Subrahmanya Swamy · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
स्कंद उवाच
योगीश्वरो महासेनः कार्तिकेयोऽग्निनंदनः । स्कंदः कुमारः सेनानीः स्वामी शंकरसंभवः ॥ 1
गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः । तारकारिरुमापुत्रः क्रौंचारिश्च षडाननः ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः । सनत्कुमारो भगवान् भोगमोक्षफलप्रदः ॥ 3 ॥
शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत् । सर्वागमप्रणेता च वांछितार्थप्रदर्शनः ॥ 4 ॥
अष्टाविंशतिनामानि मदीयानीति यः पठेत् । प्रत्यूषे श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥ 5 ॥
महामंत्रमयानीति मम नामानुकीर्तनम् । महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥ 6 ॥
इति श्रीरुद्रयामले प्रज्ञाविवर्धनाख्यं श्रीमत्कार्तिकेयस्तोत्रम् ॥
Browse Related Categories: