जले ग्राहगृहीतपादो विसृष्टविक्लिष्टसमस्तबंधुः । तदा गजेंद्रो नितरां जगाद गोविंद दामोदर माधवेति ॥ 46॥
हंसध्वजः शंखयुतो ददर्श पुत्रं कटाहे प्रतपंतमेनम् । पुण्यानि नामानि हरेर्जपंतं गोविंद दामोदर माधवेति ॥ 47॥
दुर्वाससो वाक्यमुपेत्य कृष्णा सा चाब्रवीत् काननवासिनीशम् । अंतः प्रविष्टं मनसा जुहाव गोविंद दामोदर माधवेति ॥ 48॥
ध्येयः सदा योगिभिरप्रमेयः चिंताहरश्चिंतितपारिजातः । कस्तूरिकाकल्पितनीलवर्णो गोविंद दामोदर माधवेति ॥ 49॥
संसारकूपे पतितोऽत्यगाधे मोहांधपूर्णे विषयाभितप्ते । करावलंबं मम देहि विष्णो गोविंद दामोदर माधवेति ॥ 50॥
भजस्व मंत्रं भवबंधमुक्त्यै जिह्वे रसज्ञे सुलभं मनोज्ञम् । द्वैपायनाद्यैर्मुनिभिः प्रजप्तं गोविंद दामोदर माधवेति ॥ 51॥
त्वामेव याचे मम देहि जिह्वे समागते दंडधरे कृतांते । वक्तव्यमेवं मधुरं सुभक्त्या गोविंद दामोदर माधवेति ॥ 52॥
गोपाल वंशीधर रूपसिंधो लोकेश नारायण दीनबंधो । उच्चस्वरैस्त्वं वद सर्वदैव गोविंद दामोदर माधवेति ॥ 53॥
जिह्वे सदैवं भज सुंदराणि नामानि कृष्णस्य मनोहराणि । समस्तभक्तार्तिविनाशनानि गोविंद दामोदर माधवेति ॥ 54॥
गोविंद गोविंद हरे मुरारे गोविंद गोविंद मुकुंद कृष्ण । गोविंद गोविंद रथांगपाणे गोविंद दामोदर माधवेति ॥ 55॥
सुखावसाने त्विदमेव सारं दुःखावसाने त्विदमेव गेयम् । देहावसाने त्विदमेव जाप्यं गोविंद दामोदर माधवेति ॥ 56॥
दुर्वारवाक्यं परिगृह्य कृष्णा मृगीव भीता तु कथं कथंचित् । सभां प्रविष्टा मनसा जुहाव गोविंद दामोदर माधवेति ॥ 57॥
श्रीकृष्ण राधावर गोकुलेश गोपाल गोवर्धन नाथ विष्णो । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 58॥
श्रीनाथ विश्वेश्वर विश्वमूर्ते श्रीदेवकीनंदन दैत्यशत्रो । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 59॥
गोपीपते कंसरिपो मुकुंद लक्ष्मीपते केशव वासुदेव । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 60॥
गोपीजनाह्लादकर व्रजेश गोचारणारण्यकृतप्रवेश । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 61॥
प्राणेश विश्वंभर कैटभारे वैकुंठ नारायण चक्रपाणे । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 62॥
हरे मुरारे मधुसूदनाद्य श्रीराम सीतावर रावणारे । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 63॥
श्रीयादवेंद्राद्रिधरांबुजाक्ष गोगोपगोपीसुखदानदक्ष । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 64॥
धराभरोत्तारणगोपवेष विहारलीलाकृतबंधुशेष । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 65॥
बकीबकाघासुरधेनुकारे केशीतृणावर्तविघातदक्ष । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 66॥
श्रीजानकीजीवन रामचंद्र निशाचरारे भरताग्रजेश । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 67॥
नारायणानंत हरे नृसिंह प्रह्लादबाधाहर हे कृपालो । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 68॥
लीलामनुष्याकृतिरामरूप प्रतापदासीकृतसर्वभूप । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 69॥
श्रीकृष्ण गोविंद हरे मुरारे हे नाथ नारायण वासुदेव । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 70॥
वक्तुं समर्थोऽपि न वक्ति कश्चिद्- अहो जनानां व्यसनाभिमुख्यम् । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 71॥
इति श्रीबिल्वमंगलाचार्यविरचितं श्रीगोविंददामोदरस्तोत्रं संपूर्णम् ।
Browse Related Categories: