Kanda 2 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) वि॒श्वरू॑पो॒ वै वै वि॒श्वरू॑पो वि॒श्वरू॑पो॒ वै । 1) वि॒श्वरू॑प॒ इति॑ वि॒श्व - रू॒पः॒ । 2) वै त्वा॒ष्ट्र स्त्वा॒ष्ट्रो वै वै त्वा॒ष्ट्रः । 3) त्वा॒ष्ट्रः पु॒रोहि॑तः पु॒रोहि॑त स्त्वा॒ष्ट्र स्त्वा॒ष्ट्रः पु॒रोहि॑तः । 4) पु॒रोहि॑तो दे॒वाना᳚-न्दे॒वाना᳚-म्पु॒रोहि॑तः पु॒रोहि॑तो दे॒वाना᳚म् । 4) पु॒रोहि॑त॒ इति॑ पु॒रः - हि॒तः॒ । 5) दे॒वाना॑ मासी दासी-द्दे॒वाना᳚-न्दे॒वाना॑ मासीत् । 6) आ॒सी॒-थ्स्व॒स्रीय॑-स्स्व॒स्रीय॑ आसी दासी-थ्स्व॒स्रीयः॑ । 7) स्व॒स्रीयो ऽसु॑राणा॒ मसु॑राणाग् स्व॒स्रीय॑-स्स्व॒स्रीयो ऽसु॑राणाम् । 8) असु॑राणा॒-न्तस्य॒ तस्या सु॑राणा॒ मसु॑राणा॒-न्तस्य॑ । 9) तस्य॒ त्रीणि॒ त्रीणि॒ तस्य॒ तस्य॒ त्रीणि॑ । 10) त्रीणि॑ शी॒र्॒षाणि॑ शी॒र्॒षाणि॒ त्रीणि॒ त्रीणि॑ शी॒र्॒षाणि॑ । 11) शी॒र्॒षा ण्या॑स-न्नास-ञ्छी॒र्॒षाणि॑ शी॒र्॒षा ण्या॑सन्न् । 12) आ॒स॒-न्थ्सो॒म॒पानग्ं॑ सोम॒पान॑ मास-न्नास-न्थ्सोम॒पान᳚म् । 13) सो॒म॒पानग्ं॑ सुरा॒पानग्ं॑ सुरा॒पानग्ं॑ सोम॒पानग्ं॑ सोम॒पानग्ं॑ सुरा॒पान᳚म् । 13) सो॒म॒पान॒मिति॑ सोम - पान᳚म् । 14) सु॒रा॒पान॑ म॒न्नाद॑न म॒न्नाद॑नग्ं सुरा॒पानग्ं॑ सुरा॒पान॑ म॒न्नाद॑नम् । 14) सु॒रा॒पान॒मिति॑ सुरा - पान᳚म् । 15) अ॒न्नाद॑न॒ग्ं॒ स सो᳚ ऽन्नाद॑न म॒न्नाद॑न॒ग्ं॒ सः । 15) अ॒न्नाद॑न॒मित्य॑न्न - अद॑नम् । 16) स प्र॒त्यक्ष॑-म्प्र॒त्यक्ष॒ग्ं॒ स स प्र॒त्यक्ष᳚म् । 17) प्र॒त्यक्ष॑-न्दे॒वेभ्यो॑ दे॒वेभ्यः॑ प्र॒त्यक्ष॑-म्प्र॒त्यक्ष॑-न्दे॒वेभ्यः॑ । 17) प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । 18) दे॒वेभ्यो॑ भा॒ग-म्भा॒ग-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ भा॒गम् । 19) भा॒ग म॑वद दवद-द्भा॒ग-म्भा॒ग म॑वदत् । 20) अ॒व॒द॒-त्प॒रोक्ष॑-म्प॒रोक्ष॑ मवद दवद-त्प॒रोक्ष᳚म् । 21) प॒रोक्ष॒ मसु॑रे॒भ्यो ऽसु॑रेभ्यः प॒रोक्ष॑-म्प॒रोक्ष॒ मसु॑रेभ्यः । 21) प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । 22) असु॑रेभ्य॒-स्सर्व॑स्मै॒ सर्व॑स्मा॒ असु॑रे॒भ्यो ऽसु॑रेभ्य॒-स्सर्व॑स्मै । 23) सर्व॑स्मै॒ वै वै सर्व॑स्मै॒ सर्व॑स्मै॒ वै । 24) वै प्र॒त्यक्ष॑-म्प्र॒त्यक्षं॒-वैँ वै प्र॒त्यक्ष᳚म् । 25) प्र॒त्यक्ष॑-म्भा॒ग-म्भा॒ग-म्प्र॒त्यक्ष॑-म्प्र॒त्यक्ष॑-म्भा॒गम् । 25) प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । 26) भा॒गं-वँ॑दन्ति वदन्ति भा॒ग-म्भा॒गं-वँ॑दन्ति । 27) व॒द॒न्ति॒ यस्मै॒ यस्मै॑ वदन्ति वदन्ति॒ यस्मै᳚ । 28) यस्मा॑ ए॒वैव यस्मै॒ यस्मा॑ ए॒व । 29) ए॒व प॒रोक्ष॑-म्प॒रोक्ष॑ मे॒वैव प॒रोक्ष᳚म् । 30) प॒रोक्षं॒-वँद॑न्ति॒ वद॑न्ति प॒रोक्ष॑-म्प॒रोक्षं॒-वँद॑न्ति । 30) प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । 31) वद॑न्ति॒ तस्य॒ तस्य॒ वद॑न्ति॒ वद॑न्ति॒ तस्य॑ । 32) तस्य॑ भा॒गो भा॒ग स्तस्य॒ तस्य॑ भा॒गः । 33) भा॒ग उ॑दि॒त उ॑दि॒तो भा॒गो भा॒ग उ॑दि॒तः । 34) उ॒दि॒त स्तस्मा॒-त्तस्मा॑ दुदि॒त उ॑दि॒त स्तस्मा᳚त् । 35) तस्मा॒ दिन्द्र॒ इन्द्र॒ स्तस्मा॒-त्तस्मा॒ दिन्द्रः॑ । 36) इन्द्रो॑ ऽबिभे दबिभे॒ दिन्द्र॒ इन्द्रो॑ ऽबिभेत् । 37) अ॒बि॒भे॒ दी॒दृं ई॒दृं ंअ॑बिभे दबिभे दी॒दृम् । 38) ई॒दृं-वैँ वा ई॒दृं ई॒दृं-वैँ । 39) वै रा॒ष्ट्रग्ं रा॒ष्ट्रं-वैँ वै रा॒ष्ट्रम् । 40) रा॒ष्ट्रं-विँ वि रा॒ष्ट्रग्ं रा॒ष्ट्रं-विँ । 41) वि प॒र्याव॑र्तयति प॒र्याव॑र्तयति॒ वि वि प॒र्याव॑र्तयति । 42) प॒र्याव॑र्तय॒तीतीति॑ प॒र्याव॑र्तयति प॒र्याव॑र्तय॒तीति॑ । 42) प॒र्याव॑र्तय॒तीति॑ परि - आव॑र्तयति । 43) इति॒ तस्य॒ तस्ये तीति॒ तस्य॑ । 44) तस्य॒ वज्रं॒-वँज्र॒-न्तस्य॒ तस्य॒ वज्र᳚म् । 45) वज्र॑ मा॒दाया॒ दाय॒ वज्रं॒-वँज्र॑ मा॒दाय॑ । 46) आ॒दाय॑ शी॒र्॒षाणि॑ शी॒र्॒षा ण्या॒दाया॒ दाय॑ शी॒र्॒षाणि॑ । 46) आ॒दायेत्या᳚ - दाय॑ । 47) शी॒र्॒षा ण्य॑च्छिन दच्छिनच् छी॒र्॒षाणि॑ शी॒र्॒षा ण्य॑च्छिनत् । 48) अ॒च्छि॒न॒-द्य-द्यद॑च्छिन दच्छिन॒-द्यत् । 49) य-थ्सो॑म॒पानग्ं॑ सोम॒पानं॒-यँ-द्य-थ्सो॑म॒पान᳚म् । 50) सो॒म॒पान॒ मासी॒ दासी᳚-थ्सोम॒पानग्ं॑ सोम॒पान॒ मासी᳚त् । 50) सो॒म॒पान॒मिति॑ सोम - पान᳚म् । ॥ 1 ॥ (50/62)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) आसी॒-थ्स स आसी॒ दासी॒-थ्सः । 2) स क॒पिञ्ज॑लः क॒पिञ्ज॑ल॒-स्स स क॒पिञ्ज॑लः । 3) क॒पिञ्ज॑लो ऽभवदभव-त्क॒पिञ्ज॑लः क॒पिञ्ज॑लो ऽभवत् । 4) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् । 5) य-थ्सु॑रा॒पानग्ं॑ सुरा॒पानं॒-यँ-द्य-थ्सु॑रा॒पान᳚म् । 6) सु॒रा॒पान॒ग्ं॒ स स सु॑रा॒पानग्ं॑ सुरा॒पान॒ग्ं॒ सः । 6) सु॒रा॒पान॒मिति॑ सुरा - पान᳚म् । 7) स क॑ल॒विङ्कः॑ कल॒विङ्क॒-स्स स क॑ल॒विङ्कः॑ । 8) क॒ल॒विङ्को॒ य-द्य-त्क॑ल॒विङ्कः॑ कल॒विङ्को॒ यत् । 9) यद॒न्नाद॑न म॒न्नाद॑नं॒-यँ-द्यद॒न्नाद॑नम् । 10) अ॒न्नाद॑न॒ग्ं॒ स सो᳚ ऽन्नाद॑न म॒न्नाद॑न॒ग्ं॒ सः । 10) अ॒न्नाद॑न॒मित्य॑न्न - अद॑नम् । 11) स ति॑त्ति॒रि स्ति॑त्ति॒रि-स्स स ति॑त्ति॒रिः । 12) ति॒त्ति॒रि स्तस्य॒ तस्य॑ तित्ति॒रि स्ति॑त्ति॒रि स्तस्य॑ । 13) तस्या᳚ ञ्ज॒लिना᳚ ऽञ्ज॒लिना॒ तस्य॒ तस्या᳚ ञ्ज॒लिना᳚ । 14) अ॒ञ्ज॒लिना᳚ ब्रह्मह॒त्या-म्ब्र॑ह्मह॒त्या म॑ञ्ज॒लिना᳚ ऽञ्ज॒लिना᳚ ब्रह्मह॒त्याम् । 15) ब्र॒ह्म॒ह॒त्या मुपोप॑ ब्रह्मह॒त्या-म्ब्र॑ह्मह॒त्या मुप॑ । 15) ब्र॒ह्म॒ह॒त्यामिति॑ ब्रह्म - ह॒त्याम् । 16) उपा॑गृह्णा दगृह्णा॒ दुपोपा॑ गृह्णात् । 17) अ॒गृ॒ह्णा॒-त्ता-न्ता म॑गृह्णा दगृह्णा॒-त्ताम् । 18) ताग्ं सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-न्ता-न्ताग्ं सं॑वँथ्स॒रम् । 19) सं॒वँ॒थ्स॒र म॑बिभ रबिभ-स्संवँथ्स॒रग्ं सं॑वँथ्स॒र म॑बिभः । 19) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 20) अ॒बि॒भ॒ स्त-न्त म॑बिभ रबिभ॒ स्तम् । 21) त-म्भू॒तानि॑ भू॒तानि॒ त-न्त-म्भू॒तानि॑ । 22) भू॒ता न्य॒भ्य॑भि भू॒तानि॑ भू॒ता न्य॒भि । 23) अ॒भ्य॑क्रोश-न्नक्रोश-न्न॒भ्या᳚(1॒)भ्य॑क्रोशन्न् । 24) अ॒क्रो॒श॒-न्ब्रह्म॑ह॒-न्ब्रह्म॑ह-न्नक्रोश-न्नक्रोश॒-न्ब्रह्म॑हन्न् । 25) ब्रह्म॑ह॒-न्नितीति॒ ब्रह्म॑ह॒-न्ब्रह्म॑ह॒-न्निति॑ । 25) ब्रह्म॑ह॒न्निति॒ ब्रह्म॑ - ह॒न्न् । 26) इति॒ स स इतीति॒ सः । 27) स पृ॑थि॒वी-म्पृ॑थि॒वीग्ं स स पृ॑थि॒वीम् । 28) पृ॒थि॒वी मुपोप॑ पृथि॒वी-म्पृ॑थि॒वी मुप॑ । 29) उपा॑सी ददसीद॒ दुपोपा॑ सीदत् । 30) अ॒सी॒ द॒द॒स्या अ॒स्या अ॑सीद दसीद द॒स्यै । 31) अ॒स्यै ब्र॑ह्मह॒त्यायै᳚ ब्रह्मह॒त्याया॑ अ॒स्या अ॒स्यै ब्र॑ह्मह॒त्यायै᳚ । 32) ब्र॒ह्म॒ह॒त्यायै॒ तृती॑य॒-न्तृती॑य-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ तृती॑यम् । 32) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । 33) तृती॑य॒-म्प्रति॒ प्रति॒ तृती॑य॒-न्तृती॑य॒-म्प्रति॑ । 34) प्रति॑ गृहाण गृहाण॒ प्रति॒ प्रति॑ गृहाण । 35) गृ॒हा॒णे तीति॑ गृहाण गृहा॒णे ति॑ । 36) इति॒ सा सेतीति॒ सा । 37) सा ऽब्र॑वी दब्रवी॒-थ्सा सा ऽब्र॑वीत् । 38) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । 39) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 40) वृ॒णै॒ खा॒ता-त्खा॒ता-द्वृ॑णै वृणै खा॒तात् । 41) खा॒ता-त्प॑राभवि॒ष्यन्ती॑ पराभवि॒ष्यन्ती॑ खा॒ता-त्खा॒ता-त्प॑राभवि॒ष्यन्ती᳚ । 42) प॒रा॒भ॒वि॒ष्यन्ती॑ मन्ये मन्ये पराभवि॒ष्यन्ती॑ पराभवि॒ष्यन्ती॑ मन्ये । 42) प॒रा॒भ॒वि॒ष्यन्तीति॑ परा - भ॒वि॒ष्यन्ती᳚ । 43) म॒न्ये॒ तत॒ स्ततो॑ मन्ये मन्ये॒ ततः॑ । 44) ततो॒ मा मा तत॒ स्ततो॒ मा । 45) मा परा॒ परा॒ मा मा परा᳚ । 46) परा॑ भूव-म्भूव॒-म्परा॒ परा॑ भूवम् । 47) भू॒व॒ मितीति॑ भूव-म्भूव॒ मिति॑ । 48) इति॑ पु॒रा पु॒रेतीति॑ पु॒रा । 49) पु॒रा ते॑ ते पु॒रा पु॒रा ते᳚ । 50) ते॒ सं॒वँ॒थ्स॒रा-थ्सं॑वँथ्स॒रा-त्ते॑ ते संवँथ्स॒रात् । ॥ 2 ॥ (50/57)
1) सं॒वँ॒थ्स॒रा दप्यपि॑ संवँथ्स॒रा-थ्सं॑वँथ्स॒रा दपि॑ । 1) सं॒वँ॒थ्स॒रादिति॑ सं - व॒थ्स॒रात् । 2) अपि॑ रोहा-द्रोहा॒ दप्यपि॑ रोहात् । 3) रो॒हा॒ दितीति॑ रोहा-द्रोहा॒दिति॑ । 4) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 5) अ॒ब्र॒वी॒-त्तस्मा॒-त्तस्मा॑ दब्रवी दब्रवी॒-त्तस्मा᳚त् । 6) तस्मा᳚-त्पु॒रा पु॒रा तस्मा॒-त्तस्मा᳚-त्पु॒रा । 7) पु॒रा सं॑वँथ्स॒रा-थ्सं॑वँथ्स॒रा-त्पु॒रा पु॒रा सं॑वँथ्स॒रात् । 8) सं॒वँ॒थ्स॒रा-त्पृ॑थि॒व्यै पृ॑थि॒व्यै सं॑वँथ्स॒रा-थ्सं॑वँथ्स॒रा-त्पृ॑थि॒व्यै । 8) सं॒वँ॒थ्स॒रादिति॑ सं - व॒थ्स॒रात् । 9) पृ॒थि॒व्यै खा॒त-ङ्खा॒त-म्पृ॑थि॒व्यै पृ॑थि॒व्यै खा॒तम् । 10) खा॒त मप्यपि॑ खा॒त-ङ्खा॒त मपि॑ । 11) अपि॑ रोहति रोह॒ त्यप्यपि॑ रोहति । 12) रो॒ह॒ति॒ वारे॑वृतं॒-वाँरे॑वृतग्ं रोहति रोहति॒ वारे॑वृतम् । 13) वारे॑वृत॒ग्ं॒ हि हि वारे॑वृतं॒-वाँरे॑वृत॒ग्ं॒ हि । 13) वारे॑वृत॒मिति॒ वारे᳚ - वृ॒त॒म् । 14) ह्य॑स्या अस्यै॒ हि ह्य॑स्यै । 15) अ॒स्यै॒ तृती॑य॒-न्तृती॑य मस्या अस्यै॒ तृती॑यम् । 16) तृती॑य-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ तृती॑य॒-न्तृती॑य-म्ब्रह्मह॒त्यायै᳚ । 17) ब्र॒ह्म॒ह॒त्यायै॒ प्रति॒ प्रति॑ ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ प्रति॑ । 17) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । 18) प्रत्य॑गृह्णा दगृह्णा॒-त्प्रति॒ प्रत्य॑गृह्णात् । 19) अ॒गृ॒ह्णा॒-त्त-त्तद॑गृह्णा दगृह्णा॒-त्तत् । 20) त-थ्स्वकृ॑त॒ग्ग्॒ स्वकृ॑त॒-न्त-त्त-थ्स्वकृ॑तम् । 21) स्वकृ॑त॒ मिरि॑ण॒ मिरि॑ण॒ग्ग्॒ स्वकृ॑त॒ग्ग्॒ स्वकृ॑त॒ मिरि॑णम् । 21) स्वकृ॑त॒मिति॒ स्व - कृ॒त॒म् । 22) इरि॑ण मभव दभव॒ दिरि॑ण॒ मिरि॑ण मभवत् । 23) अ॒भ॒व॒-त्तस्मा॒-त्तस्मा॑ दभव दभव॒-त्तस्मा᳚त् । 24) तस्मा॒ दाहि॑ताग्नि॒ राहि॑ताग्नि॒ स्तस्मा॒-त्तस्मा॒ दाहि॑ताग्निः । 25) आहि॑ताग्नि-श्श्र॒द्धादे॑व-श्श्र॒द्धादे॑व॒ आहि॑ताग्नि॒ राहि॑ताग्नि-श्श्र॒द्धादे॑वः । 25) आहि॑ताग्नि॒रित्याहि॑त - अ॒ग्निः॒ । 26) श्र॒द्धादे॑व॒-स्स्वकृ॑ते॒ स्वकृ॑ते श्र॒द्धादे॑व-श्श्र॒द्धादे॑व॒-स्स्वकृ॑ते । 26) श्र॒द्धादे॑व॒ इति॑ श्र॒द्धा - दे॒वः॒ । 27) स्वकृ॑त॒ इरि॑ण॒ इरि॑णे॒ स्वकृ॑ते॒ स्वकृ॑त॒ इरि॑णे । 27) स्वकृ॑त॒ इति॒ स्व - कृ॒ते॒ । 28) इरि॑णे॒ न ने रि॑ण॒ इरि॑णे॒ न । 29) नावाव॒ न नाव॑ । 30) अव॑ स्ये-थ्स्ये॒ दवाव॑ स्येत् । 31) स्ये॒-द्ब्र॒ह्म॒ह॒त्यायै᳚ ब्रह्मह॒त्यायै᳚ स्ये-थ्स्ये-द्ब्रह्मह॒त्यायै᳚ । 32) ब्र॒ह्म॒ह॒त्यायै॒ हि हि ब्र॑ह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ हि । 32) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । 33) ह्ये॑ष ए॒ष हि ह्ये॑षः । 34) ए॒ष वर्णो॒ वर्ण॑ ए॒ष ए॒ष वर्णः॑ । 35) वर्ण॒-स्स स वर्णो॒ वर्ण॒-स्सः । 36) स वन॒स्पती॒न्॒. वन॒स्पती॒-न्थ्स स वन॒स्पतीन्॑ । 37) वन॒स्पती॒ नुपोप॒ वन॒स्पती॒न्॒. वन॒स्पती॒ नुप॑ । 38) उपा॑सी ददसीद॒ दुपोपा॑ सीदत् । 39) अ॒सी॒द॒ द॒स्या अ॒स्या अ॑सीद दसीद द॒स्यै । 40) अ॒स्यै ब्र॑ह्मह॒त्यायै᳚ ब्रह्मह॒त्याया॑ अ॒स्या अ॒स्यै ब्र॑ह्मह॒त्यायै᳚ । 41) ब्र॒ह्म॒ह॒त्यायै॒ तृती॑य॒-न्तृती॑य-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ तृती॑यम् । 41) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । 42) तृती॑य॒-म्प्रति॒ प्रति॒ तृती॑य॒-न्तृती॑य॒-म्प्रति॑ । 43) प्रति॑ गृह्णीत गृह्णीत॒ प्रति॒ प्रति॑ गृह्णीत । 44) गृ॒ह्णी॒ते तीति॑ गृह्णीत गृह्णी॒ते ति॑ । 45) इति॒ ते त इतीति॒ ते । 46) ते᳚ ऽब्रुव-न्नब्रुव॒-न्ते ते᳚ ऽब्रुवन्न् । 47) अ॒ब्रु॒व॒न्॒. वरं॒-वँर॑ मब्रुव-न्नब्रुव॒न्॒. वर᳚म् । 48) वरं॑-वृँणामहै वृणामहै॒ वरं॒-वँरं॑-वृँणामहै । 49) वृ॒णा॒म॒है॒ वृ॒क्णा-द्वृ॒क्णा-द्वृ॑णामहै वृणामहै वृ॒क्णात् । 50) वृ॒क्णा-त्प॑राभवि॒ष्यन्तः॑ पराभवि॒ष्यन्तो॑ वृ॒क्णा-द्वृ॒क्णा-त्प॑राभवि॒ष्यन्तः॑ । ॥ 3 ॥ (50/60)
1) प॒रा॒भ॒वि॒ष्यन्तो॑ मन्यामहे मन्यामहे पराभवि॒ष्यन्तः॑ पराभवि॒ष्यन्तो॑ मन्यामहे । 1) प॒रा॒भ॒वि॒ष्यन्त॒ इति॑ परा - भ॒वि॒ष्यन्तः॑ । 2) म॒न्या॒म॒हे॒ तत॒ स्ततो॑ मन्यामहे मन्यामहे॒ ततः॑ । 3) ततो॒ मा मा तत॒ स्ततो॒ मा । 4) मा परा॒ परा॒ मा मा परा᳚ । 5) परा॑ भूम भूम॒ परा॒ परा॑ भूम । 6) भू॒मे तीति॑ भूम भू॒मे ति॑ । 7) इत्या॒व्रश्च॑ना दा॒व्रश्च॑ना॒ दिती त्या॒व्रश्च॑नात् । 8) आ॒व्रश्च॑ना-द्वो व आ॒व्रश्च॑ना दा॒व्रश्च॑ना-द्वः । 8) आ॒व्रश्च॑ना॒दित्या᳚ - व्रश्च॑नात् । 9) वो॒ भूयाग्ं॑सो॒ भूयाग्ं॑सो वो वो॒ भूयाग्ं॑सः । 10) भूयाग्ं॑स॒ उदु-द्भूयाग्ं॑सो॒ भूयाग्ं॑स॒ उत् । 11) उ-त्ति॑ष्ठा-न्तिष्ठा॒ नुदु-त्ति॑ष्ठान् । 12) ति॒ष्ठा॒ नितीति॑ तिष्ठा-न्तिष्ठा॒ निति॑ । 13) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 14) अ॒ब्र॒वी॒-त्तस्मा॒-त्तस्मा॑ दब्रवी दब्रवी॒-त्तस्मा᳚त् । 15) तस्मा॑ दा॒व्रश्च॑ना दा॒व्रश्च॑ना॒-त्तस्मा॒-त्तस्मा॑ दा॒व्रश्च॑नात् । 16) आ॒व्रश्च॑ना-द्वृ॒क्षाणां᳚-वृँ॒क्षाणा॑ मा॒व्रश्च॑ना दा॒व्रश्च॑ना-द्वृ॒क्षाणा᳚म् । 16) आ॒व्रश्च॑ना॒दित्या᳚ - व्रश्च॑नात् । 17) वृ॒क्षाणा॒-म्भूयाग्ं॑सो॒ भूयाग्ं॑सो वृ॒क्षाणां᳚-वृँ॒क्षाणा॒-म्भूयाग्ं॑सः । 18) भूयाग्ं॑स॒ उदु-द्भूयाग्ं॑सो॒ भूयाग्ं॑स॒ उत् । 19) उ-त्ति॑ष्ठन्ति तिष्ठ॒ न्त्युदु-त्ति॑ष्ठन्ति । 20) ति॒ष्ठ॒न्ति॒ वारे॑वृतं॒-वाँरे॑वृत-न्तिष्ठन्ति तिष्ठन्ति॒ वारे॑वृतम् । 21) वारे॑वृत॒ग्ं॒ हि हि वारे॑वृतं॒-वाँरे॑वृत॒ग्ं॒ हि । 21) वारे॑वृत॒मिति॒ वारे᳚ - वृ॒त॒म् । 22) ह्ये॑षा मेषा॒ग्ं॒ हि ह्ये॑षाम् । 23) ए॒षा॒-न्तृती॑य॒-न्तृती॑य मेषा मेषा॒-न्तृती॑यम् । 24) तृती॑य-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ तृती॑य॒-न्तृती॑य-म्ब्रह्मह॒त्यायै᳚ । 25) ब्र॒ह्म॒ह॒त्यायै॒ प्रति॒ प्रति॑ ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ प्रति॑ । 25) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । 26) प्रत्य॑गृह्ण-न्नगृह्ण॒-न्प्रति॒ प्रत्य॑गृह्णन्न् । 27) अ॒गृ॒ह्ण॒-न्थ्स सो॑ ऽगृह्ण-न्नगृह्ण॒-न्थ्सः । 28) स नि॑र्या॒सो नि॑र्या॒स-स्स स नि॑र्या॒सः । 29) नि॒र्या॒सो॑ ऽभव दभव-न्निर्या॒सो नि॑र्या॒सो॑ ऽभवत् । 29) नि॒र्या॒स इति॑ निः - या॒सः । 30) अ॒भ॒व॒-त्तस्मा॒-त्तस्मा॑ दभव दभव॒-त्तस्मा᳚त् । 31) तस्मा᳚-न्निर्या॒सस्य॑ निर्या॒सस्य॒ तस्मा॒-त्तस्मा᳚-न्निर्या॒सस्य॑ । 32) नि॒र्या॒सस्य॒ न न नि॑र्या॒सस्य॑ निर्या॒सस्य॒ न । 32) नि॒र्या॒सस्येति॑ निः - या॒सस्य॑ । 33) नाश्य॑ मा॒श्य॑-न्न नाश्य᳚म् । 34) आ॒श्य॑-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्याया॑ आ॒श्य॑ मा॒श्य॑-म्ब्रह्मह॒त्यायै᳚ । 35) ब्र॒ह्म॒ह॒त्यायै॒ हि हि ब्र॑ह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ हि । 35) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । 36) ह्ये॑ष ए॒ष हि ह्ये॑षः । 37) ए॒ष वर्णो॒ वर्ण॑ ए॒ष ए॒ष वर्णः॑ । 38) वर्णो ऽथो॒ अथो॒ वर्णो॒ वर्णो ऽथो᳚ । 39) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 39) अथो॒ इत्यथो᳚ । 40) खलु॒ यो यः खलु॒ खलु॒ यः । 41) य ए॒वैव यो य ए॒व । 42) ए॒व लोहि॑तो॒ लोहि॑त ए॒वैव लोहि॑तः । 43) लोहि॑तो॒ यो यो लोहि॑तो॒ लोहि॑तो॒ यः । 44) यो वा॑ वा॒ यो यो वा᳚ । 45) वा॒ ऽऽव्रश्च॑ना दा॒व्रश्च॑ना-द्वा वा॒ ऽऽव्रश्च॑नात् । 46) आ॒व्रश्च॑ना-न्नि॒र्येष॑ति नि॒र्येष॑ त्या॒व्रश्च॑ना दा॒व्रश्च॑ना-न्नि॒र्येष॑ति । 46) आ॒व्रश्च॑ना॒दित्या᳚ - व्रश्च॑नात् । 47) नि॒र्येष॑ति॒ तस्य॒ तस्य॑ नि॒र्येष॑ति नि॒र्येष॑ति॒ तस्य॑ । 47) नि॒र्येष॒तीति॑ निः - येष॑ति । 48) तस्य॒ न न तस्य॒ तस्य॒ न । 49) नाश्य॑ मा॒श्य॑-न्न नाश्य᳚म् । 50) आ॒श्य॑-ङ्काम॒-ङ्काम॑ मा॒श्य॑ मा॒श्य॑-ङ्काम᳚म् । ॥ 4 ॥ (50/61)
1) काम॑ म॒न्यस्या॒ न्यस्य॒ काम॒-ङ्काम॑ म॒न्यस्य॑ । 2) अ॒न्यस्य॒ स सो᳚ ऽन्यस्या॒ न्यस्य॒ सः । 3) स स्त्री॑षग्ंसा॒दग्ग् स्त्री॑षग्ंसा॒दग्ं स स स्त्री॑षग्ंसा॒दम् । 4) स्त्री॒ष॒ग्ं॒सा॒द मुपोप॑ स्त्रीषग्ंसा॒दग्ग् स्त्री॑षग्ंसा॒द मुप॑ । 4) स्त्री॒ष॒ग्ं॒सा॒दमिति॑ स्त्री - स॒ग्ं॒सा॒दम् । 5) उपा॑सीद दसीद॒ दुपोपा॑सीदत् । 6) अ॒सी॒द॒ द॒स्या अ॒स्या अ॑सीद दसीद द॒स्यै । 7) अ॒स्यै ब्र॑ह्मह॒त्यायै᳚ ब्रह्मह॒त्याया॑ अ॒स्या अ॒स्यै ब्र॑ह्मह॒त्यायै᳚ । 8) ब्र॒ह्म॒ह॒त्यायै॒ तृती॑य॒-न्तृती॑य-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ तृती॑यम् । 8) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । 9) तृती॑य॒-म्प्रति॒ प्रति॒ तृती॑य॒-न्तृती॑य॒-म्प्रति॑ । 10) प्रति॑ गृह्णीत गृह्णीत॒ प्रति॒ प्रति॑ गृह्णीत । 11) गृ॒ह्णी॒ते तीति॑ गृह्णीत गृह्णी॒ते ति॑ । 12) इति॒ ता स्ता इतीति॒ ताः । 13) ता अ॑ब्रुव-न्नब्रुव॒-न्ता स्ता अ॑ब्रुवन्न् । 14) अ॒ब्रु॒व॒न्॒. वरं॒-वँर॑ मब्रुव-न्नब्रुव॒न्॒. वर᳚म् । 15) वरं॑-वृँणामहै वृणामहै॒ वरं॒-वँरं॑-वृँणामहै । 16) वृ॒णा॒म॒हा॒ ऋत्वि॑या॒ दृत्वि॑या-द्वृणामहै वृणामहा॒ ऋत्वि॑यात् । 17) ऋत्वि॑या-त्प्र॒जा-म्प्र॒जा मृत्वि॑या॒ दृत्वि॑या-त्प्र॒जाम् । 18) प्र॒जां-विँ॑न्दामहै विन्दामहै प्र॒जा-म्प्र॒जां-विँ॑न्दामहै । 18) प्र॒जामिति॑ प्र - जाम् । 19) वि॒न्दा॒म॒है॒ काम॒-ङ्कामं॑-विँन्दामहै विन्दामहै॒ काम᳚म् । 20) काम॒ मा काम॒-ङ्काम॒ मा । 21) आ विज॑नितो॒-र्विज॑नितो॒रा विज॑नितोः । 22) विज॑नितो॒-स्सग्ं सं-विँज॑नितो॒-र्विज॑नितो॒-स्सम् । 22) विज॑नितो॒रिति॒ वि - ज॒नि॒तोः॒ । 23) स-म्भ॑वाम भवाम॒ सग्ं स-म्भ॑वाम । 24) भ॒वा॒मे तीति॑ भवाम भवा॒मे ति॑ । 25) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 26) तस्मा॒ दृत्वि॑या॒ दृत्वि॑या॒-त्तस्मा॒-त्तस्मा॒ दृत्वि॑यात् । 27) ऋत्वि॑या॒-थ्स्त्रिय॒-स्स्त्रिय॒ ऋत्वि॑या॒ दृत्वि॑या॒-थ्स्त्रियः॑ । 28) स्त्रियः॑ प्र॒जा-म्प्र॒जाग् स्त्रिय॒-स्स्त्रियः॑ प्र॒जाम् । 29) प्र॒जां-विँ॑न्दन्ते विन्दन्ते प्र॒जा-म्प्र॒जां-विँ॑न्दन्ते । 29) प्र॒जामिति॑ प्र - जाम् । 30) वि॒न्द॒न्ते॒ काम॒-ङ्कामं॑-विँन्दन्ते विन्दन्ते॒ काम᳚म् । 31) काम॒ मा काम॒-ङ्काम॒ मा । 32) आ विज॑नितो॒-र्विज॑नितो॒रा विज॑नितोः । 33) विज॑नितो॒-स्सग्ं सं-विँज॑नितो॒-र्विज॑नितो॒-स्सम् । 33) विज॑नितो॒रिति॒ वि - ज॒नि॒तोः॒ । 34) स-म्भ॑वन्ति भवन्ति॒ सग्ं स-म्भ॑वन्ति । 35) भ॒व॒न्ति॒ वारे॑वृतं॒-वाँरे॑वृत-म्भवन्ति भवन्ति॒ वारे॑वृतम् । 36) वारे॑वृत॒ग्ं॒ हि हि वारे॑वृतं॒-वाँरे॑वृत॒ग्ं॒ हि । 36) वारे॑वृत॒मिति॒ वारे᳚ - वृ॒त॒म् । 37) ह्या॑सा मासा॒ग्ं॒ हि ह्या॑साम् । 38) आ॒सा॒-न्तृती॑य॒-न्तृती॑य मासा मासा॒-न्तृती॑यम् । 39) तृती॑य-म्ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ तृती॑य॒-न्तृती॑य-म्ब्रह्मह॒त्यायै᳚ । 40) ब्र॒ह्म॒ह॒त्यायै॒ प्रति॒ प्रति॑ ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ प्रति॑ । 40) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । 41) प्रत्य॑गृह्ण-न्नगृह्ण॒-न्प्रति॒ प्रत्य॑गृह्णन्न् । 42) अ॒गृ॒ह्ण॒-न्थ्सा सा ऽगृ॑ह्ण-न्नगृह्ण॒-न्थ्सा । 43) सा मल॑वद्वासा॒ मल॑वद्वासा॒-स्सा सा मल॑वद्वासाः । 44) मल॑वद्वासा अभवदभव॒-न्मल॑वद्वासा॒ मल॑वद्वासा अभवत् । 44) मल॑वद्वासा॒ इति॒ मल॑वत् - वा॒साः॒ । 45) अ॒भ॒व॒-त्तस्मा॒-त्तस्मा॑ दभव दभव॒-त्तस्मा᳚त् । 46) तस्मा॒-न्मल॑वद्वाससा॒ मल॑वद्वाससा॒ तस्मा॒-त्तस्मा॒-न्मल॑वद्वाससा । 47) मल॑वद्वाससा॒ न न मल॑वद्वाससा॒ मल॑वद्वाससा॒ न । 47) मल॑वद्वास॒सेति॒ मल॑वत् - वा॒स॒सा॒ । 48) न सग्ं स-न्न न सम् । 49) सं-वँ॑देत वदेत॒ सग्ं सं-वँ॑देत । 50) व॒दे॒त॒ न न व॑देत वदेत॒ न । ॥ 5 ॥ (50/60)
1) न स॒ह स॒ह न न स॒ह । 2) स॒हासी॑ तासीत स॒ह स॒हासी॑त । 3) आ॒सी॒त॒ न नासी॑ तासीत॒ न । 4) नास्या॑ अस्या॒ न नास्याः᳚ । 5) अ॒स्या॒ अन्न॒ मन्न॑ मस्या अस्या॒ अन्न᳚म् । 6) अन्न॑ मद्या दद्या॒ दन्न॒ मन्न॑ मद्यात् । 7) अ॒द्या॒-द्ब्र॒ह्म॒ह॒त्यायै᳚ ब्रह्मह॒त्याया॑ अद्या दद्या-द्ब्रह्मह॒त्यायै᳚ । 8) ब्र॒ह्म॒ह॒त्यायै॒ हि हि ब्र॑ह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ हि । 8) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । 9) ह्ये॑षैषा हि ह्ये॑षा । 10) ए॒षा वर्णं॒-वँर्ण॑ मे॒षैषा वर्ण᳚म् । 11) वर्ण॑-म्प्रति॒मुच्य॑ प्रति॒मुच्य॒ वर्णं॒-वँर्ण॑-म्प्रति॒मुच्य॑ । 12) प्र॒ति॒मुच्यास्त॒ आस्ते᳚ प्रति॒मुच्य॑ प्रति॒मुच्यास्ते᳚ । 12) प्र॒ति॒मुच्येति॑ प्रति - मुच्य॑ । 13) आस्ते ऽथो॒ अथो॒ आस्त॒ आस्ते ऽथो᳚ । 14) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 14) अथो॒ इत्यथो᳚ । 15) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 16) आ॒हु॒ र॒भ्यञ्ज॑न म॒भ्यञ्ज॑न माहु राहु र॒भ्यञ्ज॑नम् । 17) अ॒भ्यञ्ज॑नं॒-वाँव वावा भ्यञ्ज॑न म॒भ्यञ्ज॑नं॒-वाँव । 17) अ॒भ्यञ्ज॑न॒मित्य॑भि - अञ्ज॑नम् । 18) वाव स्त्रि॒या-स्स्त्रि॒या वाव वाव स्त्रि॒याः । 19) स्त्रि॒या अन्न॒ मन्नग्ग्॑ स्त्रि॒या-स्स्त्रि॒या अन्न᳚म् । 20) अन्न॑ म॒भ्यञ्ज॑न म॒भ्यञ्ज॑न॒ मन्न॒ मन्न॑ म॒भ्यञ्ज॑नम् । 21) अ॒भ्यञ्ज॑न मे॒वैवा भ्यञ्ज॑न म॒भ्यञ्ज॑न मे॒व । 21) अ॒भ्यञ्ज॑न॒मित्य॑भि - अञ्ज॑नम् । 22) ए॒व न नैवैव न । 23) न प्र॑ति॒गृह्य॑-म्प्रति॒गृह्य॒न्न न प्र॑ति॒गृह्य᳚म् । 24) प्र॒ति॒गृह्य॒-ङ्काम॒-ङ्काम॑-म्प्रति॒गृह्य॑-म्प्रति॒गृह्य॒-ङ्काम᳚म् । 24) प्र॒ति॒गृह्य॒मिति॑ प्रति - गृह्य᳚म् । 25) काम॑ म॒न्य द॒न्य-त्काम॒-ङ्काम॑ म॒न्यत् । 26) अ॒न्य दिती त्य॒न्य द॒न्य दिति॑ । 27) इति॒ यां-याँ मितीति॒ याम् । 28) या-म्मल॑वद्वासस॒-म्मल॑वद्वाससं॒-यांँ या-म्मल॑वद्वाससम् । 29) मल॑वद्वाससग्ं स॒म्भव॑न्ति स॒म्भव॑न्ति॒ मल॑वद्वासस॒-म्मल॑वद्वाससग्ं स॒म्भव॑न्ति । 29) मल॑वद्वासस॒मिति॒ मल॑वत् - वा॒स॒स॒म् । 30) स॒म्भव॑न्ति॒ यो य-स्स॒म्भव॑न्ति स॒म्भव॑न्ति॒ यः । 30) स॒म्भव॒न्तीति॑ सं - भव॑न्ति । 31) य स्तत॒ स्ततो॒ यो य स्ततः॑ । 32) ततो॒ जाय॑ते॒ जाय॑ते॒ तत॒स्ततो॒ जाय॑ते । 33) जाय॑ते॒ स स जाय॑ते॒ जाय॑ते॒ सः । 34) सो॑ ऽभिश॒स्तो॑ ऽभिश॒स्त-स्स सो॑ ऽभिश॒स्तः । 35) अ॒भि॒श॒स्तो यां-याँ म॑भिश॒स्तो॑ ऽभिश॒स्तो याम् । 35) अ॒भि॒श॒स्त इत्य॑भि - श॒स्तः । 36) या मर॒ण्ये ऽर॑ण्ये॒ यां-याँ मर॑ण्ये । 37) अर॑ण्ये॒ तस्यै॒ तस्या॒ अर॒ण्ये ऽर॑ण्ये॒ तस्यै᳚ । 38) तस्यै᳚ स्ते॒न-स्स्ते॒न स्तस्यै॒ तस्यै᳚ स्ते॒नः । 39) स्ते॒नो यां-याँग् स्ते॒न-स्स्ते॒नो याम् । 40) या-म्परा॑ची॒-म्परा॑चीं॒-यांँ या-म्परा॑चीम् । 41) परा॑ची॒-न्तस्यै॒ तस्यै॒ परा॑ची॒-म्परा॑ची॒-न्तस्यै᳚ । 42) तस्यै᳚ ह्रीतमु॒खी ह्री॑तमु॒खी तस्यै॒ तस्यै᳚ ह्रीतमु॒खी । 43) ह्री॒त॒मु॒ ख्य॑पग॒ल्भो॑ ऽपग॒ल्भो ह्री॑तमु॒खी ह्री॑तमु॒ ख्य॑पग॒ल्भः । 43) ह्री॒त॒मु॒खीति॑ ह्रीत - मु॒खी । 44) अ॒प॒ग॒ल्भो या या ऽप॑ग॒ल्भो॑ ऽपग॒ल्भो या । 44) अ॒प॒ग॒ल्भ इत्य॑प - ग॒ल्भः । 45) या स्नाति॒ स्नाति॒ या या स्नाति॑ । 46) स्नाति॒ तस्या॒ स्तस्या॒-स्स्नाति॒ स्नाति॒ तस्याः᳚ । 47) तस्या॑ अ॒फ्स्व॑फ्सु तस्या॒ स्तस्या॑ अ॒फ्सु । 48) अ॒फ्सु मारु॑को॒ मारु॑को॒ ऽफ्स्व॑फ्सु मारु॑कः । 48) अ॒फ्सित्य॑प् - सु । 49) मारु॑को॒ या या मारु॑को॒ मारु॑को॒ या । 50) या ऽभ्य॒ङ्क्ते᳚ ऽभ्य॒ङ्क्ते या या ऽभ्य॒ङ्क्ते । ॥ 6 ॥ (50/62)
1) अ॒भ्य॒ङ्क्ते तस्यै॒ तस्या॑ अभ्य॒ङ्क्ते᳚ ऽभ्य॒ङ्क्ते तस्यै᳚ । 1) अ॒भ्य॒ङ्क्त इत्य॑भि - अ॒ङ्क्ते । 2) तस्यै॑ दु॒श्चर्मा॑ दु॒श्चर्मा॒ तस्यै॒ तस्यै॑ दु॒श्चर्मा᳚ । 3) दु॒श्चर्मा॒ या या दु॒श्चर्मा॑ दु॒श्चर्मा॒ या । 3) दु॒श्चर्मेति॑ दुः - चर्मा᳚ । 4) या प्र॑लि॒खते᳚ प्रलि॒खते॒ या या प्र॑लि॒खते᳚ । 5) प्र॒लि॒खते॒ तस्यै॒ तस्यै᳚ प्रलि॒खते᳚ प्रलि॒खते॒ तस्यै᳚ । 5) प्र॒लि॒खत॒ इति॑ प्र - लि॒खते᳚ । 6) तस्यै॑ खल॒तिः ख॑ल॒ति स्तस्यै॒ तस्यै॑ खल॒तिः । 7) ख॒ल॒ति र॑पमा॒र्य॑पमा॒री ख॑ल॒तिः ख॑ल॒ति र॑पमा॒री । 8) अ॒प॒मा॒री या या ऽप॑मा॒ र्य॑पमा॒री या । 8) अ॒प॒मा॒रीत्य॑प - मा॒री । 9) या ऽऽङ्क्त आ॒ङ्क्ते या या ऽऽङ्क्ते । 10) आ॒ङ्क्ते तस्यै॒ तस्या॑ आ॒ङ्क्त आ॒ङ्क्ते तस्यै᳚ । 10) आ॒ङ्क्त इत्या᳚ - अ॒ङ्क्ते । 11) तस्यै॑ का॒णः का॒ण स्तस्यै॒ तस्यै॑ का॒णः । 12) का॒णो या या का॒णः का॒णो या । 13) या द॒तो द॒तो या या द॒तः । 14) द॒तो धाव॑ते॒ धाव॑ते द॒तो द॒तो धाव॑ते । 15) धाव॑ते॒ तस्यै॒ तस्यै॒ धाव॑ते॒ धाव॑ते॒ तस्यै᳚ । 16) तस्यै᳚ श्या॒वद॑-ञ्छ्या॒वद॒-न्तस्यै॒ तस्यै᳚ श्या॒वदन्न्॑ । 17) श्या॒वद॒न्॒. या या श्या॒वद॑-ञ्छ्या॒वद॒न्॒. या । 17) श्या॒वद॒न्निति॑ श्या॒व - द॒न्न् । 18) या न॒खानि॑ न॒खानि॒ या या न॒खानि॑ । 19) न॒खानि॑ निकृ॒न्तते॑ निकृ॒न्तते॑ न॒खानि॑ न॒खानि॑ निकृ॒न्तते᳚ । 20) नि॒कृ॒न्तते॒ तस्यै॒ तस्यै॑ निकृ॒न्तते॑ निकृ॒न्तते॒ तस्यै᳚ । 20) नि॒कृ॒न्तत॒ इति॑ नि - कृ॒न्तते᳚ । 21) तस्यै॑ कुन॒खी कु॑न॒खी तस्यै॒ तस्यै॑ कुन॒खी । 22) कु॒न॒खी या या कु॑न॒खी कु॑न॒खी या । 23) या कृ॒णत्ति॑ कृ॒णत्ति॒ या या कृ॒णत्ति॑ । 24) कृ॒णत्ति॒ तस्यै॒ तस्यै॑ कृ॒णत्ति॑ कृ॒णत्ति॒ तस्यै᳚ । 25) तस्यै᳚ क्ली॒बः क्ली॒ब स्तस्यै॒ तस्यै᳚ क्ली॒बः । 26) क्ली॒बो या या क्ली॒बः क्ली॒बो या । 27) या रज्जु॒ग्ं॒ रज्जुं॒-याँ या रज्जु᳚म् । 28) रज्जुग्ं॑ सृ॒जति॑ सृ॒जति॒ रज्जु॒ग्ं॒ रज्जुग्ं॑ सृ॒जति॑ । 29) सृ॒जति॒ तस्या॒ स्तस्या᳚-स्सृ॒जति॑ सृ॒जति॒ तस्याः᳚ । 30) तस्या॑ उ॒द्बन्धु॑क उ॒द्बन्धु॑क॒ स्तस्या॒ स्तस्या॑ उ॒द्बन्धु॑कः । 31) उ॒द्बन्धु॑को॒ या योद्बन्धु॑क उ॒द्बन्धु॑को॒ या । 31) उ॒द्बन्धु॑क॒ इत्यु॑त् - बन्धु॑कः । 32) या प॒र्णेन॑ प॒र्णेन॒ या या प॒र्णेन॑ । 33) प॒र्णेन॒ पिब॑ति॒ पिब॑ति प॒र्णेन॑ प॒र्णेन॒ पिब॑ति । 34) पिब॑ति॒ तस्या॒ स्तस्याः॒ पिब॑ति॒ पिब॑ति॒ तस्याः᳚ । 35) तस्या॑ उ॒न्मादु॑क उ॒न्मादु॑क॒ स्तस्या॒ स्तस्या॑ उ॒न्मादु॑कः । 36) उ॒न्मादु॑को॒ या योन्मादु॑क उ॒न्मादु॑को॒ या । 36) उ॒न्मादु॑क॒ इत्यु॑त् - मादु॑कः । 37) या ख॒र्वेण॑ ख॒र्वेण॒ या या ख॒र्वेण॑ । 38) ख॒र्वेण॒ पिब॑ति॒ पिब॑ति ख॒र्वेण॑ ख॒र्वेण॒ पिब॑ति । 39) पिब॑ति॒ तस्यै॒ तस्यै॒ पिब॑ति॒ पिब॑ति॒ तस्यै᳚ । 40) तस्यै॑ ख॒र्वः ख॒र्व स्तस्यै॒ तस्यै॑ ख॒र्वः । 41) ख॒र्व स्ति॒स्र स्ति॒स्रः ख॒र्वः ख॒र्व स्ति॒स्रः । 42) ति॒स्रो रात्री॒ रात्री᳚ स्ति॒स्र स्ति॒स्रो रात्रीः᳚ । 43) रात्री᳚-र्व्र॒तं-व्रँ॒तग्ं रात्री॒ रात्री᳚-र्व्र॒तम् । 44) व्र॒त-ञ्च॑रेच् चरे-द्व्र॒तं-व्रँ॒त-ञ्च॑रेत् । 45) च॒रे॒ द॒ञ्ज॒लिना᳚ ऽञ्ज॒लिना॑ चरेच् चरे दञ्ज॒लिना᳚ । 46) अ॒ञ्ज॒लिना॑ वा वा ऽञ्ज॒लिना᳚ ऽञ्ज॒लिना॑ वा । 47) वा॒ पिबे॒-त्पिबे᳚-द्वा वा॒ पिबे᳚त् । 48) पिबे॒ दख॑र्वे॒णा ख॑र्वेण॒ पिबे॒-त्पिबे॒ दख॑र्वेण । 49) अख॑र्वेण वा॒ वा ऽख॑र्वे॒णा ख॑र्वेण वा । 50) वा॒ पात्रे॑ण॒ पात्रे॑ण वा वा॒ पात्रे॑ण । 51) पात्रे॑ण प्र॒जायै᳚ प्र॒जायै॒ पात्रे॑ण॒ पात्रे॑ण प्र॒जायै᳚ । 52) प्र॒जायै॑ गोपी॒थाय॑ गोपी॒थाय॑ प्र॒जायै᳚ प्र॒जायै॑ गोपी॒थाय॑ । 52) प्र॒जाया॒ इति॑ प्र - जायै᳚ । 53) गो॒पी॒थायेति॑ गोपी॒थाय॑ । ॥ 7 ॥ (53/63) ॥ अ. 1 ॥
1) त्वष्टा॑ ह॒तपु॑त्रो ह॒तपु॑त्र॒ स्त्वष्टा॒ त्वष्टा॑ ह॒तपु॑त्रः । 2) ह॒तपु॑त्रो॒ वीन्द्रं॒-वीँन्द्रग्ं॑ ह॒तपु॑त्रो ह॒तपु॑त्रो॒ वीन्द्र᳚म् । 2) ह॒तपु॑त्र॒ इति॑ ह॒त - पु॒त्रः॒ । 3) वीन्द्र॒ग्ं॒ सोम॒ग्ं॒ सोमं॒-वीँन्द्रं॒-वीँन्द्र॒ग्ं॒ सोम᳚म् । 3) वीन्द्र॒मिति॒ वि - इ॒न्द्र॒म् । 4) सोम॒ मा सोम॒ग्ं॒ सोम॒ मा । 5) आ ऽह॑र दहर॒दा ऽह॑रत् । 6) अ॒ह॒र॒-त्तस्मि॒ग्ग्॒ स्तस्मि॑-न्नहर दहर॒-त्तस्मिन्न्॑ । 7) तस्मि॒-न्निन्द्र॒ इन्द्र॒ स्तस्मि॒ग्ग्॒ स्तस्मि॒-न्निन्द्रः॑ । 8) इन्द्र॑ उपह॒व मु॑पह॒व मिन्द्र॒ इन्द्र॑ उपह॒वम् । 9) उ॒प॒ह॒व मै᳚च्छ तैच्छतो पह॒व मु॑पह॒व मै᳚च्छत । 9) उ॒प॒ह॒वमित्यु॑प - ह॒वम् । 10) ऐ॒च्छ॒त॒ त-न्त मै᳚च्छ तैच्छत॒ तम् । 11) त-न्न न त-न्त-न्न । 12) नोपोप॒ न नोप॑ । 13) उपा᳚ ह्वयता ह्वय॒तोपोपा᳚ ह्वयत । 14) अ॒ह्व॒य॒त॒ पु॒त्र-म्पु॒त्र म॑ह्वयता ह्वयत पु॒त्रम् । 15) पु॒त्र-म्मे॑ मे पु॒त्र-म्पु॒त्र-म्मे᳚ । 16) मे॒ ऽव॒धी॒र॒व॒धी॒-र्मे॒ मे॒ ऽव॒धीः॒ । 17) अ॒व॒धी॒ रिती त्य॑वधी रवधी॒ रिति॑ । 18) इति॒ स स इतीति॒ सः । 19) स य॑ज्ञवेश॒सं-यँ॑ज्ञवेश॒सग्ं स स य॑ज्ञवेश॒सम् । 20) य॒ज्ञ॒वे॒श॒स-ङ्कृ॒त्वा कृ॒त्वा य॑ज्ञवेश॒सं-यँ॑ज्ञवेश॒स-ङ्कृ॒त्वा । 20) य॒ज्ञ॒वे॒श॒समिति॑ यज्ञ - वे॒श॒सम् । 21) कृ॒त्वा प्रा॒सहा᳚ प्रा॒सहा॑ कृ॒त्वा कृ॒त्वा प्रा॒सहा᳚ । 22) प्रा॒सहा॒ सोम॒ग्ं॒ सोम॑-म्प्रा॒सहा᳚ प्रा॒सहा॒ सोम᳚म् । 22) प्रा॒सहेति॑ प्र - सहा᳚ । 23) सोम॑ मपिब दपिब॒-थ्सोम॒ग्ं॒ सोम॑ मपिबत् । 24) अ॒पि॒ब॒-त्तस्य॒ तस्या॑पिब दपिब॒-त्तस्य॑ । 25) तस्य॒ य-द्य-त्तस्य॒ तस्य॒ यत् । 26) यद॒त्यशि॑ष्यता॒ त्यशि॑ष्यत॒ य-द्यद॒त्यशि॑ष्यत । 27) अ॒त्यशि॑ष्यत॒ त-त्तद॒त्यशि॑ष्यता॒ त्यशि॑ष्यत॒ तत् । 27) अ॒त्यशि॑ष्य॒तेत्य॑ति - अशि॑ष्यत । 28) त-त्त्वष्टा॒ त्वष्टा॒ त-त्त-त्त्वष्टा᳚ । 29) त्वष्टा॑ ऽऽहव॒नीय॑ माहव॒नीय॒-न्त्वष्टा॒ त्वष्टा॑ ऽऽहव॒नीय᳚म् । 30) आ॒ह॒व॒नीय॒ मुपोपा॑ हव॒नीय॑ माहव॒नीय॒ मुप॑ । 30) आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् । 31) उप॒ प्र प्रोपोप॒ प्र । 32) प्राव॑र्तय दवर्तय॒-त्प्र प्राव॑र्तयत् । 33) अ॒व॒र्त॒य॒-थ्स्वाहा॒ स्वाहा॑ ऽवर्तय दवर्तय॒-थ्स्वाहा᳚ । 34) स्वाहेन्द्र॑शत्रु॒ रिन्द्र॑शत्रु॒-स्स्वाहा॒ स्वाहेन्द्र॑शत्रुः । 35) इन्द्र॑शत्रु-र्वर्धस्व वर्ध॒स्वे न्द्र॑शत्रु॒ रिन्द्र॑शत्रु-र्वर्धस्व । 35) इन्द्र॑शत्रु॒रितीन्द्र॑ - श॒त्रुः॒ । 36) व॒र्ध॒स्वे तीति॑ वर्धस्व वर्ध॒स्वे ति॑ । 37) इति॒ य-द्यदितीति॒ यत् । 38) यदव॑र्तय॒ दव॑र्तय॒-द्य-द्यदव॑र्तयत् । 39) अव॑र्तय॒-त्त-त्तदव॑र्तय॒ दव॑र्तय॒-त्तत् । 40) त-द्वृ॒त्रस्य॑ वृ॒त्रस्य॒ त-त्त-द्वृ॒त्रस्य॑ । 41) वृ॒त्रस्य॑ वृत्र॒त्वं-वृँ॑त्र॒त्वं-वृँ॒त्रस्य॑ वृ॒त्रस्य॑ वृत्र॒त्वम् । 42) वृ॒त्र॒त्वं-यँ-द्य-द्वृ॑त्र॒त्वं-वृँ॑त्र॒त्वं-यँत् । 42) वृ॒त्र॒त्वमिति॑ वृत्र - त्वम् । 43) यदब्र॑वी॒ दब्र॑वी॒-द्य-द्यदब्र॑वीत् । 44) अब्र॑वी॒-थ्स्वाहा॒ स्वाहा ऽब्र॑वी॒ दब्र॑वी॒-थ्स्वाहा᳚ । 45) स्वाहेन्द्र॑शत्रु॒ रिन्द्र॑शत्रु॒-स्स्वाहा॒ स्वाहेन्द्र॑शत्रुः । 46) इन्द्र॑शत्रु-र्वर्धस्व वर्ध॒स्वे न्द्र॑शत्रु॒ रिन्द्र॑शत्रु-र्वर्धस्व । 46) इन्द्र॑शत्रु॒रितीन्द्र॑ - श॒त्रुः॒ । 47) व॒र्ध॒स्वे तीति॑ वर्धस्व वर्ध॒स्वे ति॑ । 48) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 49) तस्मा॑ दस्यास्य॒ तस्मा॒-त्तस्मा॑ दस्य । 50) अ॒स्ये न्द्र॒ इन्द्रो᳚ ऽस्या॒स्ये न्द्रः॑ । ॥ 8 ॥ (50/60)
1) इन्द्र॒-श्शत्रु॒-श्शत्रु॒ रिन्द्र॒ इन्द्र॒-श्शत्रुः॑ । 2) शत्रु॑ रभव दभव॒च् छत्रु॒-श्शत्रु॑ रभवत् । 3) अ॒भ॒व॒-थ्स सो॑ ऽभव दभव॒-थ्सः । 4) स स॒म्भवन्᳚ थ्स॒म्भव॒-न्थ्स स स॒म्भवन्न्॑ । 5) स॒म्भव॑-न्न॒ग्नीषोमा॑ व॒ग्नीषोमौ॑ स॒म्भवन्᳚ थ्स॒म्भव॑-न्न॒ग्नीषोमौ᳚ । 5) स॒म्भव॒न्निति॑ सं - भवन्न्॑ । 6) अ॒ग्नीषोमा॑ व॒भ्या᳚(1॒)भ्य॑ग्नीषोमा॑ व॒ग्नीषोमा॑ व॒भि । 6) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । 7) अ॒भि सग्ं स म॒भ्य॑भि सम् । 8) स म॑भव दभव॒-थ्सग्ं स म॑भवत् । 9) अ॒भ॒व॒-थ्स सो॑ ऽभव दभव॒-थ्सः । 10) स इ॑षुमा॒त्रमि॑षुमात्र मिषुमा॒त्रमि॑षुमात्र॒ग्ं॒ स स इ॑षुमा॒त्रमि॑षुमात्रम् । 11) इ॒षु॒मा॒त्रमि॑षुमात्रं॒-विँष्वं॒-विँष्वं॑ ंइषुमा॒त्रमि॑षुमात्र मिषुमा॒त्रमि॑षुमात्रं॒-विँष्वं॑ । 11) इ॒षु॒मा॒त्रमि॑षुमात्र॒मिती॑षुमा॒त्रं - इ॒षु॒मा॒त्र॒म् । 12) विष्वं॑ ंअवर्धता वर्धत॒ विष्वं॒-विँष्वं॑ ंअवर्धत । 13) अ॒व॒र्ध॒त॒ स सो॑ ऽवर्धता वर्धत॒ सः । 14) स इ॒मा नि॒मा-न्थ्स स इ॒मान् । 15) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् । 16) लो॒का न॑वृणो दवृणो ल्लो॒कान् ँलो॒का न॑वृणोत् । 17) अ॒वृ॒णो॒-द्य-द्यद॑वृणो दवृणो॒-द्यत् । 18) यदि॒मा नि॒मान्. य-द्यदि॒मान् । 19) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् । 20) लो॒का नवृ॑णो॒ दवृ॑णो ल्लो॒कान् ँलो॒का नवृ॑णोत् । 21) अवृ॑णो॒-त्त-त्तदवृ॑णो॒ दवृ॑णो॒-त्तत् । 22) त-द्वृ॒त्रस्य॑ वृ॒त्रस्य॒ त-त्त-द्वृ॒त्रस्य॑ । 23) वृ॒त्रस्य॑ वृत्र॒त्वं-वृँ॑त्र॒त्वं-वृँ॒त्रस्य॑ वृ॒त्रस्य॑ वृत्र॒त्वम् । 24) वृ॒त्र॒त्व-न्तस्मा॒-त्तस्मा᳚-द्वृत्र॒त्वं-वृँ॑त्र॒त्व-न्तस्मा᳚त् । 24) वृ॒त्र॒त्वमिति॑ वृत्र - त्वम् । 25) तस्मा॒ दिन्द्र॒ इन्द्र॒ स्तस्मा॒-त्तस्मा॒ दिन्द्रः॑ । 26) इन्द्रो॑ ऽबिभे दबिभे॒ दिन्द्र॒ इन्द्रो॑ ऽबिभेत् । 27) अ॒बि॒भे॒-थ्स सो॑ ऽबिभे दबिभे॒-थ्सः । 28) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् । 29) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ । 29) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 30) उपा॑ धाव दधाव॒ दुपोपा॑ धावत् । 31) अ॒धा॒व॒च् छत्रु॒-श्शत्रु॑ रधाव दधाव॒च् छत्रुः॑ । 32) शत्रु॑-र्मे मे॒ शत्रु॒-श्शत्रु॑-र्मे । 33) मे॒ ऽज॒न्य॒ज॒नि॒ मे॒ मे॒ ऽज॒नि॒ । 34) अ॒ज॒नीती त्य॑ज न्यज॒नीति॑ । 35) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ । 36) तस्मै॒ वज्रं॒-वँज्र॒-न्तस्मै॒ तस्मै॒ वज्र᳚म् । 37) वज्रग्ं॑ सि॒क्त्वा सि॒क्त्वा वज्रं॒-वँज्रग्ं॑ सि॒क्त्वा । 38) सि॒क्त्वा प्र प्र सि॒क्त्वा सि॒क्त्वा प्र । 39) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् । 40) अ॒य॒च्छ॒ दे॒ते नै॒तेना॑ यच्छ दयच्छ दे॒तेन॑ । 41) ए॒तेन॑ जहि जह्ये॒ते नै॒तेन॑ जहि । 42) ज॒हीतीति॑ जहि ज॒हीति॑ । 43) इति॒ तेन॒ तेने तीति॒ तेन॑ । 44) तेना॒भ्य॑भि तेन॒ तेना॒भि । 45) अ॒भ्या॑यता यता॒भ्या᳚(1॒)भ्या॑यत । 46) आ॒य॒त॒ तौ ता वा॑यतायत॒ तौ । 47) ता व॑ब्रूता मब्रूता॒-न्तौ ता व॑ब्रूताम् । 48) अ॒ब्रू॒ता॒ म॒ग्नीषोमा॑ व॒ग्नीषोमा॑ वब्रूता मब्रूता म॒ग्नीषोमौ᳚ । 49) अ॒ग्नीषोमौ॒ मा मा ऽग्नीषोमा॑ व॒ग्नीषोमौ॒ मा । 49) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । 50) मा प्र प्र मा मा प्र । ॥ 9 ॥ (50/56)
1) प्र हार्॑. हाः॒ प्र प्र हाः᳚ । 2) हा॒ रा॒व मा॒वग्ं हार्॑. हा रा॒वम् । 3) आ॒व म॒न्त र॒न्त रा॒व मा॒व म॒न्तः । 4) अ॒न्त-स्स्व॑-स्स्वो॒ ऽन्त र॒न्त-स्स्वः॑ । 5) स्व॒ इतीति॑ स्व-स्स्व॒ इति॑ । 6) इति॒ मम॒ ममे तीति॒ मम॑ । 7) मम॒ वै वै मम॒ मम॒ वै । 8) वै यु॒वं-युँ॒वं-वैँ वै यु॒वम् । 9) यु॒वग्ग् स्थ॑-स्स्थो यु॒वं-युँ॒वग्ग् स्थः॑ । 10) स्थ॒ इतीति॑ स्थ-स्स्थ॒ इति॑ । 11) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 12) अ॒ब्र॒वी॒-न्मा-म्मा म॑ब्रवी दब्रवी॒-न्माम् । 13) मा म॒भ्य॑भि मा-म्मा म॒भि । 14) अ॒भ्या ऽभ्य॑भ्या । 15) एत॑ मित॒ मेत᳚म् । 16) इ॒त॒ मितीती॑त मित॒ मिति॑ । 17) इति॒ तौ ता वितीति॒ तौ । 18) तौ भा॑ग॒धेय॑-म्भाग॒धेय॒-न्तौ तौ भा॑ग॒धेय᳚म् । 19) भा॒ग॒धेय॑ मैच्छेता मैच्छेता-म्भाग॒धेय॑-म्भाग॒धेय॑ मैच्छेताम् । 19) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 20) ऐ॒च्छे॒ता॒-न्ताभ्या॒-न्ताभ्या॑ मैच्छेता मैच्छेता॒-न्ताभ्या᳚म् । 21) ताभ्या॑ मे॒त मे॒त-न्ताभ्या॒-न्ताभ्या॑ मे॒तम् । 22) ए॒त म॑ग्नीषो॒मीय॑ मग्नीषो॒मीय॑ मे॒त मे॒त म॑ग्नीषो॒मीय᳚म् । 23) अ॒ग्नी॒षो॒मीय॒ मेका॑दशकपाल॒ मेका॑दशकपाल मग्नीषो॒मीय॑ मग्नीषो॒मीय॒ मेका॑दशकपालम् । 23) अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् । 24) एका॑दशकपाल-म्पू॒र्णमा॑से पू॒र्णमा॑स॒ एका॑दशकपाल॒ मेका॑दशकपाल-म्पू॒र्णमा॑से । 24) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 25) पू॒र्णमा॑से॒ प्र प्र पू॒र्णमा॑से पू॒र्णमा॑से॒ प्र । 25) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । 26) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् । 27) अ॒य॒च्छ॒-त्तौ ता व॑यच्छ दयच्छ॒-त्तौ । 28) ता व॑ब्रूता मब्रूता॒-न्तौ ता व॑ब्रूताम् । 29) अ॒ब्रू॒ता॒ म॒भ्या᳚(1॒)भ्य॑ब्रूता मब्रूता म॒भि । 30) अ॒भि सन्द॑ष्टौ॒ सन्द॑ष्टा व॒भ्य॑भि सन्द॑ष्टौ । 31) सन्द॑ष्टौ॒ वै वै सन्द॑ष्टौ॒ सन्द॑ष्टौ॒ वै । 31) सन्द॑ष्टा॒विति॒ सं - द॒ष्टौ॒ । 32) वै स्व॑-स्स्वो॒ वै वै स्वः॑ । 33) स्वो॒ न न स्व॑-स्स्वो॒ न । 34) न श॑क्नुव-श्शक्नुवो॒ न न श॑क्नुवः । 35) श॒क्नु॒व॒ ऐतु॒ मैतुग्ं॑ शक्नुव-श्शक्नुव॒ ऐतु᳚म् । 36) ऐतु॒ मितीत्यैतु॒ मैतु॒ मिति॑ । 36) ऐतु॒मित्या - ए॒तु॒म् । 37) इति॒ स स इतीति॒ सः । 38) स इन्द्र॒ इन्द्र॒-स्स स इन्द्रः॑ । 39) इन्द्र॑ आ॒त्मन॑ आ॒त्मन॒ इन्द्र॒ इन्द्र॑ आ॒त्मनः॑ । 40) आ॒त्मन॑-श्शीतरू॒रौ शी॑तरू॒रा वा॒त्मन॑ आ॒त्मन॑-श्शीतरू॒रौ । 41) शी॒त॒रू॒रा व॑जनय दजनयच् छीतरू॒रौ शी॑तरू॒रा व॑जनयत् । 41) शी॒त॒रू॒राविति॑ शीत - रू॒रौ । 42) अ॒ज॒न॒य॒-त्त-त्तद॑जनय दजनय॒-त्तत् । 43) तच्छी॑तरू॒रयो᳚-श्शीतरू॒रयो॒ स्त-त्तच्छी॑तरू॒रयोः᳚ । 44) शी॒त॒रू॒रयो॒-र्जन्म॒ जन्म॑ शीतरू॒रयो᳚-श्शीतरू॒रयो॒-र्जन्म॑ । 44) शी॒त॒रू॒रयो॒रिति॑ शीत - रू॒रयोः᳚ । 45) जन्म॒ यो यो जन्म॒ जन्म॒ यः । 46) य ए॒व मे॒वं-योँ य ए॒वम् । 47) ए॒वग्ं शी॑तरू॒रयो᳚-श्शीतरू॒रयो॑ रे॒व मे॒वग्ं शी॑तरू॒रयोः᳚ । 48) शी॒त॒रू॒रयो॒-र्जन्म॒ जन्म॑ शीतरू॒रयो᳚-श्शीतरू॒रयो॒-र्जन्म॑ । 48) शी॒त॒रू॒रयो॒रिति॑ शीत - रू॒रयोः᳚ । 49) जन्म॒ वेद॒ वेद॒ जन्म॒ जन्म॒ वेद॑ । 50) वेद॒ न न वेद॒ वेद॒ न । ॥ 10 ॥ (50/59)
1) नैन॑ मेन॒-न्न नैन᳚म् । 2) ए॒न॒ग्ं॒ शी॒त॒रू॒रौ शी॑तरू॒रा वे॑न मेनग्ं शीतरू॒रौ । 3) शी॒त॒रू॒रौ ह॑तो हत-श्शीतरू॒रौ शी॑तरू॒रौ ह॑तः । 3) शी॒त॒रू॒राविति॑ शीत - रू॒रौ । 4) ह॒त॒ स्ताभ्या॒-न्ताभ्याग्ं॑ हतो हत॒ स्ताभ्या᳚म् । 5) ताभ्या॑ मेन मेन॒-न्ताभ्या॒-न्ताभ्या॑ मेनम् । 6) ए॒न॒ म॒भ्या᳚(1॒)भ्ये॑न मेन म॒भि । 7) अ॒भ्य॑नय दनयद॒भ्या᳚(1॒)भ्य॑नयत् । 8) अ॒न॒य॒-त्तस्मा॒-त्तस्मा॑ दनय दनय॒-त्तस्मा᳚त् । 9) तस्मा᳚ज् जञ्ज॒भ्यमा॑नाज् जञ्ज॒भ्यमा॑ना॒-त्तस्मा॒-त्तस्मा᳚ज् जञ्ज॒भ्यमा॑नात् । 10) ज॒ञ्ज॒भ्यमा॑ना द॒ग्नीषोमा॑ व॒ग्नीषोमौ॑ जञ्ज॒भ्यमा॑नाज् जञ्ज॒भ्यमा॑ना द॒ग्नीषोमौ᳚ । 11) अ॒ग्नीषोमौ॒ नि-र्णि र॒ग्नीषोमा॑ व॒ग्नीषोमौ॒ निः । 11) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । 12) निर॑क्रामता मक्रामता॒-न्नि-र्णिर॑क्रामताम् । 13) अ॒क्रा॒म॒ता॒-म्प्रा॒णा॒पा॒नौ प्रा॑णापा॒ना व॑क्रामता मक्रामता-म्प्राणापा॒नौ । 14) प्रा॒णा॒पा॒नौ वै वै प्रा॑णापा॒नौ प्रा॑णापा॒नौ वै । 14) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । 15) वा ए॑न मेनं॒-वैँ वा ए॑नम् । 16) ए॒न॒-न्त-त्तदे॑न मेन॒-न्तत् । 17) तद॑जहिता मजहिता॒-न्त-त्तद॑जहिताम् । 18) अ॒ज॒हि॒ता॒-म्प्रा॒णः प्रा॒णो॑ ऽजहिता मजहिता-म्प्रा॒णः । 19) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै । 19) प्रा॒ण इति॑ प्र - अ॒नः । 20) वै दक्षो॒ दक्षो॒ वै वै दक्षः॑ । 21) दक्षो॑ ऽपा॒नो॑ ऽपा॒नो दक्षो॒ दक्षो॑ ऽपा॒नः । 22) अ॒पा॒नः क्रतुः॒ क्रतु॑ रपा॒नो॑ ऽपा॒नः क्रतुः॑ । 22) अ॒पा॒न इत्य॑प - अ॒नः । 23) क्रतु॒ स्तस्मा॒-त्तस्मा॒-त्क्रतुः॒ क्रतु॒ स्तस्मा᳚त् । 24) तस्मा᳚ज् जञ्ज॒भ्यमा॑नो जञ्ज॒भ्यमा॑न॒ स्तस्मा॒-त्तस्मा᳚ज् जञ्ज॒भ्यमा॑नः । 25) ज॒ञ्ज॒भ्यमा॑नो ब्रूया-द्ब्रूयाज् जञ्ज॒भ्यमा॑नो जञ्ज॒भ्यमा॑नो ब्रूयात् । 26) ब्रू॒या॒-न्मयि॒ मयि॑ ब्रूया-द्ब्रूया॒-न्मयि॑ । 27) मयि॑ दक्षक्र॒तू द॑क्षक्र॒तू मयि॒ मयि॑ दक्षक्र॒तू । 28) द॒क्ष॒क्र॒तू इतीति॑ दक्षक्र॒तू द॑क्षक्र॒तू इति॑ । 28) द॒क्ष॒क्र॒तू इति॑ दक्ष - क्र॒तू । 29) इति॑ प्राणापा॒नौ प्रा॑णापा॒ना वितीति॑ प्राणापा॒नौ । 30) प्रा॒णा॒पा॒ना वे॒वैव प्रा॑णापा॒नौ प्रा॑णापा॒ना वे॒व । 30) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । 31) ए॒वात्म-न्ना॒त्म-न्ने॒वैवात्मन्न् । 32) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 33) ध॒त्ते॒ सर्व॒ग्ं॒ सर्व॑-न्धत्ते धत्ते॒ सर्व᳚म् । 34) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ । 35) आयु॑ रेत्ये॒त्यायु॒ रायु॑रेति । 36) ए॒ति॒ स स ए᳚त्येति॒ सः । 37) स दे॒वता॑ दे॒वता॒-स्स स दे॒वताः᳚ । 38) दे॒वता॑ वृ॒त्रा-द्वृ॒त्रा-द्दे॒वता॑ दे॒वता॑ वृ॒त्रात् । 39) वृ॒त्रा-न्नि॒र्॒हूय॑ नि॒र्॒हूय॑ वृ॒त्रा-द्वृ॒त्रा-न्नि॒र्॒हूय॑ । 40) नि॒र्॒हूय॒ वार्त्र॑घ्नं॒-वाँर्त्र॑घ्न-न्नि॒र्॒हूय॑ नि॒र्॒हूय॒ वार्त्र॑घ्नम् । 40) नि॒र्॒हूयेति॑ निः - हूय॑ । 41) वार्त्र॑घ्नग्ं ह॒विर्-ह॒वि-र्वार्त्र॑घ्नं॒-वाँर्त्र॑घ्नग्ं ह॒विः । 41) वार्त्र॑घ्न॒मिति॒ वार्त्र॑ - घ्न॒म् । 42) ह॒विः पू॒र्णमा॑से पू॒र्णमा॑से ह॒विर्-ह॒विः पू॒र्णमा॑से । 43) पू॒र्णमा॑से॒ नि-र्णिष् पू॒र्णमा॑से पू॒र्णमा॑से॒ निः । 43) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । 44) निर॑वप दवप॒-न्नि-र्णिर॑वपत् । 45) अ॒व॒प॒-द्घ्नन्ति॒ घ्नन्त्य॑वप दवप॒-द्घ्नन्ति॑ । 46) घ्नन्ति॒ वै वै घ्नन्ति॒ घ्नन्ति॒ वै । 47) वा ए॑न मेनं॒-वैँ वा ए॑नम् । 48) ए॒न॒-म्पू॒र्णमा॑से पू॒र्णमा॑स एन मेन-म्पू॒र्णमा॑से । 49) पू॒र्णमा॑स॒ आ पू॒र्णमा॑से पू॒र्णमा॑स॒ आ । 49) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । 50) आ ऽमा॑वा॒स्या॑या ममावा॒स्या॑या॒ मा ऽमा॑वा॒स्या॑याम् । ॥ 11 ॥ (50/61)
1) अ॒मा॒वा॒स्या॑या-म्प्याययन्ति प्यायय-न्त्यमावा॒स्या॑या ममावा॒स्या॑या-म्प्याययन्ति । 1) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । 2) प्या॒य॒य॒न्ति॒ तस्मा॒-त्तस्मा᳚-त्प्याययन्ति प्याययन्ति॒ तस्मा᳚त् । 3) तस्मा॒-द्वार्त्र॑घ्नी॒ वार्त्र॑घ्नी॒ तस्मा॒-त्तस्मा॒-द्वार्त्र॑घ्नी । 4) वार्त्र॑घ्नी पू॒र्णमा॑से पू॒र्णमा॑से॒ वार्त्र॑घ्नी॒ वार्त्र॑घ्नी पू॒र्णमा॑से । 4) वार्त्र॑घ्नी॒ इति॒ वार्त्र॑ - घ्नी॒ । 5) पू॒र्णमा॒से ऽन्वनु॑ पू॒र्णमा॑से पू॒र्णमा॒से ऽनु॑ । 5) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । 6) अनू᳚च्येते उच्येते॒ अन्वनू᳚च्येते । 7) उ॒च्ये॒ते॒ वृध॑न्वती॒ वृध॑न्वती उच्येते उच्येते॒ वृध॑न्वती । 7) उ॒च्ये॒ते॒ इत्यु॑च्येते । 8) वृध॑न्वती अमावा॒स्या॑या ममावा॒स्या॑यां॒-वृँध॑न्वती॒ वृध॑न्वती अमावा॒स्या॑याम् । 8) वृध॑न्वती॒ इति॒ वृधन्न्॑ - व॒ती॒ । 9) अ॒मा॒वा॒स्या॑या॒-न्त-त्तद॑मावा॒स्या॑या ममावा॒स्या॑या॒-न्तत् । 9) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । 10) त-थ्स॒ग्ग्॒स्थाप्य॑ स॒ग्ग्॒स्थाप्य॒ त-त्त-थ्स॒ग्ग्॒स्थाप्य॑ । 11) स॒ग्ग्॒स्थाप्य॒ वार्त्र॑घ्नं॒-वाँर्त्र॑घ्नग्ं स॒ग्ग्॒स्थाप्य॑ स॒ग्ग्॒स्थाप्य॒ वार्त्र॑घ्नम् । 11) स॒ग्ग्॒स्थाप्येति॑ सं - स्थाप्य॑ । 12) वार्त्र॑घ्नग्ं ह॒विर्-ह॒वि-र्वार्त्र॑घ्नं॒-वाँर्त्र॑घ्नग्ं ह॒विः । 12) वार्त्र॑घ्न॒मिति॒ वार्त्र॑ - घ्न॒म् । 13) ह॒वि-र्वज्रं॒-वँज्रग्ं॑ ह॒विर्-ह॒वि-र्वज्र᳚म् । 14) वज्र॑ मा॒दाया॒ दाय॒ वज्रं॒-वँज्र॑ मा॒दाय॑ । 15) आ॒दाय॒ पुनः॒ पुन॑ रा॒दाया॒ दाय॒ पुनः॑ । 15) आ॒दायेत्या᳚ - दाय॑ । 16) पुन॑ र॒भ्य॑भि पुनः॒ पुन॑ र॒भि । 17) अ॒भ्या॑यता यता॒भ्या᳚(1॒)भ्या॑यत । 18) आ॒य॒त॒ ते ते आ॑यता यत॒ ते । 19) ते अ॑ब्रूता मब्रूता॒-न्ते ते अ॑ब्रूताम् । 19) ते इति॒ ते । 20) अ॒ब्रू॒ता॒-न्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॑ब्रूता मब्रूता॒-न्द्यावा॑पृथि॒वी । 21) द्यावा॑पृथि॒वी मा मा द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी मा । 21) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 22) मा प्र प्र मा मा प्र । 23) प्र हार्॑. हाः॒ प्र प्र हाः᳚ । 24) हा॒ रा॒वयो॑ रा॒वयोर्॑. हार्-हा रा॒वयोः᳚ । 25) आ॒वयो॒-र्वै वा आ॒वयो॑ रा॒वयो॒-र्वै । 26) वै श्रि॒त-श्श्रि॒तो वै वै श्रि॒तः । 27) श्रि॒त इतीति॑ श्रि॒त-श्श्रि॒त इति॑ । 28) इति॒ ते ते इतीति॒ ते । 29) ते अ॑ब्रूता मब्रूता॒-न्ते ते अ॑ब्रूताम् । 29) ते इति॒ ते । 30) अ॒ब्रू॒तां॒-वँरं॒-वँर॑ मब्रूता मब्रूतां॒-वँर᳚म् । 31) वरं॑-वृँणावहै वृणावहै॒ वरं॒-वँरं॑-वृँणावहै । 32) वृ॒णा॒व॒है॒ नक्ष॑त्रविहिता॒ नक्ष॑त्रविहिता वृणावहै वृणावहै॒ नक्ष॑त्रविहिता । 33) नक्ष॑त्रविहिता॒ ऽह म॒ह-न्नक्ष॑त्रविहिता॒ नक्ष॑त्रविहिता॒ ऽहम् । 33) नक्ष॑त्रविहि॒तेति॒ नक्ष॑त्र - वि॒हि॒ता॒ । 34) अ॒ह मसा॒ न्यसा᳚न्य॒ह म॒ह मसा॑नि । 35) असा॒नीती त्यसा॒ न्यसा॒नीति॑ । 36) इत्य॒सा व॒सा वितीत्य॒सौ । 37) अ॒सा व॑ब्रवी दब्रवी द॒सा व॒सा व॑ब्रवीत् । 38) अ॒ब्र॒वी॒च् चि॒त्रवि॑हिता चि॒त्रवि॑हिता ऽब्रवी दब्रवीच् चि॒त्रवि॑हिता । 39) चि॒त्रवि॑हिता॒ ऽह म॒ह-ञ्चि॒त्रवि॑हिता चि॒त्रवि॑हिता॒ ऽहम् । 39) चि॒त्रवि॑हि॒तेति॑ चि॒त्र - वि॒हि॒ता॒ । 40) अ॒ह मितीत्य॒ह म॒ह मिति॑ । 41) इती॒य मि॒य मितीती॒यम् । 42) इ॒य-न्तस्मा॒-त्तस्मा॑दि॒य मि॒य-न्तस्मा᳚त् । 43) तस्मा॒-न्नक्ष॑त्रविहिता॒ नक्ष॑त्रविहिता॒ तस्मा॒-त्तस्मा॒-न्नक्ष॑त्रविहिता । 44) नक्ष॑त्रविहिता॒ ऽसा व॒सौ नक्ष॑त्रविहिता॒ नक्ष॑त्रविहिता॒ ऽसौ । 44) नक्ष॑त्रविहि॒तेति॒ नक्ष॑त्र - वि॒हि॒ता॒ । 45) अ॒सौ चि॒त्रवि॑हिता चि॒त्रवि॑हिता॒ ऽसा व॒सौ चि॒त्रवि॑हिता । 46) चि॒त्रवि॑हिते॒य मि॒य-ञ्चि॒त्रवि॑हिता चि॒त्रवि॑हिते॒यम् । 46) चि॒त्रवि॑हि॒तेति॑ चि॒त्र - वि॒हि॒ता॒ । 47) इ॒यं-योँ य इ॒य मि॒यं-यः ँ। 48) य ए॒व मे॒वं-योँ य ए॒वम् । 49) ए॒व-न्द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्यो रे॒व मे॒व-न्द्यावा॑पृथि॒व्योः । 50) द्यावा॑पृथि॒व्यो-र्वरं॒-वँर॒-न्द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्यो-र्वर᳚म् । 50) द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚ - पृ॒थि॒व्योः । ॥ 12 ॥ (50/67)
1) वरं॒-वेँद॒ वेद॒ वरं॒-वँरं॒-वेँद॑ । 2) वेदा वेद॒ वेदा । 3) ऐन॑ मेन॒ मैन᳚म् । 4) ए॒नं॒-वँरो॒ वर॑ एन मेनं॒-वँरः॑ । 5) वरो॑ गच्छति गच्छति॒ वरो॒ वरो॑ गच्छति । 6) ग॒च्छ॒ति॒ स स ग॑च्छति गच्छति॒ सः । 7) स आ॒भ्या मा॒भ्याग्ं स स आ॒भ्याम् । 8) आ॒भ्या मे॒वैवाभ्या मा॒भ्या मे॒व । 9) ए॒व प्रसू॑तः॒ प्रसू॑त ए॒वैव प्रसू॑तः । 10) प्रसू॑त॒ इन्द्र॒ इन्द्रः॒ प्रसू॑तः॒ प्रसू॑त॒ इन्द्रः॑ । 10) प्रसू॑त॒ इति॒ प्र - सू॒तः॒ । 11) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 12) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् । 13) अ॒ह॒-न्ते ते॑ ऽह-न्नह॒-न्ते । 14) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 15) दे॒वा वृ॒त्रं-वृँ॒त्र-न्दे॒वा दे॒वा वृ॒त्रम् । 16) वृ॒त्रग्ं ह॒त्वा ह॒त्वा वृ॒त्रं-वृँ॒त्रग्ं ह॒त्वा । 17) ह॒त्वा ऽग्नीषोमा॑ व॒ग्नीषोमौ॑ ह॒त्वा ह॒त्वा ऽग्नीषोमौ᳚ । 18) अ॒ग्नीषोमा॑ वब्रुव-न्नब्रुव-न्न॒ग्नीषोमा॑ व॒ग्नीषोमा॑ वब्रुवन्न् । 18) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । 19) अ॒ब्रु॒व॒न्॒. ह॒व्यग्ं ह॒व्य म॑ब्रुव-न्नब्रुवन्. ह॒व्यम् । 20) ह॒व्य-न्नो॑ नो ह॒व्यग्ं ह॒व्य-न्नः॑ । 21) नो॒ व॒ह॒तं॒-वँ॒ह॒त॒-न्नो॒ नो॒ व॒ह॒त॒म् । 22) व॒ह॒त॒ मितीति॑ वहतं-वँहत॒ मिति॑ । 23) इति॒ तौ ता वितीति॒ तौ । 24) ता व॑ब्रूता मब्रूता॒-न्तौ ता व॑ब्रूताम् । 25) अ॒ब्रू॒ता॒ मप॑तेजसा॒ वप॑तेजसा वब्रूता मब्रूता॒ मप॑तेजसौ । 26) अप॑तेजसौ॒ वै वा अप॑तेजसा॒ वप॑तेजसौ॒ वै । 26) अप॑तेजसा॒वित्यप॑ - ते॒ज॒सौ॒ । 27) वै त्यौ त्यौ वै वै त्यौ । 28) त्यौ वृ॒त्रे वृ॒त्रे त्यौ त्यौ वृ॒त्रे । 29) वृ॒त्रे वै वै वृ॒त्रे वृ॒त्रे वै । 30) वै त्ययो॒ स्त्ययो॒-र्वै वै त्ययोः᳚ । 31) त्ययो॒ स्तेज॒ स्तेज॒ स्त्ययो॒ स्त्ययो॒ स्तेजः॑ । 32) तेज॒ इतीति॒ तेज॒ स्तेज॒ इति॑ । 33) इति॒ ते त इतीति॒ ते । 34) ते᳚ ऽब्रुव-न्नब्रुव॒-न्ते ते᳚ ऽब्रुवन्न् । 35) अ॒ब्रु॒व॒न् कः को᳚ ऽब्रुव-न्नब्रुव॒न् कः । 36) क इ॒द मि॒द-ङ्कः क इ॒दम् । 37) इ॒द मच्छाच्छे॒ द मि॒द मच्छ॑ । 38) अच्छै᳚ त्ये॒त्यच्छा च्छै॑ति । 39) ए॒तीती त्ये᳚त्ये॒ तीति॑ । 40) इति॒ गौ-र्गौरितीति॒ गौः । 41) गौरितीति॒ गौ-र्गौरिति॑ । 42) इत्य॑ब्रुव-न्नब्रुव॒-न्निती त्य॑ब्रुवन्न् । 43) अ॒ब्रु॒व॒-न्गौ-र्गौ र॑ब्रुव-न्नब्रुव॒-न्गौः । 44) गौ-र्वाव वाव गौ-र्गौ-र्वाव । 45) वाव सर्व॑स्य॒ सर्व॑स्य॒ वाव वाव सर्व॑स्य । 46) सर्व॑स्य मि॒त्र-म्मि॒त्रग्ं सर्व॑स्य॒ सर्व॑स्य मि॒त्रम् । 47) मि॒त्र मितीति॑ मि॒त्र-म्मि॒त्र मिति॑ । 48) इति॒ सा सेतीति॒ सा । 49) सा ऽब्र॑वी दब्रवी॒-थ्सा सा ऽब्र॑वीत् । 50) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । ॥ 13 ॥ (50/53)
1) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 2) वृ॒णै॒ मयि॒ मयि॑ वृणै वृणै॒ मयि॑ । 3) मय्ये॒वैव मयि॒ मय्ये॒व । 4) ए॒व स॒ता स॒तैवैव स॒ता । 5) स॒तो भये॑नो॒भये॑न स॒ता स॒तोभये॑न । 6) उ॒भये॑न भुनजाद्ध्वै भुनजाद्ध्वा उ॒भये॑नो॒ भये॑न भुनजाद्ध्वै । 7) भु॒न॒जा॒द्ध्वा॒ इतीति॑ भुनजाद्ध्वै भुनजाद्ध्वा॒ इति॑ । 8) इति॒ त-त्तदितीति॒ तत् । 9) त-द्गौ-र्गौ स्त-त्त-द्गौः । 10) गौरा गौ-र्गौरा । 11) आ ऽह॑र दहर॒दा ऽह॑रत् । 12) अ॒ह॒र॒-त्तस्मा॒-त्तस्मा॑ दहर दहर॒-त्तस्मा᳚त् । 13) तस्मा॒-द्गवि॒ गवि॒ तस्मा॒-त्तस्मा॒-द्गवि॑ । 14) गवि॑ स॒ता स॒ता गवि॒ गवि॑ स॒ता । 15) स॒तो भये॑नो॒ भये॑न स॒ता स॒तो भये॑न । 16) उ॒भये॑न भुञ्जते भुञ्जत उ॒भये॑नो॒ भये॑न भुञ्जते । 17) भु॒ञ्ज॒त॒ ए॒त दे॒त-द्भु॑ञ्जते भुञ्जत ए॒तत् । 18) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 19) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 20) अ॒ग्ने स्तेज॒ स्तेजो॒ ऽग्ने र॒ग्ने स्तेजः॑ । 21) तेजो॒ य-द्य-त्तेज॒ स्तेजो॒ यत् । 22) य-द्घृ॒त-ङ्घृ॒तं-यँ-द्य-द्घृ॒तम् । 23) घृ॒त मे॒त दे॒त-द्घृ॒त-ङ्घृ॒त मे॒तत् । 24) ए॒त-थ्सोम॑स्य॒ सोम॑ स्यै॒त दे॒त-थ्सोम॑स्य । 25) सोम॑स्य॒ य-द्य-थ्सोम॑स्य॒ सोम॑स्य॒ यत् । 26) य-त्पयः॒ पयो॒ य-द्य-त्पयः॑ । 27) पयो॒ यो यः पयः॒ पयो॒ यः । 28) य ए॒व मे॒वं-योँ य ए॒वम् । 29) ए॒व म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो रे॒व मे॒व म॒ग्नीषोम॑योः । 30) अ॒ग्नीषोम॑यो॒ स्तेज॒ स्तेजो॒ ऽग्नीषोम॑यो र॒ग्नीषोम॑यो॒ स्तेजः॑ । 30) अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः । 31) तेजो॒ वेद॒ वेद॒ तेज॒ स्तेजो॒ वेद॑ । 32) वेद॑ तेज॒स्वी ते॑ज॒स्वी वेद॒ वेद॑ तेज॒स्वी । 33) ते॒ज॒स्व्ये॑वैव ते॑ज॒स्वी ते॑ज॒स्व्ये॑व । 34) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 35) भ॒व॒ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ भवति भवति ब्रह्मवा॒दिनः॑ । 36) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 36) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 37) व॒द॒न्ति॒ कि॒न्दे॒व॒त्य॑-ङ्किन्देव॒त्यं॑-वँदन्ति वदन्ति किन्देव॒त्य᳚म् । 38) कि॒न्दे॒व॒त्य॑-म्पौर्णमा॒स-म्पौ᳚र्णमा॒स-ङ्कि॑न्देव॒त्य॑-ङ्किन्देव॒त्य॑-म्पौर्णमा॒सम् । 38) कि॒न्दे॒व॒त्य॑मिति॑ किं - दे॒व॒त्य᳚म् । 39) पौ॒र्ण॒मा॒स मितीति॑ पौर्णमा॒स-म्पौ᳚र्णमा॒स मिति॑ । 39) पौ॒र्ण॒मा॒समिति॑ पौर्ण - मा॒सम् । 40) इति॑ प्राजाप॒त्य-म्प्रा॑जाप॒त्य मितीति॑ प्राजाप॒त्यम् । 41) प्रा॒जा॒प॒त्य मितीति॑ प्राजाप॒त्य-म्प्रा॑जाप॒त्य मिति॑ । 41) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । 42) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् । 43) ब्रू॒या॒-त्तेन॒ तेन॑ ब्रूया-द्ब्रूया॒-त्तेन॑ । 44) तेने न्द्र॒ मिन्द्र॒-न्तेन॒ तेने न्द्र᳚म् । 45) इन्द्र॑-ञ्ज्ये॒ष्ठ-ञ्ज्ये॒ष्ठ मिन्द्र॒ मिन्द्र॑-ञ्ज्ये॒ष्ठम् । 46) ज्ये॒ष्ठ-म्पु॒त्र-म्पु॒त्र-ञ्ज्ये॒ष्ठ-ञ्ज्ये॒ष्ठ-म्पु॒त्रम् । 47) पु॒त्र-न्नि॒रवा॑सायय-न्नि॒रवा॑सायय-त्पु॒त्र-म्पु॒त्र-न्नि॒रवा॑साययत् । 48) नि॒रवा॑सायय॒ दितीति॑ नि॒रवा॑सायय-न्नि॒रवा॑सायय॒ दिति॑ । 48) नि॒रवा॑सायय॒दिति॑ निः - अवा॑साययत् । 49) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 50) तस्मा᳚ज् ज्ये॒ष्ठ-ञ्ज्ये॒ष्ठ-न्तस्मा॒-त्तस्मा᳚ज् ज्ये॒ष्ठम् । 51) ज्ये॒ष्ठ-म्पु॒त्र-म्पु॒त्र-ञ्ज्ये॒ष्ठ-ञ्ज्ये॒ष्ठ-म्पु॒त्रम् । 52) पु॒त्र-न्धने॑न॒ धने॑न पु॒त्र-म्पु॒त्र-न्धने॑न । 53) धने॑न नि॒रव॑साययन्ति नि॒रव॑साययन्ति॒ धने॑न॒ धने॑न नि॒रव॑साययन्ति । 54) नि॒रव॑सायय॒न्तीति॑ निः - अव॑साययन्ति । ॥ 14 ॥ (54/60) ॥ अ. 2 ॥
1) इन्द्रं॑-वृँ॒त्रं-वृँ॒त्र मिन्द्र॒ मिन्द्रं॑-वृँ॒त्रम् । 2) वृ॒त्र-ञ्ज॑घ्नि॒वाग्ंस॑-ञ्जघ्नि॒वाग्ंसं॑-वृँ॒त्रं-वृँ॒त्र-ञ्ज॑घ्नि॒वाग्ंस᳚म् । 3) ज॒घ्नि॒वाग्ंस॒-म्मृधो॒ मृधो॑ जघ्नि॒वाग्ंस॑-ञ्जघ्नि॒वाग्ंस॒-म्मृधः॑ । 4) मृधो॒ ऽभ्य॑भि मृधो॒ मृधो॒ ऽभि । 5) अ॒भि प्र प्राभ्य॑भि प्र । 6) प्रावे॑पन्ता वेपन्त॒ प्र प्रावे॑पन्त । 7) अ॒वे॒प॒न्त॒ स सो॑ ऽवेपन्ता वेपन्त॒ सः । 8) स ए॒त मे॒तग्ं स स ए॒तम् । 9) ए॒तं-वैँ॑मृ॒धं-वैँ॑मृ॒ध मे॒त मे॒तं-वैँ॑मृ॒धम् । 10) वै॒मृ॒ध-म्पू॒र्णमा॑से पू॒र्णमा॑से वैमृ॒धं-वैँ॑मृ॒ध-म्पू॒र्णमा॑से । 11) पू॒र्णमा॑से ऽनुनिर्वा॒प्य॑ मनुनिर्वा॒प्य॑-म्पू॒र्णमा॑से पू॒र्णमा॑से ऽनुनिर्वा॒प्य᳚म् । 11) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । 12) अ॒नु॒नि॒र्वा॒प्य॑ मपश्य दपश्य दनुनिर्वा॒प्य॑ मनुनिर्वा॒प्य॑ मपश्यत् । 12) अ॒नु॒नि॒र्वा॒प्य॑मित्य॑नु - नि॒र्वा॒प्य᳚म् । 13) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् । 14) त-न्नि-र्णिष् ट-न्त-न्निः । 15) निर॑वप दवप॒-न्नि-र्णिर॑वपत् । 16) अ॒व॒प॒-त्तेन॒ तेना॑वप दवप॒-त्तेन॑ । 17) तेन॒ वै वै तेन॒ तेन॒ वै । 18) वै स स वै वै सः । 19) स मृधो॒ मृध॒-स्स स मृधः॑ । 20) मृधो ऽपाप॒ मृधो॒ मृधो ऽप॑ । 21) अपा॑हता ह॒ता पापा॑हत । 22) अ॒ह॒त॒ य-द्यद॑हता हत॒ यत् । 23) य-द्वै॑मृ॒धो वै॑मृ॒धो य-द्य-द्वै॑मृ॒धः । 24) वै॒मृ॒धः पू॒र्णमा॑से पू॒र्णमा॑से वैमृ॒धो वै॑मृ॒धः पू॒र्णमा॑से । 25) पू॒र्णमा॑से ऽनुनिर्वा॒प्यो॑ ऽनुनिर्वा॒प्यः॑ पू॒र्णमा॑से पू॒र्णमा॑से ऽनुनिर्वा॒प्यः॑ । 25) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । 26) अ॒नु॒नि॒र्वा॒प्यो॑ भव॑ति॒ भव॑ त्यनुनिर्वा॒प्यो॑ ऽनुनिर्वा॒प्यो॑ भव॑ति । 26) अ॒नु॒नि॒र्वा॒प्य॑ इत्य॑नु - नि॒र्वा॒प्यः॑ । 27) भव॑ति॒ मृधो॒ मृधो॒ भव॑ति॒ भव॑ति॒ मृधः॑ । 28) मृध॑ ए॒वैव मृधो॒ मृध॑ ए॒व । 29) ए॒व तेन॒ तेनै॒वैव तेन॑ । 30) तेन॒ यज॑मानो॒ यज॑मान॒ स्तेन॒ तेन॒ यज॑मानः । 31) यज॑मा॒नो ऽपाप॒ यज॑मानो॒ यज॑मा॒नो ऽप॑ । 32) अप॑ हते ह॒ते ऽपाप॑ हते । 33) ह॒त॒ इन्द्र॒ इन्द्रो॑ हते हत॒ इन्द्रः॑ । 34) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 35) वृ॒त्रग्ं ह॒त्वा ह॒त्वा वृ॒त्रं-वृँ॒त्रग्ं ह॒त्वा । 36) ह॒त्वा दे॒वता॑भि-र्दे॒वता॑भिर्-ह॒त्वा ह॒त्वा दे॒वता॑भिः । 37) दे॒वता॑भिश्च च दे॒वता॑भि-र्दे॒वता॑भिश्च । 38) चे॒ न्द्रि॒येणे᳚ न्द्रि॒येण॑ च चे न्द्रि॒येण॑ । 39) इ॒न्द्रि॒येण॑ च चे न्द्रि॒येणे᳚ न्द्रि॒येण॑ च । 40) च॒ वि वि च॑ च॒ वि । 41) व्या᳚र्ध्यता र्ध्यत॒ वि व्या᳚र्ध्यत । 42) आ॒र्ध्य॒त॒ स स आ᳚र्ध्यता र्ध्यत॒ सः । 43) स ए॒त मे॒तग्ं स स ए॒तम् । 44) ए॒त मा᳚ग्ने॒य मा᳚ग्ने॒य मे॒त मे॒त मा᳚ग्ने॒यम् । 45) आ॒ग्ने॒य म॒ष्टाक॑पाल म॒ष्टाक॑पाल माग्ने॒य मा᳚ग्ने॒य म॒ष्टाक॑पालम् । 46) अ॒ष्टाक॑पाल ममावा॒स्या॑या ममावा॒स्या॑या म॒ष्टाक॑पाल म॒ष्टाक॑पाल ममावा॒स्या॑याम् । 46) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 47) अ॒मा॒वा॒स्या॑या मपश्य दपश्य दमावा॒स्या॑या ममावा॒स्या॑या मपश्यत् । 47) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । 48) अ॒प॒श्य॒ दै॒न्द्र मै॒न्द्र म॑पश्य दपश्य दै॒न्द्रम् । 49) ऐ॒न्द्र-न्दधि॒ दध्यै॒न्द्र मै॒न्द्र-न्दधि॑ । 50) दधि॒ त-न्त-न्दधि॒ दधि॒ तम् । ॥ 15 ॥ (50/56)
1) त-न्नि-र्णिष् ट-न्त-न्निः । 2) निर॑वप दवप॒-न्नि-र्णिर॑वपत् । 3) अ॒व॒प॒-त्तेन॒ तेना॑वप दवप॒-त्तेन॑ । 4) तेन॒ वै वै तेन॒ तेन॒ वै । 5) वै स स वै वै सः । 6) स दे॒वता॑ दे॒वता॒-स्स स दे॒वताः᳚ । 7) दे॒वता᳚श्च च दे॒वता॑ दे॒वता᳚श्च । 8) चे॒ न्द्रि॒य मि॑न्द्रि॒य-ञ्च॑ चे न्द्रि॒यम् । 9) इ॒न्द्रि॒य-ञ्च॑ चे न्द्रि॒य मि॑न्द्रि॒य-ञ्च॑ । 10) चावाव॑ च॒ चाव॑ । 11) अवा॑रुन्धा रु॒न्धा वावा॑रुन्ध । 12) अ॒रु॒न्ध॒ य-द्यद॑रुन्धा रुन्ध॒ यत् । 13) यदा᳚ग्ने॒य आ᳚ग्ने॒यो य-द्यदा᳚ग्ने॒यः । 14) आ॒ग्ने॒यो᳚ ऽष्टाक॑पालो॒ ऽष्टाक॑पाल आग्ने॒य आ᳚ग्ने॒यो᳚ ऽष्टाक॑पालः । 15) अ॒ष्टाक॑पालो ऽमावा॒स्या॑या ममावा॒स्या॑या म॒ष्टाक॑पालो॒ ऽष्टाक॑पालो ऽमावा॒स्या॑याम् । 15) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । 16) अ॒मा॒वा॒स्या॑या॒-म्भव॑ति॒ भव॑ त्यमावा॒स्या॑या ममावा॒स्या॑या॒-म्भव॑ति । 16) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । 17) भव॑ त्यै॒न्द्र मै॒न्द्र-म्भव॑ति॒ भव॑ त्यै॒न्द्रम् । 18) ऐ॒न्द्र-न्दधि॒ दध्यै॒न्द्र मै॒न्द्र-न्दधि॑ । 19) दधि॑ दे॒वता॑ दे॒वता॒ दधि॒ दधि॑ दे॒वताः᳚ । 20) दे॒वता᳚श्च च दे॒वता॑ दे॒वता᳚श्च । 21) चै॒वैव च॑ चै॒व । 22) ए॒व तेन॒ तेनै॒वैव तेन॑ । 23) तेने᳚ न्द्रि॒य मि॑न्द्रि॒य-न्तेन॒ तेने᳚ न्द्रि॒यम् । 24) इ॒न्द्रि॒य-ञ्च॑ चे न्द्रि॒य मि॑न्द्रि॒य-ञ्च॑ । 25) च॒ यज॑मानो॒ यज॑मानश्च च॒ यज॑मानः । 26) यज॑मा॒नो ऽवाव॒ यज॑मानो॒ यज॑मा॒नो ऽव॑ । 27) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 28) रु॒न्ध॒ इन्द्र॒स्ये न्द्र॑स्य रुन्धे रुन्ध॒ इन्द्र॑स्य । 29) इन्द्र॑स्य वृ॒त्रं-वृँ॒त्र मिन्द्र॒स्ये न्द्र॑स्य वृ॒त्रम् । 30) वृ॒त्र-ञ्ज॒घ्नुषो॑ ज॒घ्नुषो॑ वृ॒त्रं-वृँ॒त्र-ञ्ज॒घ्नुषः॑ । 31) ज॒घ्नुष॑ इन्द्रि॒य मि॑न्द्रि॒य-ञ्ज॒घ्नुषो॑ ज॒घ्नुष॑ इन्द्रि॒यम् । 32) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् । 33) वी॒र्य॑-म्पृथि॒वी-म्पृ॑थि॒वीं-वीँ॒र्यं॑-वीँ॒र्य॑-म्पृथि॒वीम् । 34) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ । 35) अनु॒ वि व्यन्वनु॒ वि । 36) व्या᳚र्च्छ दार्च्छ॒-द्वि व्या᳚र्च्छत् । 37) आ॒र्च्छ॒-त्त-त्तदा᳚र्च्छ दार्च्छ॒-त्तत् । 38) तदोष॑धय॒ ओष॑धय॒ स्त-त्तदोष॑धयः । 39) ओष॑धयो वी॒रुधो॑ वी॒रुध॒ ओष॑धय॒ ओष॑धयो वी॒रुधः॑ । 40) वी॒रुधो॑ ऽभव-न्नभवन्. वी॒रुधो॑ वी॒रुधो॑ ऽभवन्न् । 41) अ॒भ॒व॒-न्थ्स सो॑ ऽभव-न्नभव॒-न्थ्सः । 42) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् । 43) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ । 43) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 44) उपा॑धाव दधाव॒ दुपोपा॑धावत् । 45) अ॒धा॒व॒-द्वृ॒त्रं-वृँ॒त्र म॑धाव दधाव-द्वृ॒त्रम् । 46) वृ॒त्र-म्मे॑ मे वृ॒त्रं-वृँ॒त्र-म्मे᳚ । 47) मे॒ ज॒घ्नुषो॑ ज॒घ्नुषो॑ मे मे ज॒घ्नुषः॑ । 48) ज॒घ्नुष॑ इन्द्रि॒य मि॑न्द्रि॒य-ञ्ज॒घ्नुषो॑ ज॒घ्नुष॑ इन्द्रि॒यम् । 49) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् । 50) वी॒र्य॑-म्पृथि॒वी-म्पृ॑थि॒वीं-वीँ॒र्यं॑-वीँ॒र्य॑-म्पृथि॒वीम् । ॥ 16 ॥ (50/53)
1) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ । 2) अनु॒ वि व्यन्वनु॒ वि । 3) व्या॑रदार॒-द्वि व्या॑रत् । 4) आ॒र॒-त्त-त्तदा॑र दार॒-त्तत् । 5) तदोष॑धय॒ ओष॑धय॒ स्त-त्तदोष॑धयः । 6) ओष॑धयो वी॒रुधो॑ वी॒रुध॒ ओष॑धय॒ ओष॑धयो वी॒रुधः॑ । 7) वी॒रुधो॑ ऽभूव-न्नभूवन्. वी॒रुधो॑ वी॒रुधो॑ ऽभूवन्न् । 8) अ॒भू॒व॒-न्निती त्य॑भूव-न्नभूव॒-न्निति॑ । 9) इति॒ स स इतीति॒ सः । 10) स प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स स प्र॒जाप॑तिः । 11) प्र॒जाप॑तिः प॒शू-न्प॒शू-न्प्र॒जाप॑तिः प्र॒जाप॑तिः प॒शून् । 11) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 12) प॒शू न॑ब्रवी दब्रवी-त्प॒शू-न्प॒शू न॑ब्रवीत् । 13) अ॒ब्र॒वी॒ दे॒त दे॒त द॑ब्रवी दब्रवी दे॒तत् । 14) ए॒तद॑स्मा अस्मा ए॒त दे॒त द॑स्मै । 15) अ॒स्मै॒ सग्ं स म॑स्मा अस्मै॒ सम् । 16) स-न्न॑यत नयत॒ सग्ं स-न्न॑यत । 17) न॒य॒ते तीति॑ नयत नय॒ते ति॑ । 18) इति॒ त-त्तदितीति॒ तत् । 19) त-त्प॒शवः॑ प॒शव॒ स्त-त्त-त्प॒शवः॑ । 20) प॒शव॒ ओष॑धीभ्य॒ ओष॑धीभ्यः प॒शवः॑ प॒शव॒ ओष॑धीभ्यः । 21) ओष॑धी॒भ्यो ऽध्यध्योष॑धीभ्य॒ ओष॑धी॒भ्यो ऽधि॑ । 21) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । 22) अध्या॒त्म-न्ना॒त्म-न्नध्य ध्या॒त्मन्न् । 23) आ॒त्म-न्थ्सग्ं स मा॒त्म-न्ना॒त्म-न्थ्सम् । 24) स म॑नय-न्ननय॒-न्थ्सग्ं स म॑नयन्न् । 25) अ॒न॒य॒-न्त-त्तद॑नय-न्ननय॒-न्तत् । 26) त-त्प्रति॒ प्रति॒ त-त्त-त्प्रति॑ । 27) प्रत्य॑दुह-न्नदुह॒-न्प्रति॒ प्रत्य॑दुहन्न् । 28) अ॒दु॒ह॒न्॒. य-द्यद॑दुह-न्नदुह॒न्॒. यत् । 29) य-थ्स॒मन॑य-न्थ्स॒मन॑य॒न्॒. य-द्य-थ्स॒मन॑यन्न् । 30) स॒मन॑य॒-न्त-त्त-थ्स॒मन॑य-न्थ्स॒मन॑य॒-न्तत् । 30) स॒मन॑य॒न्निति॑ सं - अन॑यन्न् । 31) त-थ्सा᳚न्ना॒य्यस्य॑ सान्ना॒य्यस्य॒ त-त्त-थ्सा᳚न्ना॒य्यस्य॑ । 32) सा॒न्ना॒य्यस्य॑ सान्नाय्य॒त्वग्ं सा᳚न्नाय्य॒त्वग्ं सा᳚न्ना॒य्यस्य॑ सान्ना॒य्यस्य॑ सान्नाय्य॒त्वम् । 32) सा॒न्ना॒य्यस्येति॑ सां - ना॒य्यस्य॑ । 33) सा॒न्ना॒य्य॒त्वं-यँ-द्य-थ्सा᳚न्नाय्य॒त्वग्ं सा᳚न्नाय्य॒त्वं-यँत् । 33) सा॒न्ना॒य्य॒त्वमिति॑ सान्नाय्य - त्वम् । 34) य-त्प्र॒त्यदु॑ह-न्प्र॒त्यदु॑ह॒न्॒. य-द्य-त्प्र॒त्यदु॑हन्न् । 35) प्र॒त्यदु॑ह॒-न्त-त्त-त्प्र॒त्यदु॑ह-न्प्र॒त्यदु॑ह॒-न्तत् । 35) प्र॒त्यदु॑ह॒न्निति॑ प्रति - अदु॑हन्न् । 36) त-त्प्र॑ति॒धुषः॑ प्रति॒धुष॒ स्त-त्त-त्प्र॑ति॒धुषः॑ । 37) प्र॒ति॒धुषः॑ प्रतिधु॒क्त्व-म्प्र॑तिधु॒क्त्व-म्प्र॑ति॒धुषः॑ प्रति॒धुषः॑ प्रतिधु॒क्त्वम् । 37) प्र॒ति॒धुष॒ इति॑ प्रति - धुषः॑ । 38) प्र॒ति॒धु॒क्त्वग्ं सग्ं स-म्प्र॑तिधु॒क्त्व-म्प्र॑तिधु॒क्त्वग्ं सम् । 38) प्र॒ति॒धु॒क्त्वमिति॑ प्रतिधुक् - त्वम् । 39) स म॑नैषुरनैषु॒-स्सग्ं स म॑नैषुः । 40) अ॒नै॒षुः॒ प्रति॒ प्रत्य॑नैषु रनैषुः॒ प्रति॑ । 41) प्रत्य॑धुक्ष-न्नधुक्ष॒-न्प्रति॒ प्रत्य॑धुक्षन्न् । 42) अ॒धु॒क्ष॒-न्न नाधु॑क्ष-न्नधुक्ष॒-न्न । 43) न तु तु न न तु । 44) तु मयि॒ मयि॒ तु तु मयि॑ । 45) मयि॑ श्रयते श्रयते॒ मयि॒ मयि॑ श्रयते । 46) श्र॒य॒त॒ इतीति॑ श्रयते श्रयत॒ इति॑ । 47) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 48) अ॒ब्र॒वी॒ दे॒त दे॒त द॑ब्रवी दब्रवी दे॒तत् । 49) ए॒त द॑स्मा अस्मा ए॒त दे॒त द॑स्मै । 50) अ॒स्मै॒ शृ॒तग्ं शृ॒त म॑स्मा अस्मै शृ॒तम् । ॥ 17 ॥ (50/58)
1) शृ॒त-ङ्कु॑रुत कुरुत शृ॒तग्ं शृ॒त-ङ्कु॑रुत । 2) कु॒रु॒ते तीति॑ कुरुत कुरु॒ते ति॑ । 3) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 4) अ॒ब्र॒वी॒-त्त-त्तद॑ब्रवी दब्रवी॒-त्तत् । 5) तद॑स्मा अस्मै॒ त-त्तद॑स्मै । 6) अ॒स्मै॒ शृ॒तग्ं शृ॒त म॑स्मा अस्मै शृ॒तम् । 7) शृ॒त म॑कुर्व-न्नकुर्व-ञ्छृ॒तग्ं शृ॒त म॑कुर्वन्न् । 8) अ॒कु॒र्व॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑कुर्व-न्नकुर्व-न्निन्द्रि॒यम् । 9) इ॒न्द्रि॒यं-वाँव वावे न्द्रि॒य मि॑न्द्रि॒यं-वाँव । 10) वावास्मि॑-न्नस्मि॒न्॒. वाव वावास्मिन्न्॑ । 11) अ॒स्मि॒न् वी॒र्यं॑-वीँ॒र्य॑ मस्मि-न्नस्मिन् वी॒र्य᳚म् । 12) वी॒र्य॑-न्त-त्त-द्वी॒र्यं॑-वीँ॒र्य॑-न्तत् । 13) तद॑श्रय-न्नश्रय॒-न्त-त्तद॑श्रयन्न् । 14) अ॒श्र॒य॒-न्त-त्तद॑श्रय-न्नश्रय॒-न्तत् । 15) तच् छृ॒तस्य॑ शृ॒तस्य॒ त-त्तच् छृ॒तस्य॑ । 16) शृ॒तस्य॑ शृत॒त्वग्ं शृ॑त॒त्वग्ं शृ॒तस्य॑ शृ॒तस्य॑ शृत॒त्वम् । 17) शृ॒त॒त्वग्ं सग्ं सग्ं शृ॑त॒त्वग्ं शृ॑त॒त्वग्ं सम् । 17) शृ॒त॒त्वमिति॑ शृत - त्वम् । 18) स म॑नैषु रनैषु॒-स्सग्ं स म॑नैषुः । 19) अ॒नै॒षुः॒ प्रति॒ प्रत्य॑नैषु रनैषुः॒ प्रति॑ । 20) प्रत्य॑धुक्ष-न्नधुक्ष॒-न्प्रति॒ प्रत्य॑धुक्षन्न् । 21) अ॒धु॒क्ष॒-ञ्छृ॒तग्ं शृ॒त म॑धुक्ष-न्नधुक्ष-ञ्छृ॒तम् । 22) शृ॒त म॑क्र-न्नक्र-ञ्छृ॒तग्ं शृ॒त म॑क्रन्न् । 23) अ॒क्र॒-न्न नाक्र॑-न्नक्र॒-न्न । 24) न तु तु न न तु । 25) तु मा॑ मा॒ तु तु मा᳚ । 26) मा॒ धि॒नो॒ति॒ धि॒नो॒ति॒ मा॒ मा॒ धि॒नो॒ति॒ । 27) धि॒नो॒तीतीति॑ धिनोति धिनो॒तीति॑ । 28) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 29) अ॒ब्र॒वी॒ दे॒त दे॒त द॑ब्रवी दब्रवी दे॒तत् । 30) ए॒तद॑स्मा अस्मा ए॒त दे॒त द॑स्मै । 31) अ॒स्मै॒ दधि॒ दध्य॑स्मा अस्मै॒ दधि॑ । 32) दधि॑ कुरुत कुरुत॒ दधि॒ दधि॑ कुरुत । 33) कु॒रु॒ते तीति॑ कुरुत कुरु॒ते ति॑ । 34) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 35) अ॒ब्र॒वी॒-त्त-त्तद॑ब्रवी दब्रवी॒-त्तत् । 36) तद॑स्मा अस्मै॒ त-त्तद॑स्मै । 37) अ॒स्मै॒ दधि॒ दध्य॑स्मा अस्मै॒ दधि॑ । 38) दध्य॑कुर्व-न्नकुर्व॒-न्दधि॒ दध्य॑कुर्वन्न् । 39) अ॒कु॒र्व॒-न्त-त्तद॑कुर्व-न्नकुर्व॒-न्तत् । 40) तदे॑न मेन॒-न्त-त्तदे॑नम् । 41) ए॒न॒ म॒धि॒नो॒ द॒धि॒नो॒ दे॒न॒ मे॒न॒ म॒धि॒नो॒त् । 42) अ॒धि॒नो॒-त्त-त्तद॑धिनो दधिनो॒-त्तत् । 43) त-द्द॒द्ध्नो द॒द्ध्न स्त-त्त-द्द॒द्ध्नः । 44) द॒द्ध्नो द॑धि॒त्व-न्द॑धि॒त्व-न्द॒द्ध्नो द॒द्ध्नो द॑धि॒त्वम् । 45) द॒धि॒त्व-म्ब्र॑ह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ दधि॒त्व-न्द॑धि॒त्व-म्ब्र॑ह्मवा॒दिनः॑ । 45) द॒धि॒त्वमिति॑ दधि - त्वम् । 46) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 46) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 47) व॒द॒न्ति॒ द॒द्ध्नो द॒द्ध्नो व॑दन्ति वदन्ति द॒द्ध्नः । 48) द॒द्ध्नः पूर्व॑स्य॒ पूर्व॑स्य द॒द्ध्नो द॒द्ध्नः पूर्व॑स्य । 49) पूर्व॑स्याव॒देय॑ मव॒देय॒-म्पूर्व॑स्य॒ पूर्व॑स्याव॒देय᳚म् । 50) अ॒व॒देय॒-न्दधि॒ दध्य॑व॒देय॑ मव॒देय॒-न्दधि॑ । 50) अ॒व॒देय॒मित्य॑व - देय᳚म् । ॥ 18 ॥ (50/54)
1) दधि॒ हि हि दधि॒ दधि॒ हि । 2) हि पूर्व॒-म्पूर्व॒ग्ं॒ हि हि पूर्व᳚म् । 3) पूर्व॑-ङ्क्रि॒यते᳚ क्रि॒यते॒ पूर्व॒-म्पूर्व॑-ङ्क्रि॒यते᳚ । 4) क्रि॒यत॒ इतीति॑ क्रि॒यते᳚ क्रि॒यत॒ इति॑ । 5) इत्यना॑दृ॒त्या ना॑दृ॒त्ये तीत्यना॑दृत्य । 6) अना॑दृत्य॒ त-त्तदना॑दृ॒त्या ना॑दृत्य॒ तत् । 6) अना॑दृ॒त्येत्यना᳚ - दृ॒त्य॒ । 7) तच्छृ॒तस्य॑ शृ॒तस्य॒ त-त्तच्छृ॒तस्य॑ । 8) शृ॒तस्यै॒वैव शृ॒तस्य॑ शृ॒तस्यै॒व । 9) ए॒व पूर्व॑स्य॒ पूर्व॑स्यै॒वैव पूर्व॑स्य । 10) पूर्व॒स्यावाव॒ पूर्व॑स्य॒ पूर्व॒स्याव॑ । 11) अव॑ द्ये-द्द्ये॒दवाव॑ द्येत् । 12) द्ये॒दि॒न्द्रि॒य मि॑न्द्रि॒य-न्द्ये᳚-द्द्येदिन्द्रि॒यम् । 13) इ॒न्द्रि॒य मे॒वैवे न्द्रि॒य मि॑न्द्रि॒य मे॒व । 14) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ । 15) अ॒स्मि॒न् वी॒र्यं॑-वीँ॒र्य॑ मस्मि-न्नस्मिन् वी॒र्य᳚म् । 16) वी॒र्यग्ग्॑ श्रि॒त्वा श्रि॒त्वा वी॒र्यं॑-वीँ॒र्यग्ग्॑ श्रि॒त्वा । 17) श्रि॒त्वा द॒द्ध्ना द॒द्ध्ना श्रि॒त्वा श्रि॒त्वा द॒द्ध्ना । 18) द॒द्ध्नो परि॑ष्टा दु॒परि॑ष्टा-द्द॒द्ध्ना द॒द्ध्नो परि॑ष्टात् । 19) उ॒परि॑ष्टा-द्धिनोति धिनो त्यु॒परि॑ष्टा दु॒परि॑ष्टा-द्धिनोति । 20) धि॒नो॒ति॒ य॒था॒पू॒र्वं-यँ॑थापू॒र्व-न्धि॑नोति धिनोति यथापू॒र्वम् । 21) य॒था॒पू॒र्व मुपोप॑ यथापू॒र्वं-यँ॑थापू॒र्व मुप॑ । 21) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । 22) उपै᳚त्ये॒त्युपोपै॑ति । 23) ए॒ति॒ य-द्यदे᳚त्येति॒ यत् । 24) य-त्पू॒तीकैः᳚ पू॒तीकै॒-र्य-द्य-त्पू॒तीकैः᳚ । 25) पू॒तीकै᳚-र्वा वा पू॒तीकैः᳚ पू॒तीकै᳚-र्वा । 26) वा॒ प॒र्ण॒व॒ल्कैः प॑र्णव॒ल्कै-र्वा॑ वा पर्णव॒ल्कैः । 27) प॒र्ण॒व॒ल्कै-र्वा॑ वा पर्णव॒ल्कैः प॑र्णव॒ल्कै-र्वा᳚ । 27) प॒र्ण॒व॒ल्कैरिति॑ पर्ण - व॒ल्कैः । 28) वा॒ ऽऽत॒ञ्च्या दा॑त॒ञ्च्या-द्वा॑ वा ऽऽत॒ञ्च्यात् । 29) आ॒त॒ञ्च्या-थ्सौ॒म्यग्ं सौ॒म्य मा॑त॒ञ्च्या दा॑त॒ञ्च्या-थ्सौ॒म्यम् । 29) आ॒त॒ञ्च्यादित्या᳚ - त॒ञ्च्यात् । 30) सौ॒म्य-न्त-त्त-थ्सौ॒म्यग्ं सौ॒म्य-न्तत् । 31) त-द्य-द्य-त्त-त्त-द्यत् । 32) य-त्क्व॑लैः॒ क्व॑लै॒-र्य-द्य-त्क्व॑लैः । 33) क्व॑लै राक्ष॒सग्ं रा᳚क्ष॒स-ङ्क्व॑लैः॒ क्व॑लै राक्ष॒सम् । 34) रा॒क्ष॒स-न्त-त्त-द्रा᳚क्ष॒सग्ं रा᳚क्ष॒स-न्तत् । 35) त-द्य-द्य-त्त-त्त-द्यत् । 36) य-त्त॑ण्डु॒लै स्त॑ण्डु॒लै-र्य-द्य-त्त॑ण्डु॒लैः । 37) त॒ण्डु॒लै-र्वै᳚श्वदे॒वं-वैँ᳚श्वदे॒व-न्त॑ण्डु॒लै स्त॑ण्डु॒लै-र्वै᳚श्वदे॒वम् । 38) वै॒श्व॒दे॒व-न्त-त्त-द्वै᳚श्वदे॒वं-वैँ᳚श्वदे॒व-न्तत् । 38) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 39) त-द्य-द्य-त्त-त्त-द्यत् । 40) यदा॒तञ्च॑नेना॒ तञ्च॑नेन॒ य-द्यदा॒तञ्च॑नेन । 41) आ॒तञ्च॑नेन मानु॒ष-म्मा॑नु॒ष मा॒तञ्च॑नेना॒ तञ्च॑नेन मानु॒षम् । 41) आ॒तञ्च॑ने॒नेत्या᳚ - तञ्च॑नेन । 42) मा॒नु॒ष-न्त-त्त-न्मा॑नु॒ष-म्मा॑नु॒ष-न्तत् । 43) त-द्य-द्य-त्त-त्त-द्यत् । 44) य-द्द॒द्ध्ना द॒द्ध्ना य-द्य-द्द॒द्ध्ना । 45) द॒द्ध्ना त-त्त-द्द॒द्ध्ना द॒द्ध्ना तत् । 46) त-थ्सेन्द्र॒ग्ं॒ सेन्द्र॒-न्त-त्त-थ्सेन्द्र᳚म् । 47) सेन्द्र॑-न्द॒द्ध्ना द॒द्ध्ना सेन्द्र॒ग्ं॒ सेन्द्र॑-न्द॒द्ध्ना । 47) सेन्द्र॒मिति॒ स - इ॒न्द्र॒म् । 48) द॒द्ध्ना ऽऽत॑नक्ति तन॒क्त्या द॒द्ध्ना द॒द्ध्ना ऽऽत॑नक्ति । 49) आ त॑नक्ति तन॒क्त्या त॑नक्ति । 50) त॒न॒क्ति॒ से॒न्द्र॒त्वाय॑ सेन्द्र॒त्वाय॑ तनक्ति तनक्ति सेन्द्र॒त्वाय॑ । ॥ 19 ॥ (50/57)
1) से॒न्द्र॒त्वाया᳚ ग्निहोत्रोच्छेष॒ण म॑ग्निहोत्रोच्छेष॒णग्ं से᳚न्द्र॒त्वाय॑ सेन्द्र॒त्वाया᳚ ग्निहोत्रोच्छेष॒णम् । 1) से॒न्द्र॒त्वायेति॑ सेन्द्र - त्वाय॑ । 2) अ॒ग्नि॒हो॒त्रो॒च्छे॒ष॒ण म॒भ्यात॑न-क्त्य॒भ्यात॑न-क्त्यग्निहोत्रोच्छेष॒ण म॑ग्निहोत्रोच्छेष॒ण म॒भ्यात॑नक्ति । 2) अ॒ग्नि॒हो॒त्रो॒च्छे॒ष॒णमित्य॑ग्निहोत्र - उ॒च्छे॒ष॒णम् । 3) अ॒भ्यात॑नक्ति य॒ज्ञस्य॑ य॒ज्ञस्या॒ भ्यात॑न-क्त्य॒भ्यात॑नक्ति य॒ज्ञस्य॑ । 3) अ॒भ्यात॑न॒क्तीत्य॑भि - आत॑नक्ति । 4) य॒ज्ञस्य॒ सन्त॑त्यै॒ सन्त॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ सन्त॑त्यै । 5) सन्त॑त्या॒ इन्द्र॒ इन्द्र॒-स्सन्त॑त्यै॒ सन्त॑त्या॒ इन्द्रः॑ । 5) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । 6) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 7) वृ॒त्रग्ं ह॒त्वा ह॒त्वा वृ॒त्रं-वृँ॒त्रग्ं ह॒त्वा । 8) ह॒त्वा परा॒-म्पराग्ं॑ ह॒त्वा ह॒त्वा परा᳚म् । 9) परा᳚-म्परा॒वत॑-म्परा॒वत॒-म्परा॒-म्परा᳚-म्परा॒वत᳚म् । 10) प॒रा॒वत॑ मगच्छ दगच्छ-त्परा॒वत॑-म्परा॒वत॑ मगच्छत् । 10) प॒रा॒वत॒मिति॑ परा - वत᳚म् । 11) अ॒ग॒च्छ॒ दपापा॑गच्छ दगच्छ॒दप॑ । 12) अपा॑राध मराध॒ मपापा॑राधम् । 13) अ॒रा॒ध॒ मितीत्य॑राध मराध॒ मिति॑ । 14) इति॒ मन्य॑मानो॒ मन्य॑मान॒ इतीति॒ मन्य॑मानः । 15) मन्य॑मान॒ स्त-न्त-म्मन्य॑मानो॒ मन्य॑मान॒ स्तम् । 16) त-न्दे॒वता॑ दे॒वता॒ स्त-न्त-न्दे॒वताः᳚ । 17) दे॒वताः॒ प्रैष॒-म्प्रैष॑-न्दे॒वता॑ दे॒वताः॒ प्रैष᳚म् । 18) प्रैष॑ मैच्छ-न्नैच्छ॒-न्प्रैष॒-म्प्रैष॑ मैच्छन्न् । 18) प्रैष॒मिति॑ प्र - एष᳚म् । 19) ऐ॒च्छ॒-न्थ्स स ऐ᳚च्छ-न्नैच्छ॒-न्थ्सः । 20) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 21) अ॒ब्र॒वी॒-त्प्र॒जाप॑तिः प्र॒जाप॑ति रब्रवी दब्रवी-त्प्र॒जाप॑तिः । 22) प्र॒जाप॑ति॒-र्यो यः प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्यः । 22) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 23) यः प्र॑थ॒मः प्र॑थ॒मो यो यः प्र॑थ॒मः । 24) प्र॒थ॒मो॑ ऽनुवि॒न्द त्य॑नुवि॒न्दति॑ प्रथ॒मः प्र॑थ॒मो॑ ऽनुवि॒न्दति॑ । 25) अ॒नु॒वि॒न्दति॒ तस्य॒ तस्या॑नुवि॒न्द त्य॑नुवि॒न्दति॒ तस्य॑ । 25) अ॒नु॒वि॒न्दतीत्य॑नु - वि॒न्दति॑ । 26) तस्य॑ प्रथ॒म-म्प्र॑थ॒म-न्तस्य॒ तस्य॑ प्रथ॒मम् । 27) प्र॒थ॒म-म्भा॑ग॒धेय॑-म्भाग॒धेय॑-म्प्रथ॒म-म्प्र॑थ॒म-म्भा॑ग॒धेय᳚म् । 28) भा॒ग॒धेय॒ मितीति॑ भाग॒धेय॑-म्भाग॒धेय॒ मिति॑ । 28) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 29) इति॒ त-न्त मितीति॒ तम् । 30) त-म्पि॒तरः॑ पि॒तर॒ स्त-न्त-म्पि॒तरः॑ । 31) पि॒तरो ऽन्वनु॑ पि॒तरः॑ पि॒तरो ऽनु॑ । 32) अन्व॑विन्द-न्नविन्द॒-न्नन्वन्व॑विन्दन्न् । 33) अ॒वि॒न्द॒-न्तस्मा॒-त्तस्मा॑ दविन्द-न्नविन्द॒-न्तस्मा᳚त् । 34) तस्मा᳚-त्पि॒तृभ्यः॑ पि॒तृभ्य॒ स्तस्मा॒-त्तस्मा᳚-त्पि॒तृभ्यः॑ । 35) पि॒तृभ्यः॑ पूर्वे॒द्युः पू᳚र्वे॒द्युः पि॒तृभ्यः॑ पि॒तृभ्यः॑ पूर्वे॒द्युः । 35) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । 36) पू॒र्वे॒द्युः क्रि॑यते क्रियते पूर्वे॒द्युः पू᳚र्वे॒द्युः क्रि॑यते । 37) क्रि॒य॒ते॒ स स क्रि॑यते क्रियते॒ सः । 38) सो॑ ऽमावा॒स्या॑ ममावा॒स्याग्ं॑ स सो॑ ऽमावा॒स्या᳚म् । 39) अ॒मा॒वा॒स्या᳚-म्प्रति॒ प्रत्य॑मावा॒स्या॑ ममावा॒स्या᳚-म्प्रति॑ । 39) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् । 40) प्रत्या प्रति॒ प्रत्या । 41) आ ऽग॑च्छ दगच्छ॒दा ऽग॑च्छत् । 42) अ॒ग॒च्छ॒-त्त-न्त म॑गच्छ दगच्छ॒-त्तम् । 43) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः । 44) दे॒वा अ॒भ्य॑भि दे॒वा दे॒वा अ॒भि । 45) अ॒भि सग्ं स म॒भ्य॑भि सम् । 46) स म॑गच्छन्ता गच्छन्त॒ सग्ं स म॑गच्छन्त । 47) अ॒ग॒च्छ॒न्ता॒मा ऽमा ऽग॑च्छन्ता गच्छन्ता॒मा । 48) अ॒मा वै वा अ॒मा ऽमा वै । 49) वै नो॑ नो॒ वै वै नः॑ । 50) नो॒ ऽद्याद्य नो॑ नो॒ ऽद्य । ॥ 20 ॥ (50/61)
1) अ॒द्य वसु॒ वस्व॒द्याद्य वसु॑ । 2) वसु॑ वसति वसति॒ वसु॒ वसु॑ वसति । 3) व॒स॒तीतीति॑ वसति वस॒तीति॑ । 4) इतीन्द्र॒ इन्द्र॒ इतीतीन्द्रः॑ । 5) इन्द्रो॒ हि हीन्द्र॒ इन्द्रो॒ हि । 6) हि दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हि हि दे॒वाना᳚म् । 7) दे॒वानां॒-वँसु॒ वसु॑ दे॒वाना᳚-न्दे॒वानां॒-वँसु॑ । 8) वसु॒ त-त्त-द्वसु॒ वसु॒ तत् । 9) तद॑मावा॒स्या॑या अमावा॒स्या॑या॒स्त-त्तद॑मावा॒स्या॑याः । 10) अ॒मा॒वा॒स्या॑या अमावास्य॒त्व म॑मावास्य॒त्व म॑मावा॒स्या॑या अमावा॒स्या॑या अमावास्य॒त्वम् । 10) अ॒मा॒वा॒स्या॑या॒ इत्य॑मा - वा॒स्या॑याः । 11) अ॒मा॒वा॒स्य॒त्व-म्ब्र॑ह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ ऽमावास्य॒त्व म॑मावास्य॒त्व-म्ब्र॑ह्मवा॒दिनः॑ । 11) अ॒मा॒वा॒स्य॒त्वमित्य॑मावास्य - त्वम् । 12) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 12) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 13) व॒द॒न्ति॒ कि॒न्दे॒व॒त्य॑-ङ्किन्देव॒त्यं॑-वँदन्ति वदन्ति किन्देव॒त्य᳚म् । 14) कि॒न्दे॒व॒त्यग्ं॑ सान्ना॒य्यग्ं सा᳚न्ना॒य्य-ङ्कि॑न्देव॒त्य॑-ङ्किन्देव॒त्यग्ं॑ सान्ना॒य्यम् । 14) कि॒न्दे॒व॒त्य॑मिति॑ किं - दे॒व॒त्य᳚म् । 15) सा॒न्ना॒य्य मितीति॑ सान्ना॒य्यग्ं सा᳚न्ना॒य्य मिति॑ । 15) सा॒न्ना॒य्यमिति॑ सां - ना॒य्यम् । 16) इति॑ वैश्वदे॒वं-वैँ᳚श्वदे॒व मितीति॑ वैश्वदे॒वम् । 17) वै॒श्व॒दे॒व मितीति॑ वैश्वदे॒वं-वैँ᳚श्वदे॒व मिति॑ । 17) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 18) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् । 19) ब्रू॒या॒-द्विश्वे॒ विश्वे᳚ ब्रूया-द्ब्रूया॒-द्विश्वे᳚ । 20) विश्वे॒ हि हि विश्वे॒ विश्वे॒ हि । 21) हि त-त्तद्धि हि तत् । 22) त-द्दे॒वा दे॒वा स्त-त्त-द्दे॒वाः । 23) दे॒वा भा॑ग॒धेय॑-म्भाग॒धेय॑-न्दे॒वा दे॒वा भा॑ग॒धेय᳚म् । 24) भा॒ग॒धेय॑ म॒भ्य॑भि भा॑ग॒धेय॑-म्भाग॒धेय॑ म॒भि । 24) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 25) अ॒भि स॒मग॑च्छन्त स॒मग॑च्छन्ता॒भ्य॑भि स॒मग॑च्छन्त । 26) स॒मग॑च्छ॒न्ते तीति॑ स॒मग॑च्छन्त स॒मग॑च्छ॒न्ते ति॑ । 26) स॒मग॑च्छ॒न्तेति॑ सं - अग॑च्छन्त । 27) इत्यथो॒ अथो॒ इतीत्यथो᳚ । 28) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 28) अथो॒ इत्यथो᳚ । 29) खल्वै॒न्द्र मै॒न्द्र-ङ्खलु॒ खल्वै॒न्द्रम् । 30) ऐ॒न्द्र मितीत्यै॒न्द्र मै॒न्द्र मिति॑ । 31) इत्ये॒वैवे तीत्ये॒व । 32) ए॒व ब्रू॑या-द्ब्रूया दे॒वैव ब्रू॑यात् । 33) ब्रू॒या॒ दिन्द्र॒ मिन्द्र॑-म्ब्रूया-द्ब्रूया॒ दिन्द्र᳚म् । 34) इन्द्रं॒-वाँव वावे न्द्र॒ मिन्द्रं॒-वाँव । 35) वाव ते ते वाव वाव ते । 36) ते त-त्त-त्ते ते तत् । 37) त-द्भि॑ष॒ज्यन्तो॑ भिष॒ज्यन्त॒ स्त-त्त-द्भि॑ष॒ज्यन्तः॑ । 38) भि॒ष॒ज्यन्तो॒ ऽभ्य॑भि भि॑ष॒ज्यन्तो॑ भिष॒ज्यन्तो॒ ऽभि । 39) अ॒भि सग्ं स म॒भ्य॑भि सम् । 40) स म॑गच्छन्ता गच्छन्त॒ सग्ं स म॑गच्छन्त । 41) अ॒ग॒च्छ॒न्ते तीत्य॑गच्छन्ता गच्छ॒न्ते ति॑ । 42) इतीतीति॑ । ॥ 21 ॥ (42/51) ॥ अ. 3 ॥
1) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 1) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 2) व॒द॒न्ति॒ स स व॑दन्ति वदन्ति॒ सः । 3) स तु तु स स तु । 4) त्वै वै तु त्वै । 5) वै द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वै वै द॑र्शपूर्णमा॒सौ । 6) द॒र्॒श॒पू॒र्ण॒मा॒सौ य॑जेत यजेत दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य॑जेत । 6) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 7) य॒जे॒त॒ यो यो य॑जेत यजेत॒ यः । 8) य ए॑ना वेनौ॒ यो य ए॑नौ । 9) ए॒नौ॒ सेन्द्रौ॒ सेन्द्रा॑ वेना वेनौ॒ सेन्द्रौ᳚ । 10) सेन्द्रौ॒ यजे॑त॒ यजे॑त॒ सेन्द्रौ॒ सेन्द्रौ॒ यजे॑त । 10) सेन्द्रा॒विति॒ स - इ॒न्द्रौ॒ । 11) यजे॒ते तीति॒ यजे॑त॒ यजे॒ते ति॑ । 12) इति॑ वैमृ॒धो वै॑मृ॒ध इतीति॑ वैमृ॒धः । 13) वै॒मृ॒धः पू॒र्णमा॑से पू॒र्णमा॑से वैमृ॒धो वै॑मृ॒धः पू॒र्णमा॑से । 14) पू॒र्णमा॑से ऽनुनिर्वा॒प्यो॑ ऽनुनिर्वा॒प्यः॑ पू॒र्णमा॑से पू॒र्णमा॑से ऽनुनिर्वा॒प्यः॑ । 14) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । 15) अ॒नु॒नि॒र्वा॒प्यो॑ भवति भव त्यनुनिर्वा॒प्यो॑ ऽनुनिर्वा॒प्यो॑ भवति । 15) अ॒नु॒नि॒र्वा॒प्य॑ इत्य॑नु - नि॒र्वा॒प्यः॑ । 16) भ॒व॒ति॒ तेन॒ तेन॑ भवति भवति॒ तेन॑ । 17) तेन॑ पू॒र्णमा॑सः पू॒र्णमा॑स॒ स्तेन॒ तेन॑ पू॒र्णमा॑सः । 18) पू॒र्णमा॑स॒-स्सेन्द्र॒-स्सेन्द्रः॑ पू॒र्णमा॑सः पू॒र्णमा॑स॒-स्सेन्द्रः॑ । 18) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒सः॒ । 19) सेन्द्र॑ ऐ॒न्द्र मै॒न्द्रग्ं सेन्द्र॒-स्सेन्द्र॑ ऐ॒न्द्रम् । 19) सेन्द्र॒ इति॒ स - इ॒न्द्रः॒ । 20) ऐ॒न्द्र-न्दधि॒ दध्यै॒न्द्र मै॒न्द्र-न्दधि॑ । 21) दध्य॑मावा॒स्या॑या ममावा॒स्या॑या॒-न्दधि॒ दध्य॑मावा॒स्या॑याम् । 22) अ॒मा॒वा॒स्या॑या॒-न्तेन॒ तेना॑मावा॒स्या॑या ममावा॒स्या॑या॒-न्तेन॑ । 22) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । 23) तेना॑मावा॒स्या॑ ऽमावा॒स्या॑ तेन॒ तेना॑मावा॒स्या᳚ । 24) अ॒मा॒वा॒स्या॑ सेन्द्रा॒ सेन्द्रा॑ ऽमावा॒स्या॑ ऽमावा॒स्या॑ सेन्द्रा᳚ । 24) अ॒मा॒वा॒स्येत्य॑मा - वा॒स्या᳚ । 25) सेन्द्रा॒ यो य-स्सेन्द्रा॒ सेन्द्रा॒ यः । 25) सेन्द्रेति॒ स - इ॒न्द्रा॒ । 26) य ए॒व मे॒वं-योँ य ए॒वम् । 27) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 28) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ । 29) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते । 29) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 30) यज॑ते॒ सेन्द्रौ॒ सेन्द्रौ॒ यज॑ते॒ यज॑ते॒ सेन्द्रौ᳚ । 31) सेन्द्रा॑ वे॒वैव सेन्द्रौ॒ सेन्द्रा॑ वे॒व । 31) सेन्द्रा॒विति॒ स - इ॒न्द्रौ॒ । 32) ए॒वैना॑ वेना वे॒वैवैनौ᳚ । 33) ए॒नौ॒ य॒ज॒ते॒ य॒ज॒त॒ ए॒ना॒ वे॒नौ॒ य॒ज॒ते॒ । 34) य॒ज॒ते॒ श्वस्श्व॒-श्श्वस्श्वो॑ यजते यजते॒ श्वस्श्वः॑ । 35) श्वस्श्वो᳚ ऽस्मा अस्मै॒ श्वस्श्व॒-श्श्वस्श्वो᳚ ऽस्मै । 35) श्वस्श्व॒ इति॒ श्वः - श्वः॒ । 36) अ॒स्मा॒ ई॒जा॒नाये॑ जा॒नाया᳚स्मा अस्मा ईजा॒नाय॑ । 37) ई॒जा॒नाय॒ वसी॑यो॒ वसी॑य ईजा॒नाये॑ जा॒नाय॒ वसी॑यः । 38) वसी॑यो भवति भवति॒ वसी॑यो॒ वसी॑यो भवति । 39) भ॒व॒ति॒ दे॒वा दे॒वा भ॑वति भवति दे॒वाः । 40) दे॒वा वै वै दे॒वा दे॒वा वै । 41) वै य-द्य-द्वै वै यत् । 42) य-द्य॒ज्ञे य॒ज्ञे य-द्य-द्य॒ज्ञे । 43) य॒ज्ञे ऽकु॑र्व॒ता कु॑र्वत य॒ज्ञे य॒ज्ञे ऽकु॑र्वत । 44) अकु॑र्वत॒ त-त्तदकु॑र्व॒ता कु॑र्वत॒ तत् । 45) तदसु॑रा॒ असु॑रा॒ स्त-त्तदसु॑राः । 46) असु॑रा अकुर्वता कुर्व॒ता सु॑रा॒ असु॑रा अकुर्वत । 47) अ॒कु॒र्व॒त॒ ते ते॑ ऽकुर्वता कुर्वत॒ ते । 48) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 49) दे॒वा ए॒ता मे॒ता-न्दे॒वा दे॒वा ए॒ताम् । 50) ए॒ता मिष्टि॒ मिष्टि॑ मे॒ता मे॒ता मिष्टि᳚म् । ॥ 22 ॥ (50/63)
1) इष्टि॑ मपश्य-न्नपश्य॒-न्निष्टि॒ मिष्टि॑ मपश्यन्न् । 2) अ॒प॒श्य॒-न्ना॒ग्ना॒वै॒ष्ण॒व मा᳚ग्नावैष्ण॒व म॑पश्य-न्नपश्य-न्नाग्नावैष्ण॒वम् । 3) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् । 3) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् । 4) एका॑दशकपाल॒ग्ं॒ सर॑स्वत्यै॒ सर॑स्वत्या॒ एका॑दशकपाल॒ मेका॑दशकपाल॒ग्ं॒ सर॑स्वत्यै । 4) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 5) सर॑स्वत्यै च॒रु-ञ्च॒रुग्ं सर॑स्वत्यै॒ सर॑स्वत्यै च॒रुम् । 6) च॒रुग्ं सर॑स्वते॒ सर॑स्वते च॒रु-ञ्च॒रुग्ं सर॑स्वते । 7) सर॑स्वते च॒रु-ञ्च॒रुग्ं सर॑स्वते॒ सर॑स्वते च॒रुम् । 8) च॒रु-न्ता-न्ता-ञ्च॒रु-ञ्च॒रु-न्ताम् । 9) ता-म्पौ᳚र्णमा॒स-म्पौ᳚र्णमा॒स-न्ता-न्ता-म्पौ᳚र्णमा॒सम् । 10) पौ॒र्ण॒मा॒सग्ं स॒ग्ग्॒स्थाप्य॑ स॒ग्ग्॒स्थाप्य॑ पौर्णमा॒स-म्पौ᳚र्णमा॒सग्ं स॒ग्ग्॒स्थाप्य॑ । 10) पौ॒र्ण॒मा॒समिति॑ पौर्ण - मा॒सम् । 11) स॒ग्ग्॒स्थाप्यान्वनु॑ स॒ग्ग्॒स्थाप्य॑ स॒ग्ग्॒स्थाप्यानु॑ । 11) स॒ग्ग्॒स्थाप्येति॑ सं - स्थाप्य॑ । 12) अनु॒ नि-र्णि रन्वनु॒ निः । 13) निर॑वप-न्नवप॒-न्नि-र्णिर॑वपन्न् । 14) अ॒व॒प॒-न्तत॒ स्ततो॑ ऽवप-न्नवप॒-न्ततः॑ । 15) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः । 16) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् । 17) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ । 18) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः । 19) असु॑रा॒ यो यो ऽसु॑रा॒ असु॑रा॒ यः । 20) यो भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒न्॒. यो यो भ्रातृ॑व्यवान् । 21) भ्रातृ॑व्यवा॒-न्थ्स्या-थ्स्या-द्भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒-न्थ्स्यात् । 21) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । 22) स्या-थ्स स स्या-थ्स्या-थ्सः । 23) स पौ᳚र्णमा॒स-म्पौ᳚र्णमा॒सग्ं स स पौ᳚र्णमा॒सम् । 24) पौ॒र्ण॒मा॒सग्ं स॒ग्ग्॒स्थाप्य॑ स॒ग्ग्॒स्थाप्य॑ पौर्णमा॒स-म्पौ᳚र्णमा॒सग्ं स॒ग्ग्॒स्थाप्य॑ । 24) पौ॒र्ण॒मा॒समिति॑ पौर्ण - मा॒सम् । 25) स॒ग्ग्॒स्थाप्यै॒ता मे॒ताग्ं स॒ग्ग्॒स्थाप्य॑ स॒ग्ग्॒स्थाप्यै॒ताम् । 25) स॒ग्ग्॒स्थाप्येति॑ सं - स्थाप्य॑ । 26) ए॒ता मिष्टि॒ मिष्टि॑ मे॒ता मे॒ता मिष्टि᳚म् । 27) इष्टि॒ मन्वन्विष्टि॒ मिष्टि॒ मनु॑ । 28) अनु॒ नि-र्णिरन्वनु॒ निः । 29) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 30) व॒पे॒-त्पौ॒र्ण॒मा॒सेन॑ पौर्णमा॒सेन॑ वपे-द्वपे-त्पौर्णमा॒सेन॑ । 31) पौ॒र्ण॒मा॒सेनै॒वैव पौ᳚र्णमा॒सेन॑ पौर्णमा॒सेनै॒व । 31) पौ॒र्ण॒मा॒सेनेति॑ पौर्ण - मा॒सेन॑ । 32) ए॒व वज्रं॒-वँज्र॑ मे॒वैव वज्र᳚म् । 33) वज्र॒-म्भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ वज्रं॒-वँज्र॒-म्भ्रातृ॑व्याय । 34) भ्रातृ॑व्याय प्र॒हृत्य॑ प्र॒हृत्य॒ भ्रातृ॑व्याय॒ भ्रातृ॑व्याय प्र॒हृत्य॑ । 35) प्र॒हृत्या᳚ग्नावैष्ण॒वेना᳚ ग्नावैष्ण॒वेन॑ प्र॒हृत्य॑ प्र॒हृत्या᳚ग्नावैष्ण॒वेन॑ । 35) प्र॒हृत्येति॑ प्र - हृत्य॑ । 36) आ॒ग्ना॒वै॒ष्ण॒वेन॑ दे॒वता॑ दे॒वता॑ आग्नावैष्ण॒वेना᳚ ग्नावैष्ण॒वेन॑ दे॒वताः᳚ । 36) आ॒ग्ना॒वै॒ष्ण॒वेनेत्या᳚ग्ना - वै॒ष्ण॒वेन॑ । 37) दे॒वता᳚श्च च दे॒वता॑ दे॒वता᳚श्च । 38) च॒ य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ च य॒ज्ञम् । 39) य॒ज्ञ-ञ्च॑ च य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ । 40) च॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य च च॒ भ्रातृ॑व्यस्य । 41) भ्रातृ॑व्यस्य वृङ्क्ते वृङ्क्ते॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वृङ्क्ते । 42) वृ॒ङ्क्ते॒ मि॒थु॒ना-न्मि॑थु॒नान् वृ॑ङ्क्ते वृङ्क्ते मिथु॒नान् । 43) मि॒थु॒ना-न्प॒शू-न्प॒शू-न्मि॑थु॒ना-न्मि॑थु॒ना-न्प॒शून् । 44) प॒शू-न्थ्सा॑रस्व॒ताभ्याग्ं॑ सारस्व॒ताभ्या᳚-म्प॒शू-न्प॒शू-न्थ्सा॑रस्व॒ताभ्या᳚म् । 45) सा॒र॒स्व॒ताभ्यां॒-याँव॒-द्याव॑-थ्सारस्व॒ताभ्याग्ं॑ सारस्व॒ताभ्यां॒-याँव॑त् । 46) याव॑दे॒वैव याव॒-द्याव॑दे॒व । 47) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 48) अ॒स्यास्त्य स्त्य॑स्या॒स्यास्ति॑ । 49) अस्ति॒ त-त्तदस्त्यस्ति॒ तत् । 50) त-थ्सर्व॒ग्ं॒ सर्व॒-न्त-त्त-थ्सर्व᳚म् । ॥ 23 ॥ (50/60)
1) सर्वं॑-वृँङ्क्ते वृङ्क्ते॒ सर्व॒ग्ं॒ सर्वं॑-वृँङ्क्ते । 2) वृ॒ङ्क्ते॒ पौ॒र्ण॒मा॒सी-म्पौ᳚र्णमा॒सीं-वृँ॑ङ्क्ते वृङ्क्ते पौर्णमा॒सीम् । 3) पौ॒र्ण॒मा॒सी मे॒वैव पौ᳚र्णमा॒सी-म्पौ᳚र्णमा॒सी मे॒व । 3) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् । 4) ए॒व य॑जेत यजेतै॒वैव य॑जेत । 5) य॒जे॒त॒ भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवान्. यजेत यजेत॒ भ्रातृ॑व्यवान् । 6) भ्रातृ॑व्यवा॒-न्न न भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒-न्न । 6) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । 7) नामा॑वा॒स्या॑ ममावा॒स्या᳚-न्न नामा॑वा॒स्या᳚म् । 8) अ॒मा॒वा॒स्याग्ं॑ ह॒त्वा ह॒त्वा ऽमा॑वा॒स्या॑ ममावा॒स्याग्ं॑ ह॒त्वा । 8) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् । 9) ह॒त्वा भ्रातृ॑व्य॒-म्भ्रातृ॑व्यग्ं ह॒त्वा ह॒त्वा भ्रातृ॑व्यम् । 10) भ्रातृ॑व्य॒-न्न न भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-न्न । 11) ना न ना । 12) आ प्या॑ययति प्यायय॒त्या प्या॑ययति । 13) प्या॒य॒य॒ति॒ सा॒क॒म्प्र॒स्था॒यीये॑न साकम्प्रस्था॒यीये॑न प्याययति प्याययति साकम्प्रस्था॒यीये॑न । 14) सा॒क॒म्प्र॒स्था॒यीये॑न यजेत यजेत साकम्प्रस्था॒यीये॑न साकम्प्रस्था॒यीये॑न यजेत । 14) सा॒क॒म्प्र॒स्था॒यीये॒नेति॑ साकं - प्र॒स्था॒यीये॑न । 15) य॒जे॒त॒ प॒शुका॑मः प॒शुका॑मो यजेत यजेत प॒शुका॑मः । 16) प॒शुका॑मो॒ यस्मै॒ यस्मै॑ प॒शुका॑मः प॒शुका॑मो॒ यस्मै᳚ । 16) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । 17) यस्मै॒ वै वै यस्मै॒ यस्मै॒ वै । 18) वा अल्पे॒ना ल्पे॑न॒ वै वा अल्पे॑न । 19) अल्पे॑ना॒ हर॑ न्त्या॒हर॒ न्त्यल्पे॒ना ल्पे॑ना॒ हर॑न्ति । 20) आ॒हर॑न्ति॒ न नाहर॑ न्त्या॒हर॑न्ति॒ न । 20) आ॒हर॒न्तीत्या᳚ - हर॑न्ति । 21) नात्मना॒ ऽऽत्मना॒ न नात्मना᳚ । 22) आ॒त्मना॒ तृप्य॑ति॒ तृप्य॑ त्या॒त्मना॒ ऽऽत्मना॒ तृप्य॑ति । 23) तृप्य॑ति॒ न न तृप्य॑ति॒ तृप्य॑ति॒ न । 24) नान्यस्मा॑ अ॒न्यस्मै॒ न नान्यस्मै᳚ । 25) अ॒न्यस्मै॑ ददाति ददा त्य॒न्यस्मा॑ अ॒न्यस्मै॑ ददाति । 26) द॒दा॒ति॒ यस्मै॒ यस्मै॑ ददाति ददाति॒ यस्मै᳚ । 27) यस्मै॑ मह॒ता म॑ह॒ता यस्मै॒ यस्मै॑ मह॒ता । 28) म॒ह॒ता तृप्य॑ति॒ तृप्य॑ति मह॒ता म॑ह॒ता तृप्य॑ति । 29) तृप्य॑ त्या॒त्मना॒ ऽऽत्मना॒ तृप्य॑ति॒ तृप्य॑ त्या॒त्मना᳚ । 30) आ॒त्मना॒ ददा॑ति॒ ददा᳚ त्या॒त्मना॒ ऽऽत्मना॒ ददा॑ति । 31) ददा᳚ त्य॒न्यस्मा॑ अ॒न्यस्मै॒ ददा॑ति॒ ददा᳚ त्य॒न्यस्मै᳚ । 32) अ॒न्यस्मै॑ मह॒ता म॑ह॒ता ऽन्यस्मा॑ अ॒न्यस्मै॑ मह॒ता । 33) म॒ह॒ता पू॒र्ण-म्पू॒र्ण-म्म॑ह॒ता म॑ह॒ता पू॒र्णम् । 34) पू॒र्णग्ं हो॑त॒व्यग्ं॑ होत॒व्य॑-म्पू॒र्ण-म्पू॒र्णग्ं हो॑त॒व्य᳚म् । 35) हो॒त॒व्य॑-न्तृ॒प्त स्तृ॒प्तो हो॑त॒व्यग्ं॑ होत॒व्य॑-न्तृ॒प्तः । 36) तृ॒प्त ए॒वैव तृ॒प्त स्तृ॒प्त ए॒व । 37) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 38) ए॒न॒ मिन्द्र॒ इन्द्र॑ एण मेन॒ मिन्द्रः॑ । 39) इन्द्रः॑ प्र॒जया᳚ प्र॒जयेन्द्र॒ इन्द्रः॑ प्र॒जया᳚ । 40) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 40) प्र॒जयेति॑ प्र - जया᳚ । 41) प॒शुभि॑ स्तर्पयति तर्पयति प॒शुभिः॑ प॒शुभि॑ स्तर्पयति । 41) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 42) त॒र्प॒य॒ति॒ दा॒रु॒पा॒त्रेण॑ दारुपा॒त्रेण॑ तर्पयति तर्पयति दारुपा॒त्रेण॑ । 43) दा॒रु॒पा॒त्रेण॑ जुहोति जुहोति दारुपा॒त्रेण॑ दारुपा॒त्रेण॑ जुहोति । 43) दा॒रु॒पा॒त्रेणेति॑ दारु - पा॒त्रेण॑ । 44) जु॒हो॒ति॒ न न जु॑होति जुहोति॒ न । 45) न हि हि न न हि । 46) हि मृ॒न्मय॑-म्मृ॒न्मय॒ग्ं॒ हि हि मृ॒न्मय᳚म् । 47) मृ॒न्मय॒ माहु॑ति॒ माहु॑ति-म्मृ॒न्मय॑-म्मृ॒न्मय॒ माहु॑तिम् । 47) मृ॒न्मय॒मिति॑ मृत् - मय᳚म् । 48) आहु॑ति मान॒श आ॑न॒श आहु॑ति॒ माहु॑ति मान॒शे । 48) आहु॑ति॒मित्या - हु॒ति॒म् । 49) आ॒न॒श औदु॑म्बर॒ मौदु॑म्बर मान॒श आ॑न॒श औदु॑म्बरम् । 50) औदु॑म्बर-म्भवति भव॒त्यौदु॑म्बर॒ मौदु॑म्बर-म्भवति । ॥ 24 ॥ (50/61)
1) भ॒व॒ त्यू-र्गूर्ग् भ॑वति भव॒ त्यूर्क् । 2) ऊर्ग् वै वा ऊ-र्गूर्ग् वै । 3) वा उ॑दु॒म्बर॑ उदु॒म्बरो॒ वै वा उ॑दु॒म्बरः॑ । 4) उ॒दु॒म्बर॒ ऊ-र्गू-र्गु॑दु॒म्बर॑ उदु॒म्बर॒ ऊर्क् । 5) ऊर्-क्प॒शवः॑ प॒शव॒ ऊ-र्गूर्-क्प॒शवः॑ । 6) प॒शव॑ ऊ॒र्जोर्जा प॒शवः॑ प॒शव॑ ऊ॒र्जा । 7) ऊ॒र्जैवैवो र्जोर्जैव । 8) ए॒वा स्मा॑ अस्मा ए॒वैवा स्मै᳚ । 9) अ॒स्मा॒ ऊर्ज॒ मूर्ज॑ मस्मा अस्मा॒ ऊर्ज᳚म् । 10) ऊर्ज॑-म्प॒शू-न्प॒शू नूर्ज॒ मूर्ज॑-म्प॒शून् । 11) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 12) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 13) रु॒न्धे॒ न न रु॑न्धे रुन्धे॒ न । 14) नाग॑तश्री॒ रग॑तश्री॒-र्न नाग॑तश्रीः । 15) अग॑तश्री-र्महे॒न्द्र-म्म॑हे॒न्द्र मग॑तश्री॒ रग॑तश्री-र्महे॒न्द्रम् । 15) अग॑तश्री॒रित्यग॑त - श्रीः॒ । 16) म॒हे॒न्द्रं-यँ॑जेत यजेत महे॒न्द्र-म्म॑हे॒न्द्रं-यँ॑जेत । 16) म॒हे॒न्द्रमिति॑ महा - इ॒न्द्रम् । 17) य॒जे॒त॒ त्रय॒ स्त्रयो॑ यजेत यजेत॒ त्रयः॑ । 18) त्रयो॒ वै वै त्रय॒ स्त्रयो॒ वै । 19) वै ग॒तश्रि॑यो ग॒तश्रि॑यो॒ वै वै ग॒तश्रि॑यः । 20) ग॒तश्रि॑य-श्शुश्रु॒वा-ञ्छु॑श्रु॒वा-न्ग॒तश्रि॑यो ग॒तश्रि॑य-श्शुश्रु॒वान् । 20) ग॒तश्रि॑य॒ इति॑ ग॒त - श्रि॒यः॒ । 21) शु॒श्रु॒वा-न्ग्रा॑म॒णी-र्ग्रा॑म॒णी-श्शु॑श्रु॒वा-ञ्छु॑श्रु॒वा-न्ग्रा॑म॒णीः । 22) ग्रा॒म॒णी रा॑ज॒न्यो॑ राज॒न्यो᳚ ग्राम॒णी-र्ग्रा॑म॒णी रा॑ज॒न्यः॑ । 22) ग्रा॒म॒णीरिति॑ ग्राम - नीः । 23) रा॒ज॒न्य॑ स्तेषा॒-न्तेषाग्ं॑ राज॒न्यो॑ राज॒न्य॑ स्तेषा᳚म् । 24) तेषा᳚-म्महे॒न्द्रो म॑हे॒न्द्र स्तेषा॒-न्तेषा᳚-म्महे॒न्द्रः । 25) म॒हे॒न्द्रो दे॒वता॑ दे॒वता॑ महे॒न्द्रो म॑हे॒न्द्रो दे॒वता᳚ । 25) म॒हे॒न्द्र इति॑ महा - इ॒न्द्रः । 26) दे॒वता॒ यो यो दे॒वता॑ दे॒वता॒ यः । 27) यो वै वै यो यो वै । 28) वै स्वाग् स्वां-वैँ वै स्वाम् । 29) स्वा-न्दे॒वता᳚-न्दे॒वता॒ग्॒ स्वाग् स्वा-न्दे॒वता᳚म् । 30) दे॒वता॑ मति॒यज॑ते ऽति॒यज॑ते दे॒वता᳚-न्दे॒वता॑ मति॒यज॑ते । 31) अ॒ति॒यज॑ते॒ प्र प्राति॒यज॑ते ऽति॒यज॑ते॒ प्र । 31) अ॒ति॒यज॑त॒ इत्य॑ति - यज॑ते । 32) प्र स्वायै॒ स्वायै॒ प्र प्र स्वायै᳚ । 33) स्वायै॑ दे॒वता॑यै दे॒वता॑यै॒ स्वायै॒ स्वायै॑ दे॒वता॑यै । 34) दे॒वता॑यै च्यवते च्यवते दे॒वता॑यै दे॒वता॑यै च्यवते । 35) च्य॒व॒ते॒ न न च्य॑वते च्यवते॒ न । 36) न परा॒-म्परा॒-न्न न परा᳚म् । 37) परा॒-म्प्र प्र परा॒-म्परा॒-म्प्र । 38) प्राप्नो᳚ त्याप्नोति॒ प्र प्राप्नो॑ति । 39) आ॒प्नो॒ति॒ पापी॑या॒-न्पापी॑या नाप्नो त्याप्नोति॒ पापी॑यान् । 40) पापी॑या-न्भवति भवति॒ पापी॑या॒-न्पापी॑या-न्भवति । 41) भ॒व॒ति॒ सं॒वँ॒थ्स॒रग्ं सं॑वँथ्स॒र-म्भ॑वति भवति संवँथ्स॒रम् । 42) सं॒वँ॒थ्स॒र मिन्द्र॒ मिन्द्रग्ं॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मिन्द्र᳚म् । 42) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 43) इन्द्रं॑-यँजेत यजे॒ते न्द्र॒ मिन्द्रं॑-यँजेत । 44) य॒जे॒त॒ सं॒वँ॒थ्स॒रग्ं सं॑वँथ्स॒रं-यँ॑जेत यजेत संवँथ्स॒रम् । 45) सं॒वँ॒थ्स॒रग्ं हि हि सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रग्ं हि । 45) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 46) हि व्र॒तं-व्रँ॒तग्ं हि हि व्र॒तम् । 47) व्र॒त-न्न न व्र॒तं-व्रँ॒त-न्न । 48) नात्यति॒ न नाति॑ । 49) अति॒ स्वा स्वा ऽत्यति॒ स्वा । 50) स्वैवैव स्वा स्वैव । ॥ 25 ॥ (50/58)
1) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 2) ए॒न॒-न्दे॒वता॑ दे॒वतै॑न मेन-न्दे॒वता᳚ । 3) दे॒व ते॒ज्यमा॑ ने॒ज्यमा॑ना दे॒वता॑ दे॒व ते॒ज्यमा॑ना । 4) इ॒ज्यमा॑ना॒ भूत्यै॒ भूत्या॑ इ॒ज्यमा॑ ने॒ज्यमा॑ना॒ भूत्यै᳚ । 5) भूत्या॑ इन्ध इन्धे॒ भूत्यै॒ भूत्या॑ इन्धे । 6) इ॒न्धे॒ वसी॑या॒न्॒. वसी॑या निन्ध इन्धे॒ वसी॑यान् । 7) वसी॑या-न्भवति भवति॒ वसी॑या॒न्॒. वसी॑या-न्भवति । 8) भ॒व॒ति॒ सं॒वँ॒थ्स॒रस्य॑ संवँथ्स॒रस्य॑ भवति भवति संवँथ्स॒रस्य॑ । 9) सं॒वँ॒थ्स॒रस्य॑ प॒रस्ता᳚-त्प॒रस्ता᳚-थ्संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॑ प॒रस्ता᳚त् । 9) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 10) प॒रस्ता॑द॒ग्नये॒ ऽग्नये॑ प॒रस्ता᳚-त्प॒रस्ता॑ द॒ग्नये᳚ । 11) अ॒ग्नये᳚ व्र॒तप॑तये व्र॒तप॑तये॒ ऽग्नये॒ ऽग्नये᳚ व्र॒तप॑तये । 12) व्र॒तप॑तये पुरो॒डाश॑-म्पुरो॒डाशं॑-व्रँ॒तप॑तये व्र॒तप॑तये पुरो॒डाश᳚म् । 12) व्र॒तप॑तय॒ इति॑ व्र॒त - प॒त॒ये॒ । 13) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् । 14) अ॒ष्टाक॑पाल॒-न्नि-र्णिर॒ष्टाक॑पाल म॒ष्टाक॑पाल॒-न्निः । 14) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 15) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 16) व॒पे॒-थ्सं॒वँ॒थ्स॒रग्ं सं॑वँथ्स॒रं-वँ॑पे-द्वपे-थ्संवँथ्स॒रम् । 17) सं॒वँ॒थ्स॒र मे॒वैव सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मे॒व । 17) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 18) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 19) ए॒नं॒-वृँ॒त्रं-वृँ॒त्र मे॑न मेनं-वृँ॒त्रम् । 20) वृ॒त्र-ञ्ज॑घ्नि॒वाग्ंस॑-ञ्जघ्नि॒वाग्ंसं॑-वृँ॒त्रं-वृँ॒त्र-ञ्ज॑घ्नि॒वाग्ंस᳚म् । 21) ज॒घ्नि॒वाग्ंस॑ म॒ग्नि र॒ग्नि-र्ज॑घ्नि॒वाग्ंस॑-ञ्जघ्नि॒वाग्ंस॑ म॒ग्निः । 22) अ॒ग्नि-र्व्र॒तप॑ति-र्व्र॒तप॑ति र॒ग्नि र॒ग्नि-र्व्र॒तप॑तिः । 23) व्र॒तप॑ति-र्व्र॒तं-व्रँ॒तं-व्रँ॒तप॑ति-र्व्र॒तप॑ति-र्व्र॒तम् । 23) व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ । 24) व्र॒त मा व्र॒तं-व्रँ॒त मा । 25) आ ल॑म्भयति लम्भय॒त्या ल॑म्भयति । 26) ल॒म्भ॒य॒ति॒ तत॒ स्ततो॑ लम्भयति लम्भयति॒ ततः॑ । 27) ततो ऽध्यधि॒ तत॒ स्ततो ऽधि॑ । 28) अधि॒ काम॒-ङ्काम॒ मध्यधि॒ काम᳚म् । 29) कामं॑-यँजेत यजेत॒ काम॒-ङ्कामं॑-यँजेत । 30) य॒जे॒तेति॑ यजेत । ॥ 26 ॥ (30/35) ॥ अ. 4 ॥
1) नासो॑मया॒ ज्यसो॑मयाजी॒ न नासो॑मयाजी । 2) असो॑मयाजी॒ सग्ं स मसो॑मया॒ ज्यसो॑मयाजी॒ सम् । 2) असो॑मया॒जीत्यसो॑म - या॒जी॒ । 3) स-न्न॑ये-न्नये॒-थ्सग्ं स-न्न॑येत् । 4) न॒ये॒ दना॑गत॒ मना॑गत-न्नये-न्नये॒ दना॑गतम् । 5) अना॑गतं॒-वैँ वा अना॑गत॒ मना॑गतं॒-वैँ । 5) अना॑गत॒मित्यना᳚ - ग॒त॒म् । 6) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ । 7) ए॒तस्य॒ पयः॒ पय॑ ए॒तस्यै॒तस्य॒ पयः॑ । 8) पयो॒ यो यः पयः॒ पयो॒ यः । 9) यो ऽसो॑मया॒ ज्यसो॑मयाजी॒ यो यो ऽसो॑मयाजी । 10) असो॑मयाजी॒ य-द्यदसो॑मया॒ ज्यसो॑मयाजी॒ यत् । 10) असो॑मया॒जीत्यसो॑म - या॒जी॒ । 11) यदसो॑मया॒ ज्यसो॑मयाजी॒ य-द्यदसो॑मयाजी । 12) असो॑मयाजी स॒न्नये᳚-थ्स॒न्नये॒ दसो॑मया॒ ज्यसो॑मयाजी स॒न्नये᳚त् । 12) असो॑मया॒जीत्यसो॑म - या॒जी॒ । 13) स॒न्नये᳚-त्परिमो॒षः प॑रिमो॒ष-स्स॒न्नये᳚-थ्स॒न्नये᳚-त्परिमो॒षः । 13) स॒न्नये॒दिति॑ सं - नये᳚त् । 14) प॒रि॒मो॒ष ए॒वैव प॑रिमो॒षः प॑रिमो॒ष ए॒व । 14) प॒रि॒मो॒ष इति॑ परि - मो॒षः । 15) ए॒व स स ए॒वैव सः । 16) सो ऽनृ॑त॒ मनृ॑त॒ग्ं॒ स सो ऽनृ॑तम् । 17) अनृ॑त-ङ्करोति करो॒ त्यनृ॑त॒ मनृ॑त-ङ्करोति । 18) क॒रो॒ त्यथो॒ अथो॑ करोति करो॒ त्यथो᳚ । 19) अथो॒ परा॒ परा ऽथो॒ अथो॒ परा᳚ । 19) अथो॒ इत्यथो᳚ । 20) परै॒वैव परा॒ परै॒व । 21) ए॒व सि॑च्यते सिच्यत ए॒वैव सि॑च्यते । 22) सि॒च्य॒ते॒ सो॒म॒या॒जी सो॑मया॒जी सि॑च्यते सिच्यते सोमया॒जी । 23) सो॒म॒या॒ज्ये॑वैव सो॑मया॒जी सो॑मया॒ज्ये॑व । 23) सो॒म॒या॒जीति॑ सोम - या॒जी । 24) ए॒व सग्ं स मे॒वैव सम् । 25) स-न्न॑ये-न्नये॒-थ्सग्ं स-न्न॑येत् । 26) न॒ये॒-त्पयः॒ पयो॑ नये-न्नये॒-त्पयः॑ । 27) पयो॒ वै वै पयः॒ पयो॒ वै । 28) वै सोम॒-स्सोमो॒ वै वै सोमः॑ । 29) सोमः॒ पयः॒ पय॒-स्सोम॒-स्सोमः॒ पयः॑ । 30) पय॑-स्सान्ना॒य्यग्ं सा᳚न्ना॒य्य-म्पयः॒ पय॑-स्सान्ना॒य्यम् । 31) सा॒न्ना॒य्य-म्पय॑सा॒ पय॑सा सान्ना॒य्यग्ं सा᳚न्ना॒य्य-म्पय॑सा । 31) सा॒न्ना॒य्यमिति॑ सां - ना॒य्यम् । 32) पय॑सै॒वैव पय॑सा॒ पय॑सै॒व । 33) ए॒व पयः॒ पय॑ ए॒वैव पयः॑ । 34) पय॑ आ॒त्म-न्ना॒त्म-न्पयः॒ पय॑ आ॒त्मन्न् । 35) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 36) ध॒त्ते॒ वि वि ध॑त्ते धत्ते॒ वि । 37) वि वै वै वि वि वै । 38) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 39) ए॒त-म्प्र॒जया᳚ प्र॒जयै॒त मे॒त-म्प्र॒जया᳚ । 40) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 40) प्र॒जयेति॑ प्र - जया᳚ । 41) प॒शुभि॑ रर्धय त्यर्धयति प॒शुभिः॑ प॒शुभि॑ रर्धयति । 41) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 42) अ॒र्ध॒य॒ति॒ व॒र्धय॑ति व॒र्धय॑ त्यर्धय त्यर्धयति व॒र्धय॑ति । 43) व॒र्धय॑ त्यस्यास्य व॒र्धय॑ति व॒र्धय॑ त्यस्य । 44) अ॒स्य॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मस्यास्य॒ भ्रातृ॑व्यम् । 45) भ्रातृ॑व्यं॒-यँस्य॒ यस्य॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्यं॒-यँस्य॑ । 46) यस्य॑ ह॒विर्-ह॒वि-र्यस्य॒ यस्य॑ ह॒विः । 47) ह॒वि-र्निरु॑प्त॒-न्निरु॑प्तग्ं ह॒विर्-ह॒वि-र्निरु॑प्तम् । 48) निरु॑प्त-म्पु॒रस्ता᳚-त्पु॒रस्ता॒-न्निरु॑प्त॒-न्निरु॑प्त-म्पु॒रस्ता᳚त् । 48) निरु॑प्त॒मिति॒ निः - उ॒प्त॒म् । 49) पु॒रस्ता᳚च् च॒न्द्रमा᳚श्च॒न्द्रमाः᳚ पु॒रस्ता᳚-त्पु॒रस्ता᳚च् च॒न्द्रमाः᳚ । 50) च॒न्द्रमा॑ अ॒भ्य॑भि च॒न्द्रमा᳚ श्च॒न्द्रमा॑ अ॒भि । ॥ 27 ॥ (50/62)
1) अ॒भ्यु॑दे त्यु॒देत्य॒भ्या᳚(1॒)भ्यु॑देति॑ । 2) उ॒देति॑ त्रे॒धा त्रे॒धोदे त्यु॒देति॑ त्रे॒धा । 2) उ॒देतीत्यु॑त् - एति॑ । 3) त्रे॒धा त॑ण्डु॒ला-न्त॑ण्डु॒ला-न्त्रे॒धा त्रे॒धा त॑ण्डु॒लान् । 4) त॒ण्डु॒लान्. वि वि त॑ण्डु॒ला-न्त॑ण्डु॒लान्. वि । 5) वि भ॑जे-द्भजे॒-द्वि वि भ॑जेत् । 6) भ॒जे॒-द्ये ये भ॑जे-द्भजे॒-द्ये । 7) ये म॑द्ध्य॒मा म॑द्ध्य॒मा ये ये म॑द्ध्य॒माः । 8) म॒द्ध्य॒मा-स्स्यु-स्स्यु-र्म॑द्ध्य॒मा म॑द्ध्य॒मा-स्स्युः । 9) स्यु स्ताग् स्ता-न्थ्स्यु-स्स्यु स्तान् । 10) ता न॒ग्नये॒ ऽग्नये॒ ताग् स्ता न॒ग्नये᳚ । 11) अ॒ग्नये॑ दा॒त्रे दा॒त्रे᳚ ऽग्नये॒ ऽग्नये॑ दा॒त्रे । 12) दा॒त्रे पु॑रो॒डाश॑-म्पुरो॒डाश॑-न्दा॒त्रे दा॒त्रे पु॑रो॒डाश᳚म् । 13) पु॒रो॒डाश॑ म॒ष्टाक॑पाल म॒ष्टाक॑पाल-म्पुरो॒डाश॑-म्पुरो॒डाश॑ म॒ष्टाक॑पालम् । 14) अ॒ष्टाक॑पाल-ङ्कुर्या-त्कुर्या द॒ष्टाक॑पाल म॒ष्टाक॑पाल-ङ्कुर्यात् । 14) अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । 15) कु॒र्या॒-द्ये ये कु॑र्या-त्कुर्या॒-द्ये । 16) ये स्थवि॑ष्ठा॒-स्स्थवि॑ष्ठा॒ ये ये स्थवि॑ष्ठाः । 17) स्थवि॑ष्ठा॒ स्ताग् स्ता-न्थ्स्थवि॑ष्ठा॒-स्स्थवि॑ष्ठा॒ स्तान् । 18) ता निन्द्रा॒ये न्द्रा॑य॒ ताग् स्ता निन्द्रा॑य । 19) इन्द्रा॑य प्रदा॒त्रे प्र॑दा॒त्र इन्द्रा॒ये न्द्रा॑य प्रदा॒त्रे । 20) प्र॒दा॒त्रे द॒ध-न्द॒ध-न्प्र॑दा॒त्रे प्र॑दा॒त्रे द॒धन्न् । 20) प्र॒दा॒त्र इति॑ प्र - दा॒त्रे । 21) द॒धग्ग्श् च॒रु-ञ्च॒रु-न्द॒ध-न्द॒धग्ग्श् च॒रुम् । 22) च॒रुं-येँ ये च॒रु-ञ्च॒रुं-येँ । 23) ये ऽणि॑ष्ठा॒ अणि॑ष्ठा॒ ये ये ऽणि॑ष्ठाः । 24) अणि॑ष्ठा॒ स्ताग् स्ता नणि॑ष्ठा॒ अणि॑ष्ठा॒ स्तान् । 25) तान्. विष्ण॑वे॒ विष्ण॑वे॒ ताग् स्तान्. विष्ण॑वे । 26) विष्ण॑वे शिपिवि॒ष्टाय॑ शिपिवि॒ष्टाय॒ विष्ण॑वे॒ विष्ण॑वे शिपिवि॒ष्टाय॑ । 27) शि॒पि॒वि॒ष्टाय॑ शृ॒ते शृ॒ते शि॑पिवि॒ष्टाय॑ शिपिवि॒ष्टाय॑ शृ॒ते । 27) शि॒पि॒वि॒ष्टायेति॑ शिपि - वि॒ष्टाय॑ । 28) शृ॒ते च॒रु-ञ्च॒रुग्ं शृ॒ते शृ॒ते च॒रुम् । 29) च॒रु म॒ग्नि र॒ग्नि श्च॒रु-ञ्च॒रु म॒ग्निः । 30) अ॒ग्नि रे॒वैवाग्नि र॒ग्नि रे॒व । 31) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 32) अ॒स्मै॒ प्र॒जा-म्प्र॒जा म॑स्मा अस्मै प्र॒जाम् । 33) प्र॒जा-म्प्र॑ज॒नय॑ति प्रज॒नय॑ति प्र॒जा-म्प्र॒जा-म्प्र॑ज॒नय॑ति । 33) प्र॒जामिति॑ प्र - जाम् । 34) प्र॒ज॒नय॑ति वृ॒द्धां-वृँ॒द्धा-म्प्र॑ज॒नय॑ति प्रज॒नय॑ति वृ॒द्धाम् । 34) प्र॒ज॒नय॒तीति॑ प्र - ज॒नय॑ति । 35) वृ॒द्धा मिन्द्र॒ इन्द्रो॑ वृ॒द्धां-वृँ॒द्धा मिन्द्रः॑ । 36) इन्द्रः॒ प्र प्रे न्द्र॒ इन्द्रः॒ प्र । 37) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति । 38) य॒च्छ॒ति॒ य॒ज्ञो य॒ज्ञो य॑च्छति यच्छति य॒ज्ञः । 39) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । 40) वै विष्णु॒-र्विष्णु॒-र्वै वै विष्णुः॑ । 41) विष्णुः॑ प॒शवः॑ प॒शवो॒ विष्णु॒-र्विष्णुः॑ प॒शवः॑ । 42) प॒शव॒-श्शिपि॒-श्शिपिः॑ प॒शवः॑ प॒शव॒-श्शिपिः॑ । 43) शिपि॑-र्य॒ज्ञे य॒ज्ञे शिपि॒-श्शिपि॑-र्य॒ज्ञे । 44) य॒ज्ञ ए॒वैव य॒ज्ञे य॒ज्ञ ए॒व । 45) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ । 46) प॒शुषु॒ प्रति॒ प्रति॑ प॒शुषु॑ प॒शुषु॒ प्रति॑ । 47) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 48) ति॒ष्ठ॒ति॒ न न ति॑ष्ठति तिष्ठति॒ न । 49) न द्वे द्वे न न द्वे । 50) द्वे य॑जेत यजेत॒ द्वे द्वे य॑जेत । 50) द्वे इति॒ द्वे । ॥ 28 ॥ (50/57)
1) य॒जे॒त॒ य-द्य-द्य॑जेत यजेत॒ यत् । 2) य-त्पूर्व॑या॒ पूर्व॑या॒ य-द्य-त्पूर्व॑या । 3) पूर्व॑या सम्प्र॒ति स॑म्प्र॒ति पूर्व॑या॒ पूर्व॑या सम्प्र॒ति । 4) स॒म्प्र॒ति यजे॑त॒ यजे॑त सम्प्र॒ति स॑म्प्र॒ति यजे॑त । 4) स॒म्प्र॒तीति॑ सं - प्र॒ति । 5) यजे॒तोत्त॑ र॒योत्त॑रया॒ यजे॑त॒ यजे॒तोत्त॑रया । 6) उत्त॑रया छ॒म्बट् छ॒म्ब डुत्त॑र॒यो त्त॑रया छ॒म्बट् । 6) उत्त॑र॒येत्युत् - त॒र॒या॒ । 7) छ॒म्ब-ट्कु॑र्या-त्कुर्याच् छ॒म्बट् छ॒म्ब-ट्कु॑र्यात् । 8) कु॒र्या॒-द्य-द्य-त्कु॑र्या-त्कुर्या॒-द्यत् । 9) यदुत्त॑र॒ योत्त॑रया॒ य-द्यदुत्त॑रया । 10) उत्त॑रया सम्प्र॒ति स॑म्प्र॒ त्युत्त॑र॒यो त्त॑रया सम्प्र॒ति । 10) उत्त॑र॒येत्युत् - त॒र॒या॒ । 11) स॒म्प्र॒ति यजे॑त॒ यजे॑त सम्प्र॒ति स॑म्प्र॒ति यजे॑त । 11) स॒म्प्र॒तीति॑ सं - प्र॒ति । 12) यजे॑त॒ पूर्व॑या॒ पूर्व॑या॒ यजे॑त॒ यजे॑त॒ पूर्व॑या । 13) पूर्व॑या छ॒म्बट् छ॒म्बट् पूर्व॑या॒ पूर्व॑या छ॒म्बट् । 14) छ॒म्ब-ट्कु॑र्या-त्कुर्याच् छ॒म्बट् छ॒म्ब-ट्कु॑र्यात् । 15) कु॒र्या॒-न्न न कु॑र्या-त्कुर्या॒-न्न । 16) ने ष्टि॒ रिष्टि॒-र्न ने ष्टिः॑ । 17) इष्टि॒-र्भव॑ति॒ भव॒तीष्टि॒ रिष्टि॒-र्भव॑ति । 18) भव॑ति॒ न न भव॑ति॒ भव॑ति॒ न । 19) न य॒ज्ञो य॒ज्ञो न न य॒ज्ञः । 20) य॒ज्ञ स्त-त्त-द्य॒ज्ञो य॒ज्ञ स्तत् । 21) तदन्वनु॒ त-त्तदनु॑ । 22) अनु॑ ह्रीतमु॒खी ह्री॑तमु॒ ख्यन्वनु॑ ह्रीतमु॒खी । 23) ह्री॒त॒मु॒ ख्य॑पग॒ल्भो॑ ऽपग॒ल्भो ह्री॑तमु॒खी ह्री॑तमु॒ ख्य॑पग॒ल्भः । 23) ह्री॒त॒मु॒खीति॑ ह्रीत - मु॒खी । 24) अ॒प॒ग॒ल्भो जा॑यते जायते ऽपग॒ल्भो॑ ऽपग॒ल्भो जा॑यते । 24) अ॒प॒ग॒ल्भ इत्य॑प - ग॒ल्भः । 25) जा॒य॒त॒ एका॒ मेका᳚-ञ्जायते जायत॒ एका᳚म् । 26) एका॑ मे॒वैवैका॒ मेका॑ मे॒व । 27) ए॒व य॑जेत यजेतै॒वैव य॑जेत । 28) य॒जे॒त॒ प्र॒ग॒ल्भः प्र॑ग॒ल्भो य॑जेत यजेत प्रग॒ल्भः । 29) प्र॒ग॒ल्भो᳚ ऽस्यास्य प्रग॒ल्भः प्र॑ग॒ल्भो᳚ ऽस्य । 29) प्र॒ग॒ल्भ इति॑ प्र - ग॒ल्भः । 30) अ॒स्य॒ जा॒य॒ते॒ जा॒य॒ते॒ ऽस्या॒स्य॒ जा॒य॒ते॒ । 31) जा॒य॒ते ऽना॑दृ॒त्या ना॑दृत्य जायते जाय॒ते ऽना॑दृत्य । 32) अना॑दृत्य॒ त-त्तदना॑दृ॒ त्याना॑दृत्य॒ तत् । 32) अना॑दृ॒त्येत्यना᳚ - दृ॒त्य॒ । 33) त-द्द्वे द्वे त-त्त-द्द्वे । 34) द्वे ए॒वैव द्वे द्वे ए॒व । 34) द्वे इति॒ द्वे । 35) ए॒व य॑जेत यजेतै॒वैव य॑जेत । 36) य॒जे॒त॒ य॒ज्ञ॒मु॒खं-यँ॑ज्ञमु॒खं-यँ॑जेत यजेत यज्ञमु॒खम् । 37) य॒ज्ञ॒मु॒ख मे॒वैव य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख मे॒व । 37) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 38) ए॒व पूर्व॑या॒ पूर्व॑यै॒वैव पूर्व॑या । 39) पूर्व॑या॒ ऽऽलभ॑त आ॒लभ॑ते॒ पूर्व॑या॒ पूर्व॑या॒ ऽऽलभ॑ते । 40) आ॒लभ॑ते॒ यज॑ते॒ यज॑त आ॒लभ॑त आ॒लभ॑ते॒ यज॑ते । 40) आ॒लभ॑त॒ इत्या᳚ - लभ॑ते । 41) यज॑त॒ उत्त॑र॒यो त्त॑रया॒ यज॑ते॒ यज॑त॒ उत्त॑रया । 42) उत्त॑रया दे॒वता॑ दे॒वता॒ उत्त॑र॒यो त्त॑रया दे॒वताः᳚ । 42) उत्त॑र॒येत्युत् - त॒र॒या॒ । 43) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व । 44) ए॒व पूर्व॑या॒ पूर्व॑यै॒वैव पूर्व॑या । 45) पूर्व॑या ऽवरु॒न्धे॑ ऽवरु॒न्धे पूर्व॑या॒ पूर्व॑या ऽवरु॒न्धे । 46) अ॒व॒रु॒न्ध इ॑न्द्रि॒य मि॑न्द्रि॒य म॑वरु॒न्धे॑ ऽवरु॒न्ध इ॑न्द्रि॒यम् । 46) अ॒व॒रु॒न्ध इत्य॑व - रु॒न्धे । 47) इ॒न्द्रि॒य मुत्त॑र॒यो त्त॑रयेन्द्रि॒य मि॑न्द्रि॒य मुत्त॑रया । 48) उत्त॑रया देवलो॒क-न्दे॑वलो॒क मुत्त॑र॒यो त्त॑रया देवलो॒कम् । 48) उत्त॑र॒येत्युत् - त॒र॒या॒ । 49) दे॒व॒लो॒क मे॒वैव दे॑वलो॒क-न्दे॑वलो॒क मे॒व । 49) दे॒व॒लो॒कमिति॑ देव - लो॒कम् । 50) ए॒व पूर्व॑या॒ पूर्व॑यै॒वैव पूर्व॑या । ॥ 29 ॥ (50/65)
1) पूर्व॑या ऽभि॒जय॑ त्यभि॒जय॑ति॒ पूर्व॑या॒ पूर्व॑या ऽभि॒जय॑ति । 2) अ॒भि॒जय॑ति मनुष्यलो॒क-म्म॑नुष्यलो॒क म॑भि॒जय॑ त्यभि॒जय॑ति मनुष्यलो॒कम् । 2) अ॒भि॒जय॒तीत्य॑भि - जय॑ति । 3) म॒नु॒ष्य॒लो॒क मुत्त॑र॒योत्त॑रया मनुष्यलो॒क-म्म॑नुष्यलो॒क मुत्त॑रया । 3) म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य - लो॒कम् । 4) उत्त॑रया॒ भूय॑सो॒ भूय॑स॒ उत्त॑र॒यो त्त॑रया॒ भूय॑सः । 4) उत्त॑र॒येत्युत् - त॒र॒या॒ । 5) भूय॑सो यज्ञक्र॒तून्. य॑ज्ञक्र॒तू-न्भूय॑सो॒ भूय॑सो यज्ञक्र॒तून् । 6) य॒ज्ञ॒क्र॒तू नुपोप॑ यज्ञक्र॒तून्. य॑ज्ञक्र॒तू नुप॑ । 6) य॒ज्ञ॒क्र॒तूनिति॑ यज्ञ - क्र॒तून् । 7) उपै᳚त्ये॒ त्युपोपै॑ति । 8) ए॒त्ये॒षैषै त्ये᳚त्ये॒षा । 9) ए॒षा वै वा ए॒षैषा वै । 10) वै सु॒मना᳚-स्सु॒मना॒ वै वै सु॒मनाः᳚ । 11) सु॒मना॒ नाम॒ नाम॑ सु॒मना᳚-स्सु॒मना॒ नाम॑ । 11) सु॒मना॒ इति॑ सु - मनाः᳚ । 12) नामे ष्टि॒ रिष्टि॒-र्नाम॒ नामे ष्टिः॑ । 13) इष्टि॒-र्यं-यँ मिष्टि॒ रिष्टि॒-र्यम् । 14) य म॒द्याद्य यं-यँ म॒द्य । 15) अ॒द्येजा॒न मी॑जा॒न म॒द्या द्येजा॒नम् । 16) ई॒जा॒न-म्प॒श्चा-त्प॒श्चा दी॑जा॒न मी॑जा॒न-म्प॒श्चात् । 17) प॒श्चाच् च॒न्द्रमा᳚ श्च॒न्द्रमाः᳚ प॒श्चा-त्प॒श्चाच् च॒न्द्रमाः᳚ । 18) च॒न्द्रमा॑ अ॒भ्य॑भि च॒न्द्रमा᳚ श्च॒न्द्रमा॑ अ॒भि । 19) अ॒भ्यु॑दे त्यु॒दे त्य॒भ्या᳚(1॒)भ्यु॑देति॑ । 20) उ॒दे त्य॒स्मि-न्न॒स्मि-न्नु॒दे त्यु॒दे त्य॒स्मिन्न् । 20) उ॒देतीत्यु॑त् - एति॑ । 21) अ॒स्मि-न्ने॒वैवास्मि-न्न॒स्मि-न्ने॒व । 22) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 23) अ॒स्मै॒ लो॒के लो॒के᳚ ऽस्मा अस्मै लो॒के । 24) लो॒के ऽर्धु॑क॒ मर्धु॑कम् ँलो॒के लो॒के ऽर्धु॑कम् । 25) अर्धु॑क-म्भवति भव॒ त्यर्धु॑क॒ मर्धु॑क-म्भवति । 26) भ॒व॒ति॒ दा॒क्षा॒य॒ण॒य॒ज्ञेन॑ दाक्षायणय॒ज्ञेन॑ भवति भवति दाक्षायणय॒ज्ञेन॑ । 27) दा॒क्षा॒य॒ण॒य॒ज्ञेन॑ सुव॒र्गका॑म-स्सुव॒र्गका॑मो दाक्षायणय॒ज्ञेन॑ दाक्षायणय॒ज्ञेन॑ सुव॒र्गका॑मः । 27) दा॒क्षा॒य॒ण॒य॒ज्ञेनेति॑ दाक्षायण - य॒ज्ञेन॑ । 28) सु॒व॒र्गका॑मो यजेत यजेत सुव॒र्गका॑म-स्सुव॒र्गका॑मो यजेत । 28) सु॒व॒र्गका॑म॒ इति॑ सुव॒र्ग - का॒मः॒ । 29) य॒जे॒त॒ पू॒र्णमा॑से पू॒र्णमा॑से यजेत यजेत पू॒र्णमा॑से । 30) पू॒र्णमा॑से॒ सग्ं स-म्पू॒र्णमा॑से पू॒र्णमा॑से॒ सम् । 30) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । 31) स-न्न॑ये-न्नये॒-थ्सग्ं स-न्न॑येत् । 32) न॒ये॒-न्मै॒त्रा॒व॒रु॒ण्या मै᳚त्रावरु॒ण्या न॑ये-न्नये-न्मैत्रावरु॒ण्या । 33) मै॒त्रा॒व॒रु॒ण्या ऽऽमिक्ष॑या॒ ऽऽमिक्ष॑या मैत्रावरु॒ण्या मै᳚त्रावरु॒ण्या ऽऽमिक्ष॑या । 33) मै॒त्रा॒व॒रु॒ण्येति॑ मैत्रा - व॒रु॒ण्या । 34) आ॒मिक्ष॑या ऽमावा॒स्या॑या ममावा॒स्या॑या मा॒मिक्ष॑या॒ ऽऽमिक्ष॑या ऽमावा॒स्या॑याम् । 35) अ॒मा॒वा॒स्या॑यां-यँजेत यजेता मावा॒स्या॑या ममावा॒स्या॑यां-यँजेत । 35) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । 36) य॒जे॒त॒ पू॒र्णमा॑से पू॒र्णमा॑से यजेत यजेत पू॒र्णमा॑से । 37) पू॒र्णमा॑से॒ वै वै पू॒र्णमा॑से पू॒र्णमा॑से॒ वै । 37) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । 38) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 39) दे॒वानाग्ं॑ सु॒त-स्सु॒तो दे॒वाना᳚-न्दे॒वानाग्ं॑ सु॒तः । 40) सु॒त स्तेषा॒-न्तेषाग्ं॑ सु॒त-स्सु॒त स्तेषा᳚म् । 41) तेषा॑ मे॒त मे॒त-न्तेषा॒-न्तेषा॑ मे॒तम् । 42) ए॒त म॑र्धमा॒स म॑र्धमा॒स मे॒त मे॒त म॑र्धमा॒सम् । 43) अ॒र्ध॒मा॒स-म्प्रसु॑तः॒ प्रसु॑तो ऽर्धमा॒स म॑र्धमा॒स-म्प्रसु॑तः । 43) अ॒र्ध॒मा॒समित्य॑र्ध - मा॒सम् । 44) प्रसु॑त॒ स्तेषा॒-न्तेषा॒-म्प्रसु॑तः॒ प्रसु॑त॒ स्तेषा᳚म् । 44) प्रसु॑त॒ इति॒ प्र - सु॒तः॒ । 45) तेषा᳚-म्मैत्रावरु॒णी मै᳚त्रावरु॒णी तेषा॒-न्तेषा᳚-म्मैत्रावरु॒णी । 46) मै॒त्रा॒व॒रु॒णी व॒शा व॒शा मै᳚त्रावरु॒णी मै᳚त्रावरु॒णी व॒शा । 46) मै॒त्रा॒व॒रु॒णीति॑ मैत्रा - व॒रु॒णी । 47) व॒शा ऽमा॑वा॒स्या॑या ममावा॒स्या॑यां-वँ॒शा व॒शा ऽमा॑वा॒स्या॑याम् । 48) अ॒मा॒वा॒स्या॑या मनूब॒न्ध्या॑ ऽनूब॒न्ध्या॑ ऽमावा॒स्या॑या ममावा॒स्या॑या मनूब॒न्ध्या᳚ । 48) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । 49) अ॒नू॒ब॒न्ध्या॑ य-द्यद॑नूब॒न्ध्या॑ ऽनूब॒न्ध्या॑ यत् । 49) अ॒नू॒ब॒न्ध्येत्य॑नु - ब॒न्ध्या᳚ । 50) य-त्पू᳚र्वे॒द्युः पू᳚र्वे॒द्यु-र्य-द्य-त्पू᳚र्वे॒द्युः । ॥ 30 ॥ (50/67)
1) पू॒र्वे॒द्यु-र्यज॑ते॒ यज॑ते पूर्वे॒द्युः पू᳚र्वे॒द्यु-र्यज॑ते । 2) यज॑ते॒ वेदिं॒-वेँदिं॒-यँज॑ते॒ यज॑ते॒ वेदि᳚म् । 3) वेदि॑ मे॒वैव वेदिं॒-वेँदि॑ मे॒व । 4) ए॒व त-त्तदे॒वैव तत् । 5) त-त्क॑रोति करोति॒ त-त्त-त्क॑रोति । 6) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् । 7) य-द्व॒थ्सान्. व॒थ्सान्. य-द्य-द्व॒थ्सान् । 8) व॒थ्सा न॑पाक॒रो त्य॑पाक॒रोति॑ व॒थ्सान्. व॒थ्सा न॑पाक॒रोति॑ । 9) अ॒पा॒क॒रोति॑ सदोहविर्धा॒ने स॑दोहविर्धा॒ने अ॑पाक॒रो त्य॑पाक॒रोति॑ सदोहविर्धा॒ने । 9) अ॒पा॒क॒रोतीत्य॑प - आ॒क॒रोति॑ । 10) स॒दो॒ह॒वि॒र्धा॒ने ए॒वैव स॑दोहविर्धा॒ने स॑दोहविर्धा॒ने ए॒व । 10) स॒दो॒ह॒वि॒र्धा॒ने इति॑ सदः - ह॒वि॒र्धा॒ने । 11) ए॒व सग्ं स मे॒वैव सम् । 12) स-म्मि॑नोति मिनोति॒ सग्ं स-म्मि॑नोति । 13) मि॒नो॒ति॒ य-द्य-न्मि॑नोति मिनोति॒ यत् । 14) य-द्यज॑ते॒ यज॑ते॒ य-द्य-द्यज॑ते । 15) यज॑ते दे॒वै-र्दे॒वै-र्यज॑ते॒ यज॑ते दे॒वैः । 16) दे॒वै रे॒वैव दे॒वै-र्दे॒वै रे॒व । 17) ए॒व सु॒त्याग्ं सु॒त्या मे॒वैव सु॒त्याम् । 18) सु॒त्याग्ं सग्ं सग्ं सु॒त्याग्ं सु॒त्याग्ं सम् । 19) स-म्पा॑दयति पादयति॒ सग्ं स-म्पा॑दयति । 20) पा॒द॒य॒ति॒ स स पा॑दयति पादयति॒ सः । 21) स ए॒त मे॒तग्ं स स ए॒तम् । 22) ए॒त म॑र्धमा॒स म॑र्धमा॒स मे॒त मे॒त म॑र्धमा॒सम् । 23) अ॒र्ध॒मा॒सग्ं स॑ध॒मादग्ं॑ सध॒माद॑ मर्धमा॒स म॑र्धमा॒सग्ं स॑ध॒माद᳚म् । 23) अ॒र्ध॒मा॒समित्य॑र्ध - मा॒सम् । 24) स॒ध॒माद॑-न्दे॒वै-र्दे॒वै-स्स॑ध॒मादग्ं॑ सध॒माद॑-न्दे॒वैः । 24) स॒ध॒माद॒मिति॑ सध - माद᳚म् । 25) दे॒वै-स्सोम॒ग्ं॒ सोम॑-न्दे॒वै-र्दे॒वै-स्सोम᳚म् । 26) सोम॑-म्पिबति पिबति॒ सोम॒ग्ं॒ सोम॑-म्पिबति । 27) पि॒ब॒ति॒ य-द्य-त्पि॑बति पिबति॒ यत् । 28) य-न्मै᳚त्रावरु॒ण्या मै᳚त्रावरु॒ण्या य-द्य-न्मै᳚त्रावरु॒ण्या । 29) मै॒त्रा॒व॒रु॒ण्या ऽऽमिक्ष॑या॒ ऽऽमिक्ष॑या मैत्रावरु॒ण्या मै᳚त्रावरु॒ण्या ऽऽमिक्ष॑या । 29) मै॒त्रा॒व॒रु॒ण्येति॑ मैत्रा - व॒रु॒ण्या । 30) आ॒मिक्ष॑या ऽमावा॒स्या॑या ममावा॒स्या॑या मा॒मिक्ष॑या॒ ऽऽमिक्ष॑या ऽमावा॒स्या॑याम् । 31) अ॒मा॒वा॒स्या॑यां॒-यँज॑ते॒ यज॑ते ऽमावा॒स्या॑या ममावा॒स्या॑यां॒-यँज॑ते । 31) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । 32) यज॑ते॒ या या यज॑ते॒ यज॑ते॒ या । 33) यैवैव या यैव । 34) ए॒वासा व॒सा वे॒वैवासौ । 35) अ॒सौ दे॒वाना᳚-न्दे॒वाना॑ म॒सा व॒सौ दे॒वाना᳚म् । 36) दे॒वानां᳚-वँ॒शा व॒शा दे॒वाना᳚-न्दे॒वानां᳚-वँ॒शा । 37) व॒शा ऽनू॑ब॒न्ध्या॑ ऽनूब॒न्ध्या॑ व॒शा व॒शा ऽनू॑ब॒न्ध्या᳚ । 38) अ॒नू॒ब॒न्ध्या॑ सो सो अ॑नूब॒न्ध्या॑ ऽनूब॒न्ध्या॑ सो । 38) अ॒नू॒ब॒न्ध्येत्य॑नु - ब॒न्ध्या᳚ । 39) सो ए॒वैव सो सो ए॒व । 39) सो इति॒ सो । 40) ए॒वै षैषै वैवैषा । 41) ए॒षैतस्यै॒ तस्यै॒ षैषैतस्य॑ । 42) ए॒तस्य॑ सा॒क्षा-थ्सा॒क्षा दे॒तस्यै॒तस्य॑ सा॒क्षात् । 43) सा॒क्षा-द्वै वै सा॒क्षा-थ्सा॒क्षा-द्वै । 43) सा॒क्षादिति॑ स - अ॒क्षात् । 44) वा ए॒ष ए॒ष वै वा ए॒षः । 45) ए॒ष दे॒वा-न्दे॒वा ने॒ष ए॒ष दे॒वान् । 46) दे॒वा न॒भ्यारो॑ह त्य॒भ्यारो॑हति दे॒वा-न्दे॒वा न॒भ्यारो॑हति । 47) अ॒भ्यारो॑हति॒ यो यो᳚ ऽभ्यारो॑ह त्य॒भ्यारो॑हति॒ यः । 47) अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । 48) य ए॑षा मेषां॒-योँ य ए॑षाम् । 49) ए॒षां॒-यँ॒ज्ञं-यँ॒ज्ञ मे॑षा मेषां-यँ॒ज्ञम् । 50) य॒ज्ञ म॑भ्या॒रोह॑ त्यभ्या॒रोह॑ति य॒ज्ञं-यँ॒ज्ञ म॑भ्या॒रोह॑ति । ॥ 31 ॥ (50/60)
1) अ॒भ्या॒रोह॑ति॒ यथा॒ यथा᳚ ऽभ्या॒रोह॑ त्यभ्या॒रोह॑ति॒ यथा᳚ । 1) अ॒भ्या॒रोह॒तीत्य॑भि - आ॒रोह॑ति । 2) यथा॒ खलु॒ खलु॒ यथा॒ यथा॒ खलु॑ । 3) खलु॒ वै वै खलु॒ खलु॒ वै । 4) वै श्रेया॒-ञ्छ्रेया॒न्॒. वै वै श्रेयान्॑ । 5) श्रेया॑ न॒भ्यारू॑ढो॒ ऽभ्यारू॑ढ॒-श्श्रेया॒-ञ्छ्रेया॑ न॒भ्यारू॑ढः । 6) अ॒भ्यारू॑ढः का॒मय॑ते का॒मय॑ते॒ ऽभ्यारू॑ढो॒ ऽभ्यारू॑ढः का॒मय॑ते । 6) अ॒भ्यारू॑ढ॒ इत्य॑भि - आरू॑ढः । 7) का॒मय॑ते॒ तथा॒ तथा॑ का॒मय॑ते का॒मय॑ते॒ तथा᳚ । 8) तथा॑ करोति करोति॒ तथा॒ तथा॑ करोति । 9) क॒रो॒ति॒ यदि॒ यदि॑ करोति करोति॒ यदि॑ । 10) यद्य॑व॒विद्ध्य॑ त्यव॒विद्ध्य॑ति॒ यदि॒ यद्य॑व॒विद्ध्य॑ति । 11) अ॒व॒विद्ध्य॑ति॒ पापी॑या॒-न्पापी॑या नव॒विद्ध्य॑ त्यव॒विद्ध्य॑ति॒ पापी॑यान् । 11) अ॒व॒विद्ध्य॒तीत्य॑व - विद्ध्य॑ति । 12) पापी॑या-न्भवति भवति॒ पापी॑या॒-न्पापी॑या-न्भवति । 13) भ॒व॒ति॒ यदि॒ यदि॑ भवति भवति॒ यदि॑ । 14) यदि॒ न न यदि॒ यदि॒ न । 15) नाव॒विद्ध्य॑ त्यव॒विद्ध्य॑ति॒ न नाव॒विद्ध्य॑ति । 16) अ॒व॒विद्ध्य॑ति स॒दृ-ङ्ख्स॒दृं ंअ॑व॒विद्ध्य॑ त्यव॒विद्ध्य॑ति स॒दृम् । 16) अ॒व॒विद्ध्य॒तीत्य॑व - विद्ध्य॑ति । 17) स॒दृं-व्याँ॒वृत्का॑मो व्या॒वृत्का॑म-स्स॒दृ-ङ्ख्स॒दृं-व्याँ॒वृत्का॑मः । 17) स॒दृङ्ङिति॑ स - दृम् । 18) व्या॒वृत्का॑म ए॒तेनै॒तेन॑ व्या॒वृत्का॑मो व्या॒वृत्का॑म ए॒तेन॑ । 18) व्या॒वृत्का॑म॒ इति॑ व्या॒वृत् - का॒मः॒ । 19) ए॒तेन॑ य॒ज्ञेन॑ य॒ज्ञे नै॒ते नै॒तेन॑ य॒ज्ञेन॑ । 20) य॒ज्ञेन॑ यजेत यजेत य॒ज्ञेन॑ य॒ज्ञेन॑ यजेत । 21) य॒जे॒त॒ क्षु॒रप॑विः, क्षु॒रप॑वि-र्यजेत यजेत क्षु॒रप॑विः । 22) क्षु॒रप॑वि॒र्॒ हि हि क्षु॒रप॑विः, क्षु॒रप॑वि॒र्॒ हि । 22) क्षु॒रप॑वि॒रिति॑ क्षु॒र - प॒विः॒ । 23) ह्ये॑ष ए॒ष हि ह्ये॑षः । 24) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः । 25) य॒ज्ञ स्ता॒ज-क्ता॒जग् य॒ज्ञो य॒ज्ञ स्ता॒जक् । 26) ता॒ज-क्पुण्यः॒ पुण्य॑ स्ता॒ज-क्ता॒ज-क्पुण्यः॑ । 27) पुण्यो॑ वा वा॒ पुण्यः॒ पुण्यो॑ वा । 28) वा॒ भव॑ति॒ भव॑ति वा वा॒ भव॑ति । 29) भव॑ति॒ प्र प्र भव॑ति॒ भव॑ति॒ प्र । 30) प्र वा॑ वा॒ प्र प्र वा᳚ । 31) वा॒ मी॒य॒ते॒ मी॒य॒ते॒ वा॒ वा॒ मी॒य॒ते॒ । 32) मी॒य॒ते॒ तस्य॒ तस्य॑ मीयते मीयते॒ तस्य॑ । 33) तस्यै॒त दे॒त-त्तस्य॒ तस्यै॒तत् । 34) ए॒त-द्व्र॒तं-व्रँ॒त मे॒त दे॒त-द्व्र॒तम् । 35) व्र॒त-न्न न व्र॒तं-व्रँ॒त-न्न । 36) नानृ॑त॒ मनृ॑त॒-न्न नानृ॑तम् । 37) अनृ॑तं-वँदे-द्वदे॒ दनृ॑त॒ मनृ॑तं-वँदेत् । 38) व॒दे॒-न्न न व॑दे-द्वदे॒-न्न । 39) न मा॒ग्ं॒स-म्मा॒ग्ं॒स-न्न न मा॒ग्ं॒सम् । 40) मा॒ग्ं॒स म॑श्ञीया दश्ञीया-न्मा॒ग्ं॒स-म्मा॒ग्ं॒स म॑श्ञीयात् । 41) अ॒श्ञी॒या॒-न्न नाश्ञी॑या दश्ञीया॒-न्न । 42) न स्त्रिय॒ग्ग्॒ स्त्रिय॒-न्न न स्त्रिय᳚म् । 43) स्त्रिय॒ मुपोप॒ स्त्रिय॒ग्ग्॒ स्त्रिय॒ मुप॑ । 44) उपे॑ यादिया॒ दुपोपे॑ यात् । 45) इ॒या॒-न्न ने या॑दिया॒-न्न । 46) नास्या᳚स्य॒ न नास्य॑ । 47) अ॒स्य॒ पल्पू॑लनेन॒ पल्पू॑लनेना स्यास्य॒ पल्पू॑लनेन । 48) पल्पू॑लनेन॒ वासो॒ वासः॒ पल्पू॑लनेन॒ पल्पू॑लनेन॒ वासः॑ । 49) वासः॑ पल्पूलयेयुः पल्पूलयेयु॒-र्वासो॒ वासः॑ पल्पूलयेयुः । 50) प॒ल्पू॒ल॒ये॒यु॒ रे॒त दे॒त-त्प॑ल्पूलयेयुः पल्पूलयेयु रे॒तत् । 51) ए॒तद्धि ह्ये॑त दे॒तद्धि । 52) हि दे॒वा दे॒वा हि हि दे॒वाः । 53) दे॒वा-स्सर्व॒ग्ं॒ सर्व॑-न्दे॒वा दे॒वा-स्सर्व᳚म् । 54) सर्व॒-न्न न सर्व॒ग्ं॒ सर्व॒-न्न । 55) न कु॒र्वन्ति॑ कु॒र्वन्ति॒ न न कु॒र्वन्ति॑ । 56) कु॒र्वन्तीति॑ कु॒र्वन्ति॑ । ॥ 32 ॥ (56/63) ॥ अ. 5 ॥
1) ए॒ष वै वा ए॒ष ए॒ष वै । 2) वै दे॑वर॒थो दे॑वर॒थो वै वै दे॑वर॒थः । 3) दे॒व॒र॒थो य-द्य-द्दे॑वर॒थो दे॑वर॒थो यत् । 3) दे॒व॒र॒थ इति॑ देव - र॒थः । 4) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ । 5) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः । 5) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 6) यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यो यो द॑र्शपूर्णमा॒सौ । 7) द॒र्॒श॒पू॒र्ण॒मा॒सा वि॒ष्ट्वेष्ट्वा द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सा वि॒ष्ट्वा । 7) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 8) इ॒ष्ट्वा सोमे॑न॒ सोमे॑ने॒ ष्ट्वे ष्ट्वा सोमे॑न । 9) सोमे॑न॒ यज॑ते॒ यज॑ते॒ सोमे॑न॒ सोमे॑न॒ यज॑ते । 10) यज॑ते॒ रथ॑स्पष्टे॒ रथ॑स्पष्टे॒ यज॑ते॒ यज॑ते॒ रथ॑स्पष्टे । 11) रथ॑स्पष्ट ए॒वैव रथ॑स्पष्टे॒ रथ॑स्पष्ट ए॒व । 11) रथ॑स्पष्ट॒ इति॒ रथ॑ - स्प॒ष्टे॒ । 12) ए॒वाव॒साने॑ ऽव॒सान॑ ए॒वैवा व॒साने᳚ । 13) अ॒व॒साने॒ वरे॒ वरे॑ ऽव॒साने॑ ऽव॒साने॒ वरे᳚ । 13) अ॒व॒सान॒ इत्य॑व - साने᳚ । 14) वरे॑ दे॒वाना᳚-न्दे॒वानां॒-वँरे॒ वरे॑ दे॒वाना᳚म् । 15) दे॒वाना॒ मवाव॑ दे॒वाना᳚-न्दे॒वाना॒ मव॑ । 16) अव॑ स्यति स्य॒ त्यवाव॑ स्यति । 17) स्य॒ त्ये॒ता न्ये॒तानि॑ स्यति स्य त्ये॒तानि॑ । 18) ए॒तानि॒ वै वा ए॒ता न्ये॒तानि॒ वै । 19) वा अङ्गा॒परू॒ग्॒ ष्यङ्गा॒परूग्ं॑षि॒ वै वा अङ्गा॒परूग्ं॑षि । 20) अङ्गा॒परूग्ं॑षि संवँथ्स॒रस्य॑ संवँथ्स॒रस्या ङ्गा॒परू॒ग्॒ ष्यङ्गा॒परूग्ं॑षि संवँथ्स॒रस्य॑ । 20) अङ्गा॒परू॒ग्ं॒षीत्यङ्गा᳚ - परूग्ं॑षि । 21) सं॒वँ॒थ्स॒रस्य॒ य-द्य-थ्सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ यत् । 21) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 22) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ । 23) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः । 23) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 24) य ए॒व मे॒वं-योँ य ए॒वम् । 25) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 26) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ । 27) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते । 27) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 28) यज॒ते ऽङ्गा॒परू॒ग्॒ ष्यङ्गा॒परूग्ं॑षि॒ यज॑ते॒ यज॒ते ऽङ्गा॒परूग्ं॑षि । 29) अङ्गा॒परूग्॑ ष्ये॒वैवाङ्गा॒परू॒ग्॒ ष्यङ्गा॒परूग्॑ष्ये॒व । 29) अङ्गा॒परू॒ग्ं॒षीत्यङ्गा᳚ - परूग्ं॑षि । 30) ए॒व सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्यै॒वैव सं॑वँथ्स॒रस्य॑ । 31) सं॒वँ॒थ्स॒रस्य॒ प्रति॒ प्रति॑ संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ प्रति॑ । 31) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 32) प्रति॑ दधाति दधाति॒ प्रति॒ प्रति॑ दधाति । 33) द॒धा॒त्ये॒ते ए॒ते द॑धाति दधात्ये॒ते । 34) ए॒ते वै वा ए॒ते ए॒ते वै । 34) ए॒ते इत्ये॒ते । 35) वै सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ वै वै सं॑वँथ्स॒रस्य॑ । 36) सं॒वँ॒थ्स॒रस्य॒ चक्षु॑षी॒ चक्षु॑षी संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ चक्षु॑षी । 36) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 37) चक्षु॑षी॒ य-द्यच् चक्षु॑षी॒ चक्षु॑षी॒ यत् । 37) चक्षु॑षी॒ इति॒ चक्षु॑षी । 38) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ । 39) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः । 39) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 40) य ए॒व मे॒वं-योँ य ए॒वम् । 41) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 42) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ । 43) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते । 43) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 44) यज॑ते॒ ताभ्या॒-न्ताभ्यां॒-यँज॑ते॒ यज॑ते॒ ताभ्या᳚म् । 45) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व । 46) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् । 47) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 47) सु॒व॒र्गमिति॑ सुवः - गम् । 48) लो॒क मन्वनु॑ लो॒कम् ँलो॒क मनु॑ । 49) अनु॑ पश्यति पश्य॒ त्यन्वनु॑ पश्यति । 50) प॒श्य॒ त्ये॒षैषा प॑श्यति पश्य त्ये॒षा । ॥ 33 ॥ (50/67)
1) ए॒षा वै वा ए॒षैषा वै । 2) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 3) दे॒वानां॒-विँक्रा᳚न्ति॒-र्विक्रा᳚न्ति-र्दे॒वाना᳚-न्दे॒वानां॒-विँक्रा᳚न्तिः । 4) विक्रा᳚न्ति॒-र्य-द्य-द्विक्रा᳚न्ति॒-र्विक्रा᳚न्ति॒-र्यत् । 4) विक्रा᳚न्ति॒रिति॒ वि - क्रा॒न्तिः॒ । 5) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ । 6) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः । 6) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 7) य ए॒व मे॒वं-योँ य ए॒वम् । 8) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 9) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ । 10) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते । 10) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 11) यज॑ते दे॒वाना᳚-न्दे॒वानां॒-यँज॑ते॒ यज॑ते दे॒वाना᳚म् । 12) दे॒वाना॑ मे॒वैव दे॒वाना᳚-न्दे॒वाना॑ मे॒व । 13) ए॒व विक्रा᳚न्तिं॒-विँक्रा᳚न्ति मे॒वैव विक्रा᳚न्तिम् । 14) विक्रा᳚न्ति॒ मन्वनु॒ विक्रा᳚न्तिं॒-विँक्रा᳚न्ति॒ मनु॑ । 14) विक्रा᳚न्ति॒मिति॒ वि - क्रा॒न्ति॒म् । 15) अनु॒ वि व्यन्वनु॒ वि । 16) वि क्र॑मते क्रमते॒ वि वि क्र॑मते । 17) क्र॒म॒त॒ ए॒ष ए॒ष क्र॑मते क्रमत ए॒षः । 18) ए॒ष वै वा ए॒ष ए॒ष वै । 19) वै दे॑व॒यानो॑ देव॒यानो॒ वै वै दे॑व॒यानः॑ । 20) दे॒व॒यानः॒ पन्थाः॒ पन्था॑ देव॒यानो॑ देव॒यानः॒ पन्थाः᳚ । 20) दे॒व॒यान॒ इति॑ देव - यानः॑ । 21) पन्था॒ य-द्य-त्पन्थाः॒ पन्था॒ यत् । 22) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ । 23) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः । 23) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 24) य ए॒व मे॒वं-योँ य ए॒वम् । 25) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 26) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ । 27) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते । 27) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 28) यज॑ते॒ यो यो यज॑ते॒ यज॑ते॒ यः । 29) य ए॒वैव यो य ए॒व । 30) ए॒व दे॑व॒यानो॑ देव॒यान॑ ए॒वैव दे॑व॒यानः॑ । 31) दे॒व॒यानः॒ पन्थाः॒ पन्था॑ देव॒यानो॑ देव॒यानः॒ पन्थाः᳚ । 31) दे॒व॒यान॒ इति॑ देव - यानः॑ । 32) पन्था॒ स्त-न्त-म्पन्थाः॒ पन्था॒ स्तम् । 33) तग्ं स॒मारो॑हति स॒मारो॑हति॒ त-न्तग्ं स॒मारो॑हति । 34) स॒मारो॑ह त्ये॒ता वे॒तौ स॒मारो॑हति स॒मारो॑ह त्ये॒तौ । 34) स॒मारो॑ह॒तीति॑ सं - आरो॑हति । 35) ए॒तौ वै वा ए॒ता वे॒तौ वै । 36) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 37) दे॒वाना॒ग्ं॒ हरी॒ हरी॑ दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हरी᳚ । 38) हरी॒ य-द्य द्धरी॒ हरी॒ यत् । 38) हरी॒ इति॒ हरी᳚ । 39) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ । 40) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः । 40) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 41) य ए॒व मे॒वं-योँ य ए॒वम् । 42) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 43) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ । 44) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते । 44) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 45) यज॑ते॒ यौ यौ यज॑ते॒ यज॑ते॒ यौ । 46) या वे॒वैव यौ या वे॒व । 47) ए॒व दे॒वाना᳚-न्दे॒वाना॑ मे॒वैव दे॒वाना᳚म् । 48) दे॒वाना॒ग्ं॒ हरी॒ हरी॑ दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हरी᳚ । 49) हरी॒ ताभ्या॒-न्ताभ्या॒ग्ं॒ हरी॒ हरी॒ ताभ्या᳚म् । 49) हरी॒ इति॒ हरी᳚ । 50) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व । ॥ 34 ॥ (50/63)
1) ए॒वैभ्य॑ एभ्य ए॒वैवैभ्यः॑ । 2) ए॒भ्यो॒ ह॒व्यग्ं ह॒व्य मे᳚भ्य एभ्यो ह॒व्यम् । 3) ह॒व्यं-वँ॑हति वहति ह॒व्यग्ं ह॒व्यं-वँ॑हति । 4) व॒ह॒ त्ये॒त दे॒त-द्व॑हति वह त्ये॒तत् । 5) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 6) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 7) दे॒वाना॑ मा॒स्य॑ मा॒स्य॑-न्दे॒वाना᳚-न्दे॒वाना॑ मा॒स्य᳚म् । 8) आ॒स्यं॑-यँ-द्यदा॒स्य॑ मा॒स्यं॑-यँत् । 9) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ । 10) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः । 10) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 11) य ए॒व मे॒वं-योँ य ए॒वम् । 12) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 13) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ । 14) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते । 14) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 15) यज॑ते सा॒क्षा-थ्सा॒क्षा-द्यज॑ते॒ यज॑ते सा॒क्षात् । 16) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व । 16) सा॒क्षादिति॑ स - अ॒क्षात् । 17) ए॒व दे॒वाना᳚-न्दे॒वाना॑ मे॒वैव दे॒वाना᳚म् । 18) दे॒वाना॑ मा॒स्य॑ आ॒स्ये॑ दे॒वाना᳚-न्दे॒वाना॑ मा॒स्ये᳚ । 19) आ॒स्ये॑ जुहोति जुहो त्या॒स्य॑ आ॒स्ये॑ जुहोति । 20) जु॒हो॒ त्ये॒ष ए॒ष जु॑होति जुहो त्ये॒षः । 21) ए॒ष वै वा ए॒ष ए॒ष वै । 22) वै ह॑विर्धा॒नी ह॑विर्धा॒नी वै वै ह॑विर्धा॒नी । 23) ह॒वि॒र्धा॒नी यो यो ह॑विर्धा॒नी ह॑विर्धा॒नी यः । 23) ह॒वि॒र्धा॒नीति॑ हविः - धा॒नी । 24) यो द॑र्शपूर्णमासया॒जी द॑र्शपूर्णमासया॒जी यो यो द॑र्शपूर्णमासया॒जी । 25) द॒र्॒श॒पू॒र्ण॒मा॒स॒या॒जी सा॒यम्प्रा॑त-स्सा॒यम्प्रा॑त-र्दर्शपूर्णमासया॒जी द॑र्शपूर्णमासया॒जी सा॒यम्प्रा॑तः । 25) द॒र्॒श॒पू॒र्ण॒मा॒स॒या॒जीति॑ दर्शपूर्णमास - या॒जी । 26) सा॒यम्प्रा॑त रग्निहो॒त्र म॑ग्निहो॒त्रग्ं सा॒यम्प्रा॑त-स्सा॒यम्प्रा॑त रग्निहो॒त्रम् । 26) सा॒यम्प्रा॑त॒रिति॑ सा॒यं - प्रा॒तः॒ । 27) अ॒ग्नि॒हो॒त्र-ञ्जु॑होति जुहोत्यग्निहो॒त्र म॑ग्निहो॒त्र-ञ्जु॑होति । 27) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । 28) जु॒हो॒ति॒ यज॑ते॒ यज॑ते जुहोति जुहोति॒ यज॑ते । 29) यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ । 30) द॒र्॒श॒पू॒र्ण॒मा॒सा वह॑रह॒ रह॑रह-र्दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सा वह॑रहः । 30) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 31) अह॑रहर्-हविर्धा॒निनाग्ं॑ हविर्धा॒निना॒ मह॑रह॒ रह॑रहर्-हविर्धा॒निना᳚म् । 31) अह॑रह॒रित्यहः॑ - अ॒हः॒ । 32) ह॒वि॒र्धा॒निनाग्ं॑ सु॒त-स्सु॒तो ह॑विर्धा॒निनाग्ं॑ हविर्धा॒निनाग्ं॑ सु॒तः । 32) ह॒वि॒र्धा॒निना॒मिति॑ हविः - धा॒निना᳚म् । 33) सु॒तो यो य-स्सु॒त-स्सु॒तो यः । 34) य ए॒व मे॒वं-योँ य ए॒वम् । 35) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 36) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ । 37) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते । 37) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 38) यज॑ते हविर्धा॒नी ह॑विर्धा॒नी यज॑ते॒ यज॑ते हविर्धा॒नी । 39) ह॒वि॒र्धा॒ न्य॑स्म्यस्मि हविर्धा॒नी ह॑विर्धा॒ न्य॑स्मि । 39) ह॒वि॒र्धा॒नीति॑ हविः - धा॒नी । 40) अ॒स्मीती त्य॑स्म्य॒ स्मीति॑ । 41) इति॒ सर्व॒ग्ं॒ सर्व॒ मितीति॒ सर्व᳚म् । 42) सर्व॑ मे॒वैव सर्व॒ग्ं॒ सर्व॑ मे॒व । 43) ए॒वास्या᳚ स्यै॒वैवास्य॑ । 44) अ॒स्य॒ ब॒र्॒हि॒ष्य॑-म्बर्हि॒ष्य॑ मस्यास्य बर्हि॒ष्य᳚म् । 45) ब॒र्॒हि॒ष्य॑-न्द॒त्त-न्द॒त्त-म्ब॑र्हि॒ष्य॑-म्बर्हि॒ष्य॑-न्द॒त्तम् । 46) द॒त्त-म्भ॑वति भवति द॒त्त-न्द॒त्त-म्भ॑वति । 47) भ॒व॒ति॒ दे॒वा दे॒वा भ॑वति भवति दे॒वाः । 48) दे॒वा वै वै दे॒वा दे॒वा वै । 49) वा अह॒ रह॒-र्वै वा अहः॑ । 50) अह॑-र्य॒ज्ञियं॑-यँ॒ज्ञिय॒ मह॒ रह॑-र्य॒ज्ञिय᳚म् । ॥ 35 ॥ (50/62)
1) य॒ज्ञिय॒-न्न न य॒ज्ञियं॑-यँ॒ज्ञिय॒-न्न । 2) नावि॑न्द-न्नविन्द॒-न्न नावि॑न्दन्न् । 3) अ॒वि॒न्द॒-न्ते ते॑ ऽविन्द-न्नविन्द॒-न्ते । 4) ते द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ ते ते द॑र्शपूर्णमा॒सौ । 5) द॒र्॒श॒पू॒र्ण॒मा॒सा व॑पुन-न्नपुन-न्दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सा व॑पुनन्न् । 5) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 6) अ॒पु॒न॒-न्तौ ता व॑पुन-न्नपुन॒-न्तौ । 7) तौ वै वै तौ तौ वै । 8) वा ए॒ता वे॒तौ वै वा ए॒तौ । 9) ए॒तौ पू॒तौ पू॒ता वे॒ता वे॒तौ पू॒तौ । 10) पू॒तौ मेद्ध्यौ॒ मेद्ध्यौ॑ पू॒तौ पू॒तौ मेद्ध्यौ᳚ । 11) मेद्ध्यौ॒ य-द्य-न्मेद्ध्यौ॒ मेद्ध्यौ॒ यत् । 12) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ । 13) द॒र्॒श॒पू॒र्ण॒मा॒सौ यो यो द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यः । 13) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 14) य ए॒व मे॒वं-योँ य ए॒वम् । 15) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 16) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ । 17) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते । 17) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 18) यज॑ते पू॒तौ पू॒तौ यज॑ते॒ यज॑ते पू॒तौ । 19) पू॒ता वे॒वैव पू॒तौ पू॒ता वे॒व । 20) ए॒वैना॑ वेना वे॒वैवैनौ᳚ । 21) ए॒नौ॒ मेद्ध्यौ॒ मेद्ध्या॑ वेना वेनौ॒ मेद्ध्यौ᳚ । 22) मेद्ध्यौ॑ यजते यजते॒ मेद्ध्यौ॒ मेद्ध्यौ॑ यजते । 23) य॒ज॒ते॒ न न य॑जते यजते॒ न । 24) नामा॑वा॒स्या॑या ममावा॒स्या॑या॒न्न नामा॑वा॒स्या॑याम् । 25) अ॒मा॒वा॒स्या॑या-ञ्च चामावा॒स्या॑या ममावा॒स्या॑या-ञ्च । 25) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । 26) च॒ पौ॒र्ण॒मा॒स्या-म्पौ᳚र्णमा॒स्या-ञ्च॑ च पौर्णमा॒स्याम् । 27) पौ॒र्ण॒मा॒स्या-ञ्च॑ च पौर्णमा॒स्या-म्पौ᳚र्णमा॒स्या-ञ्च॑ । 27) पौ॒र्ण॒मा॒स्यामिति॑ पौर्ण - मा॒स्याम् । 28) च॒ स्त्रिय॒ग्ग्॒ स्त्रिय॑-ञ्च च॒ स्त्रिय᳚म् । 29) स्त्रिय॒ मुपोप॒ स्त्रिय॒ग्ग्॒ स्त्रिय॒ मुप॑ । 30) उपे॑ यादिया॒ दुपोपे॑ यात् । 31) इ॒या॒-द्य-द्यदि॑या दिया॒-द्यत् । 32) यदु॑पे॒या दु॑पे॒या-द्य-द्यदु॑पे॒यात् । 33) उ॒पे॒या-न्निरि॑न्द्रियो॒ निरि॑न्द्रिय उपे॒या दु॑पे॒या-न्निरि॑न्द्रियः । 33) उ॒पे॒यादित्यु॑प - इ॒यात् । 34) निरि॑न्द्रिय-स्स्या-थ्स्या॒-न्निरि॑न्द्रियो॒ निरि॑न्द्रिय-स्स्यात् । 34) निरि॑न्द्रिय॒ इति॒ निः - इ॒न्द्रि॒यः॒ । 35) स्या॒-थ्सोम॑स्य॒ सोम॑स्य स्या-थ्स्या॒-थ्सोम॑स्य । 36) सोम॑स्य॒ वै वै सोम॑स्य॒ सोम॑स्य॒ वै । 37) वै राज्ञो॒ राज्ञो॒ वै वै राज्ञः॑ । 38) राज्ञो᳚ ऽर्धमा॒सस्या᳚ र्धमा॒सस्य॒ राज्ञो॒ राज्ञो᳚ ऽर्धमा॒सस्य॑ । 39) अ॒र्ध॒मा॒सस्य॒ रात्र॑यो॒ रात्र॑यो ऽर्धमा॒सस्या᳚ र्धमा॒सस्य॒ रात्र॑यः । 39) अ॒र्ध॒मा॒सस्येत्य॑र्ध - मा॒सस्य॑ । 40) रात्र॑यः॒ पत्न॑यः॒ पत्न॑यो॒ रात्र॑यो॒ रात्र॑यः॒ पत्न॑यः । 41) पत्न॑य आस-न्नास॒-न्पत्न॑यः॒ पत्न॑य आसन्न् । 42) आ॒स॒-न्तासा॒-न्तासा॑ मास-न्नास॒-न्तासा᳚म् । 43) तासा॑ ममावा॒स्या॑ ममावा॒स्या᳚-न्तासा॒-न्तासा॑ ममावा॒स्या᳚म् । 44) अ॒मा॒वा॒स्या᳚-ञ्च चामावा॒स्या॑ ममावा॒स्या᳚-ञ्च । 44) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् । 45) च॒ पौ॒र्ण॒मा॒सी-म्पौ᳚र्णमा॒सी-ञ्च॑ च पौर्णमा॒सीम् । 46) पौ॒र्ण॒मा॒सी-ञ्च॑ च पौर्णमा॒सी-म्पौ᳚र्णमा॒सी-ञ्च॑ । 46) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् । 47) च॒ न न च॑ च॒ न । 48) नोपोप॒ न नोप॑ । 49) उपै॑ दै॒दुपो पै᳚त् । 50) ऐ॒-त्ते ते ऐ॑दै॒-त्ते । ॥ 36 ॥ (50/60)
1) ते ए॑न मेन॒-न्ते ते ए॑नम् । 1) ते इति॒ ते । 2) ए॒न॒ म॒भ्या᳚(1॒)भ्ये॑न मेन म॒भि । 3) अ॒भि सग्ं स म॒भ्य॑भि सम् । 4) स म॑नह्येता मनह्येता॒ग्ं॒ सग्ं स म॑नह्येताम् । 5) अ॒न॒ह्ये॒ता॒-न्त-न्त म॑नह्येता मनह्येता॒-न्तम् । 6) तं-यँक्ष्मो॒ यक्ष्म॒ स्त-न्तं-यँक्ष्मः॑ । 7) यक्ष्म॑ आर्च्छ दार्च्छ॒-द्यक्ष्मो॒ यक्ष्म॑ आर्च्छत् । 8) आ॒र्च्छ॒-द्राजा॑न॒ग्ं॒ राजा॑न मार्च्छ दार्च्छ॒-द्राजा॑नम् । 9) राजा॑नं॒-यँक्ष्मो॒ यक्ष्मो॒ राजा॑न॒ग्ं॒ राजा॑नं॒-यँक्ष्मः॑ । 10) यक्ष्म॑ आर दार॒-द्यक्ष्मो॒ यक्ष्म॑ आरत् । 11) आ॒र॒दिती त्या॑र दार॒दिति॑ । 12) इति॒ त-त्तदितीति॒ तत् । 13) त-द्रा॑जय॒क्ष्मस्य॑ राजय॒क्ष्मस्य॒ त-त्त-द्रा॑जय॒क्ष्मस्य॑ । 14) रा॒ज॒य॒क्ष्मस्य॒ जन्म॒ जन्म॑ राजय॒क्ष्मस्य॑ राजय॒क्ष्मस्य॒ जन्म॑ । 14) रा॒ज॒य॒क्ष्मस्येति॑ राज - य॒क्ष्मस्य॑ । 15) जन्म॒ य-द्यज् जन्म॒ जन्म॒ यत् । 16) य-त्पापी॑या॒-न्पापी॑या॒न्॒. य-द्य-त्पापी॑यान् । 17) पापी॑या॒ नभ॑व॒दभ॑व॒-त्पापी॑या॒-न्पापी॑या॒ नभ॑वत् । 18) अभ॑व॒-त्त-त्तदभ॑व॒ दभ॑व॒-त्तत् । 19) त-त्पा॑पय॒क्ष्मस्य॑ पापय॒क्ष्मस्य॒ त-त्त-त्पा॑पय॒क्ष्मस्य॑ । 20) पा॒प॒य॒क्ष्मस्य॒ य-द्य-त्पा॑पय॒क्ष्मस्य॑ पापय॒क्ष्मस्य॒ यत् । 20) पा॒प॒य॒क्ष्मस्येति॑ पाप - य॒क्ष्मस्य॑ । 21) यज् जा॒याभ्या᳚-ञ्जा॒याभ्यां॒-यँ-द्यज् जा॒याभ्या᳚म् । 22) जा॒याभ्या॒ मवि॑न्द॒दवि॑न्दज् जा॒याभ्या᳚-ञ्जा॒याभ्या॒ मवि॑न्दत् । 23) अवि॑न्द॒-त्त-त्तदवि॑न्द॒ दवि॑न्द॒-त्तत् । 24) तज् जा॒येन्य॑स्य जा॒येन्य॑स्य॒ त-त्तज् जा॒येन्य॑स्य । 25) जा॒येन्य॑स्य॒ यो यो जा॒येन्य॑स्य जा॒येन्य॑स्य॒ यः । 26) य ए॒व मे॒वं-योँ य ए॒वम् । 27) ए॒व मे॒तेषा॑ मे॒तेषा॑ मे॒व मे॒व मे॒तेषा᳚म् । 28) ए॒तेषां॒-यँक्ष्मा॑णां॒-यँक्ष्मा॑णा मे॒तेषा॑ मे॒तेषां॒-यँक्ष्मा॑णाम् । 29) यक्ष्मा॑णा॒-ञ्जन्म॒ जन्म॒ यक्ष्मा॑णां॒-यँक्ष्मा॑णा॒-ञ्जन्म॑ । 30) जन्म॒ वेद॒ वेद॒ जन्म॒ जन्म॒ वेद॑ । 31) वेद॒ न न वेद॒ वेद॒ न । 32) नैन॑ मेन॒-न्न नैन᳚म् । 33) ए॒न॒ मे॒त ए॒त ए॑न मेन मे॒ते । 34) ए॒ते यक्ष्मा॒ यक्ष्मा॑ ए॒त ए॒ते यक्ष्माः᳚ । 35) यक्ष्मा॑ विन्दन्ति विन्दन्ति॒ यक्ष्मा॒ यक्ष्मा॑ विन्दन्ति । 36) वि॒न्द॒न्ति॒ स स वि॑न्दन्ति विन्दन्ति॒ सः । 37) स ए॒ते ए॒ते स स ए॒ते । 38) ए॒ते ए॒वैवैते ए॒ते ए॒व । 38) ए॒ते इत्ये॒ते । 39) ए॒व न॑म॒स्य-न्न॑म॒स्य-न्ने॒वैव न॑म॒स्यन्न् । 40) न॒म॒स्य-न्नुपोप॑ नम॒स्य-न्न॑म॒स्य-न्नुप॑ । 41) उपा॑धाव दधाव॒ दुपोपा॑ धावत् । 42) अ॒धा॒व॒-त्ते ते अ॑धाव दधाव॒-त्ते । 43) ते अ॑ब्रूता मब्रूता॒-न्ते ते अ॑ब्रूताम् । 43) ते इति॒ ते । 44) अ॒ब्रू॒तां॒-वँरं॒-वँर॑ मब्रूता मब्रूतां॒-वँर᳚म् । 45) वरं॑-वृँणावहै वृणावहै॒ वरं॒-वँरं॑-वृँणावहै । 46) वृ॒णा॒व॒हा॒ आ॒व मा॒वं-वृँ॑णावहै वृणावहा आ॒वम् । 47) आ॒व-न्दे॒वाना᳚-न्दे॒वाना॑ मा॒व मा॒व-न्दे॒वाना᳚म् । 48) दे॒वाना᳚-म्भाग॒धे भा॑ग॒धे दे॒वाना᳚-न्दे॒वाना᳚-म्भाग॒धे । 49) भा॒ग॒धे अ॑सावा साव भाग॒धे भा॑ग॒धे अ॑साव । 49) भा॒ग॒धे इति॑ भाग - धे । 50) अ॒सा॒ वा॒व दा॒व द॑सावा सावा॒वत् । ॥ 37 ॥ (50/56)
1) आ॒वद ध्य ध्या॒वदा॒ वदधि॑ । 2) अधि॑ दे॒वा दे॒वा अध्यधि॑ दे॒वाः । 3) दे॒वा इ॑ज्यान्ता इज्यान्तै दे॒वा दे॒वा इ॑ज्यान्तै । 4) इ॒ज्या॒न्ता॒ इतीती᳚ ज्यान्ता इज्यान्ता॒ इति॑ । 5) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 6) तस्मा᳚-थ्स॒दृशी॑नाग्ं स॒दृशी॑ना॒-न्तस्मा॒-त्तस्मा᳚-थ्स॒दृशी॑नाम् । 7) स॒दृशी॑ना॒ग्ं॒ रात्री॑णा॒ग्ं॒ रात्री॑णाग्ं स॒दृशी॑नाग्ं स॒दृशी॑ना॒ग्ं॒ रात्री॑णाम् । 8) रात्री॑णा ममावा॒स्या॑या ममावा॒स्या॑या॒ग्ं॒ रात्री॑णा॒ग्ं॒ रात्री॑णा ममावा॒स्या॑याम् । 9) अ॒मा॒वा॒स्या॑या-ञ्च चामावा॒स्या॑या ममावा॒स्या॑या-ञ्च । 9) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । 10) च॒ पौ॒र्ण॒मा॒स्या-म्पौ᳚र्णमा॒स्या-ञ्च॑ च पौर्णमा॒स्याम् । 11) पौ॒र्ण॒मा॒स्या-ञ्च॑ च पौर्णमा॒स्या-म्पौ᳚र्णमा॒स्या-ञ्च॑ । 11) पौ॒र्ण॒मा॒स्यामिति॑ पौर्ण - मा॒स्याम् । 12) च॒ दे॒वा दे॒वाश्च॑ च दे॒वाः । 13) दे॒वा इ॑ज्यन्त इज्यन्ते दे॒वा दे॒वा इ॑ज्यन्ते । 14) इ॒ज्य॒न्त॒ ए॒ते ए॒ते इ॑ज्यन्त इज्यन्त ए॒ते । 15) ए॒ते हि ह्ये॑ते ए॒ते हि । 15) ए॒ते इत्ये॒ते । 16) हि दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हि हि दे॒वाना᳚म् । 17) दे॒वाना᳚-म्भाग॒धे भा॑ग॒धे दे॒वाना᳚-न्दे॒वाना᳚-म्भाग॒धे । 18) भा॒ग॒धे भा॑ग॒धा भा॑ग॒धा भा॑ग॒धे भा॑ग॒धे भा॑ग॒धाः । 18) भा॒ग॒धे इति॑ भाग - धे । 19) भा॒ग॒धा अ॑स्मा अस्मै भाग॒धा भा॑ग॒धा अ॑स्मै । 19) भा॒ग॒धा इति॑ भाग - धाः । 20) अ॒स्मै॒ म॒नु॒ष्या॑ मनु॒ष्या॑ अस्मा अस्मै मनु॒ष्याः᳚ । 21) म॒नु॒ष्या॑ भवन्ति भवन्ति मनु॒ष्या॑ मनु॒ष्या॑ भवन्ति । 22) भ॒व॒न्ति॒ यो यो भ॑वन्ति भवन्ति॒ यः । 23) य ए॒व मे॒वं-योँ य ए॒वम् । 24) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 25) वेद॑ भू॒तानि॑ भू॒तानि॒ वेद॒ वेद॑ भू॒तानि॑ । 26) भू॒तानि॒ क्षुध॒-ङ्क्षुध॑-म्भू॒तानि॑ भू॒तानि॒ क्षुध᳚म् । 27) क्षुध॑ मघ्न-न्नघ्न॒न् क्षुध॒-ङ्क्षुध॑ मघ्नन्न् । 28) अ॒घ्न॒-न्थ्स॒द्य-स्स॒द्यो᳚ ऽघ्न-न्नघ्न-न्थ्स॒द्यः । 29) स॒द्यो म॑नु॒ष्या॑ मनु॒ष्या᳚-स्स॒द्य-स्स॒द्यो म॑नु॒ष्याः᳚ । 30) म॒नु॒ष्या॑ अर्धमा॒से᳚ ऽर्धमा॒से म॑नु॒ष्या॑ मनु॒ष्या॑ अर्धमा॒से । 31) अ॒र्ध॒मा॒से दे॒वा दे॒वा अ॑र्धमा॒से᳚ ऽर्धमा॒से दे॒वाः । 31) अ॒र्ध॒मा॒स इत्य॑र्ध - मा॒से । 32) दे॒वा मा॒सि मा॒सि दे॒वा दे॒वा मा॒सि । 33) मा॒सि पि॒तरः॑ पि॒तरो॑ मा॒सि मा॒सि पि॒तरः॑ । 34) पि॒तर॑-स्संवँथ्स॒रे सं॑वँथ्स॒रे पि॒तरः॑ पि॒तर॑-स्संवँथ्स॒रे । 35) सं॒वँ॒थ्स॒रे वन॒स्पत॑यो॒ वन॒स्पत॑य-स्संवँथ्स॒रे सं॑वँथ्स॒रे वन॒स्पत॑यः । 35) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 36) वन॒स्पत॑य॒ स्तस्मा॒-त्तस्मा॒-द्वन॒स्पत॑यो॒ वन॒स्पत॑य॒ स्तस्मा᳚त् । 37) तस्मा॒ दह॑रह॒ रह॑रह॒ स्तस्मा॒-त्तस्मा॒ दह॑रहः । 38) अह॑रह-र्मनु॒ष्या॑ मनु॒ष्या॑ अह॑रह॒ रह॑रह-र्मनु॒ष्याः᳚ । 38) अह॑रह॒रित्यहः॑ - अ॒हः॒ । 39) म॒नु॒ष्या॑ अश॑न॒ मश॑न-म्मनु॒ष्या॑ मनु॒ष्या॑ अश॑नम् । 40) अश॑न मिच्छन्त इच्छ॒न्ते ऽश॑न॒ मश॑न मिच्छन्ते । 41) इ॒च्छ॒न्ते॒ ऽर्ध॒मा॒से᳚ ऽर्धमा॒स इ॑च्छन्त इच्छन्ते ऽर्धमा॒से । 42) अ॒र्ध॒मा॒से दे॒वा दे॒वा अ॑र्धमा॒से᳚ ऽर्धमा॒से दे॒वाः । 42) अ॒र्ध॒मा॒स इत्य॑र्ध - मा॒से । 43) दे॒वा इ॑ज्यन्त इज्यन्ते दे॒वा दे॒वा इ॑ज्यन्ते । 44) इ॒ज्य॒न्ते॒ मा॒सि मा॒सीज्य॑न्त इज्यन्ते मा॒सि । 45) मा॒सि पि॒तृभ्यः॑ पि॒तृभ्यो॑ मा॒सि मा॒सि पि॒तृभ्यः॑ । 46) पि॒तृभ्यः॑ क्रियते क्रियते पि॒तृभ्यः॑ पि॒तृभ्यः॑ क्रियते । 46) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । 47) क्रि॒य॒ते॒ सं॒वँ॒थ्स॒रे सं॑वँथ्स॒रे क्रि॑यते क्रियते संवँथ्स॒रे । 48) सं॒वँ॒थ्स॒रे वन॒स्पत॑यो॒ वन॒स्पत॑य-स्संवँथ्स॒रे सं॑वँथ्स॒रे वन॒स्पत॑यः । 48) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 49) वन॒स्पत॑यः॒ फल॒-म्फलं॒-वँन॒स्पत॑यो॒ वन॒स्पत॑यः॒ फल᳚म् । 50) फल॑-ङ्गृह्णन्ति गृह्णन्ति॒ फल॒-म्फल॑-ङ्गृह्णन्ति । 51) गृ॒ह्ण॒न्ति॒ यो यो गृ॑ह्णन्ति गृह्णन्ति॒ यः । 52) य ए॒व मे॒वं-योँ य ए॒वम् । 53) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 54) वेद॒ हन्ति॒ हन्ति॒ वेद॒ वेद॒ हन्ति॑ । 55) हन्ति॒ क्षुध॒-ङ्क्षुध॒ग्ं॒ हन्ति॒ हन्ति॒ क्षुध᳚म् । 56) क्षुध॒-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-ङ्क्षुध॒-ङ्क्षुध॒-म्भ्रातृ॑व्यम् । 57) भ्रातृ॑व्य॒मिति॒ भ्रातृ॑व्यम् । ॥ 38 ॥ (57/68) ॥ अ. 6 ॥
1) दे॒वा वै वै दे॒वा दे॒वा वै । 2) वै न न वै वै न । 3) न र्च्यृ॑चि न न र्चि । 4) ऋ॒चि न न र्च्यृ॑चि न । 5) न यजु॑षि॒ यजु॑षि॒ न न यजु॑षि । 6) यजु॑ष्यश्रयन्ता श्रयन्त॒ यजु॑षि॒ यजु॑ष्य श्रयन्त । 7) अ॒श्र॒य॒न्त॒ ते ते᳚ ऽश्रयन्ता श्रयन्त॒ ते । 8) ते साम॒-न्थ्साम॒-न्ते ते सामन्न्॑ । 9) साम॑-न्ने॒वैव साम॒-न्थ्साम॑-न्ने॒व । 10) ए॒वा श्र॑यन्ता श्रयन्तै॒वैवा श्र॑यन्त । 11) अ॒श्र॒य॒न्त॒ हिग्ं हि म॑श्रयन्ता श्रयन्त॒ हिम् । 12) हि-ङ्क॑रोति करोति॒ हिग्ं हि-ङ्क॑रोति । 13) क॒रो॒ति॒ साम॒ साम॑ करोति करोति॒ साम॑ । 14) सामै॒वैव साम॒ सामै॒व । 15) ए॒वाक॑ रक रे॒वैवाकः॑ । 16) अ॒क॒र्॒ हिग्ं हि म॑क रक॒र्॒ हिम् । 17) हि-ङ्क॑रोति करोति॒ हिग्ं हि-ङ्क॑रोति । 18) क॒रो॒ति॒ यत्र॒ यत्र॑ करोति करोति॒ यत्र॑ । 19) यत्रै॒वैव यत्र॒ यत्रै॒व । 20) ए॒व दे॒वा दे॒वा ए॒वैव दे॒वाः । 21) दे॒वा अश्र॑य॒न्ता श्र॑यन्त दे॒वा दे॒वा अश्र॑यन्त । 22) अश्र॑यन्त॒ तत॒स्ततो ऽश्र॑य॒न्ता श्र॑यन्त॒ ततः॑ । 23) तत॑ ए॒वैव तत॒ स्तत॑ ए॒व । 24) ए॒वैना॑ नेना ने॒वैवैनान्॑ । 25) ए॒ना॒-न्प्र प्रैना॑ नेना॒-न्प्र । 26) प्र यु॑ङ्क्ते युङ्क्ते॒ प्र प्र यु॑ङ्क्ते । 27) यु॒ङ्क्ते॒ हिग्ं हिं-युँ॑ङ्क्ते युङ्क्ते॒ हिम् । 28) हि-ङ्क॑रोति करोति॒ हिग्ं हि-ङ्क॑रोति । 29) क॒रो॒ति॒ वा॒चो वा॒चः क॑रोति करोति वा॒चः । 30) वा॒च ए॒वैव वा॒चो वा॒च ए॒व । 31) ए॒वैष ए॒ष ए॒वैवैषः । 32) ए॒ष योगो॒ योग॑ ए॒ष ए॒ष योगः॑ । 33) योगो॒ हिग्ं हिं-योँगो॒ योगो॒ हिम् । 34) हि-ङ्क॑रोति करोति॒ हिग्ं हि-ङ्क॑रोति । 35) क॒रो॒ति॒ प्र॒जाः प्र॒जाः क॑रोति करोति प्र॒जाः । 36) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व । 36) प्र॒जा इति॑ प्र - जाः । 37) ए॒व त-त्तदे॒वैव तत् । 38) त-द्यज॑मानो॒ यज॑मान॒ स्त-त्त-द्यज॑मानः । 39) यज॑मान-स्सृजते सृजते॒ यज॑मानो॒ यज॑मान-स्सृजते । 40) सृ॒ज॒ते॒ त्रि स्त्रि-स्सृ॑जते सृजते॒ त्रिः । 41) त्रिः प्र॑थ॒मा-म्प्र॑थ॒मा-न्त्रि स्त्रिः प्र॑थ॒माम् । 42) प्र॒थ॒मा मन्वनु॑ प्रथ॒मा-म्प्र॑थ॒मा मनु॑ । 43) अन्वा॑ हा॒हा न्वन्वा॑ह । 44) आ॒ह॒ त्रि स्त्रि रा॑हाह॒ त्रिः । 45) त्रिरु॑त्त॒मा मु॑त्त॒मा-न्त्रि स्त्रिरु॑त्त॒माम् । 46) उ॒त्त॒मां-यँ॒ज्ञस्य॑ य॒ज्ञस्यो᳚त्त॒मा मु॑त्त॒मां-यँ॒ज्ञस्य॑ । 46) उ॒त्त॒मामित्यु॑त् - त॒माम् । 47) य॒ज्ञस्यै॒वैव य॒ज्ञस्य॑ य॒ज्ञस्यै॒व । 48) ए॒व त-त्तदे॒वैव तत् । 49) त-द्ब॒र्॒स-म्ब॒र्॒स-न्त-त्त-द्ब॒र्॒सम् । 50) ब॒र्॒स-न्न॑ह्यति नह्यति ब॒र्॒स-म्ब॒र्॒स-न्न॑ह्यति । ॥ 39 ॥ (50/52)
1) न॒ह्य॒ त्यप्र॑स्रग्ंसा॒या प्र॑स्रग्ंसाय नह्यति नह्य॒ त्यप्र॑स्रग्ंसाय । 2) अप्र॑स्रग्ंसाय॒ सन्त॑त॒ग्ं॒ सन्त॑त॒ मप्र॑स्रग्ंसा॒या प्र॑स्रग्ंसाय॒ सन्त॑तम् । 2) अप्र॑स्रग्ंसा॒येत्यप्र॑ - स्र॒ग्ं॒सा॒य॒ । 3) सन्त॑त॒ मन्वनु॒ सन्त॑त॒ग्ं॒ सन्त॑त॒ मनु॑ । 3) सन्त॑त॒मिति॒ सं - त॒त॒म् । 4) अन्वा॑ हा॒हा न्वन्वा॑ह । 5) आ॒ह॒ प्रा॒णाना᳚-म्प्रा॒णाना॑ माहाह प्रा॒णाना᳚म् । 6) प्रा॒णाना॑ म॒न्नाद्य॑स्या॒ न्नाद्य॑स्य प्रा॒णाना᳚-म्प्रा॒णाना॑ म॒न्नाद्य॑स्य । 6) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 7) अ॒न्नाद्य॑स्य॒ सन्त॑त्यै॒ सन्त॑त्या अ॒न्नाद्य॑स्या॒ न्नाद्य॑स्य॒ सन्त॑त्यै । 7) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । 8) सन्त॑त्या॒ अथो॒ अथो॒ सन्त॑त्यै॒ सन्त॑त्या॒ अथो᳚ । 8) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । 9) अथो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मथो॒ अथो॒ रक्ष॑साम् । 9) अथो॒ इत्यथो᳚ । 10) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 11) अप॑हत्यै॒ राथ॑न्तरी॒ग्ं॒ राथ॑न्तरी॒ मप॑हत्या॒ अप॑हत्यै॒ राथ॑न्तरीम् । 11) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । 12) राथ॑न्तरी-म्प्रथ॒मा-म्प्र॑थ॒माग्ं राथ॑न्तरी॒ग्ं॒ राथ॑न्तरी-म्प्रथ॒माम् । 12) राथ॑न्तरी॒मिति॒ राथं᳚ - त॒री॒म् । 13) प्र॒थ॒मा मन्वनु॑ प्रथ॒मा-म्प्र॑थ॒मा मनु॑ । 14) अन्वा॑ हा॒हा न्वन्वा॑ह । 15) आ॒ह॒ राथ॑न्तरो॒ राथ॑न्तर आहाह॒ राथ॑न्तरः । 16) राथ॑न्तरो॒ वै वै राथ॑न्तरो॒ राथ॑न्तरो॒ वै । 16) राथ॑न्तर॒ इति॒ राथं᳚ - त॒रः॒ । 17) वा अ॒य म॒यं-वैँ वा अ॒यम् । 18) अ॒यम् ँलो॒को लो॒को॑ ऽय म॒यम् ँलो॒कः । 19) लो॒क इ॒म मि॒मम् ँलो॒को लो॒क इ॒मम् । 20) इ॒म मे॒वैवे म मि॒म मे॒व । 21) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् । 22) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि । 23) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 24) ज॒य॒ति॒ त्रि स्त्रि-र्ज॑यति जयति॒ त्रिः । 25) त्रि-र्वि वि त्रि स्त्रि-र्वि । 26) वि गृ॑ह्णाति गृह्णाति॒ वि वि गृ॑ह्णाति । 27) गृ॒ह्णा॒ति॒ त्रय॒ स्त्रयो॑ गृह्णाति गृह्णाति॒ त्रयः॑ । 28) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे । 29) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 30) लो॒का इ॒मा नि॒मान् ँलो॒का लो॒का इ॒मान् । 31) इ॒मा ने॒वैवे मा नि॒मा ने॒व । 32) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् । 33) लो॒का न॒भ्य॑भि लो॒कान् ँलो॒का न॒भि । 34) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 35) ज॒य॒ति॒ बार्ह॑ती॒-म्बार्ह॑ती-ञ्जयति जयति॒ बार्ह॑तीम् । 36) बार्ह॑ती मुत्त॒मा मु॑त्त॒मा-म्बार्ह॑ती॒-म्बार्ह॑ती मुत्त॒माम् । 37) उ॒त्त॒मा मन्वनू᳚त्त॒मा मु॑त्त॒मा मनु॑ । 37) उ॒त्त॒मामित्यु॑त् - त॒माम् । 38) अन्वा॑ हा॒हा न्वन्वा॑ह । 39) आ॒ह॒ बार्ह॑तो॒ बार्ह॑त आहाह॒ बार्ह॑तः । 40) बार्ह॑तो॒ वै वै बार्ह॑तो॒ बार्ह॑तो॒ वै । 41) वा अ॒सा व॒सौ वै वा अ॒सौ । 42) अ॒सौ लो॒को लो॒को॑ ऽसा व॒सौ लो॒कः । 43) लो॒को॑ ऽमु म॒मुम् ँलो॒को लो॒को॑ ऽमुम् । 44) अ॒मु मे॒वैवामु म॒मु मे॒व । 45) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् । 46) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि । 47) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 48) ज॒य॒ति॒ प्र प्र ज॑यति जयति॒ प्र । 49) प्र वो॑ वः॒ प्र प्र वः॑ । 50) वो॒ वाजा॒ वाजा॑ वो वो॒ वाजाः᳚ । ॥ 40 ॥ (50/60)
1) वाजा॒ इतीति॒ वाजा॒ वाजा॒ इति॑ । 2) इत्यनि॑रुक्ता॒ मनि॑रुक्ता॒ मिती त्यनि॑रुक्ताम् । 3) अनि॑रुक्ता-म्प्राजाप॒त्या-म्प्रा॑जाप॒त्या मनि॑रुक्ता॒ मनि॑रुक्ता-म्प्राजाप॒त्याम् । 3) अनि॑रुक्ता॒मित्यनिः॑ - उ॒क्ता॒म् । 4) प्रा॒जा॒प॒त्या मन्वनु॑ प्राजाप॒त्या-म्प्रा॑जाप॒त्या मनु॑ । 4) प्रा॒जा॒प॒त्यामिति॑ प्राजा - प॒त्याम् । 5) अन्वा॑ हा॒हा न्वन्वा॑ह । 6) आ॒ह॒ य॒ज्ञो य॒ज्ञ आ॑हाह य॒ज्ञः । 7) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । 8) वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः । 9) प्र॒जाप॑ति-र्य॒ज्ञं-यँ॒ज्ञ-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्य॒ज्ञम् । 9) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 10) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 11) ए॒व प्र॒जाप॑ति-म्प्र॒जाप॑ति मे॒वैव प्र॒जाप॑तिम् । 12) प्र॒जाप॑ति॒ मा प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मा । 12) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 13) आ र॑भते रभत॒ आ र॑भते । 14) र॒भ॒ते॒ प्र प्र र॑भते रभते॒ प्र । 15) प्र वो॑ वः॒ प्र प्र वः॑ । 16) वो॒ वाजा॒ वाजा॑ वो वो॒ वाजाः᳚ । 17) वाजा॒ इतीति॒ वाजा॒ वाजा॒ इति॑ । 18) इत्यन्वन्विती त्यनु॑ । 19) अन्वा॑ हा॒हा न्वन्वा॑ह । 20) आ॒हान्न॒ मन्न॑ माहा॒हा न्न᳚म् । 21) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 22) वै वाजो॒ वाजो॒ वै वै वाजः॑ । 23) वाजो ऽन्न॒ मन्नं॒-वाँजो॒ वाजो ऽन्न᳚म् । 24) अन्न॑ मे॒वैवान्न॒ मन्न॑ मे॒व । 25) ए॒वावा वै॒वैवाव॑ । 26) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 27) रु॒न्धे॒ प्र प्र रु॑न्धे रुन्धे॒ प्र । 28) प्र वो॑ वः॒ प्र प्र वः॑ । 29) वो॒ वाजा॒ वाजा॑ वो वो॒ वाजाः᳚ । 30) वाजा॒ इतीति॒ वाजा॒ वाजा॒ इति॑ । 31) इत्यन्वन्विती त्यनु॑ । 32) अन्वा॑ हा॒हा न्वन्वा॑ह । 33) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् । 34) तस्मा᳚-त्प्रा॒चीन॑-म्प्रा॒चीन॒-न्तस्मा॒-त्तस्मा᳚-त्प्रा॒चीन᳚म् । 35) प्रा॒चीन॒ग्ं॒ रेतो॒ रेतः॑ प्रा॒चीन॑-म्प्रा॒चीन॒ग्ं॒ रेतः॑ । 36) रेतो॑ धीयते धीयते॒ रेतो॒ रेतो॑ धीयते । 37) धी॒य॒ते ऽग्ने ऽग्ने॑ धीयते धीय॒ते ऽग्ने᳚ । 38) अग्न॒ आ ऽग्ने ऽग्न॒ आ । 39) आ या॑हि या॒ह्या या॑हि । 40) या॒हि॒ वी॒तये॑ वी॒तये॑ याहि याहि वी॒तये᳚ । 41) वी॒तय॒ इतीति॑ वी॒तये॑ वी॒तय॒ इति॑ । 42) इत्या॑हा॒हे तीत्या॑ह । 43) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् । 44) तस्मा᳚-त्प्र॒तीचीः᳚ प्र॒तीची॒ स्तस्मा॒-त्तस्मा᳚-त्प्र॒तीचीः᳚ । 45) प्र॒तीचीः᳚ प्र॒जाः प्र॒जाः प्र॒तीचीः᳚ प्र॒तीचीः᳚ प्र॒जाः । 46) प्र॒जा जा॑यन्ते जायन्ते प्र॒जाः प्र॒जा जा॑यन्ते । 46) प्र॒जा इति॑ प्र - जाः । 47) जा॒य॒न्ते॒ प्र प्र जा॑यन्ते जायन्ते॒ प्र । 48) प्र वो॑ वः॒ प्र प्र वः॑ । 49) वो॒ वाजा॒ वाजा॑ वो वो॒ वाजाः᳚ । 50) वाजा॒ इतीति॒ वाजा॒ वाजा॒ इति॑ । ॥ 41 ॥ (50/55)
1) इत्यन्वन्विती त्यनु॑ । 2) अन्वा॑ हा॒हा न्वन्वा॑ह । 3) आ॒ह॒ मासा॒ मासा॑ आहाह॒ मासाः᳚ । 4) मासा॒ वै वै मासा॒ मासा॒ वै । 5) वै वाजा॒ वाजा॒ वै वै वाजाः᳚ । 6) वाजा॑ अर्धमा॒सा अ॑र्धमा॒सा वाजा॒ वाजा॑ अर्धमा॒साः । 7) अ॒र्ध॒मा॒सा अ॒भिद्य॑वो॒ ऽभिद्य॑वो ऽर्धमा॒सा अ॑र्धमा॒सा अ॒भिद्य॑वः । 7) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः । 8) अ॒भिद्य॑वो दे॒वा दे॒वा अ॒भिद्य॑वो॒ ऽभिद्य॑वो दे॒वाः । 8) अ॒भिद्य॑व॒ इत्य॒भि - द्य॒वः॒ । 9) दे॒वा ह॒विष्म॑न्तो ह॒विष्म॑न्तो दे॒वा दे॒वा ह॒विष्म॑न्तः । 10) ह॒विष्म॑न्तो॒ गौ-र्गौर्-ह॒विष्म॑न्तो ह॒विष्म॑न्तो॒ गौः । 11) गौ-र्घृ॒ताची॑ घृ॒ताची॒ गौ-र्गौ-र्घृ॒ताची᳚ । 12) घृ॒ताची॑ य॒ज्ञो य॒ज्ञो घृ॒ताची॑ घृ॒ताची॑ य॒ज्ञः । 13) य॒ज्ञो दे॒वा-न्दे॒वान्. य॒ज्ञो य॒ज्ञो दे॒वान् । 14) दे॒वान् जि॑गाति जिगाति दे॒वा-न्दे॒वान् जि॑गाति । 15) जि॒गा॒ति॒ यज॑मानो॒ यज॑मानो जिगाति जिगाति॒ यज॑मानः । 16) यज॑मान-स्सुम्न॒यु-स्सु॑म्न॒यु-र्यज॑मानो॒ यज॑मान-स्सुम्न॒युः । 17) सु॒म्न॒युरि॒द मि॒दग्ं सु॑म्न॒यु-स्सु॑म्न॒युरि॒दम् । 17) सु॒म्न॒युरिति॑ सुम्न - युः । 18) इ॒द म॑स्यसी॒द मि॒द म॑सि । 19) अ॒सी॒द मि॒द म॑स्यसी॒दम् । 20) इ॒द म॑स्यसी॒द मि॒द म॑सि । 21) अ॒सीती त्य॑स्य॒सीति॑ । 22) इत्ये॒वैवे तीत्ये॒व । 23) ए॒व य॒ज्ञस्य॑ य॒ज्ञस्यै॒वैव य॒ज्ञस्य॑ । 24) य॒ज्ञस्य॑ प्रि॒य-म्प्रि॒यं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ प्रि॒यम् । 25) प्रि॒य-न्धाम॒ धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॑ । 26) धामावाव॒ धाम॒ धामाव॑ । 27) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 28) रु॒न्धे॒ यं-यँग्ं रु॑न्धे रुन्धे॒ यम् । 29) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 30) का॒मये॑त॒ सर्व॒ग्ं॒ सर्व॑-ङ्का॒मये॑त का॒मये॑त॒ सर्व᳚म् । 31) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ । 32) आयु॑ रिया दिया॒ दायु॒ रायु॑ रियात् । 33) इ॒या॒ दितीती॑या दिया॒ दिति॑ । 34) इति॒ प्र प्रे तीति॒ प्र । 35) प्र वो॑ वः॒ प्र प्र वः॑ । 36) वो॒ वाजा॒ वाजा॑ वो वो॒ वाजाः᳚ । 37) वाजा॒ इतीति॒ वाजा॒ वाजा॒ इति॑ । 38) इति॒ तस्य॒ तस्ये तीति॒ तस्य॑ । 39) तस्या॒नूच्या॒ नूच्य॒ तस्य॒ तस्या॒ नूच्य॑ । 40) अ॒नूच्याग्ने ऽग्ने॒ ऽनूच्या॒ नूच्याग्ने᳚ । 40) अ॒नूच्येत्य॑नु - उच्य॑ । 41) अग्न॒ आ ऽग्ने ऽग्न॒ आ । 42) आ या॑हि या॒ह्या या॑हि । 43) या॒हि॒ वी॒तये॑ वी॒तये॑ याहि याहि वी॒तये᳚ । 44) वी॒तय॒ इतीति॑ वी॒तये॑ वी॒तय॒ इति॑ । 45) इति॒ सन्त॑त॒ग्ं॒ सन्त॑त॒ मितीति॒ सन्त॑तम् । 46) सन्त॑त॒ मुत्त॑र॒ मुत्त॑र॒ग्ं॒ सन्त॑त॒ग्ं॒ सन्त॑त॒ मुत्त॑रम् । 46) सन्त॑त॒मिति॒ सं - त॒त॒म् । 47) उत्त॑र मर्ध॒र्च म॑र्ध॒र्च मुत्त॑र॒ मुत्त॑र मर्ध॒र्चम् । 47) उत्त॑र॒मित्युत् - त॒र॒म् । 48) अ॒र्ध॒र्च मा ऽर्ध॒र्च म॑र्ध॒र्च मा । 48) अ॒र्ध॒र्चमित्य॑र्ध - ऋ॒चम् । 49) आ ल॑भेत लभे॒ता ल॑भेत । 50) ल॒भे॒त॒ प्रा॒णेन॑ प्रा॒णेन॑ लभेत लभेत प्रा॒णेन॑ । ॥ 42 ॥ (50/57)
1) प्रा॒णे नै॒वैव प्रा॒णेन॑ प्रा॒णे नै॒व । 1) प्रा॒णेनेति॑ प्र - अ॒नेन॑ । 2) ए॒वास्या᳚ स्यै॒वैवास्य॑ । 3) अ॒स्या॒ पा॒न म॑पा॒न म॑स्यास्या पा॒नम् । 4) अ॒पा॒न-न्दा॑धार दाधारा पा॒न म॑पा॒न-न्दा॑धार । 4) अ॒पा॒नमित्य॑प - अ॒नम् । 5) दा॒धा॒र॒ सर्व॒ग्ं॒ सर्व॑-न्दाधार दाधार॒ सर्व᳚म् । 6) सर्व॒ मायु॒रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ । 7) आयु॑ रेत्ये॒त्यायु॒ रायु॑रेति । 8) ए॒ति॒ यो य ए᳚त्येति॒ यः । 9) यो वै वै यो यो वै । 10) वा अ॑र॒त्नि म॑र॒त्निं-वैँ वा अ॑र॒त्निम् । 11) अ॒र॒त्निग्ं सा॑मिधे॒नीनाग्ं॑ सामिधे॒नीना॑ मर॒त्नि म॑र॒त्निग्ं सा॑मिधे॒नीना᳚म् । 12) सा॒मि॒धे॒नीनां॒-वेँद॒ वेद॑ सामिधे॒नीनाग्ं॑ सामिधे॒नीनां॒-वेँद॑ । 12) सा॒मि॒धे॒नीना॒मिति॑ सां - इ॒धे॒नीना᳚म् । 13) वेदा॑र॒त्ना व॑र॒त्नौ वेद॒ वेदा॑र॒त्नौ । 14) अ॒र॒त्ना वे॒वैवा र॒त्ना व॑र॒त्ना वे॒व । 15) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् । 16) भ्रातृ॑व्य-ङ्कुरुते कुरुते॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-ङ्कुरुते । 17) कु॒रु॒ते॒ ऽर्ध॒र्चा व॑र्ध॒र्चौ कु॑रुते कुरुते ऽर्ध॒र्चौ । 18) अ॒र्ध॒र्चौ सग्ं स म॑र्ध॒र्चा व॑र्ध॒र्चौ सम् । 18) अ॒र्ध॒र्चावित्य॑र्ध - ऋ॒चौ । 19) स-न्द॑धाति दधाति॒ सग्ं स-न्द॑धाति । 20) द॒धा॒ त्ये॒ष ए॒ष द॑धाति दधा त्ये॒षः । 21) ए॒ष वै वा ए॒ष ए॒ष वै । 22) वा अ॑र॒त्निर॑ र॒त्नि-र्वै वा अ॑र॒त्निः । 23) अ॒र॒त्नि-स्सा॑मिधे॒नीनाग्ं॑ सामिधे॒नीना॑ मर॒त्नि र॑र॒त्नि-स्सा॑मिधे॒नीना᳚म् । 24) सा॒मि॒धे॒नीनां॒-योँ य-स्सा॑मिधे॒नीनाग्ं॑ सामिधे॒नीनां॒-यः ँ। 24) सा॒मि॒धे॒नीना॒मिति॑ सां - इ॒धे॒नीना᳚म् । 25) य ए॒व मे॒वं-योँ य ए॒वम् । 26) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 27) वेदा॑ र॒त्ना व॑र॒त्नौ वेद॒ वेदा॑ र॒त्नौ । 28) अ॒र॒त्ना वे॒वैवा र॒त्ना व॑र॒त्ना वे॒व । 29) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् । 30) भ्रातृ॑व्य-ङ्कुरुते कुरुते॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-ङ्कुरुते । 31) कु॒रु॒त॒ ऋषेर्॑.ऋषे॒र्॒ ऋषेर्॑.ऋषेः कुरुते कुरुत॒ ऋषेर्॑.ऋषेः । 32) ऋषेर्॑.ऋषे॒-र्वै वा ऋषेर्॑.ऋषे॒र्॒ ऋषेर्॑.ऋषे॒-र्वै । 32) ऋषेर्॑.ऋषे॒रित्यृषेः᳚ - ऋ॒षेः॒ । 33) वा ए॒ता ए॒ता वै वा ए॒ताः । 34) ए॒ता निर्मि॑ता॒ निर्मि॑ता ए॒ता ए॒ता निर्मि॑ताः । 35) निर्मि॑ता॒ य-द्य-न्निर्मि॑ता॒ निर्मि॑ता॒ यत् । 35) निर्मि॑ता॒ इति॒ निः - मि॒ताः॒ । 36) य-थ्सा॑मिधे॒न्य॑-स्सामिधे॒न्यो॑ य-द्य-थ्सा॑मिधे॒न्यः॑ । 37) सा॒मि॒धे॒न्य॑ स्ता स्ता-स्सा॑मिधे॒न्य॑-स्सामिधे॒न्य॑ स्ताः । 37) सा॒मि॒धे॒न्य॑ इति॑ सां - इ॒धे॒न्यः॑ । 38) ता य-द्य-त्ता स्ता यत् । 39) यदसं॑युँक्ता॒ असं॑युँक्ता॒ य-द्यदसं॑युँक्ताः । 40) असं॑युँक्ता॒-स्स्यु-स्स्यु रसं॑युँक्ता॒ असं॑युँक्ता॒-स्स्युः । 40) असं॑युँक्ता॒ इत्यसं᳚ - यु॒क्ताः॒ । 41) स्युः प्र॒जया᳚ प्र॒जया॒ स्यु-स्स्युः प्र॒जया᳚ । 42) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 42) प्र॒जयेति॑ प्र - जया᳚ । 43) प॒शुभि॒-र्यज॑मानस्य॒ यज॑मानस्य प॒शुभिः॑ प॒शुभि॒-र्यज॑मानस्य । 43) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 44) यज॑मानस्य॒ वि वि यज॑मानस्य॒ यज॑मानस्य॒ वि । 45) वि ति॑ष्ठेर-न्तिष्ठेर॒न्॒. वि वि ति॑ष्ठेरन्न् । 46) ति॒ष्ठे॒र॒-न्न॒र्ध॒र्चा व॑र्ध॒र्चौ ति॑ष्ठेर-न्तिष्ठेर-न्नर्ध॒र्चौ । 47) अ॒र्ध॒र्चौ सग्ं स म॑र्ध॒र्चा व॑र्ध॒र्चौ सम् । 47) अ॒र्ध॒र्चावित्य॑र्ध - ऋ॒चौ । 48) स-न्द॑धाति दधाति॒ सग्ं स-न्द॑धाति । 49) द॒धा॒ति॒ सग्ं स-न्द॑धाति दधाति॒ सम् । 50) सं-युँ॑नक्ति युनक्ति॒ सग्ं सं-युँ॑नक्ति । 51) यु॒न॒-क्त्ये॒वैव यु॑नक्ति युन-क्त्ये॒व । 52) ए॒वैना॑ एना ए॒वैवैनाः᳚ । 53) ए॒ना॒ स्ता स्ता ए॑ना एना॒ स्ताः । 54) ता अ॑स्मा अस्मै॒ ता स्ता अ॑स्मै । 55) अ॒स्मै॒ संयुँ॑क्ता॒-स्संयुँ॑क्ता अस्मा अस्मै॒ संयुँ॑क्ताः । 56) संयुँ॑क्ता॒ अव॑रुद्धा॒ अव॑रुद्धा॒-स्संयुँ॑क्ता॒-स्संयुँ॑क्ता॒ अव॑रुद्धाः । 56) संयुँ॑क्ता॒ इति॒ सं - यु॒क्ताः॒ । 57) अव॑रुद्धा॒-स्सर्वा॒ग्ं॒ सर्वा॒ मव॑रुद्धा॒ अव॑रुद्धा॒-स्सर्वा᳚म् । 57) अव॑रुद्धा॒ इत्यव॑ - रु॒द्धाः॒ । 58) सर्वा॑ मा॒शिष॑ मा॒शिष॒ग्ं॒ सर्वा॒ग्ं॒ सर्वा॑ मा॒शिष᳚म् । 59) आ॒शिष॑-न्दुह्रे दुह्र आ॒शिष॑ मा॒शिष॑-न्दुह्रे । 59) आ॒शिष॒मित्या᳚ - शिष᳚म् । 60) दु॒ह्र॒ इति॑ दुह्रे । ॥ 43 ॥ (60/75) ॥ अ. 7 ॥
1) अय॑ज्ञो॒ वै वा अय॒ज्ञो ऽय॑ज्ञो॒ वै । 2) वा ए॒ष ए॒ष वै वा ए॒षः । 3) ए॒ष यो य ए॒ष ए॒ष यः । 4) यो॑ ऽसा॒मा ऽसा॒मा यो यो॑ ऽसा॒मा । 5) अ॒सा॒मा ऽग्ने ऽग्ने॑ ऽसा॒मा ऽसा॒मा ऽग्ने᳚ । 6) अग्न॒ आ ऽग्ने ऽग्न॒ आ । 7) आ या॑हि या॒ह्या या॑हि । 8) या॒हि॒ वी॒तये॑ वी॒तये॑ याहि याहि वी॒तये᳚ । 9) वी॒तय॒ इतीति॑ वी॒तये॑ वी॒तय॒ इति॑ । 10) इत्या॑हा॒हे तीत्या॑ह । 11) आ॒ह॒ र॒थ॒न्त॒रस्य॑ रथन्त॒रस्या॑ हाह रथन्त॒रस्य॑ । 12) र॒थ॒न्त॒र स्यै॒ष ए॒ष र॑थन्त॒रस्य॑ रथन्त॒र स्यै॒षः । 12) र॒थ॒न्त॒रस्येति॑ रथं - त॒रस्य॑ । 13) ए॒ष वर्णो॒ वर्ण॑ ए॒ष ए॒ष वर्णः॑ । 14) वर्ण॒ स्त-न्तं-वँर्णो॒ वर्ण॒ स्तम् । 15) त-न्त्वा᳚ त्वा॒ त-न्त-न्त्वा᳚ । 16) त्वा॒ स॒मिद्भि॑-स्स॒मिद्भि॑ स्त्वा त्वा स॒मिद्भिः॑ । 17) स॒मिद्भि॑ रङ्गिरो अङ्गिर-स्स॒मिद्भि॑-स्स॒मिद्भि॑ रङ्गिरः । 17) स॒मिद्भि॒रिति॑ स॒मित् - भिः॒ । 18) अ॒ङ्गि॒र॒ इती त्य॑ङ्गिरो ऽङ्गिर॒ इति॑ । 19) इत्या॑हा॒हे तीत्या॑ह । 20) आ॒ह॒ वा॒म॒दे॒व्यस्य॑ वामदे॒व्यस्या॑ हाह वामदे॒व्यस्य॑ । 21) वा॒म॒दे॒व्य स्यै॒ष ए॒ष वा॑मदे॒व्यस्य॑ वामदे॒व्य स्यै॒षः । 21) वा॒म॒दे॒व्यस्येति॑ वाम - दे॒व्यस्य॑ । 22) ए॒ष वर्णो॒ वर्ण॑ ए॒ष ए॒ष वर्णः॑ । 23) वर्णो॑ बृ॒ह-द्बृ॒ह-द्वर्णो॒ वर्णो॑ बृ॒हत् । 24) बृ॒ह द॑ग्ने ऽग्ने बृ॒ह-द्बृ॒ह द॑ग्ने । 25) अ॒ग्ने॒ सु॒वीर्यग्ं॑ सु॒वीर्य॑ मग्ने ऽग्ने सु॒वीर्य᳚म् । 26) सु॒वीर्य॒ मितीति॑ सु॒वीर्यग्ं॑ सु॒वीर्य॒ मिति॑ । 26) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒ह॒ बृ॒ह॒तो बृ॑ह॒त आ॑हाह बृह॒तः । 29) बृ॒ह॒त ए॒ष ए॒ष बृ॑ह॒तो बृ॑ह॒त ए॒षः । 30) ए॒ष वर्णो॒ वर्ण॑ ए॒ष ए॒ष वर्णः॑ । 31) वर्णो॒ य-द्य-द्वर्णो॒ वर्णो॒ यत् । 32) यदे॒त मे॒तं-यँ-द्यदे॒तम् । 33) ए॒त-न्तृ॒च-न्तृ॒च मे॒त मे॒त-न्तृ॒चम् । 34) तृ॒च म॒न्वाहा॒ न्वाह॑ तृ॒च-न्तृ॒च म॒न्वाह॑ । 35) अ॒न्वाह॑ य॒ज्ञं-यँ॒ज्ञ म॒न्वाहा॒ न्वाह॑ य॒ज्ञम् । 35) अ॒न्वाहेत्य॑नु - आह॑ । 36) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 37) ए॒व त-त्तदे॒वैव तत् । 38) त-थ्साम॑न्वन्त॒ग्ं॒ साम॑न्वन्त॒-न्त-त्त-थ्साम॑न्वन्तम् । 39) साम॑न्वन्त-ङ्करोति करोति॒ साम॑न्वन्त॒ग्ं॒ साम॑न्वन्त-ङ्करोति । 39) साम॑न्वन्त॒मिति॒ सामन्न्॑ - व॒न्त॒म् । 40) क॒रो॒ त्य॒ग्नि र॒ग्निः क॑रोति करो त्य॒ग्निः । 41) अ॒ग्नि र॒मुष्मि॑-न्न॒मुष्मि॑-न्न॒ग्नि र॒ग्नि र॒मुष्मिन्न्॑ । 42) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 43) लो॒क आसी॒ दासी᳚ ल्लो॒के लो॒क आसी᳚त् । 44) आसी॑ दादि॒त्य आ॑दि॒त्य आसी॒ दासी॑ दादि॒त्यः । 45) आ॒दि॒त्यो᳚ ऽस्मि-न्न॒स्मि-न्ना॑दि॒त्य आ॑दि॒त्यो᳚ ऽस्मिन्न् । 46) अ॒स्मि-न्तौ ता व॒स्मि-न्न॒स्मि-न्तौ । 47) ता वि॒मा वि॒मौ तौ ता वि॒मौ । 48) इ॒मौ लो॒कौ लो॒का वि॒मा वि॒मौ लो॒कौ । 49) लो॒का वशा᳚न्ता॒ वशा᳚न्तौ लो॒कौ लो॒का वशा᳚न्तौ । 50) अशा᳚न्ता वास्ता मास्ता॒ मशा᳚न्ता॒ वशा᳚न्ता वास्ताम् । ॥ 44 ॥ (50/56)
1) आ॒स्ता॒-न्ते त आ᳚स्ता मास्ता॒-न्ते । 2) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 3) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् । 4) अ॒ब्रु॒व॒-न्ना ऽब्रु॑व-न्नब्रुव॒-न्ना । 5) एते॒ तेत॑ । 6) इ॒ते॒ मा वि॒मा वि॑ते ते॒ मौ । 7) इ॒मौ वि वीमा वि॒मौ वि । 8) वि परि॒ परि॒ वि वि परि॑ । 9) पर्यू॑हामो हाम॒ परि॒ पर्यू॑हाम । 10) ऊ॒हा॒मे तीत्यू॑हामो हा॒मे ति॑ । 11) इत्यग्ने ऽग्न॒ इती त्यग्ने᳚ । 12) अग्न॒ आ ऽग्ने ऽग्न॒ आ । 13) आ या॑हि या॒ह्या या॑हि । 14) या॒हि॒ वी॒तये॑ वी॒तये॑ याहि याहि वी॒तये᳚ । 15) वी॒तय॒ इतीति॑ वी॒तये॑ वी॒तय॒ इति॑ । 16) इत्य॒स्मि-न्न॒स्मि-न्निती त्य॒स्मिन्न् । 17) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के । 18) लो॒के᳚ ऽग्नि म॒ग्निम् ँलो॒के लो॒के᳚ ऽग्निम् । 19) अ॒ग्नि म॑दधु रदधु र॒ग्नि म॒ग्नि म॑दधुः । 20) अ॒द॒धु॒-र्बृ॒ह-द्बृ॒ह द॑दधु रदधु-र्बृ॒हत् । 21) बृ॒ह द॑ग्ने ऽग्ने बृ॒ह-द्बृ॒ह द॑ग्ने । 22) अ॒ग्ने॒ सु॒वीर्यग्ं॑ सु॒वीर्य॑ मग्ने ऽग्ने सु॒वीर्य᳚म् । 23) सु॒वीर्य॒ मितीति॑ सु॒वीर्यग्ं॑ सु॒वीर्य॒ मिति॑ । 23) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । 24) इत्य॒मुष्मि॑-न्न॒मुष्मि॒-न्निती त्य॒मुष्मिन्न्॑ । 25) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 26) लो॒क आ॑दि॒त्य मा॑दि॒त्यम् ँलो॒के लो॒क आ॑दि॒त्यम् । 27) आ॒दि॒त्य-न्तत॒ स्तत॑ आदि॒त्य मा॑दि॒त्य-न्ततः॑ । 28) ततो॒ वै वै तत॒ स्ततो॒ वै । 29) वा इ॒मा वि॒मौ वै वा इ॒मौ । 30) इ॒मौ लो॒कौ लो॒का वि॒मा वि॒मौ लो॒कौ । 31) लो॒का व॑शाम्यता मशाम्यताम् ँलो॒कौ लो॒का व॑शाम्यताम् । 32) अ॒शा॒म्य॒तां॒-यँ-द्यद॑शाम्यता मशाम्यतां॒-यँत् । 33) यदे॒व मे॒वं-यँ-द्यदे॒वम् । 34) ए॒व म॒न्वाहा॒ न्वाहै॒व मे॒व म॒न्वाह॑ । 35) अ॒न्वाहा॒ नयो॑ र॒नयो॑ र॒न्वाहा॒ न्वाहा॒ नयोः᳚ । 35) अ॒न्वाहेत्य॑नु - आह॑ । 36) अ॒नयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ र॒नयो॑ र॒नयो᳚-र्लो॒कयोः᳚ । 37) लो॒कयो॒-श्शान्त्यै॒ शान्त्यै॑ लो॒कयो᳚-र्लो॒कयो॒-श्शान्त्यै᳚ । 38) शान्त्यै॒ शाम्य॑त॒-श्शाम्य॑त॒-श्शान्त्यै॒ शान्त्यै॒ शाम्य॑तः । 39) शाम्य॑तो ऽस्मा अस्मै॒ शाम्य॑त॒-श्शाम्य॑तो ऽस्मै । 40) अ॒स्मा॒ इ॒मा वि॒मा व॑स्मा अस्मा इ॒मौ । 41) इ॒मौ लो॒कौ लो॒का वि॒मा वि॒मौ लो॒कौ । 42) लो॒कौ यो यो लो॒कौ लो॒कौ यः । 43) य ए॒व मे॒वं-योँ य ए॒वम् । 44) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 45) वेद॒ पञ्च॑दश॒ पञ्च॑दश॒ वेद॒ वेद॒ पञ्च॑दश । 46) पञ्च॑दश सामिधे॒नी-स्सा॑मिधे॒नीः पञ्च॑दश॒ पञ्च॑दश सामिधे॒नीः । 46) पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । 47) सा॒मि॒धे॒नी रन्वनु॑ सामिधे॒नी-स्सा॑मिधे॒नी रनु॑ । 47) सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः । 48) अन्वा॑ हा॒हा न्वन्वा॑ह । 49) आ॒ह॒ पञ्च॑दश॒ पञ्च॑दशा हाह॒ पञ्च॑दश । 50) पञ्च॑दश॒ वै वै पञ्च॑दश॒ पञ्च॑दश॒ वै । 50) पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । ॥ 45 ॥ (50/55)
1) वा अ॑र्धमा॒सस्या᳚ र्धमा॒सस्य॒ वै वा अ॑र्धमा॒सस्य॑ । 2) अ॒र्ध॒मा॒सस्य॒ रात्र॑यो॒ रात्र॑यो ऽर्धमा॒सस्या᳚ र्धमा॒सस्य॒ रात्र॑यः । 2) अ॒र्ध॒मा॒सस्येत्य॑र्ध - मा॒सस्य॑ । 3) रात्र॑यो ऽर्धमास॒शो᳚ ऽर्धमास॒शो रात्र॑यो॒ रात्र॑यो ऽर्धमास॒शः । 4) अ॒र्ध॒मा॒स॒श-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो᳚ ऽर्धमास॒शो᳚ ऽर्धमास॒श-स्सं॑वँथ्स॒रः । 4) अ॒र्ध॒मा॒स॒श इत्य॑र्धमास - शः । 5) सं॒वँ॒थ्स॒र आ᳚प्यत आप्यते संवँथ्स॒र-स्सं॑वँथ्स॒र आ᳚प्यते । 5) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 6) आ॒प्य॒ते॒ तासा॒-न्तासा॑ माप्यत आप्यते॒ तासा᳚म् । 7) तासा॒-न्त्रीणि॒ त्रीणि॒ तासा॒-न्तासा॒-न्त्रीणि॑ । 8) त्रीणि॑ च च॒ त्रीणि॒ त्रीणि॑ च । 9) च॒ श॒तानि॑ श॒तानि॑ च च श॒तानि॑ । 10) श॒तानि॑ ष॒ष्टि ष्ष॒ष्टि-श्श॒तानि॑ श॒तानि॑ ष॒ष्टिः । 11) ष॒ष्टिश्च॑ च ष॒ष्टि ष्ष॒ष्टिश्च॑ । 12) चा॒क्षरा᳚ ण्य॒क्षरा॑णि च चा॒क्षरा॑णि । 13) अ॒क्षरा॑णि॒ ताव॑ती॒ स्ताव॑ती र॒क्षरा᳚ ण्य॒क्षरा॑णि॒ ताव॑तीः । 14) ताव॑ती-स्संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ ताव॑ती॒ स्ताव॑ती-स्संवँथ्स॒रस्य॑ । 15) सं॒वँ॒थ्स॒रस्य॒ रात्र॑यो॒ रात्र॑य-स्संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ रात्र॑यः । 15) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 16) रात्र॑यो ऽक्षर॒शो᳚ ऽक्षर॒शो रात्र॑यो॒ रात्र॑यो ऽक्षर॒शः । 17) अ॒क्ष॒र॒श ए॒वैवा क्ष॑र॒शो᳚ ऽक्षर॒श ए॒व । 17) अ॒क्ष॒र॒श इत्य॑क्षर - शः । 18) ए॒व सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मे॒वैव सं॑वँथ्स॒रम् । 19) सं॒वँ॒थ्स॒र मा᳚प्नो त्याप्नोति संवँथ्स॒रग्ं सं॑वँथ्स॒र मा᳚प्नोति । 19) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 20) आ॒प्नो॒ति॒ नृ॒मेधो॑ नृ॒मेध॑ आप्नो त्याप्नोति नृ॒मेधः॑ । 21) नृ॒मेध॑श्च च नृ॒मेधो॑ नृ॒मेध॑श्च । 21) नृ॒मेध॒ इति॑ नृ - मेधः॑ । 22) च॒ परु॑च्छेपः॒ परु॑च्छेपश्च च॒ परु॑च्छेपः । 23) परु॑च्छेपश्च च॒ परु॑च्छेपः॒ परु॑च्छेपश्च । 24) च॒ ब्र॒ह्म॒वाद्य॑-म्ब्रह्म॒वाद्य॑-ञ्च च ब्रह्म॒वाद्य᳚म् । 25) ब्र॒ह्म॒वाद्य॑ मवदेता मवदेता-म्ब्रह्म॒वाद्य॑-म्ब्रह्म॒वाद्य॑ मवदेताम् । 25) ब्र॒ह्म॒वाद्य॒मिति॑ ब्रह्म - वाद्य᳚म् । 26) अ॒व॒दे॒ता॒ म॒स्मि-न्न॒स्मि-न्न॑वदेता मवदेता म॒स्मिन्न् । 27) अ॒स्मि-न्दारौ॒ दारा॑ व॒स्मि-न्न॒स्मि-न्दारौ᳚ । 28) दारा॑ वा॒र्द्र आ॒र्द्रे दारौ॒ दारा॑ वा॒र्द्रे । 29) आ॒र्द्रे᳚ ऽग्नि म॒ग्नि मा॒र्द्र आ॒र्द्रे᳚ ऽग्निम् । 30) अ॒ग्नि-ञ्ज॑नयाव जनयावा॒ग्नि म॒ग्नि-ञ्ज॑नयाव । 31) ज॒न॒या॒व॒ य॒त॒रो य॑त॒रो ज॑नयाव जनयाव यत॒रः । 32) य॒त॒रो नौ॑ नौ यत॒रो य॑त॒रो नौ᳚ । 33) नौ॒ ब्रह्मी॑या॒-न्ब्रह्मी॑या-न्नौ नौ॒ ब्रह्मी॑यान् । 34) ब्रह्मी॑या॒ नितीति॒ ब्रह्मी॑या॒-न्ब्रह्मी॑या॒ निति॑ । 35) इति॑ नृ॒मेधो॑ नृ॒मेध॒ इतीति॑ नृ॒मेधः॑ । 36) नृ॒मेधो॒ ऽभ्य॑भि नृ॒मेधो॑ नृ॒मेधो॒ ऽभि । 36) नृ॒मेध॒ इति॑ नृ - मेधः॑ । 37) अ॒भ्य॑व ददव दद॒भ्या᳚(1॒)भ्य॑वदत् । 38) अ॒व॒द॒-थ्स सो॑ ऽवद दवद॒-थ्सः । 39) स धू॒म-न्धू॒मग्ं स स धू॒मम् । 40) धू॒म म॑जनय दजनय-द्धू॒म-न्धू॒म म॑जनयत् । 41) अ॒ज॒न॒य॒-त्परु॑च्छेपः॒ परु॑च्छेपो ऽजनय दजनय॒-त्परु॑च्छेपः । 42) परु॑च्छेपो॒ ऽभ्य॑भि परु॑च्छेपः॒ परु॑च्छेपो॒ ऽभि । 43) अ॒भ्य॑व ददव दद॒भ्या᳚(1॒)भ्य॑वदत् । 44) अ॒व॒द॒-थ्स सो॑ ऽवद दवद॒-थ्सः । 45) सो᳚ ऽग्नि म॒ग्निग्ं स सो᳚ ऽग्निम् । 46) अ॒ग्नि म॑जनय दजनय द॒ग्नि म॒ग्नि म॑जनयत् । 47) अ॒ज॒न॒य॒ दृष॒ ऋषे॑ ऽजनय दजनय॒ दृषे᳚ । 48) ऋष॒ इतीत्यृष॒ ऋष॒ इति॑ । 49) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 50) अ॒ब्र॒वी॒-द्य-द्यद॑ब्रवी दब्रवी॒-द्यत् । ॥ 46 ॥ (50/59)
1) य-थ्स॒माव॑-थ्स॒माव॒-द्य-द्य-थ्स॒माव॑त् । 2) स॒माव॑-द्वि॒द्व वि॒द्व स॒माव॑-थ्स॒माव॑-द्वि॒द्व । 3) वि॒द्व क॒था क॒था वि॒द्व वि॒द्व क॒था । 4) क॒था त्व-न्त्व-ङ्क॒था क॒था त्वम् । 5) त्व म॒ग्नि म॒ग्नि-न्त्व-न्त्व म॒ग्निम् । 6) अ॒ग्नि मजी॑ज॒नो ऽजी॑जनो॒ ऽग्नि म॒ग्नि मजी॑जनः । 7) अजी॑जनो॒ न नाजी॑ज॒नो ऽजी॑जनो॒ न । 8) नाह म॒ह-न्न नाहम् । 9) अ॒ह मितीत्य॒ह म॒ह मिति॑ । 10) इति॑ सामिधे॒नीनाग्ं॑ सामिधे॒नीना॒ मितीति॑ सामिधे॒नीना᳚म् । 11) सा॒मि॒धे॒नीना॑ मे॒वैव सा॑मिधे॒नीनाग्ं॑ सामिधे॒नीना॑ मे॒व । 11) सा॒मि॒धे॒नीना॒मिति॑ सां - इ॒धे॒नीना᳚म् । 12) ए॒वाह म॒ह मे॒वैवाहम् । 13) अ॒हं-वँर्णं॒-वँर्ण॑ म॒ह म॒हं-वँर्ण᳚म् । 14) वर्णं॑-वेँद वेद॒ वर्णं॒-वँर्णं॑-वेँद । 15) वे॒दे तीति॑ वेद वे॒दे ति॑ । 16) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 17) अ॒ब्र॒वी॒-द्य-द्यद॑ब्रवी दब्रवी॒-द्यत् । 18) य-द्घृ॒तव॑-द्घृ॒तव॒-द्य-द्य-द्घृ॒तव॑त् । 19) घृ॒तव॑-त्प॒द-म्प॒द-ङ्घृ॒तव॑-द्घृ॒तव॑-त्प॒दम् । 19) घृ॒तव॒दिति॑ घृ॒त - व॒त् । 20) प॒द म॑नू॒च्यते॑ ऽनू॒च्यते॑ प॒द-म्प॒द म॑नू॒च्यते᳚ । 21) अ॒नू॒च्यते॒ स सो॑ ऽनू॒च्यते॑ ऽनू॒च्यते॒ सः । 21) अ॒नू॒च्यत॒ इत्य॑नु - उ॒च्यते᳚ । 22) स आ॑सा मासा॒ग्ं॒ स स आ॑साम् । 23) आ॒सां॒-वँर्णो॒ वर्ण॑ आसा मासां॒-वँर्णः॑ । 24) वर्ण॒ स्त-न्तं-वँर्णो॒ वर्ण॒ स्तम् । 25) त-न्त्वा᳚ त्वा॒ त-न्त-न्त्वा᳚ । 26) त्वा॒ स॒मिद्भि॑-स्स॒मिद्भि॑ स्त्वा त्वा स॒मिद्भिः॑ । 27) स॒मिद्भि॑ रङ्गिरो अङ्गिर-स्स॒मिद्भि॑-स्स॒मिद्भि॑ रङ्गिरः । 27) स॒मिद्भि॒रिति॑ स॒मित् - भिः॒ । 28) अ॒ङ्गि॒र॒ इती त्य॑ङ्गिरो अङ्गिर॒ इति॑ । 29) इत्या॑हा॒हे तीत्या॑ह । 30) आ॒ह॒ सा॒मि॒धे॒नीषु॑ सामिधे॒नी ष्वा॑हाह सामिधे॒नीषु॑ । 31) सा॒मि॒धे॒नी ष्वे॒वैव सा॑मिधे॒नीषु॑ सामिधे॒नी ष्वे॒व । 31) सा॒मि॒धे॒नीष्विति॑ सां - इ॒धे॒नीषु॑ । 32) ए॒व त-त्तदे॒वैव तत् । 33) तज् ज्योति॒-र्ज्योति॒ स्त-त्तज् ज्योतिः॑ । 34) ज्योति॑-र्जनयति जनयति॒ ज्योति॒-र्ज्योति॑-र्जनयति । 35) ज॒न॒य॒ति॒ स्त्रिय॒-स्स्त्रियो॑ जनयति जनयति॒ स्त्रियः॑ । 36) स्त्रिय॒ स्तेन॒ तेन॒ स्त्रिय॒-स्स्त्रिय॒ स्तेन॑ । 37) तेन॒ य-द्य-त्तेन॒ तेन॒ यत् । 38) यदृच॒ ऋचो॒ य-द्यदृचः॑ । 39) ऋच॒-स्स्त्रिय॒-स्स्त्रिय॒ ऋच॒ ऋच॒-स्स्त्रियः॑ । 40) स्त्रिय॒ स्तेन॒ तेन॒ स्त्रिय॒-स्स्त्रिय॒ स्तेन॑ । 41) तेन॒ य-द्य-त्तेन॒ तेन॒ यत् । 42) य-द्गा॑य॒त्रियो॑ गाय॒त्रियो॒ य-द्य-द्गा॑य॒त्रियः॑ । 43) गा॒य॒त्रिय॒-स्स्त्रिय॒-स्स्त्रियो॑ गाय॒त्रियो॑ गाय॒त्रिय॒-स्स्त्रियः॑ । 44) स्त्रिय॒ स्तेन॒ तेन॒ स्त्रिय॒-स्स्त्रिय॒ स्तेन॑ । 45) तेन॒ य-द्य-त्तेन॒ तेन॒ यत् । 46) य-थ्सा॑मिधे॒न्य॑-स्सामिधे॒न्यो॑ य-द्य-थ्सा॑मिधे॒न्यः॑ । 47) सा॒मि॒धे॒न्यो॑ वृष॑ण्वतीं॒-वृँष॑ण्वतीग्ं सामिधे॒न्य॑-स्सामिधे॒न्यो॑ वृष॑ण्वतीम् । 47) सा॒मि॒धे॒न्य॑ इति॑ सां - इ॒धे॒न्यः॑ । 48) वृष॑ण्वती॒ मन्वनु॒ वृष॑ण्वतीं॒-वृँष॑ण्वती॒ मनु॑ । 48) वृष॑ण्वती॒मिति॒ वृषण्॑ - व॒ती॒म् । 49) अन्वा॑ हा॒हा न्वन्वा॑ह । 50) आ॒ह॒ तेन॒ तेना॑ हाह॒ तेन॑ । ॥ 47 ॥ (50/57)
1) तेन॒ पुग्ग्स्व॑तीः॒ पुग्ग्स्व॑ती॒स्तेन॒ तेन॒ पुग्ग्स्व॑तीः । 2) पुग्ग्स्व॑ती॒ स्तेन॒ तेन॒ पुग्ग्स्व॑तीः॒ पुग्ग्स्व॑ती॒ स्तेन॑ । 3) तेन॒ सेन्द्रा॒-स्सेन्द्रा॒ स्तेन॒ तेन॒ सेन्द्राः᳚ । 4) सेन्द्रा॒ स्तेन॒ तेन॒ सेन्द्रा॒-स्सेन्द्रा॒ स्तेन॑ । 4) सेन्द्रा॒ इति॒ स - इ॒न्द्राः॒ । 5) तेन॑ मिथु॒ना मि॑थु॒ना स्तेन॒ तेन॑ मिथु॒नाः । 6) मि॒थु॒ना अ॒ग्नि र॒ग्नि-र्मि॑थु॒ना मि॑थु॒ना अ॒ग्निः । 7) अ॒ग्नि-र्दे॒वाना᳚-न्दे॒वाना॑ म॒ग्नि र॒ग्नि-र्दे॒वाना᳚म् । 8) दे॒वाना᳚-न्दू॒तो दू॒तो दे॒वाना᳚-न्दे॒वाना᳚-न्दू॒तः । 9) दू॒त आसी॒ दासी᳚-द्दू॒तो दू॒त आसी᳚त् । 10) आसी॑ दु॒शनो॒ शना ऽऽसी॒दासी॑ दु॒शना᳚ । 11) उ॒शना॑ का॒व्यः का॒व्य उ॒शनो॒ शना॑ का॒व्यः । 12) का॒व्यो ऽसु॑राणा॒ मसु॑राणा-ङ्का॒व्यः का॒व्यो ऽसु॑राणाम् । 13) असु॑राणा॒-न्तौ ता वसु॑राणा॒ मसु॑राणा॒-न्तौ । 14) तौ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-न्तौ तौ प्र॒जाप॑तिम् । 15) प्र॒जाप॑ति-म्प्र॒श्ञ-म्प्र॒श्ञ-म्प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्प्र॒श्ञम् । 15) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 16) प्र॒श्ञ मै॑ता मैता-म्प्र॒श्ञ-म्प्र॒श्ञ मै॑ताम् । 17) ऐ॒ता॒ग्ं॒ स स ऐ॑ता मैता॒ग्ं॒ सः । 18) स प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स स प्र॒जाप॑तिः । 19) प्र॒जाप॑ति र॒ग्नि म॒ग्नि-म्प्र॒जाप॑तिः प्र॒जाप॑ति र॒ग्निम् । 19) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 20) अ॒ग्नि-न्दू॒त-न्दू॒त म॒ग्नि म॒ग्नि-न्दू॒तम् । 21) दू॒तं-वृँ॑णीमहे वृणीमहे दू॒त-न्दू॒तं-वृँ॑णीमहे । 22) वृ॒णी॒म॒ह॒ इतीति॑ वृणीमहे वृणीमह॒ इति॑ । 23) इत्य॒भ्य॑भी तीत्य॒भि । 24) अ॒भि प॒र्याव॑र्तत प॒र्याव॑र्तता॒ भ्य॑भि प॒र्याव॑र्तत । 25) प॒र्याव॑र्तत॒ तत॒स्ततः॑ प॒र्याव॑र्तत प॒र्याव॑र्तत॒ ततः॑ । 25) प॒र्याव॑र्त॒तेति॑ परि - आव॑र्तत । 26) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः । 27) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् । 28) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ । 29) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः । 30) असु॑रा॒ यस्य॒ यस्या सु॑रा॒ असु॑रा॒ यस्य॑ । 31) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् । 32) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ । 33) वि॒दुषो॒ ऽग्नि म॒ग्निं-विँ॒दुषो॑ वि॒दुषो॒ ऽग्निम् । 34) अ॒ग्नि-न्दू॒त-न्दू॒त म॒ग्नि म॒ग्नि-न्दू॒तम् । 35) दू॒तं-वृँ॑णीमहे वृणीमहे दू॒त-न्दू॒तं-वृँ॑णीमहे । 36) वृ॒णी॒म॒ह॒ इतीति॑ वृणीमहे वृणीमह॒ इति॑ । 37) इत्य॒न्वाहा॒ न्वाहे तीत्य॒न्वाह॑ । 38) अ॒न्वाह॒ भव॑ति॒ भव॑ त्य॒न्वाहा॒ न्वाह॒ भव॑ति । 38) अ॒न्वाहेत्य॑नु - आह॑ । 39) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ । 40) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ । 41) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य । 42) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः । 43) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । 44) भ॒व॒ त्य॒द्ध्व॒रव॑ती मद्ध्व॒रव॑ती-म्भवति भव त्यद्ध्व॒रव॑तीम् । 45) अ॒द्ध्व॒रव॑ती॒ मन्वन्व॑द्ध्व॒रव॑ती मद्ध्व॒रव॑ती॒ मनु॑ । 45) अ॒द्ध्व॒रव॑ती॒मित्य॑द्ध्व॒र - व॒ती॒म् । 46) अन्वा॑ हा॒हा न्वन्वा॑ह । 47) आ॒ह॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य माहाह॒ भ्रातृ॑व्यम् । 48) भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒व । 49) ए॒वैत यै॒त यै॒वै वैतया᳚ । 50) ए॒तया᳚ ध्वरति ध्वर त्ये॒तयै॒तया᳚ ध्वरति । ॥ 48 ॥ (50/56)
1) ध्व॒र॒ति॒ शो॒चिष्के॑श-श्शो॒चिष्के॑शो ध्वरति ध्वरति शो॒चिष्के॑शः । 2) शो॒चिष्के॑श॒ स्त-न्तग्ं शो॒चिष्के॑श-श्शो॒चिष्के॑श॒ स्तम् । 2) शो॒चिष्के॑श॒ इति॑ शो॒चिः - के॒शः॒ । 3) त मी॑मह ईमहे॒ त-न्त मी॑महे । 4) ई॒म॒ह॒ इतीती॑मह ईमह॒ इति॑ । 5) इत्या॑ हा॒हे तीत्या॑ह । 6) आ॒ह॒ प॒वित्र॑-म्प॒वित्र॑ माहाह प॒वित्र᳚म् । 7) प॒वित्र॑ मे॒वैव प॒वित्र॑-म्प॒वित्र॑ मे॒व । 8) ए॒वैत दे॒त दे॒वैवैतत् । 9) ए॒त-द्यज॑मानं॒-यँज॑मान मे॒त दे॒त-द्यज॑मानम् । 10) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व । 11) ए॒वैतयै॒तयै॒वै वैतया᳚ । 12) ए॒तया॑ पवयति पवय त्ये॒त यै॒तया॑ पवयति । 13) प॒व॒य॒ति॒ समि॑द्ध॒-स्समि॑द्धः पवयति पवयति॒ समि॑द्धः । 14) समि॑द्धो अग्ने ऽग्ने॒ समि॑द्ध॒-स्समि॑द्धो अग्ने । 14) समि॑द्ध॒ इति॒ सं - इ॒द्धः॒ । 15) अ॒ग्न॒ आ॒हु॒ता॒ हु॒ता॒ग्ने॒ ऽग्न॒ आ॒हु॒त॒ । 16) आ॒हु॒ते तीत्या॑हुता हु॒ते ति॑ । 16) आ॒हु॒तेत्या᳚ - हु॒त॒ । 17) इत्या॑हा॒हे तीत्या॑ह । 18) आ॒ह॒ प॒रि॒धि-म्प॑रि॒धि मा॑हाह परि॒धिम् । 19) प॒रि॒धि मे॒वैव प॑रि॒धि-म्प॑रि॒धि मे॒व । 19) प॒रि॒धिमिति॑ परि - धिम् । 20) ए॒वैत मे॒त मे॒वैवैतम् । 21) ए॒त-म्परि॒ पर्ये॒त मे॒त-म्परि॑ । 22) परि॑ दधाति दधाति॒ परि॒ परि॑ दधाति । 23) द॒धा॒ त्यस्क॑न्दा॒या स्क॑न्दाय दधाति दधा॒ त्यस्क॑न्दाय । 24) अस्क॑न्दाय॒ य-द्यदस्क॑न्दा॒या स्क॑न्दाय॒ यत् । 25) यदतो ऽतो॒ य-द्यदतः॑ । 26) अत॑ ऊ॒र्ध्व मू॒र्ध्व मतो ऽत॑ ऊ॒र्ध्वम् । 27) ऊ॒र्ध्व म॑भ्याद॒द्ध्या द॑भ्याद॒द्ध्या दू॒र्ध्व मू॒र्ध्व म॑भ्याद॒द्ध्यात् । 28) अ॒भ्या॒द॒द्ध्या-द्यथा॒ यथा᳚ ऽभ्याद॒द्ध्या द॑भ्याद॒द्ध्या-द्यथा᳚ । 28) अ॒भ्या॒द॒द्ध्यादित्य॑भि - आ॒द॒द्ध्यात् । 29) यथा॑ बहिःपरि॒धि ब॑हिःपरि॒धि यथा॒ यथा॑ बहिःपरि॒धि । 30) ब॒हिः॒प॒रि॒धि स्कन्द॑ति॒ स्कन्द॑ति बहिःपरि॒धि ब॑हिःपरि॒धि स्कन्द॑ति । 30) ब॒हिः॒प॒रि॒धीति॑ बहिः - प॒रि॒धि । 31) स्कन्द॑ति ता॒दृ-क्ता॒दृ-ख्स्कन्द॑ति॒ स्कन्द॑ति ता॒दृक् । 32) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 33) ए॒व त-त्तदे॒वैव तत् । 34) त-त्त्रय॒ स्त्रय॒ स्त-त्त-त्त्रयः॑ । 35) त्रयो॒ वै वै त्रय॒ स्त्रयो॒ वै । 36) वा अ॒ग्नयो॒ ऽग्नयो॒ वै वा अ॒ग्नयः॑ । 37) अ॒ग्नयो॑ हव्य॒वाह॑नो हव्य॒वाह॑नो॒ ऽग्नयो॒ ऽग्नयो॑ हव्य॒वाह॑नः । 38) ह॒व्य॒वाह॑नो दे॒वाना᳚-न्दे॒वानाग्ं॑ हव्य॒वाह॑नो हव्य॒वाह॑नो दे॒वाना᳚म् । 38) ह॒व्य॒वाह॑न॒ इति॑ हव्य - वाह॑नः । 39) दे॒वाना᳚-ङ्कव्य॒वाह॑नः कव्य॒वाह॑नो दे॒वाना᳚-न्दे॒वाना᳚-ङ्कव्य॒वाह॑नः । 40) क॒व्य॒वाह॑नः पितृ॒णा-म्पि॑तृ॒णा-ङ्क॑व्य॒वाह॑नः कव्य॒वाह॑नः पितृ॒णाम् । 40) क॒व्य॒वाह॑न॒ इति॑ कव्य - वाह॑नः । 41) पि॒तृ॒णाग्ं स॒हर॑क्षा-स्स॒हर॑क्षाः पितृ॒णा-म्पि॑तृ॒णाग्ं स॒हर॑क्षाः । 42) स॒हर॑क्षा॒ असु॑राणा॒ मसु॑राणाग्ं स॒हर॑क्षा-स्स॒हर॑क्षा॒ असु॑राणाम् । 42) स॒हर॑क्षा॒ इति॑ स॒ह - र॒क्षाः॒ । 43) असु॑राणा॒-न्ते ते ऽसु॑राणा॒ मसु॑राणा॒-न्ते । 44) त ए॒तर्-ह्ये॒तर्हि॒ ते त ए॒तर्हि॑ । 45) ए॒तर्-ह्यैतर्-ह्ये॒तर्-ह्या । 46) आ शग्ं॑सन्ते शग्ंसन्त॒ आ शग्ं॑सन्ते । 47) श॒ग्ं॒स॒न्ते॒ मा-म्माग्ं शग्ं॑सन्ते शग्ंसन्ते॒ माम् । 48) मां-वँ॑रिष्यते वरिष्यते॒ मा-म्मां-वँ॑रिष्यते । 49) व॒रि॒ष्य॒ते॒ मा-म्मां-वँ॑रिष्यते वरिष्यते॒ माम् । 50) मा मितीति॒ मा-म्मा मिति॑ । ॥ 49 ॥ (50/59)
1) इति॑ वृणी॒द्ध्वं-वृँ॑णी॒द्ध्व मितीति॑ वृणी॒द्ध्वम् । 2) वृ॒णी॒द्ध्वग्ं ह॑व्य॒वाह॑नग्ं हव्य॒वाह॑नं-वृँणी॒द्ध्वं-वृँ॑णी॒द्ध्वग्ं ह॑व्य॒वाह॑नम् । 3) ह॒व्य॒वाह॑न॒ मितीति॑ हव्य॒वाह॑नग्ं हव्य॒वाह॑न॒ मिति॑ । 3) ह॒व्य॒वाह॑न॒मिति॑ हव्य - वाह॑नम् । 4) इत्या॑हा॒हे तीत्या॑ह । 5) आ॒ह॒ यो य आ॑हाह॒ यः । 6) य ए॒वैव यो य ए॒व । 7) ए॒व दे॒वाना᳚-न्दे॒वाना॑ मे॒वैव दे॒वाना᳚म् । 8) दे॒वाना॒-न्त-न्त-न्दे॒वाना᳚-न्दे॒वाना॒-न्तम् । 9) तं-वृँ॑णीते वृणीते॒ त-न्तं-वृँ॑णीते । 10) वृ॒णी॒त॒ आ॒र्॒षे॒य मा॑र.षे॒यं-वृँ॑णीते वृणीत आर्षे॒यम् । 11) आ॒र्॒षे॒यं-वृँ॑णीते वृणीत आर्षे॒य मा॑र्षे॒यं-वृँ॑णीते । 12) वृ॒णी॒ते॒ बन्धो॒-र्बन्धो᳚-र्वृणीते वृणीते॒ बन्धोः᳚ । 13) बन्धो॑ रे॒वैव बन्धो॒-र्बन्धो॑ रे॒व । 14) ए॒व न नैवैव न । 15) नैत्ये॑ति॒ न नैति॑ । 16) ए॒त्यथो॒ अथो॑ एत्ये॒त्यथो᳚ । 17) अथो॒ सन्त॑त्यै॒ सन्त॑त्या॒ अथो॒ अथो॒ सन्त॑त्यै । 17) अथो॒ इत्यथो᳚ । 18) सन्त॑त्यै प॒रस्ता᳚-त्प॒रस्ता॒-थ्सन्त॑त्यै॒ सन्त॑त्यै प॒रस्ता᳚त् । 18) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । 19) प॒रस्ता॑ द॒र्वाचो॒ ऽर्वाचः॑ प॒रस्ता᳚-त्प॒रस्ता॑ द॒र्वाचः॑ । 20) अ॒र्वाचो॑ वृणीते वृणीते॒ ऽर्वाचो॒ ऽर्वाचो॑ वृणीते । 21) वृ॒णी॒ते॒ तस्मा॒-त्तस्मा᳚-द्वृणीते वृणीते॒ तस्मा᳚त् । 22) तस्मा᳚-त्प॒रस्ता᳚-त्प॒रस्ता॒-त्तस्मा॒-त्तस्मा᳚-त्प॒रस्ता᳚त् । 23) प॒रस्ता॑ द॒र्वाञ्चो॒ ऽर्वाञ्चः॑ प॒रस्ता᳚-त्प॒रस्ता॑ द॒र्वाञ्चः॑ । 24) अ॒र्वाञ्चो॑ मनु॒ष्या᳚-न्मनु॒ष्या॑ न॒र्वाञ्चो॒ ऽर्वाञ्चो॑ मनु॒ष्यान्॑ । 25) म॒नु॒ष्या᳚-न्पि॒तरः॑ पि॒तरो॑ मनु॒ष्या᳚-न्मनु॒ष्या᳚-न्पि॒तरः॑ । 26) पि॒तरो ऽन्वनु॑ पि॒तरः॑ पि॒तरो ऽनु॑ । 27) अनु॒ प्र प्राण्वनु॒ प्र । 28) प्र पि॑पते पिपते॒ प्र प्र पि॑पते । 29) पि॒प॒त इति॑ पिपते । ॥ 50 ॥ (29/32) ॥ अ. 8 ॥
1) अग्ने॑ म॒हा-न्म॒हाग्ं अग्ने ऽग्ने॑ म॒हान् । 2) म॒हाग्ं अ॑स्यसि म॒हा-न्म॒हाग्ं अ॑सि । 3) अ॒सीती त्य॑स्य॒सीति॑ । 4) इत्या॑हा॒हे तीत्या॑ह । 5) आ॒ह॒ म॒हा-न्म॒हा ना॑हाह म॒हान् । 6) म॒हान्. हि हि म॒हा-न्म॒हान्. हि । 7) ह्ये॑ष ए॒ष हि ह्ये॑षः । 8) ए॒ष य-द्यदे॒ष ए॒ष यत् । 9) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 10) अ॒ग्नि-र्ब्रा᳚ह्मण ब्राह्मणा॒ग्नि र॒ग्नि-र्ब्रा᳚ह्मण । 11) ब्रा॒ह्म॒णे तीति॑ ब्राह्मण ब्राह्म॒णे ति॑ । 12) इत्या॑हा॒हे तीत्या॑ह । 13) आ॒ह॒ ब्रा॒ह्म॒णो ब्रा᳚ह्म॒ण आ॑हाह ब्राह्म॒णः । 14) ब्रा॒ह्म॒णो हि हि ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो हि । 15) ह्ये॑ष ए॒ष हि ह्ये॑षः । 16) ए॒ष भा॑रत भारतै॒ष ए॒ष भा॑रत । 17) भा॒र॒ते तीति॑ भारत भार॒ते ति॑ । 18) इत्या॑हा॒हे तीत्या॑ह । 19) आ॒है॒ष ए॒ष आ॑हाहै॒षः । 20) ए॒ष हि ह्ये॑ष ए॒ष हि । 21) हि दे॒वेभ्यो॑ दे॒वेभ्यो॒ हि हि दे॒वेभ्यः॑ । 22) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् । 23) ह॒व्य-म्भर॑ति॒ भर॑ति ह॒व्यग्ं ह॒व्य-म्भर॑ति । 24) भर॑ति दे॒वेद्धो॑ दे॒वेद्धो॒ भर॑ति॒ भर॑ति दे॒वेद्धः॑ । 25) दे॒वेद्ध॒ इतीति॑ दे॒वेद्धो॑ दे॒वेद्ध॒ इति॑ । 25) दे॒वेद्ध॒ इति॑ दे॒व - इ॒द्धः॒ । 26) इत्या॑हा॒हे तीत्या॑ह । 27) आ॒ह॒ दे॒वा दे॒वा आ॑हाह दे॒वाः । 28) दे॒वा हि हि दे॒वा दे॒वा हि । 29) ह्ये॑त मे॒तग्ं हि ह्ये॑तम् । 30) ए॒त मैन्ध॒ तैन्ध॑तै॒त मे॒त मैन्ध॑त । 31) ऐन्ध॑त॒ मन्वि॑द्धो॒ मन्वि॑द्ध॒ ऐन्ध॒ तैन्ध॑त॒ मन्वि॑द्धः । 32) मन्वि॑द्ध॒ इतीति॒ मन्वि॑द्धो॒ मन्वि॑द्ध॒ इति॑ । 32) मन्वि॑द्ध॒ इति॒ मनु॑ - इ॒द्धः॒ । 33) इत्या॑हा॒हे तीत्या॑ह । 34) आ॒ह॒ मनु॒-र्मनु॑ राहाह॒ मनुः॑ । 35) मनु॒र्॒ हि हि मनु॒-र्मनु॒र्॒ हि । 36) ह्ये॑त मे॒तग्ं हि ह्ये॑तम् । 37) ए॒त मुत्त॑र॒ उत्त॑र ए॒त मे॒त मुत्त॑रः । 38) उत्त॑रो दे॒वेभ्यो॑ दे॒वेभ्य॒ उत्त॑र॒ उत्त॑रो दे॒वेभ्यः॑ । 38) उत्त॑र॒ इत्युत् - त॒रः॒ । 39) दे॒वेभ्य॒ ऐन्धैन्ध॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ ऐन्ध॑ । 40) ऐन्ध र्षि॑ष्टुत॒ ऋषि॑ष्टुत॒ ऐन्धैन्ध र्षि॑ष्टुतः । 41) ऋषि॑ष्टुत॒ इती त्यृषि॑ष्टुत॒ ऋषि॑ष्टुत॒ इति॑ । 41) ऋषि॑ष्टुत॒ इत्यृषि॑ - स्तु॒तः॒ । 42) इत्या॑हा॒हे तीत्या॑ह । 43) आ॒ह र्ष॑य॒ ऋष॑य आहा॒ह र्ष॑यः । 44) ऋष॑यो॒ हि ह्यृष॑य॒ ऋष॑यो॒ हि । 45) ह्ये॑त मे॒तग्ं हि ह्ये॑तम् । 46) ए॒त मस्तु॑व॒-न्नस्तु॑व-न्ने॒त मे॒त मस्तु॑वन्न् । 47) अस्तु॑व॒न् विप्रा॑नुमदितो॒ विप्रा॑नुमदि॒तो ऽस्तु॑व॒-न्नस्तु॑व॒न् विप्रा॑नुमदितः । 48) विप्रा॑नुमदित॒ इतीति॒ विप्रा॑नुमदितो॒ विप्रा॑नुमदित॒ इति॑ । 48) विप्रा॑नुमदित॒ इति॒ विप्र॑ - अ॒नु॒म॒दि॒तः॒ । 49) इत्या॑हा॒हे तीत्या॑ह । 50) आ॒ह॒ विप्रा॒ विप्रा॑ आहाह॒ विप्राः᳚ । ॥ 51 ॥ (50/55)
1) विप्रा॒ हि हि विप्रा॒ विप्रा॒ हि । 2) ह्ये॑त ए॒ते हि ह्ये॑ते । 3) ए॒ते य-द्यदे॒त ए॒ते यत् । 4) यच् छु॑श्रु॒वाग्ंस॑-श्शुश्रु॒वाग्ंसो॒ य-द्यच् छु॑श्रु॒वाग्ंसः॑ । 5) शु॒श्रु॒वाग्ंसः॑ कविश॒स्तः क॑विश॒स्त-श्शु॑श्रु॒वाग्ंस॑-श्शुश्रु॒वाग्ंसः॑ कविश॒स्तः । 6) क॒वि॒श॒स्त इतीति॑ कविश॒स्तः क॑विश॒स्त इति॑ । 6) क॒वि॒श॒स्त इति॑ कवि - श॒स्तः । 7) इत्या॑हा॒हे तीत्या॑ह । 8) आ॒ह॒ क॒वयः॑ क॒वय॑ आहाह क॒वयः॑ । 9) क॒वयो॒ हि हि क॒वयः॑ क॒वयो॒ हि । 10) ह्ये॑त ए॒ते हि ह्ये॑ते । 11) ए॒ते य-द्यदे॒त ए॒ते यत् । 12) यच् छु॑श्रु॒वाग्ंस॑-श्शुश्रु॒वाग्ंसो॒ य-द्यच् छु॑श्रु॒वाग्ंसः॑ । 13) शु॒श्रु॒वाग्ंसो॒ ब्रह्म॑सग्ंशितो॒ ब्रह्म॑सग्ंशित-श्शुश्रु॒वाग्ंस॑-श्शुश्रु॒वाग्ंसो॒ ब्रह्म॑सग्ंशितः । 14) ब्रह्म॑सग्ंशित॒ इतीति॒ ब्रह्म॑सग्ंशितो॒ ब्रह्म॑सग्ंशित॒ इति॑ । 14) ब्रह्म॑सग्ंशित॒ इति॒ ब्रह्म॑ - स॒ग्ं॒शि॒तः॒ । 15) इत्या॑हा॒हे तीत्या॑ह । 16) आ॒ह॒ ब्रह्म॑सग्ंशितो॒ ब्रह्म॑सग्ंशित आहाह॒ ब्रह्म॑सग्ंशितः । 17) ब्रह्म॑सग्ंशितो॒ हि हि ब्रह्म॑सग्ंशितो॒ ब्रह्म॑सग्ंशितो॒ हि । 17) ब्रह्म॑सग्ंशित॒ इति॒ ब्रह्म॑ - स॒ग्ं॒शि॒तः॒ । 18) ह्ये॑ष ए॒ष हि ह्ये॑षः । 19) ए॒ष घृ॒ताह॑वनो घृ॒ताह॑वन ए॒ष ए॒ष घृ॒ताह॑वनः । 20) घृ॒ताह॑वन॒ इतीति॑ घृ॒ताह॑वनो घृ॒ताह॑वन॒ इति॑ । 20) घृ॒ताह॑वन॒ इति॑ घृ॒त - आ॒ह॒व॒नः॒ । 21) इत्या॑हा॒हे तीत्या॑ह । 22) आ॒ह॒ घृ॑ताहु॒ति-र्घृ॑ताहु॒ति रा॑हाह घृताहु॒तिः । 23) घृ॒ता॒हु॒तिर्-हि हि घृ॑ताहु॒ति-र्घृ॑ताहु॒तिर्-हि । 23) घृ॒ता॒हु॒तिरिति॑ घृत - आ॒हु॒तिः । 24) ह्य॑स्यास्य॒ हि ह्य॑स्य । 25) अ॒स्य॒ प्रि॒यत॑मा प्रि॒यत॑मा ऽस्यास्य प्रि॒यत॑मा । 26) प्रि॒यत॑मा प्र॒णीः प्र॒णीः प्रि॒यत॑मा प्रि॒यत॑मा प्र॒णीः । 26) प्रि॒यत॒मेति॑ प्रि॒य - त॒मा॒ । 27) प्र॒णी-र्य॒ज्ञानां᳚-यँ॒ज्ञाना᳚-म्प्र॒णीः प्र॒णी-र्य॒ज्ञाना᳚म् । 27) प्र॒णीरिति॑ प्र - नीः । 28) य॒ज्ञाना॒ मितीति॑ य॒ज्ञानां᳚-यँ॒ज्ञाना॒ मिति॑ । 29) इत्या॑हा॒हे तीत्या॑ह । 30) आ॒ह॒ प्र॒णीः प्र॒णी रा॑हाह प्र॒णीः । 31) प्र॒णीर्-हि हि प्र॒णीः प्र॒णीर्-हि । 31) प्र॒णीरिति॑ प्र - नीः । 32) ह्ये॑ष ए॒ष हि ह्ये॑षः । 33) ए॒ष य॒ज्ञानां᳚-यँ॒ज्ञाना॑ मे॒ष ए॒ष य॒ज्ञाना᳚म् । 34) य॒ज्ञानाग्ं॑ र॒थी र॒थी-र्य॒ज्ञानां᳚-यँ॒ज्ञानाग्ं॑ र॒थीः । 35) र॒थी र॑द्ध्व॒राणा॑ मद्ध्व॒राणाग्ं॑ र॒थी र॒थी र॑द्ध्व॒राणा᳚म् । 36) अ॒द्ध्व॒राणा॒ मिती त्य॑द्ध्व॒राणा॑ मद्ध्व॒राणा॒ मिति॑ । 37) इत्या॑हा॒हे तीत्या॑ह । 38) आ॒है॒ष ए॒ष आ॑हाहै॒षः । 39) ए॒ष हि ह्ये॑ष ए॒ष हि । 40) हि दे॑वर॒थो दे॑वर॒थो हि हि दे॑वर॒थः । 41) दे॒व॒र॒थो॑ ऽतूर्तो॒ ऽतूर्तो॑ देवर॒थो दे॑वर॒थो॑ ऽतूर्तः॑ । 41) दे॒व॒र॒थ इति॑ देव - र॒थः । 42) अ॒तूर्तो॒ होता॒ होता॒ ऽतूर्तो॒ ऽतूर्तो॒ होता᳚ । 43) होतेतीति॒ होता॒ होतेति॑ । 44) इत्या॑हा॒हे तीत्या॑ह । 45) आ॒ह॒ न नाहा॑ह॒ न । 46) न हि हि न न हि । 47) ह्ये॑त मे॒तग्ं हि ह्ये॑तम् । 48) ए॒त-ङ्कः क ए॒त मे॒त-ङ्कः । 49) कश्च॒न च॒न कः कश्च॒न । 50) च॒न तर॑ति॒ तर॑ति च॒न च॒न तर॑ति । ॥ 52 ॥ (50/59)
1) तर॑ति॒ तूर्णि॒ स्तूर्णि॒ स्तर॑ति॒ तर॑ति॒ तूर्णिः॑ । 2) तूर्णि॑र्-हव्य॒वा ड्ढ॑व्य॒वा-ट्तूर्णि॒स्तूर्णि॑र्-हव्य॒वाट् । 3) ह॒व्य॒वा डितीति॑ हव्य॒वा ड्ढ॑व्य॒वाडिति॑ । 3) ह॒व्य॒वाडिति॑ हव्य - वाट् । 4) इत्या॑हा॒हे तीत्या॑ह । 5) आ॒ह॒ सर्व॒ग्ं॒ सर्व॑ माहाह॒ सर्व᳚म् । 6) सर्व॒ग्ं॒ हि हि सर्व॒ग्ं॒ सर्व॒ग्ं॒ हि । 7) ह्ये॑ष ए॒ष हि ह्ये॑षः । 8) ए॒ष तर॑ति॒ तर॑ त्ये॒ष ए॒ष तर॑ति । 9) तर॒ त्यास्पात्र॒ मास्पात्र॒-न्तर॑ति॒ तर॒ त्यास्पात्र᳚म् । 10) आस्पात्र॑-ञ्जु॒हू-र्जु॒हू रास्पात्र॒ मास्पात्र॑-ञ्जु॒हूः । 11) जु॒हू-र्दे॒वाना᳚-न्दे॒वाना᳚-ञ्जु॒हू-र्जु॒हू-र्दे॒वाना᳚म् । 12) दे॒वाना॒ मितीति॑ दे॒वाना᳚-न्दे॒वाना॒ मिति॑ । 13) इत्या॑हा॒हे तीत्या॑ह । 14) आ॒ह॒ जु॒हू-र्जु॒हू रा॑हाह जु॒हूः । 15) जु॒हूर्-हि हि जु॒हू-र्जु॒हूर्-हि । 16) ह्ये॑ष ए॒ष हि ह्ये॑षः । 17) ए॒ष दे॒वाना᳚-न्दे॒वाना॑ मे॒ष ए॒ष दे॒वाना᳚म् । 18) दे॒वाना᳚-ञ्चम॒स श्च॑म॒सो दे॒वाना᳚-न्दे॒वाना᳚-ञ्चम॒सः । 19) च॒म॒सो दे॑व॒पानो॑ देव॒पान॑ श्चम॒स श्च॑म॒सो दे॑व॒पानः॑ । 20) दे॒व॒पान॒ इतीति॑ देव॒पानो॑ देव॒पान॒ इति॑ । 20) दे॒व॒पान॒ इति॑ देव - पानः॑ । 21) इत्या॑हा॒हे तीत्या॑ह । 22) आ॒ह॒ च॒म॒स श्च॑म॒स आ॑हाह चम॒सः । 23) च॒म॒सो हि हि च॑म॒स श्च॑म॒सो हि । 24) ह्ये॑ष ए॒ष हि ह्ये॑षः । 25) ए॒ष दे॑व॒पानो॑ देव॒पान॑ ए॒ष ए॒ष दे॑व॒पानः॑ । 26) दे॒व॒पानो॒ ऽराग्ं अ॒रा-न्दे॑व॒पानो॑ देव॒पानो॒ ऽरान् । 26) दे॒व॒पान॒ इति॑ देव - पानः॑ । 27) अ॒राग्ं इ॑वे वा॒राग्ं अ॒राग्ं इ॑व । 28) इ॒वा॒ग्ने॒ ऽग्न॒ इ॒वे॒ वा॒ग्ने॒ । 29) अ॒ग्ने॒ ने॒मि-र्ने॒मि र॑ग्ने ऽग्ने ने॒मिः । 30) ने॒मि-र्दे॒वा-न्दे॒वा-न्ने॒मि-र्ने॒मि-र्दे॒वान् । 31) दे॒वाग् स्त्व-न्त्व-न्दे॒वा-न्दे॒वाग् स्त्वम् । 32) त्व-म्प॑रि॒भूः प॑रि॒भू स्त्व-न्त्व-म्प॑रि॒भूः । 33) प॒रि॒भू र॑स्यसि परि॒भूः प॑रि॒भू र॑सि । 33) प॒रि॒भूरिति॑ परि - भूः । 34) अ॒सीती त्य॑स्य॒सीति॑ । 35) इत्या॑हा॒हे तीत्या॑ह । 36) आ॒ह॒ दे॒वा-न्दे॒वा ना॑हाह दे॒वान् । 37) दे॒वान्. हि हि दे॒वा-न्दे॒वान्. हि । 38) ह्ये॑ष ए॒ष हि ह्ये॑षः । 39) ए॒ष प॑रि॒भूः प॑रि॒भू रे॒ष ए॒ष प॑रि॒भूः । 40) प॒रि॒भू-र्य-द्य-त्प॑रि॒भूः प॑रि॒भू-र्यत् । 40) प॒रि॒भूरिति॑ परि - भूः । 41) य-द्ब्रू॒या-द्ब्रू॒या-द्य-द्य-द्ब्रू॒यात् । 42) ब्रू॒यादा ब्रू॒या-द्ब्रू॒यादा । 43) आ व॑ह व॒हा व॑ह । 44) व॒ह॒ दे॒वा-न्दे॒वान्. व॑ह वह दे॒वान् । 45) दे॒वा-न्दे॑वय॒ते दे॑वय॒ते दे॒वा-न्दे॒वा-न्दे॑वय॒ते । 46) दे॒व॒य॒ते यज॑मानाय॒ यज॑मानाय देवय॒ते दे॑वय॒ते यज॑मानाय । 46) दे॒व॒य॒त इति॑ देव - य॒ते । 47) यज॑माना॒ये तीति॒ यज॑मानाय॒ यज॑माना॒ये ति॑ । 48) इति॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒ मितीति॒ भ्रातृ॑व्यम् । 49) भ्रातृ॑व्य मस्मा अस्मै॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मस्मै । 50) अ॒स्मै॒ ज॒न॒ये॒ज् ज॒न॒ये॒ द॒स्मा॒ अ॒स्मै॒ ज॒न॒ये॒त् । ॥ 53 ॥ (50/56)
1) ज॒न॒ये॒दा ज॑नयेज् जनये॒दा । 2) आ व॑ह व॒हा व॑ह । 3) व॒ह॒ दे॒वा-न्दे॒वान्. व॑ह वह दे॒वान् । 4) दे॒वान्. यज॑मानाय॒ यज॑मानाय दे॒वा-न्दे॒वान्. यज॑मानाय । 5) यज॑माना॒ये तीति॒ यज॑मानाय॒ यज॑माना॒ये ति॑ । 6) इत्या॑हा॒हे तीत्या॑ह । 7) आ॒ह॒ यज॑मानं॒-यँज॑मान माहाह॒ यज॑मानम् । 8) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व । 9) ए॒वैते नै॒ते नै॒वै वैतेन॑ । 10) ए॒तेन॑ वर्धयति वर्धय त्ये॒तेनै॒तेन॑ वर्धयति । 11) व॒र्ध॒य॒ त्य॒ग्नि म॒ग्निं-वँ॑र्धयति वर्धय त्य॒ग्निम् । 12) अ॒ग्नि म॑ग्ने ऽग्ने॒ ऽग्नि म॒ग्नि म॑ग्ने । 13) अ॒ग्न॒ आ ऽग्ने᳚ ऽग्न॒ आ । 14) आ व॑ह व॒हा व॑ह । 15) व॒ह॒ सोम॒ग्ं॒ सोमं॑-वँह वह॒ सोम᳚म् । 16) सोम॒ मा सोम॒ग्ं॒ सोम॒ मा । 17) आ व॑ह व॒हा व॑ह । 18) व॒हे तीति॑ वह व॒हे ति॑ । 19) इत्या॑हा॒हे तीत्या॑ह । 20) आ॒ह॒ दे॒वता॑ दे॒वता॑ आहाह दे॒वताः᳚ । 21) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व । 22) ए॒व त-त्तदे॒वैव तत् । 23) त-द्य॑थापू॒र्वं-यँ॑थापू॒र्व-न्त-त्त-द्य॑थापू॒र्वम् । 24) य॒था॒पू॒र्व मुपोप॑ यथापू॒र्वं-यँ॑थापू॒र्व मुप॑ । 24) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । 25) उप॑ ह्वयते ह्वयत॒ उपोप॑ ह्वयते । 26) ह्व॒य॒त॒ आ ह्व॑यते ह्वयत॒ आ । 27) आ च॒ चा च॑ । 28) चा॒ग्ने॒ ऽग्ने॒ च॒ चा॒ग्ने॒ । 29) अ॒ग्ने॒ दे॒वा-न्दे॒वा न॑ग्ने ऽग्ने दे॒वान् । 30) दे॒वान्. वह॒ वह॑ दे॒वा-न्दे॒वान्. वह॑ । 31) वह॑ सु॒यजा॑ सु॒यजा॒ वह॒ वह॑ सु॒यजा᳚ । 32) सु॒यजा॑ च च सु॒यजा॑ सु॒यजा॑ च । 32) सु॒यजेति॑ सु - यजा᳚ । 33) च॒ य॒ज॒ य॒ज॒ च॒ च॒ य॒ज॒ । 34) य॒ज॒ जा॒त॒वे॒दो॒ जा॒त॒वे॒दो॒ य॒ज॒ य॒ज॒ जा॒त॒वे॒दः॒ । 35) जा॒त॒वे॒द॒ इतीति॑ जातवेदो जातवेद॒ इति॑ । 35) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । 36) इत्या॑हा॒हे तीत्या॑ह । 37) आ॒हा॒ग्नि म॒ग्नि मा॑हाहा॒ग्निम् । 38) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व । 39) ए॒व त-त्तदे॒वैव तत् । 40) त-थ्सग्ं स-न्त-त्त-थ्सम् । 41) सग्ग् श्य॑ति श्यति॒ सग्ं सग्ग् श्य॑ति । 42) श्य॒ति॒ स स श्य॑ति श्यति॒ सः । 43) सो᳚ ऽस्यास्य॒ स सो᳚ ऽस्य । 44) अ॒स्य॒ सग्ंशि॑त॒-स्सग्ंशि॑तो ऽस्यास्य॒ सग्ंशि॑तः । 45) सग्ंशि॑तो दे॒वेभ्यो॑ दे॒वेभ्य॒-स्सग्ंशि॑त॒-स्सग्ंशि॑तो दे॒वेभ्यः॑ । 45) सग्ंशि॑त॒ इति॒ सं - शि॒तः॒ । 46) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् । 47) ह॒व्यं-वँ॑हति वहति ह॒व्यग्ं ह॒व्यं-वँ॑हति । 48) व॒ह॒ त्य॒ग्नि र॒ग्नि-र्व॑हति वह त्य॒ग्निः । 49) अ॒ग्निर्-होता॒ होता॒ ऽग्नि र॒ग्निर्-होता᳚ । 50) होतेतीति॒ होता॒ होतेति॑ । ॥ 54 ॥ (50/54)
1) इत्या॑हा॒हे तीत्या॑ह । 2) आ॒हा॒ग्नि र॒ग्नि रा॑हाहा॒ग्निः । 3) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै । 4) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 5) दे॒वाना॒ग्ं॒ होता॒ होता॑ दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ होता᳚ । 6) होता॒ यो यो होता॒ होता॒ यः । 7) य ए॒वैव यो य ए॒व । 8) ए॒व दे॒वाना᳚-न्दे॒वाना॑ मे॒वैव दे॒वाना᳚म् । 9) दे॒वाना॒ग्ं॒ होता॒ होता॑ दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ होता᳚ । 10) होता॒ त-न्तग्ं होता॒ होता॒ तम् । 11) तं-वृँ॑णीते वृणीते॒ त-न्तं-वृँ॑णीते । 12) वृ॒णी॒ते॒ स्म-स्स्मो वृ॑णीते वृणीते॒ स्मः । 13) स्मो व॒यं-वँ॒यग्ग् स्म-स्स्मो व॒यम् । 14) व॒य मितीति॑ व॒यं-वँ॒य मिति॑ । 15) इत्या॑हा॒हे तीत्या॑ह । 16) आ॒हा॒त्मान॑ मा॒त्मान॑ माहाहा॒त्मान᳚म् । 17) आ॒त्मान॑ मे॒वैवात्मान॑ मा॒त्मान॑ मे॒व । 18) ए॒व स॒त्त्वग्ं स॒त्त्व मे॒वैव स॒त्त्वम् । 19) स॒त्त्व-ङ्ग॑मयति गमयति स॒त्त्वग्ं स॒त्त्व-ङ्ग॑मयति । 19) स॒त्त्वमिति॑ सत् - त्वम् । 20) ग॒म॒य॒ति॒ सा॒धु सा॒धु ग॑मयति गमयति सा॒धु । 21) सा॒धु ते॑ ते सा॒धु सा॒धु ते᳚ । 22) ते॒ य॒ज॒मा॒न॒ य॒ज॒मा॒न॒ ते॒ ते॒ य॒ज॒मा॒न॒ । 23) य॒ज॒मा॒न॒ दे॒वता॑ दे॒वता॑ यजमान यजमान दे॒वता᳚ । 24) दे॒वतेतीति॑ दे॒वता॑ दे॒वतेति॑ । 25) इत्या॑हा॒हे तीत्या॑ह । 26) आ॒हा॒शिष॑ मा॒शिष॑ माहाहा॒शिष᳚म् । 27) आ॒शिष॑ मे॒वैवाशिष॑ मा॒शिष॑ मे॒व । 27) आ॒शिष॒मित्या᳚ - शिष᳚म् । 28) ए॒वैता मे॒ता मे॒वैवैताम् । 29) ए॒ता मैता मे॒ता मा । 30) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते । 31) शा॒स्ते॒ य-द्यच्छा᳚स्ते शास्ते॒ यत् । 32) य-द्ब्रू॒या-द्ब्रू॒या-द्य-द्य-द्ब्रू॒यात् । 33) ब्रू॒या-द्यो यो ब्रू॒या-द्ब्रू॒या-द्यः । 34) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 35) अ॒ग्निग्ं होता॑र॒ग्ं॒ होता॑र म॒ग्नि म॒ग्निग्ं होता॑रम् । 36) होता॑र॒ मवृ॑था॒ अवृ॑था॒ होता॑र॒ग्ं॒ होता॑र॒ मवृ॑थाः । 37) अवृ॑था॒ इती त्यवृ॑था॒ अवृ॑था॒ इति॑ । 38) इत्य॒ग्निना॒ ऽग्निनेती त्य॒ग्निना᳚ । 39) अ॒ग्निनो॑ भ॒यत॑ उभ॒यतो॒ ऽग्निना॒ ऽग्निनो॑ भ॒यतः॑ । 40) उ॒भ॒यतो॒ यज॑मानं॒-यँज॑मान मुभ॒यत॑ उभ॒यतो॒ यज॑मानम् । 41) यज॑मान॒-म्परि॒ परि॒ यज॑मानं॒-यँज॑मान॒-म्परि॑ । 42) परि॑ गृह्णीया-द्गृह्णीया॒-त्परि॒ परि॑ गृह्णीयात् । 43) गृ॒ह्णी॒या॒-त्प्र॒मायु॑कः प्र॒मायु॑को गृह्णीया-द्गृह्णीया-त्प्र॒मायु॑कः । 44) प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्यात् । 44) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । 45) स्या॒-द्य॒ज॒मा॒न॒दे॒व॒त्या॑ यजमानदेव॒त्या᳚ स्या-थ्स्या-द्यजमानदेव॒त्या᳚ । 46) य॒ज॒मा॒न॒दे॒व॒त्या॑ वै वै य॑जमानदेव॒त्या॑ यजमानदेव॒त्या॑ वै । 46) य॒ज॒मा॒न॒दे॒व॒त्येति॑ यजमान - दे॒व॒त्या᳚ । 47) वै जु॒हू-र्जु॒हू-र्वै वै जु॒हूः । 48) जु॒हू-र्भ्रा॑तृव्यदेव॒त्या᳚ भ्रातृव्यदेव॒त्या॑ जु॒हू-र्जु॒हू-र्भ्रा॑तृव्यदेव॒त्या᳚ । 49) भ्रा॒तृ॒व्य॒दे॒व॒ त्यो॑प॒भृ दु॑प॒भृ-द्भ्रा॑तृव्यदेव॒त्या᳚ भ्रातृव्यदेव॒ त्यो॑प॒भृत् । 49) भ्रा॒तृ॒व्य॒दे॒व॒त्येति॑ भ्रातृव्य - दे॒व॒त्या᳚ । 50) उ॒प॒भृ-द्य-द्यदु॑प॒भृ दु॑प॒भृ-द्यत् । 50) उ॒प॒भृदित्यु॑प - भृत् । ॥ 55 ॥ (50/56)
1) य-द्द्वे द्वे य-द्य-द्द्वे । 2) द्वे इ॑वे व॒ द्वे द्वे इ॑व । 2) द्वे इति॒ द्वे । 3) इ॒व॒ ब्रू॒या-द्ब्रू॒या दि॑वे व ब्रू॒यात् । 4) ब्रू॒या-द्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-म्ब्रू॒या-द्ब्रू॒या-द्भ्रातृ॑व्यम् । 5) भ्रातृ॑व्य मस्मा अस्मै॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मस्मै । 6) अ॒स्मै॒ ज॒न॒ये॒ज् ज॒न॒ये॒ द॒स्मा॒ अ॒स्मै॒ ज॒न॒ये॒त् । 7) ज॒न॒ये॒-द्घृ॒तव॑ती-ङ्घृ॒तव॑ती-ञ्जनयेज् जनये-द्घृ॒तव॑तीम् । 8) घृ॒तव॑ती मद्ध्वर्यो अद्ध्वर्यो घृ॒तव॑ती-ङ्घृ॒तव॑ती मद्ध्वर्यो । 8) घृ॒तव॑ती॒मिति॑ घृ॒त - व॒ती॒म् । 9) अ॒द्ध्व॒र्यो॒ स्रुच॒ग्ग्॒ स्रुच॑ मद्ध्वर्यो अद्ध्वर्यो॒ स्रुच᳚म् । 9) अ॒द्ध्व॒र्यो॒ इत्य॑द्ध्वर्यो । 10) स्रुच॒ मा स्रुच॒ग्ग्॒ स्रुच॒ मा । 11) आ ऽस्य॑स्वा स्य॒स्वा ऽस्य॑स्व । 12) अ॒स्य॒स्वे तीत्य॑स्यस्वा स्य॒स्वे ति॑ । 13) इत्या॑हा॒हे तीत्या॑ह । 14) आ॒ह॒ यज॑मानं॒-यँज॑मान माहाह॒ यज॑मानम् । 15) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व । 16) ए॒वैते नै॒ते नै॒वै वैतेन॑ । 17) ए॒तेन॑ वर्धयति वर्धय त्ये॒तेनै॒तेन॑ वर्धयति । 18) व॒र्ध॒य॒ति॒ दे॒वा॒युव॑-न्देवा॒युवं॑-वँर्धयति वर्धयति देवा॒युव᳚म् । 19) दे॒वा॒युव॒ मितीति॑ देवा॒युव॑-न्देवा॒युव॒ मिति॑ । 19) दे॒वा॒युव॒मिति॑ देव - युव᳚म् । 20) इत्या॑हा॒हे तीत्या॑ह । 21) आ॒ह॒ दे॒वा-न्दे॒वा ना॑हाह दे॒वान् । 22) दे॒वान्. हि हि दे॒वा-न्दे॒वान्. हि । 23) ह्ये॑षैषा हि ह्ये॑षा । 24) ए॒षा ऽव॒त्यव॑ त्ये॒षैषा ऽव॑ति । 25) अव॑ति वि॒श्ववा॑रां-विँ॒श्ववा॑रा॒ मव॒त्यव॑ति वि॒श्ववा॑राम् । 26) वि॒श्ववा॑रा॒ मितीति॑ वि॒श्ववा॑रां-विँ॒श्ववा॑रा॒ मिति॑ । 26) वि॒श्ववा॑रा॒मिति॑ वि॒श्व - वा॒रा॒म् । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒ह॒ विश्वं॒-विँश्व॑ माहाह॒ विश्व᳚म् । 29) विश्व॒ग्ं॒ हि हि विश्वं॒-विँश्व॒ग्ं॒ हि । 30) ह्ये॑षैषा हि ह्ये॑षा । 31) ए॒षा ऽव॒त्यव॑ त्ये॒षैषा ऽव॑ति । 32) अव॒तीडा॑महा॒ ईडा॑महा॒ अव॒ त्यव॒तीडा॑महै । 33) ईडा॑महै दे॒वा-न्दे॒वाग्ं ईडा॑महा॒ ईडा॑महै दे॒वान् । 34) दे॒वाग्ं ई॒डेन्या॑ नी॒डेन्या᳚-न्दे॒वा-न्दे॒वाग्ं ई॒डेन्यान्॑ । 35) ई॒डेन्या᳚-न्नम॒स्याम॑ नम॒स्या मे॒डेन्या॑ नी॒डेन्या᳚-न्नम॒स्याम॑ । 36) न॒म॒स्याम॑ नम॒स्या᳚-न्नम॒स्या᳚-न्नम॒स्याम॑ नम॒स्याम॑ नम॒स्यान्॑ । 37) न॒म॒स्यान्॑. यजा॑म॒ यजा॑म नम॒स्या᳚-न्नम॒स्यान्॑. यजा॑म । 38) यजा॑म य॒ज्ञियान्॑. य॒ज्ञिया॒न्॒. यजा॑म॒ यजा॑म य॒ज्ञियान्॑ । 39) य॒ज्ञिया॒ नितीति॑ य॒ज्ञियान्॑. य॒ज्ञिया॒ निति॑ । 40) इत्या॑हा॒हे तीत्या॑ह । 41) आ॒ह॒ म॒नु॒ष्या॑ मनु॒ष्या॑ आहाह मनु॒ष्याः᳚ । 42) म॒नु॒ष्या॑ वै वै म॑नु॒ष्या॑ मनु॒ष्या॑ वै । 43) वा ई॒डेन्या॑ ई॒डेन्या॒ वै वा ई॒डेन्याः᳚ । 44) ई॒डेन्याः᳚ पि॒तरः॑ पि॒तर॑ ई॒डेन्या॑ ई॒डेन्याः᳚ पि॒तरः॑ । 45) पि॒तरो॑ नम॒स्या॑ नम॒स्याः᳚ पि॒तरः॑ पि॒तरो॑ नम॒स्याः᳚ । 46) न॒म॒स्या॑ दे॒वा दे॒वा न॑म॒स्या॑ नम॒स्या॑ दे॒वाः । 47) दे॒वा य॒ज्ञिया॑ य॒ज्ञिया॑ दे॒वा दे॒वा य॒ज्ञियाः᳚ । 48) य॒ज्ञिया॑ दे॒वता॑ दे॒वता॑ य॒ज्ञिया॑ य॒ज्ञिया॑ दे॒वताः᳚ । 49) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व । 50) ए॒व त-त्तदे॒वैव तत् । 51) त-द्य॑थाभा॒गं-यँ॑थाभा॒ग-न्त-त्त-द्य॑थाभा॒गम् । 52) य॒था॒भा॒गं-यँ॑जति यजति यथाभा॒गं-यँ॑थाभा॒गं-यँ॑जति । 52) य॒था॒भा॒गमिति॑ यथा - भा॒गम् । 53) य॒ज॒तीति॑ यजति । ॥ 56 ॥ (53/59) ॥ अ. 9 ॥
1) त्रीग् स्तृ॒चा-न्तृ॒चा-न्त्रीग् स्त्रीग् स्तृ॒चान् । 2) तृ॒चा नन्वनु॑ तृ॒चा-न्तृ॒चा ननु॑ । 3) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् । 4) ब्रू॒या॒-द्रा॒ज॒न्य॑स्य राज॒न्य॑स्य ब्रूया-द्ब्रूया-द्राज॒न्य॑स्य । 5) रा॒ज॒न्य॑स्य॒ त्रय॒स्त्रयो॑ राज॒न्य॑स्य राज॒न्य॑स्य॒ त्रयः॑ । 6) त्रयो॒ वै वै त्रय॒ स्त्रयो॒ वै । 7) वा अ॒न्ये᳚ ऽन्ये वै वा अ॒न्ये । 8) अ॒न्ये रा॑ज॒न्या᳚-द्राज॒न्या॑ द॒न्ये᳚ ऽन्ये रा॑ज॒न्या᳚त् । 9) रा॒ज॒न्या᳚-त्पुरु॑षाः॒ पुरु॑षा राज॒न्या᳚-द्राज॒न्या᳚-त्पुरु॑षाः । 10) पुरु॑षा ब्राह्म॒णो ब्रा᳚ह्म॒णः पुरु॑षाः॒ पुरु॑षा ब्राह्म॒णः । 11) ब्रा॒ह्म॒णो वैश्यो॒ वैश्यो᳚ ब्राह्म॒णो ब्रा᳚ह्म॒णो वैश्यः॑ । 12) वैश्य॑-श्शू॒द्र-श्शू॒द्रो वैश्यो॒ वैश्य॑-श्शू॒द्रः । 13) शू॒द्र स्ताग् स्ता-ञ्छू॒द्र-श्शू॒द्र स्तान् । 14) ता ने॒वैव ताग् स्ता ने॒व । 15) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 16) अ॒स्मा॒ अनु॑का॒ ननु॑का नस्मा अस्मा॒ अनु॑कान् । 17) अनु॑कान् करोति करो॒त्यनु॑का॒ ननु॑कान् करोति । 17) अनु॑का॒नित्यनु॑ - का॒न् । 18) क॒रो॒ति॒ पञ्च॑दश॒ पञ्च॑दश करोति करोति॒ पञ्च॑दश । 19) पञ्च॑द॒शान्वनु॒ पञ्च॑दश॒ पञ्च॑द॒शानु॑ । 19) पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । 20) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् । 21) ब्रू॒या॒-द्रा॒ज॒न्य॑स्य राज॒न्य॑स्य ब्रूया-द्ब्रूया-द्राज॒न्य॑स्य । 22) रा॒ज॒न्य॑स्य पञ्चद॒शः प॑ञ्चद॒शो रा॑ज॒न्य॑स्य राज॒न्य॑स्य पञ्चद॒शः । 23) प॒ञ्च॒द॒शो वै वै प॑ञ्चद॒शः प॑ञ्चद॒शो वै । 23) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । 24) वै रा॑ज॒न्यो॑ राज॒न्यो॑ वै वै रा॑ज॒न्यः॑ । 25) रा॒ज॒न्य॑-स्स्वे स्वे रा॑ज॒न्यो॑ राज॒न्य॑-स्स्वे । 26) स्व ए॒वैव स्वे स्व ए॒व । 27) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 28) ए॒न॒ग्ग्॒ स्तोमे॒ स्तोम॑ एन मेन॒ग्ग्॒ स्तोमे᳚ । 29) स्तोमे॒ प्रति॒ प्रति॒ स्तोमे॒ स्तोमे॒ प्रति॑ । 30) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति । 31) स्था॒प॒य॒ति॒ त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा᳚ स्थापयति स्थापयति त्रि॒ष्टुभा᳚ । 32) त्रि॒ष्टुभा॒ परि॒ परि॑ त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा॒ परि॑ । 33) परि॑ दद्ध्या-द्दद्ध्या॒-त्परि॒ परि॑ दद्ध्यात् । 34) द॒द्ध्या॒ दि॒न्द्रि॒य मि॑न्द्रि॒य-न्द॑द्ध्या-द्दद्ध्या दिन्द्रि॒यम् । 35) इ॒न्द्रि॒यं-वैँ वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ । 36) वै त्रि॒ष्टु-क्त्रि॒ष्टुग् वै वै त्रि॒ष्टुक् । 37) त्रि॒ष्टु गि॑न्द्रि॒यका॑म इन्द्रि॒यका॑म स्त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रि॒यका॑मः । 38) इ॒न्द्रि॒यका॑मः॒ खलु॒ खल्वि॑न्द्रि॒यका॑म इन्द्रि॒यका॑मः॒ खलु॑ । 38) इ॒न्द्रि॒यका॑म॒ इती᳚न्द्रि॒य - का॒मः॒ । 39) खलु॒ वै वै खलु॒ खलु॒ वै । 40) वै रा॑ज॒न्यो॑ राज॒न्यो॑ वै वै रा॑ज॒न्यः॑ । 41) रा॒ज॒न्यो॑ यजते यजते राज॒न्यो॑ राज॒न्यो॑ यजते । 42) य॒ज॒ते॒ त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा॑ यजते यजते त्रि॒ष्टुभा᳚ । 43) त्रि॒ष्टुभै॒वैव त्रि॒ष्टुभा᳚ त्रि॒ष्टुभै॒व । 44) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 45) अ॒स्मा॒ इ॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मा अस्मा इन्द्रि॒यम् । 46) इ॒न्द्रि॒य-म्परि॒ परी᳚न्द्रि॒य मि॑न्द्रि॒य-म्परि॑ । 47) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति । 48) गृ॒ह्णा॒ति॒ यदि॒ यदि॑ गृह्णाति गृह्णाति॒ यदि॑ । 49) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त । 50) का॒मये॑त ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्का॒मये॑त का॒मये॑त ब्रह्मवर्च॒सम् । ॥ 57 ॥ (50/54)
1) ब्र॒ह्म॒व॒र्च॒स म॑स्त्वस्तु ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्तु । 1) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 2) अ॒स्त्विती त्य॑स्त्व॒ स्त्विति॑ । 3) इति॑ गायत्रि॒या गा॑यत्रि॒येतीति॑ गायत्रि॒या । 4) गा॒य॒त्रि॒या परि॒ परि॑ गायत्रि॒या गा॑यत्रि॒या परि॑ । 5) परि॑ दद्ध्या-द्दद्ध्या॒-त्परि॒ परि॑ दद्ध्यात् । 6) द॒द्ध्या॒-द्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स-न्द॑द्ध्या-द्दद्ध्या-द्ब्रह्मवर्च॒सम् । 7) ब्र॒ह्म॒व॒र्च॒सं-वैँ वै ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सं-वैँ । 7) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 8) वै गा॑य॒त्री गा॑य॒त्री वै वै गा॑य॒त्री । 9) गा॒य॒त्री ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सम् । 10) ब्र॒ह्म॒व॒र्च॒स मे॒वैव ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒व । 10) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 11) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 12) भ॒व॒ति॒ स॒प्तद॑श स॒प्तद॑श भवति भवति स॒प्तद॑श । 13) स॒प्तद॒शान्वनु॑ स॒प्तद॑श स॒प्तद॒शानु॑ । 13) स॒प्तद॒शेति॑ स॒प्त - द॒श॒ । 14) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् । 15) ब्रू॒या॒-द्वैश्य॑स्य॒ वैश्य॑स्य ब्रूया-द्ब्रूया॒-द्वैश्य॑स्य । 16) वैश्य॑स्य सप्तद॒श-स्स॑प्तद॒शो वैश्य॑स्य॒ वैश्य॑स्य सप्तद॒शः । 17) स॒प्त॒द॒शो वै वै स॑प्तद॒श-स्स॑प्तद॒शो वै । 17) स॒प्त॒द॒श इति॑ सप्त - द॒शः । 18) वै वैश्यो॒ वैश्यो॒ वै वै वैश्यः॑ । 19) वैश्य॒-स्स्वे स्वे वैश्यो॒ वैश्य॒-स्स्वे । 20) स्व ए॒वैव स्वे स्व ए॒व । 21) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 22) ए॒न॒ग्ग्॒ स्तोमे॒ स्तोम॑ एन मेन॒ग्ग्॒ स्तोमे᳚ । 23) स्तोमे॒ प्रति॒ प्रति॒ स्तोमे॒ स्तोमे॒ प्रति॑ । 24) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति । 25) स्था॒प॒य॒ति॒ जग॑त्या॒ जग॑त्या स्थापयति स्थापयति॒ जग॑त्या । 26) जग॑त्या॒ परि॒ परि॒ जग॑त्या॒ जग॑त्या॒ परि॑ । 27) परि॑ दद्ध्या-द्दद्ध्या॒-त्परि॒ परि॑ दद्ध्यात् । 28) द॒द्ध्या॒ज् जाग॑ता॒ जाग॑ता दद्ध्या-द्दद्ध्या॒ज् जाग॑ताः । 29) जाग॑ता॒ वै वै जाग॑ता॒ जाग॑ता॒ वै । 30) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ । 31) प॒शवः॑ प॒शुका॑मः प॒शुका॑मः प॒शवः॑ प॒शवः॑ प॒शुका॑मः । 32) प॒शुका॑मः॒ खलु॒ खलु॑ प॒शुका॑मः प॒शुका॑मः॒ खलु॑ । 32) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । 33) खलु॒ वै वै खलु॒ खलु॒ वै । 34) वै वैश्यो॒ वैश्यो॒ वै वै वैश्यः॑ । 35) वैश्यो॑ यजते यजते॒ वैश्यो॒ वैश्यो॑ यजते । 36) य॒ज॒ते॒ जग॑त्या॒ जग॑त्या यजते यजते॒ जग॑त्या । 37) जग॑त्यै॒वैव जग॑त्या॒ जग॑त्यै॒व । 38) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 39) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् । 40) प॒शू-न्परि॒ परि॑ प॒शू-न्प॒शू-न्परि॑ । 41) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति । 42) गृ॒ह्णा॒ त्येक॑विग्ंशति॒ मेक॑विग्ंशति-ङ्गृह्णाति गृह्णा॒ त्येक॑विग्ंशतिम् । 43) एक॑विग्ंशति॒ मन्वन्वेक॑विग्ंशति॒ मेक॑विग्ंशति॒ मनु॑ । 43) एक॑विग्ंशति॒मित्येक॑ - वि॒ग्ं॒श॒ति॒म् । 44) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् । 45) ब्रू॒या॒-त्प्र॒ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्य ब्रूया-द्ब्रूया-त्प्रति॒ष्ठाका॑मस्य । 46) प्र॒ति॒ष्ठाका॑म स्यैकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शः प्र॑ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑म स्यैकवि॒ग्ं॒शः । 46) प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ । 47) ए॒क॒वि॒ग्ं॒श-स्स्तोमा॑ना॒ग्॒ स्तोमा॑ना मेकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श-स्स्तोमा॑नाम् । 47) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 48) स्तोमा॑ना-म्प्रति॒ष्ठा प्र॑ति॒ष्ठा स्तोमा॑ना॒ग्॒ स्तोमा॑ना-म्प्रति॒ष्ठा । 49) प्र॒ति॒ष्ठा प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै प्रति॒ष्ठा प्र॑ति॒ष्ठा प्रति॑ष्ठित्यै । 49) प्र॒ति॒ष्ठेति॑ प्रति - स्था । 50) प्रति॑ष्ठित्यै॒ चतु॑र्विग्ंशति॒-ञ्चतु॑र्विग्ंशति॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ चतु॑र्विग्ंशतिम् । 50) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । ॥ 58 ॥ (50/61)
1) चतु॑र्विग्ंशति॒ मन्वनु॒ चतु॑र्विग्ंशति॒-ञ्चतु॑र्विग्ंशति॒ मनु॑ । 1) चतु॑र्विग्ंशति॒मिति॒ चतुः॑ - वि॒ग्ं॒श॒ति॒म् । 2) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् । 3) ब्रू॒या॒-द्ब्र॒ह्म॒व॒र्च॒सका॑मस्य ब्रह्मवर्च॒सका॑मस्य ब्रूया-द्ब्रूया-द्ब्रह्मवर्च॒सका॑मस्य । 4) ब्र॒ह्म॒व॒र्च॒सका॑मस्य॒ चतु॑र्विग्ंशत्यक्षरा॒ चतु॑र्विग्ंशत्यक्षरा ब्रह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सका॑मस्य॒ चतु॑र्विग्ंशत्यक्षरा । 4) ब्र॒ह्म॒व॒र्च॒सका॑म॒स्येति॑ ब्रह्मवर्च॒स - का॒म॒स्य॒ । 5) चतु॑र्विग्ंशत्यक्षरा गाय॒त्री गा॑य॒त्री चतु॑र्विग्ंशत्यक्षरा॒ चतु॑र्विग्ंशत्यक्षरा गाय॒त्री । 5) चतु॑र्विग्ंशत्यक्ष॒रेति॒ चतु॑र्विग्ंशति - अ॒क्ष॒रा॒ । 6) गा॒य॒त्री गा॑य॒त्री । 7) गा॒य॒त्री ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सम् । 8) ब्र॒ह्म॒व॒र्च॒स-ङ्गा॑यत्रि॒या गा॑यत्रि॒या ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑यत्रि॒या । 8) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 9) गा॒य॒त्रि॒यैवैव गा॑यत्रि॒या गा॑यत्रि॒यैव । 10) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 11) अ॒स्मै॒ ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मा अस्मै ब्रह्मवर्च॒सम् । 12) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ । 12) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 13) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 14) रु॒न्धे॒ त्रि॒ग्ं॒शत॑-न्त्रि॒ग्ं॒शतग्ं॑ रुन्धे रुन्धे त्रि॒ग्ं॒शत᳚म् । 15) त्रि॒ग्ं॒शत॒ मन्वनु॑ त्रि॒ग्ं॒शत॑-न्त्रि॒ग्ं॒शत॒ मनु॑ । 16) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् । 17) ब्रू॒या॒ दन्न॑काम॒स्या न्न॑कामस्य ब्रूया-द्ब्रूया॒ दन्न॑कामस्य । 18) अन्न॑कामस्य त्रि॒ग्ं॒शद॑क्षरा त्रि॒ग्ं॒शद॑क्ष॒रा ऽन्न॑काम॒स्या न्न॑कामस्य त्रि॒ग्ं॒शद॑क्षरा । 18) अन्न॑काम॒स्येत्यन्न॑ - का॒म॒स्य॒ । 19) त्रि॒ग्ं॒शद॑क्षरा वि॒रा-ड्वि॒रा-ट्त्रि॒ग्ं॒शद॑क्षरा त्रि॒ग्ं॒शद॑क्षरा वि॒राट् । 19) त्रि॒ग्ं॒शद॑क्ष॒रेति॑ त्रि॒ग्ं॒शत् - अ॒क्ष॒रा॒ । 20) वि॒राडन्न॒ मन्नं॑-विँ॒रा-ड्वि॒राडन्न᳚म् । 20) वि॒राडिति॑ वि - राट् । 21) अन्नं॑-विँ॒रा-ड्वि॒राडन्न॒ मन्नं॑-विँ॒राट् । 22) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ । 22) वि॒राडिति॑ वि - राट् । 23) वि॒राजै॒वैव वि॒राजा॑ वि॒राजै॒व । 23) वि॒राजेति॑ वि - राजा᳚ । 24) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 25) अ॒स्मा॒ अ॒न्नाद्य॑ म॒न्नाद्य॑ मस्मा अस्मा अ॒न्नाद्य᳚म् । 26) अ॒न्नाद्य॒ मवावा॒न्नाद्य॑ म॒न्नाद्य॒ मव॑ । 26) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 27) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 28) रु॒न्धे॒ द्वात्रिग्ं॑शत॒-न्द्वात्रिग्ं॑शतग्ं रुन्धे रुन्धे॒ द्वात्रिग्ं॑शतम् । 29) द्वात्रिग्ं॑शत॒ मन्वनु॒ द्वात्रिग्ं॑शत॒-न्द्वात्रिग्ं॑शत॒ मनु॑ । 30) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् । 31) ब्रू॒या॒-त्प्र॒ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्य ब्रूया-द्ब्रूया-त्प्रति॒ष्ठाका॑मस्य । 32) प्र॒ति॒ष्ठाका॑मस्य॒ द्वात्रिग्ं॑शदक्षरा॒ द्वात्रिग्ं॑शदक्षरा प्रति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्य॒ द्वात्रिग्ं॑शदक्षरा । 32) प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ । 33) द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टुग॑नु॒ष्टुग् द्वात्रिग्ं॑शदक्षरा॒ द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टुक् । 33) द्वात्रिग्ं॑शदक्ष॒रेति॒ द्वात्रिग्ं॑शत् - अ॒क्ष॒रा॒ । 34) अ॒नु॒ष्टु ग॑नु॒ष्टु ब॑नु॒ष्टु ब॑नु॒ष्टु ग॑नु॒ष्टु ग॑नु॒ष्टुप् । 34) अ॒नु॒ष्टुगित्य॑नु - स्तुक् । 35) अ॒नु॒ष्टु-प्छन्द॑सा॒-ञ्छन्द॑सा मनु॒ष्टु ब॑नु॒ष्टु-प्छन्द॑साम् । 35) अ॒नु॒ष्टुबित्य॑नु - स्तुप् । 36) छन्द॑सा-म्प्रति॒ष्ठा प्र॑ति॒ष्ठा छन्द॑सा॒-ञ्छन्द॑सा-म्प्रति॒ष्ठा । 37) प्र॒ति॒ष्ठा प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै प्रति॒ष्ठा प्र॑ति॒ष्ठा प्रति॑ष्ठित्यै । 37) प्र॒ति॒ष्ठेति॑ प्रति - स्था । 38) प्रति॑ष्ठित्यै॒ षट्त्रिग्ं॑शत॒ग्ं॒ षट्त्रिग्ं॑शत॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ षट्त्रिग्ं॑शतम् । 38) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 39) षट्त्रिग्ं॑शत॒ मन्वनु॒ षट्त्रिग्ं॑शत॒ग्ं॒ षट्त्रिग्ं॑शत॒ मनु॑ । 39) षट्त्रिग्ं॑शत॒मिति॒ षट् - त्रि॒ग्ं॒श॒त॒म् । 40) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् । 41) ब्रू॒या॒-त्प॒शुका॑मस्य प॒शुका॑मस्य ब्रूया-द्ब्रूया-त्प॒शुका॑मस्य । 42) प॒शुका॑मस्य॒ षट्त्रिग्ं॑शदक्षरा॒ षट्त्रिग्ं॑शदक्षरा प॒शुका॑मस्य प॒शुका॑मस्य॒ षट्त्रिग्ं॑शदक्षरा । 42) प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ । 43) षट्त्रिग्ं॑शदक्षरा बृह॒ती बृ॑ह॒ती षट्त्रिग्ं॑शदक्षरा॒ षट्त्रिग्ं॑शदक्षरा बृह॒ती । 43) षट्त्रिग्ं॑शदक्ष॒रेति॒ षट्त्रिग्ं॑शत् - अ॒क्ष॒रा॒ । 44) बृ॒ह॒ती बार्ह॑ता॒ बार्ह॑ता बृह॒ती बृ॑ह॒ती बार्ह॑ताः । 45) बार्ह॑ताः प॒शवः॑ प॒शवो॒ बार्ह॑ता॒ बार्ह॑ताः प॒शवः॑ । 46) प॒शवो॑ बृह॒त्या बृ॑ह॒त्या प॒शवः॑ प॒शवो॑ बृह॒त्या । 47) बृ॒ह॒त्यैवैव बृ॑ह॒त्या बृ॑ह॒त्यैव । 48) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 49) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् । 50) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । ॥ 59 ॥ (50/70)
1) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 2) रु॒न्धे॒ चतु॑श्चत्वारिग्ंशत॒-ञ्चतु॑श्चत्वारिग्ंशतग्ं रुन्धे रुन्धे॒ चतु॑श्चत्वारिग्ंशतम् । 3) चतु॑श्चत्वारिग्ंशत॒ मन्वनु॒ चतु॑श्चत्वारिग्ंशत॒-ञ्चतु॑श्चत्वारिग्ंशत॒ मनु॑ । 3) चतु॑श्चत्वारिग्ंशत॒मिति॒ चतुः॑ - च॒त्वा॒रि॒ग्ं॒श॒त॒म् । 4) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् । 5) ब्रू॒या॒ दि॒न्द्रि॒यका॑मस्ये न्द्रि॒यका॑मस्य ब्रूया-द्ब्रूया दिन्द्रि॒यका॑मस्य । 6) इ॒न्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिग्ंशदक्षरा॒ चतु॑श्चत्वारिग्ंशदक्ष रेन्द्रि॒यका॑मस्ये न्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिग्ंशदक्षरा । 6) इ॒न्द्रि॒यका॑म॒स्येती᳚न्द्रि॒य - का॒म॒स्य॒ । 7) चतु॑श्चत्वारिग्ंशदक्षरा त्रि॒ष्टु-क्त्रि॒ष्टुक्चतु॑श्चत्वारिग्ंशदक्षरा॒ चतु॑श्चत्वारिग्ंशदक्षरा त्रि॒ष्टुक् । 7) चतु॑श्चत्वारिग्ंशदक्ष॒रेति॒ चतु॑श्चत्वारिग्ंशत् - अ॒क्ष॒रा॒ । 8) त्रि॒ष्टु गि॑न्द्रि॒य मि॑न्द्रि॒य-न्त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रि॒यम् । 9) इ॒न्द्रि॒य-न्त्रि॒ष्टु-प्त्रि॒ष्टुबि॑न्द्रि॒य मि॑न्द्रि॒य-न्त्रि॒ष्टुप् । 10) त्रि॒ष्टु-प्त्रि॒ष्टुभा᳚ त्रि॒ष्टुभा᳚ त्रि॒ष्टु-प्त्रि॒ष्टु-प्त्रि॒ष्टुभा᳚ । 11) त्रि॒ष्टुभै॒वैव त्रि॒ष्टुभा᳚ त्रि॒ष्टुभै॒व । 12) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 13) अ॒स्मा॒ इ॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मा अस्मा इन्द्रि॒यम् । 14) इ॒न्द्रि॒य मवावे᳚ न्द्रि॒य मि॑न्द्रि॒य मव॑ । 15) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 16) रु॒न्धे॒ ऽष्टाच॑त्वारिग्ंशत म॒ष्टाच॑त्वारिग्ंशतग्ं रुन्धे रुन्धे॒ ऽष्टाच॑त्वारिग्ंशतम् । 17) अ॒ष्टाच॑त्वारिग्ंशत॒ मन्वन्व॒ष्टाच॑त्वारिग्ंशत म॒ष्टाच॑त्वारिग्ंशत॒ मनु॑ । 17) अ॒ष्टाच॑त्वारिग्ंशत॒मित्य॒ष्टा - च॒त्वा॒रि॒ग्ं॒श॒त॒म् । 18) अनु॑ ब्रूया-द्ब्रूया॒दन्वनु॑ ब्रूयात् । 19) ब्रू॒या॒-त्प॒शुका॑मस्य प॒शुका॑मस्य ब्रूया-द्ब्रूया-त्प॒शुका॑मस्य । 20) प॒शुका॑मस्या॒ ष्टाच॑त्वारिग्ंशदक्षरा॒ ऽष्टाच॑त्वारिग्ंशदक्षरा प॒शुका॑मस्य प॒शुका॑मस्या॒ ष्टाच॑त्वारिग्ंशदक्षरा । 20) प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ । 21) अ॒ष्टाच॑त्वारिग्ंशदक्षरा॒ जग॑ती॒ जग॑त्य॒ष्टाच॑त्वारिग्ंशदक्षरा॒ ऽष्टाच॑त्वारिग्ंशदक्षरा॒ जग॑ती । 21) अ॒ष्टाच॑त्वारिग्ंशदक्ष॒रेत्य॒ष्टाच॑त्वारिग्ंशत् - अ॒क्ष॒रा॒ । 22) जग॑ती॒ जाग॑ता॒ जाग॑ता॒ जग॑ती॒ जग॑ती॒ जाग॑ताः । 23) जाग॑ताः प॒शवः॑ प॒शवो॒ जाग॑ता॒ जाग॑ताः प॒शवः॑ । 24) प॒शवो॒ जग॑त्या॒ जग॑त्या प॒शवः॑ प॒शवो॒ जग॑त्या । 25) जग॑त्यै॒वैव जग॑त्या॒ जग॑त्यै॒व । 26) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 27) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् । 28) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 29) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 30) रु॒न्धे॒ सर्वा॑णि॒ सर्वा॑णि रुन्धे रुन्धे॒ सर्वा॑णि । 31) सर्वा॑णि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ सर्वा॑णि॒ सर्वा॑णि॒ छन्दाग्ं॑सि । 32) छन्दा॒ग्॒ स्यन्वनु॒ छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्यनु॑ । 33) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् । 34) ब्रू॒या॒-द्ब॒हु॒या॒जिनो॑ बहुया॒जिनो᳚ ब्रूया-द्ब्रूया-द्बहुया॒जिनः॑ । 35) ब॒हु॒या॒जिन॒-स्सर्वा॑णि॒ सर्वा॑णि बहुया॒जिनो॑ बहुया॒जिन॒-स्सर्वा॑णि । 35) ब॒हु॒या॒जिन॒ इति॑ बहु - या॒जिनः॑ । 36) सर्वा॑णि॒ वै वै सर्वा॑णि॒ सर्वा॑णि॒ वै । 37) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ । 38) ए॒तस्य॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒त स्यै॒तस्य॒ छन्दाग्ं॑सि । 39) छन्दा॒ग्॒ स्यव॑रुद्धा॒ न्यव॑रुद्धानि॒ छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्यव॑रुद्धानि । 40) अव॑रुद्धानि॒ यो यो ऽव॑रुद्धा॒ न्यव॑रुद्धानि॒ यः । 40) अव॑रुद्धा॒नीत्यव॑ - रु॒द्धा॒नि॒ । 41) यो ब॑हुया॒जी ब॑हुया॒जी यो यो ब॑हुया॒जी । 42) ब॒हु॒या॒ ज्यप॑रिमित॒ मप॑रिमित-म्बहुया॒जी ब॑हुया॒ ज्यप॑रिमितम् । 42) ब॒हु॒या॒जीति॑ बहु - या॒जी । 43) अप॑रिमित॒ मन्व न्वप॑रिमित॒ मप॑रिमित॒ मनु॑ । 43) अप॑रिमित॒मित्यप॑रि - मि॒त॒म् । 44) अनु॑ ब्रूया-द्ब्रूया॒ दन्वनु॑ ब्रूयात् । 45) ब्रू॒या॒ दप॑रिमित॒स्या प॑रिमितस्य ब्रूया-द्ब्रूया॒ दप॑रिमितस्य । 46) अप॑रिमित॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या॒ अप॑रिमित॒स्या प॑रिमित॒स्या व॑रुद्ध्यै । 46) अप॑रिमित॒स्येत्यप॑रि - मि॒त॒स्य॒ । 47) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । ॥ 60 ॥ (47/58) ॥ अ. 10 ॥
1) निवी॑त-म्मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒-न्निवी॑त॒-न्निवी॑त-म्मनु॒ष्या॑णाम् । 1) निवी॑त॒मिति॒ नि - वी॒त॒म् । 2) म॒नु॒ष्या॑णा-म्प्राचीनावी॒त-म्प्रा॑चीनावी॒त-म्म॑नु॒ष्या॑णा-म्मनु॒ष्या॑णा-म्प्राचीनावी॒तम् । 3) प्रा॒ची॒ना॒वी॒त-म्पि॑तृ॒णा-म्पि॑तृ॒णा-म्प्रा॑चीनावी॒त-म्प्रा॑चीनावी॒त-म्पि॑तृ॒णाम् । 3) प्रा॒ची॒ना॒वी॒तमिति॑ प्राचीन - आ॒वी॒तम् । 4) पि॒तृ॒णा मुप॑वीत॒ मुप॑वीत-म्पितृ॒णा-म्पि॑तृ॒णा मुप॑वीतम् । 5) उप॑वीत-न्दे॒वाना᳚-न्दे॒वाना॒ मुप॑वीत॒ मुप॑वीत-न्दे॒वाना᳚म् । 5) उप॑वीत॒मित्युप॑ - वी॒त॒म् । 6) दे॒वाना॒ मुपोप॑ दे॒वाना᳚-न्दे॒वाना॒ मुप॑ । 7) उप॑ व्ययते व्ययत॒ उपोप॑ व्ययते । 8) व्य॒य॒ते॒ दे॒व॒ल॒क्ष्म-न्दे॑वल॒क्ष्मं-व्यँ॑यते व्ययते देवल॒क्ष्मम् । 9) दे॒व॒ल॒क्ष्म मे॒वैव दे॑वल॒क्ष्म-न्दे॑वल॒क्ष्म मे॒व । 9) दे॒व॒ल॒क्ष्ममिति॑ देव - ल॒क्ष्मम् । 10) ए॒व त-त्तदे॒वैव तत् । 11) त-त्कु॑रुते कुरुते॒ त-त्त-त्कु॑रुते । 12) कु॒रु॒ते॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॑न् कुरुते कुरुते॒ तिष्ठन्न्॑ । 13) तिष्ठ॒-न्नन्वनु॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॒-न्ननु॑ । 14) अन्वा॑ हा॒हा न्वन्वा॑ह । 15) आ॒ह॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॑-न्नाहाह॒ तिष्ठन्न्॑ । 16) तिष्ठ॒न्॒. हि हि तिष्ठ॒ग्ग्॒ स्तिष्ठ॒न्॒. हि । 17) ह्याश्रु॑ततर॒ माश्रु॑ततर॒ग्ं॒ हि ह्याश्रु॑ततरम् । 18) आश्रु॑ततरं॒-वँद॑ति॒ वद॒ त्याश्रु॑ततर॒ माश्रु॑ततरं॒-वँद॑ति । 18) आश्रु॑ततर॒मित्याश्रु॑त - त॒र॒म् । 19) वद॑ति॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॒न्॒. वद॑ति॒ वद॑ति॒ तिष्ठन्न्॑ । 20) तिष्ठ॒-न्नन्वनु॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॒-न्ननु॑ । 21) अन्वा॑ हा॒हा न्वन्वा॑ह । 22) आ॒ह॒ सु॒व॒र्गस्य॑ सुव॒र्गस्या॑ हाह सुव॒र्गस्य॑ । 23) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 23) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 24) लो॒कस्या॒ भिजि॑त्या अ॒भिजि॑त्यै लो॒कस्य॑ लो॒कस्या॒ भिजि॑त्यै । 25) अ॒भिजि॑त्या॒ आसी॑न॒ आसी॑नो॒ ऽभिजि॑त्या अ॒भिजि॑त्या॒ आसी॑नः । 25) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । 26) आसी॑नो यजति यज॒ त्यासी॑न॒ आसी॑नो यजति । 27) य॒ज॒ त्य॒स्मि-न्न॒स्मिन्. य॑जति यज त्य॒स्मिन्न् । 28) अ॒स्मि-न्ने॒वैवास्मि-न्न॒स्मि-न्ने॒व । 29) ए॒व लो॒के लो॒क ए॒वैव लो॒के । 30) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ । 31) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 32) ति॒ष्ठ॒ति॒ य-द्य-त्ति॑ष्ठति तिष्ठति॒ यत् । 33) य-त्क्रौ॒ञ्च-ङ्क्रौ॒ञ्चं-यँ-द्य-त्क्रौ॒ञ्चम् । 34) क्रौ॒ञ्च म॒न्वाहा॒ न्वाह॑ क्रौ॒ञ्च-ङ्क्रौ॒ञ्च म॒न्वाह॑ । 35) अ॒न्वाहा॑ सु॒र मा॑सु॒र म॒न्वाहा॒न्वाहा॑ सु॒रम् । 35) अ॒न्वाहेत्य॑नु - आह॑ । 36) आ॒सु॒र-न्त-त्तदा॑सु॒र मा॑सु॒र-न्तत् । 37) त-द्य-द्य-त्त-त्त-द्यत् । 38) य-न्म॒न्द्र-म्म॒न्द्रं-यँ-द्य-न्म॒न्द्रम् । 39) म॒न्द्र-म्मा॑नु॒ष-म्मा॑नु॒ष-म्म॒न्द्र-म्म॒न्द्र-म्मा॑नु॒षम् । 40) मा॒नु॒ष-न्त-त्त-न्मा॑नु॒ष-म्मा॑नु॒ष-न्तत् । 41) त-द्य-द्य-त्त-त्त-द्यत् । 42) यद॑न्त॒रा ऽन्त॒रा य-द्यद॑न्त॒रा । 43) अ॒न्त॒रा त-त्तद॑न्त॒रा ऽन्त॒रा तत् । 44) त-थ्सदे॑व॒ग्ं॒ सदे॑व॒-न्त-त्त-थ्सदे॑वम् । 45) सदे॑व मन्त॒रा ऽन्त॒रा सदे॑व॒ग्ं॒ सदे॑व मन्त॒रा । 45) सदे॑व॒मिति॒ स - दे॒व॒म् । 46) अ॒न्त॒रा ऽनूच्य॑ म॒नूच्य॑ मन्त॒रा ऽन्त॒रा ऽनूच्य᳚म् । 47) अ॒नूच्यग्ं॑ सदेव॒त्वाय॑ सदेव॒त्वाया॒ नूच्य॑ म॒नूच्यग्ं॑ सदेव॒त्वाय॑ । 47) अ॒नूच्य॒मित्य॑नु - उच्य᳚म् । 48) स॒दे॒व॒त्वाय॑ वि॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑-स्सदेव॒त्वाय॑ सदेव॒त्वाय॑ वि॒द्वाग्ंसः॑ । 48) स॒दे॒व॒त्वायेति॑ सदेव - त्वाय॑ । 49) वि॒द्वाग्ंसो॒ वै वै वि॒द्वाग्ंसो॑ वि॒द्वाग्ंसो॒ वै । 50) वै पु॒रा पु॒रा वै वै पु॒रा । ॥ 61 ॥ (50/61)
1) पु॒रा होता॑रो॒ होता॑रः पु॒रा पु॒रा होता॑रः । 2) होता॑रो ऽभूव-न्नभूव॒न्॒. होता॑रो॒ होता॑रो ऽभूवन्न् । 3) अ॒भू॒व॒-न्तस्मा॒-त्तस्मा॑ दभूव-न्नभूव॒-न्तस्मा᳚त् । 4) तस्मा॒-द्विधृ॑ता॒ विधृ॑ता॒ स्तस्मा॒-त्तस्मा॒-द्विधृ॑ताः । 5) विधृ॑ता॒ अद्ध्वा॒नो ऽद्ध्वा॑नो॒ विधृ॑ता॒ विधृ॑ता॒ अद्ध्वा॑नः । 5) विधृ॑ता॒ इति॒ वि - धृ॒ताः॒ । 6) अद्ध्वा॒नो ऽभू॑व॒-न्नभू॑व॒-न्नद्ध्वा॒नो ऽद्ध्वा॒नो ऽभू॑वन्न् । 7) अभू॑व॒-न्न नाभू॑व॒-न्नभू॑व॒-न्न । 8) न पन्था॑नः॒ पन्था॑नो॒ न न पन्था॑नः । 9) पन्था॑न॒-स्सग्ं स-म्पन्था॑नः॒ पन्था॑न॒-स्सम् । 10) स म॑रुक्ष-न्नरुक्ष॒-न्थ्सग्ं स म॑रुक्षन्न् । 11) अ॒रु॒क्ष॒-न्न॒न्त॒र्वे॒ द्य॑न्तर्वे॒ द्य॑रुक्ष-न्नरुक्ष-न्नन्तर्वे॒दि । 12) अ॒न्त॒र्वे॒द्या᳚(1॒)न्यो᳚(1॒) ऽन्यो᳚ ऽन्तर्वे॒ द्य॑न्तर्वे॒ द्य॑न्यः । 12) अ॒न्त॒र्वे॒दीत्य॑न्तः - वे॒दि । 13) अ॒न्यः पादः॒ पादो॒ ऽन्यो᳚ ऽन्यः पादः॑ । 14) पादो॒ भव॑ति॒ भव॑ति॒ पादः॒ पादो॒ भव॑ति । 15) भव॑ति बहिर्वे॒दि ब॑हिर्वे॒दि भव॑ति॒ भव॑ति बहिर्वे॒दि । 16) ब॒हि॒र्वे॒द्या᳚(1॒)न्यो᳚ ऽन्यो ब॑हिर्वे॒दि ब॑हिर्वे॒द्य॑न्यः । 16) ब॒हि॒र्वे॒दीति॑ बहिः - वे॒दि । 17) अ॒न्यो ऽथाथा॒न्यो᳚ ऽन्यो ऽथ॑ । 18) अथान्वन्वथा थानु॑ । 19) अन्वा॑ हा॒हा न्वन्वा॑ह । 20) आ॒हाद्ध्व॑ना॒ मद्ध्व॑ना माहा॒हा द्ध्व॑नाम् । 21) अद्ध्व॑नां॒-विँधृ॑त्यै॒ विधृ॑त्या॒ अद्ध्व॑ना॒ मद्ध्व॑नां॒-विँधृ॑त्यै । 22) विधृ॑त्यै प॒था-म्प॒थां-विँधृ॑त्यै॒ विधृ॑त्यै प॒थाम् । 22) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । 23) प॒था मसग्ं॑रोहा॒या सग्ं॑रोहाय प॒था-म्प॒था मसग्ं॑रोहाय । 24) असग्ं॑रोहा॒या थो॒ अथो॒ असग्ं॑रोहा॒या सग्ं॑रोहा॒याथो᳚ । 24) असग्ं॑रोहा॒येत्यसं᳚ - रो॒हा॒य॒ । 25) अथो॑ भू॒त-म्भू॒त मथो॒ अथो॑ भू॒तम् । 25) अथो॒ इत्यथो᳚ । 26) भू॒त-ञ्च॑ च भू॒त-म्भू॒त-ञ्च॑ । 27) चै॒वैव च॑ चै॒व । 28) ए॒व भ॑वि॒ष्य-द्भ॑वि॒ष्य दे॒वैव भ॑वि॒ष्यत् । 29) भ॒वि॒ष्यच् च॑ च भवि॒ष्य-द्भ॑वि॒ष्यच् च॑ । 30) चावाव॑ च॒ चाव॑ । 31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 32) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ । 33) अथो॒ परि॑मित॒-म्परि॑मित॒ मथो॒ अथो॒ परि॑मितम् । 33) अथो॒ इत्यथो᳚ । 34) परि॑मित-ञ्च च॒ परि॑मित॒-म्परि॑मित-ञ्च । 34) परि॑मित॒मिति॒ परि॑ - मि॒त॒म् । 35) चै॒वैव च॑ चै॒व । 36) ए॒वा प॑रिमित॒ मप॑रिमित मे॒वैवा प॑रिमितम् । 37) अप॑रिमित-ञ्च॒ चाप॑रिमित॒ मप॑रिमित-ञ्च । 37) अप॑रिमित॒मित्यप॑रि - मि॒त॒म् । 38) चावाव॑ च॒ चाव॑ । 39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 40) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ । 41) अथो᳚ ग्रा॒म्या-न्ग्रा॒म्या नथो॒ अथो᳚ ग्रा॒म्यान् । 41) अथो॒ इत्यथो᳚ । 42) ग्रा॒म्याग् श्च॑ च ग्रा॒म्या-न्ग्रा॒म्याग् श्च॑ । 43) चै॒वैव च॑ चै॒व । 44) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 45) प॒शू ना॑र॒ण्या ना॑र॒ण्या-न्प॒शू-न्प॒शू ना॑र॒ण्यान् । 46) आ॒र॒ण्याग् श्च॑ चार॒ण्या ना॑र॒ण्याग् श्च॑ । 47) चावाव॑ च॒ चाव॑ । 48) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 49) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ । 50) अथो॑ देवलो॒क-न्दे॑वलो॒क मथो॒ अथो॑ देवलो॒कम् । 50) अथो॒ इत्यथो᳚ । ॥ 62 ॥ (50/61)
1) दे॒व॒लो॒क-ञ्च॑ च देवलो॒क-न्दे॑वलो॒क-ञ्च॑ । 1) दे॒व॒लो॒कमिति॑ देव - लो॒कम् । 2) चै॒वैव च॑ चै॒व । 3) ए॒व म॑नुष्यलो॒क-म्म॑नुष्यलो॒क मे॒वैव म॑नुष्यलो॒कम् । 4) म॒नु॒ष्य॒लो॒क-ञ्च॑ च मनुष्यलो॒क-म्म॑नुष्यलो॒क-ञ्च॑ । 4) म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य - लो॒कम् । 5) चा॒भ्य॑भि च॑ चा॒भि । 6) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 7) ज॒य॒ति॒ दे॒वा दे॒वा ज॑यति जयति दे॒वाः । 8) दे॒वा वै वै दे॒वा दे॒वा वै । 9) वै सा॑मिधे॒नी-स्सा॑मिधे॒नी-र्वै वै सा॑मिधे॒नीः । 10) सा॒मि॒धे॒नी र॒नूच्या॒ नूच्य॑ सामिधे॒नी-स्सा॑मिधे॒नी र॒नूच्य॑ । 10) सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः । 11) अ॒नूच्य॑ य॒ज्ञं-यँ॒ज्ञ म॒नूच्या॒ नूच्य॑ य॒ज्ञम् । 11) अ॒नूच्येत्य॑नु - उच्य॑ । 12) य॒ज्ञ-न्न न य॒ज्ञं-यँ॒ज्ञ-न्न । 13) नान्वनु॒ न नानु॑ । 14) अन्व॑पश्य-न्नपश्य॒-न्नन्वन्व॑पश्यन्न् । 15) अ॒प॒श्य॒-न्थ्स सो॑ ऽपश्य-न्नपश्य॒-न्थ्सः । 16) स प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स स प्र॒जाप॑तिः । 17) प्र॒जाप॑ति स्तू॒ष्णी-न्तू॒ष्णी-म्प्र॒जाप॑तिः प्र॒जाप॑ति स्तू॒ष्णीम् । 17) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 18) तू॒ष्णी मा॑घा॒र मा॑घा॒र-न्तू॒ष्णी-न्तू॒ष्णी मा॑घा॒रम् । 19) आ॒घा॒र मा ऽऽघा॒र मा॑घा॒र मा । 19) आ॒घा॒रमित्या᳚ - घा॒रम् । 20) आ ऽघा॑रय दघारय॒दा ऽघा॑रयत् । 21) अ॒घा॒र॒य॒-त्तत॒ स्ततो॑ ऽघारय दघारय॒-त्ततः॑ । 22) ततो॒ वै वै तत॒ स्ततो॒ वै । 23) वै दे॒वा दे॒वा वै वै दे॒वाः । 24) दे॒वा य॒ज्ञं-यँ॒ज्ञ-न्दे॒वा दे॒वा य॒ज्ञम् । 25) य॒ज्ञ मन्वनु॑ य॒ज्ञं-यँ॒ज्ञ मनु॑ । 26) अन्व॑पश्य-न्नपश्य॒-न्नन्वन्व॑पश्यन्न् । 27) अ॒प॒श्य॒न्॒. य-द्यद॑पश्य-न्नपश्य॒न्॒. यत् । 28) य-त्तू॒ष्णी-न्तू॒ष्णीं-यँ-द्य-त्तू॒ष्णीम् । 29) तू॒ष्णी मा॑घा॒र मा॑घा॒र-न्तू॒ष्णी-न्तू॒ष्णी मा॑घा॒रम् । 30) आ॒घा॒र मा॑घा॒रय॑ त्याघा॒रय॑ त्याघा॒र मा॑घा॒र मा॑घा॒रय॑ति । 30) आ॒घा॒रमित्या᳚ - घा॒रम् । 31) आ॒घा॒रय॑ति य॒ज्ञस्य॑ य॒ज्ञस्या॑ घा॒रय॑ त्याघा॒रय॑ति य॒ज्ञस्य॑ । 31) आ॒घा॒रय॒तीत्या᳚ - घा॒रय॑ति । 32) य॒ज्ञस्यानु॑ख्यात्या॒ अनु॑ख्यात्यै य॒ज्ञस्य॑ य॒ज्ञस्यानु॑ख्यात्यै । 33) अनु॑ख्यात्या॒ अथो॒ अथो॒ अनु॑ख्यात्या॒ अनु॑ख्यात्या॒ अथो᳚ । 33) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । 34) अथो॑ सामिधे॒नी-स्सा॑मिधे॒नी रथो॒ अथो॑ सामिधे॒नीः । 34) अथो॒ इत्यथो᳚ । 35) सा॒मि॒धे॒नी रे॒वैव सा॑मिधे॒नी-स्सा॑मिधे॒नी रे॒व । 35) सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः । 36) ए॒वाभ्या᳚(1॒)भ्ये॑वैवाभि । 37) अ॒भ्य॑न-क्त्यन-क्त्य॒भ्या᳚(1॒)भ्य॑नक्ति । 38) अ॒न॒-क्त्यलू॒क्षो ऽलू᳚क्षो ऽन-क्त्यन॒-क्त्यलू᳚क्षः । 39) अलू᳚क्षो भवति भव॒त्यलू॒क्षो ऽलू᳚क्षो भवति । 40) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 41) य ए॒व मे॒वं-योँ य ए॒वम् । 42) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 43) वेदाथो॒ अथो॒ वेद॒ वेदाथो᳚ । 44) अथो॑ त॒र्पय॑ति त॒र्पय॒ त्यथो॒ अथो॑ त॒र्पय॑ति । 44) अथो॒ इत्यथो᳚ । 45) त॒र्पय॑ त्ये॒वैव त॒र्पय॑ति त॒र्पय॑ त्ये॒व । 46) ए॒वैना॑ एना ए॒वैवैनाः᳚ । 47) ए॒ना॒ स्तृप्य॑ति॒ तृप्य॑त्येना एना॒ स्तृप्य॑ति । 48) तृप्य॑ति प्र॒जया᳚ प्र॒जया॒ तृप्य॑ति॒ तृप्य॑ति प्र॒जया᳚ । 49) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 49) प्र॒जयेति॑ प्र - जया᳚ । 50) प॒शुभि॒-र्यो यः प॒शुभिः॑ प॒शुभि॒-र्यः । 50) प॒शुभि॒रिति॑ प॒शु - भिः॒ । ॥ 63 ॥ (50/64)
1) य ए॒व मे॒वं-योँ य ए॒वम् । 2) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 3) वेद॒ य-द्य-द्वेद॒ वेद॒ यत् । 4) यदेक॒ यैक॑या॒ य-द्यदेक॑या । 5) एक॑या ऽऽघा॒रये॑ दाघा॒रये॒ देक॒यैक॑या ऽऽघा॒रये᳚त् । 6) आ॒घा॒रये॒ देका॒ मेका॑ माघा॒रये॑ दाघा॒रये॒ देका᳚म् । 6) आ॒घा॒रये॒दित्या᳚ - घा॒रये᳚त् । 7) एका᳚-म्प्रीणीया-त्प्रीणीया॒देका॒ मेका᳚-म्प्रीणीयात् । 8) प्री॒णी॒या॒-द्य-द्य-त्प्री॑णीया-त्प्रीणीया॒-द्यत् । 9) य-द्द्वाभ्या॒-न्द्वाभ्यां॒-यँ-द्य-द्द्वाभ्या᳚म् । 10) द्वाभ्या॒-न्द्वे द्वे द्वाभ्या॒-न्द्वाभ्या॒-न्द्वे । 11) द्वे प्री॑णीया-त्प्रीणीया॒-द्द्वे द्वे प्री॑णीयात् । 11) द्वे इति॒ द्वे । 12) प्री॒णी॒या॒-द्य-द्य-त्प्री॑णीया-त्प्रीणीया॒-द्यत् । 13) य-त्ति॒सृभि॑ स्ति॒सृभि॒-र्य-द्य-त्ति॒सृभिः॑ । 14) ति॒सृभि॒ रत्यति॑ ति॒सृभि॑ स्ति॒सृभि॒ रति॑ । 14) ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ । 15) अति॒ त-त्तदत्यति॒ तत् । 16) त-द्रे॑चये-द्रेचये॒-त्त-त्त-द्रे॑चयेत् । 17) रे॒च॒ये॒-न्मन॑सा॒ मन॑सा रेचये-द्रेचये॒-न्मन॑सा । 18) मन॒सा ऽऽमन॑सा॒ मन॑सा । 19) आ घा॑रयति घारय॒त्या घा॑रयति । 20) घा॒र॒य॒ति॒ मन॑सा॒ मन॑सा घारयति घारयति॒ मन॑सा । 21) मन॑सा॒ हि हि मन॑सा॒ मन॑सा॒ हि । 22) ह्यना᳚प्त॒ मना᳚प्त॒ग्ं॒ हि ह्यना᳚प्तम् । 23) अना᳚प्त मा॒प्यत॑ आ॒प्यते ऽना᳚प्त॒ मना᳚प्त मा॒प्यते᳚ । 24) आ॒प्यते॑ ति॒र्यञ्च॑-न्ति॒र्यञ्च॑ मा॒प्यत॑ आ॒प्यते॑ ति॒र्यञ्च᳚म् । 25) ति॒र्यञ्च॒ मा ति॒र्यञ्च॑-न्ति॒र्यञ्च॒ मा । 26) आ घा॑रयति घारय॒त्या घा॑रयति । 27) घा॒र॒य॒ त्यछ॑म्बट्कार॒ मछ॑म्बट्कार-ङ्घारयति घारय॒ त्यछ॑म्बट्कारम् । 28) अछ॑म्बट्कारं॒-वाँग् वागछ॑म्बट्कार॒ मछ॑म्बट्कारं॒-वाँक् । 28) अछ॑म्बट्कार॒मित्यछ॑म्बट् - का॒र॒म् । 29) वाक्च॑ च॒ वाग् वाक्च॑ । 30) च॒ मनो॒ मन॑श्च च॒ मनः॑ । 31) मन॑श्च च॒ मनो॒ मन॑श्च । 32) चा॒र्ती॒ये॒ता॒ मा॒र्ती॒ये॒ता॒-ञ्च॒ चा॒र्ती॒ये॒ता॒म् । 33) आ॒र्ती॒ये॒ता॒ म॒ह म॒ह मा᳚र्तीयेता मार्तीयेता म॒हम् । 34) अ॒ह-न्दे॒वेभ्यो॑ दे॒वेभ्यो॒ ऽह म॒ह-न्दे॒वेभ्यः॑ । 35) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् । 36) ह॒व्यं-वँ॑हामि वहामि ह॒व्यग्ं ह॒व्यं-वँ॑हामि । 37) व॒हा॒मीतीति॑ वहामि वहा॒मीति॑ । 38) इति॒ वाग् वागितीति॒ वाक् । 39) वाग॑ब्रवी दब्रवी॒-द्वाग् वाग॑ब्रवीत् । 40) अ॒ब्र॒वी॒द॒ह म॒ह म॑ब्रवी दब्रवी द॒हम् । 41) अ॒ह-न्दे॒वेभ्यो॑ दे॒वेभ्यो॒ ऽह म॒ह-न्दे॒वेभ्यः॑ । 42) दे॒वेभ्य॒ इतीति॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ इति॑ । 43) इति॒ मनो॒ मन॒ इतीति॒ मनः॑ । 44) मन॒स्तौ तौ मनो॒ मन॒ स्तौ । 45) तौ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-न्तौ तौ प्र॒जाप॑तिम् । 46) प्र॒जाप॑ति-म्प्र॒श्ञ-म्प्र॒श्ञ-म्प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्प्र॒श्ञम् । 46) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 47) प्र॒श्ञ मै॑ता मैता-म्प्र॒श्ञ-म्प्र॒श्ञ मै॑ताम् । 48) ऐ॒ता॒ग्ं॒ स स ऐ॑ता मैता॒ग्ं॒ सः । 49) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 50) अ॒ब्र॒वी॒-त्प्र॒जाप॑तिः प्र॒जाप॑ति रब्रवी दब्रवी-त्प्र॒जाप॑तिः । ॥ 64 ॥ (50/55)
1) प्र॒जाप॑ति-र्दू॒ती-र्दू॒तीः प्र॒जाप॑तिः प्र॒जाप॑ति-र्दू॒तीः । 1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 2) दू॒ती रे॒वैव दू॒ती-र्दू॒ती रे॒व । 3) ए॒व त्व-न्त्व मे॒वैव त्वम् । 4) त्व-म्मन॑सो॒ मन॑ स॒स्त्व-न्त्व-म्मन॑सः । 5) मन॑सो ऽस्यसि॒ मन॑सो॒ मन॑सो ऽसि । 6) अ॒सि॒ य-द्यद॑स्यसि॒ यत् । 7) यद्धि हि य-द्यद्धि । 8) हि मन॑सा॒ मन॑सा॒ हि हि मन॑सा । 9) मन॑सा॒ ध्याय॑ति॒ ध्याय॑ति॒ मन॑सा॒ मन॑सा॒ ध्याय॑ति । 10) ध्याय॑ति॒ त-त्त-द्ध्याय॑ति॒ ध्याय॑ति॒ तत् । 11) त-द्वा॒चा वा॒चा त-त्त-द्वा॒चा । 12) वा॒चा वद॑ति॒ वद॑ति वा॒चा वा॒चा वद॑ति । 13) वद॒तीतीति॒ वद॑ति॒ वद॒तीति॑ । 14) इति॒ त-त्तदितीति॒ तत् । 15) त-त्खलु॒ खलु॒ त-त्त-त्खलु॑ । 16) खलु॒ तुभ्य॒-न्तुभ्य॒-ङ्खलु॒ खलु॒ तुभ्य᳚म् । 17) तुभ्य॒-न्न न तुभ्य॒-न्तुभ्य॒-न्न । 18) न वा॒चा वा॒चा न न वा॒चा । 19) वा॒चा जु॑हवन् जुहवन्. वा॒चा वा॒चा जु॑हवन्न् । 20) जु॒ह॒व॒-न्नितीति॑ जुहवन् जुहव॒-न्निति॑ । 21) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 22) अ॒ब्र॒वी॒-त्तस्मा॒-त्तस्मा॑ दब्रवी दब्रवी॒-त्तस्मा᳚त् । 23) तस्मा॒-न्मन॑सा॒ मन॑सा॒ तस्मा॒-त्तस्मा॒-न्मन॑सा । 24) मन॑सा प्र॒जाप॑तये प्र॒जाप॑तये॒ मन॑सा॒ मन॑सा प्र॒जाप॑तये । 25) प्र॒जाप॑तये जुह्वति जुह्वति प्र॒जाप॑तये प्र॒जाप॑तये जुह्वति । 25) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 26) जु॒ह्व॒ति॒ मनो॒ मनो॑ जुह्वति जुह्वति॒ मनः॑ । 27) मन॑ इवे व॒ मनो॒ मन॑ इव । 28) इ॒व॒ हि हीवे॑ व॒ हि । 29) हि प्र॒जाप॑तिः प्र॒जाप॑ति॒र्॒ हि हि प्र॒जाप॑तिः । 30) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः । 30) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 31) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ । 31) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 32) आप्त्यै॑ परि॒धी-न्प॑रि॒धी नाप्त्या॒ आप्त्यै॑ परि॒धीन् । 33) प॒रि॒धी-न्थ्सग्ं स-म्प॑रि॒धी-न्प॑रि॒धी-न्थ्सम् । 33) प॒रि॒धीनिति॑ परि - धीन् । 34) स-म्मा᳚र्ष्टि मार्ष्टि॒ सग्ं स-म्मा᳚र्ष्टि । 35) मा॒र्ष्टि॒ पु॒नाति॑ पु॒नाति॑ मार्ष्टि मार्ष्टि पु॒नाति॑ । 36) पु॒ना त्ये॒वैव पु॒नाति॑ पु॒ना त्ये॒व । 37) ए॒वैना॑ नेना ने॒वैवैनान्॑ । 38) ए॒ना॒-न्त्रि स्त्रिरे॑ना नेना॒-न्त्रिः । 39) त्रि-र्म॑द्ध्य॒म-म्म॑द्ध्य॒म-न्त्रिस्त्रि-र्म॑द्ध्य॒मम् । 40) म॒द्ध्य॒म-न्त्रय॒स्त्रयो॑ मद्ध्य॒म-म्म॑द्ध्य॒म-न्त्रयः॑ । 41) त्रयो॒ वै वै त्रय॒ स्त्रयो॒ वै । 42) वै प्रा॒णाः प्रा॒णा वै वै प्रा॒णाः । 43) प्रा॒णाः प्रा॒णा-न्प्रा॒णा-न्प्रा॒णाः प्रा॒णाः प्रा॒णान् । 43) प्रा॒णा इति॑ प्र - अ॒नाः । 44) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व । 44) प्रा॒णानिति॑ प्र - अ॒नान् । 45) ए॒वाभ्या᳚(1॒)भ्ये॑वैवाभि । 46) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 47) ज॒य॒ति॒ त्रि स्त्रि-र्ज॑यति जयति॒ त्रिः । 48) त्रि-र्द॑क्षिणा॒र्ध्य॑-न्दक्षिणा॒र्ध्य॑-न्त्रि स्त्रि-र्द॑क्षिणा॒र्ध्य᳚म् । 49) द॒क्षि॒णा॒र्ध्य॑-न्त्रय॒ स्त्रयो॑ दक्षिणा॒र्ध्य॑-न्दक्षिणा॒र्ध्य॑-न्त्रयः॑ । 49) द॒क्षि॒णा॒र्ध्य॑मिति॑ दक्षिण - अ॒र्ध्य᳚म् । 50) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे । ॥ 65 ॥ (50/58)
1) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 2) लो॒का इ॒मा नि॒मान् ँलो॒का लो॒का इ॒मान् । 3) इ॒मा ने॒वैवे मा नि॒मा ने॒व । 4) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् । 5) लो॒का न॒भ्य॑भि लो॒कान् ँलो॒का न॒भि । 6) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 7) ज॒य॒ति॒ त्रि स्त्रि-र्ज॑यति जयति॒ त्रिः । 8) त्रिरु॑त्तरा॒र्ध्य॑ मुत्तरा॒र्ध्य॑-न्त्रि स्त्रिरु॑त्तरा॒र्ध्य᳚म् । 9) उ॒त्त॒रा॒र्ध्य॑-न्त्रय॒ स्त्रय॑ उत्तरा॒र्ध्य॑ मुत्तरा॒र्ध्य॑-न्त्रयः॑ । 9) उ॒त्त॒रा॒र्ध्य॑मित्यु॑त्तर - अ॒र्ध्य᳚म् । 10) त्रयो॒ वै वै त्रय॒ स्त्रयो॒ वै । 11) वै दे॑व॒याना॑ देव॒याना॒ वै वै दे॑व॒यानाः᳚ । 12) दे॒व॒यानाः॒ पन्था॑नः॒ पन्था॑नो देव॒याना॑ देव॒यानाः॒ पन्था॑नः । 12) दे॒व॒याना॒ इति॑ देव - यानाः᳚ । 13) पन्था॑न॒ स्ताग् स्ता-न्पन्था॑नः॒ पन्था॑न॒ स्तान् । 14) ता ने॒वैव ताग् स्ता ने॒व । 15) ए॒वाभ्या᳚(1॒)भ्ये॑वैवाभि । 16) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 17) ज॒य॒ति॒ त्रि स्त्रि-र्ज॑यति जयति॒ त्रिः । 18) त्रिरुपोप॒ त्रि स्त्रिरुप॑ । 19) उप॑ वाजयति वाजय॒ त्युपोप॑ वाजयति । 20) वा॒ज॒य॒ति॒ त्रय॒ स्त्रयो॑ वाजयति वाजयति॒ त्रयः॑ । 21) त्रयो॒ वै वै त्रय॒ स्त्रयो॒ वै । 22) वै दे॑वलो॒का दे॑वलो॒का वै वै दे॑वलो॒काः । 23) दे॒व॒लो॒का दे॑वलो॒का-न्दे॑वलो॒का-न्दे॑वलो॒का दे॑वलो॒का दे॑वलो॒कान् । 23) दे॒व॒लो॒का इति॑ देव - लो॒काः । 24) दे॒व॒लो॒का ने॒वैव दे॑वलो॒का-न्दे॑वलो॒का ने॒व । 24) दे॒व॒लो॒कानिति॑ देव - लो॒कान् । 25) ए॒वाभ्या᳚(1॒)भ्ये॑वैवाभि । 26) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 27) ज॒य॒ति॒ द्वाद॑श॒ द्वाद॑श जयति जयति॒ द्वाद॑श । 28) द्वाद॑श॒ सग्ं स-न्द्वाद॑श॒ द्वाद॑श॒ सम् । 29) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 30) प॒द्य॒न्ते॒ द्वाद॑श॒ द्वाद॑श पद्यन्ते पद्यन्ते॒ द्वाद॑श । 31) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 32) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 33) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रम् । 33) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 34) सं॒वँ॒थ्स॒र मे॒वैव सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मे॒व । 34) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 35) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति । 36) प्री॒णा॒ त्यथो॒ अथो᳚ प्रीणाति प्रीणा॒ त्यथो᳚ । 37) अथो॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र मथो॒ अथो॑ संवँथ्स॒रम् । 37) अथो॒ इत्यथो᳚ । 38) सं॒वँ॒थ्स॒र मे॒वैव सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मे॒व । 38) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 39) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 40) अ॒स्मा॒ उपोपा᳚स्मा अस्मा॒ उप॑ । 41) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 42) द॒धा॒ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ दधाति दधाति सुव॒र्गस्य॑ । 43) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 43) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 44) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । 45) सम॑ष्ट्या आघा॒र मा॑घा॒रग्ं सम॑ष्ट्यै॒ सम॑ष्ट्या आघा॒रम् । 45) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । 46) आ॒घा॒र मा ऽऽघा॒र मा॑घा॒र मा । 46) आ॒घा॒रमित्या᳚ - घा॒रम् । 47) आ घा॑रयति घारय॒त्या घा॑रयति । 48) घा॒र॒य॒ति॒ ति॒र स्ति॒रो घा॑रयति घारयति ति॒रः । 49) ति॒र इ॑वे व ति॒र स्ति॒र इ॑व । 50) इ॒व॒ वै वा इ॑वे व॒ वै । ॥ 66 ॥ (50/61)
1) वै सु॑व॒र्ग-स्सु॑व॒र्गो वै वै सु॑व॒र्गः । 2) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः । 2) सु॒व॒र्ग इति॑ सुवः - गः । 3) लो॒क-स्सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒को लो॒क-स्सु॑व॒र्गम् । 4) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व । 4) सु॒व॒र्गमिति॑ सुवः - गम् । 5) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 6) अ॒स्मै॒ लो॒कम् ँलो॒क म॑स्मा अस्मै लो॒कम् । 7) लो॒क-म्प्र प्र लो॒कम् ँलो॒क-म्प्र । 8) प्र रो॑चयति रोचयति॒ प्र प्र रो॑चयति । 9) रो॒च॒य॒ त्यृ॒जु मृ॒जुग्ं रो॑चयति रोचय त्यृ॒जुम् । 10) ऋ॒जु मार्जु मृ॒जु मा । 11) आ घा॑रयति घारय॒त्या घा॑रयति । 12) घा॒र॒य॒ त्यृ॒जुर्-ऋ॒जु-र्घा॑रयति घारय त्यृ॒जुः । 13) ऋ॒जुरि॑वे व॒ र्जुर्-ऋ॒जुरि॑व । 14) इ॒व॒ हि हीवे॑ व॒ हि । 15) हि प्रा॒णः प्रा॒णो हि हि प्रा॒णः । 16) प्रा॒ण-स्सन्त॑त॒ग्ं॒ सन्त॑त-म्प्रा॒णः प्रा॒ण-स्सन्त॑तम् । 16) प्रा॒ण इति॑ प्र - अ॒नः । 17) सन्त॑त॒ मा सन्त॑त॒ग्ं॒ सन्त॑त॒ मा । 17) सन्त॑त॒मिति॒ सं - त॒त॒म् । 18) आ घा॑रयति घारय॒त्या घा॑रयति । 19) घा॒र॒य॒ति॒ प्रा॒णाना᳚-म्प्रा॒णाना᳚-ङ्घारयति घारयति प्रा॒णाना᳚म् । 20) प्रा॒णाना॑ म॒न्नाद्य॑स्या॒ न्नाद्य॑स्य प्रा॒णाना᳚-म्प्रा॒णाना॑ म॒न्नाद्य॑स्य । 20) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 21) अ॒न्नाद्य॑स्य॒ सन्त॑त्यै॒ सन्त॑त्या अ॒न्नाद्य॑स्या॒ न्नाद्य॑स्य॒ सन्त॑त्यै । 21) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । 22) सन्त॑त्या॒ अथो॒ अथो॒ सन्त॑त्यै॒ सन्त॑त्या॒ अथो᳚ । 22) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । 23) अथो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मथो॒ अथो॒ रक्ष॑साम् । 23) अथो॒ इत्यथो᳚ । 24) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 25) अप॑हत्यै॒ यं-यँ मप॑हत्या॒ अप॑हत्यै॒ यम् । 25) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । 26) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 27) का॒मये॑त प्र॒मायु॑कः प्र॒मायु॑कः का॒मये॑त का॒मये॑त प्र॒मायु॑कः । 28) प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्यात् । 28) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । 29) स्या॒ दितीति॑ स्या-थ्स्या॒दिति॑ । 30) इति॑ जि॒ह्म-ञ्जि॒ह्म मितीति॑ जि॒ह्मम् । 31) जि॒ह्म-न्तस्य॒ तस्य॑ जि॒ह्म-ञ्जि॒ह्म-न्तस्य॑ । 32) तस्या तस्य॒ तस्या । 33) आ घा॑रये-द्घारये॒दा घा॑रयेत् । 34) घा॒र॒ये॒-त्प्रा॒ण-म्प्रा॒ण-ङ्घा॑रये-द्घारये-त्प्रा॒णम् । 35) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व । 35) प्रा॒णमिति॑ प्र - अ॒नम् । 36) ए॒वास्मा॑ दस्मा दे॒वैवास्मा᳚त् । 37) अ॒स्मा॒ज् जि॒ह्म-ञ्जि॒ह्म म॑स्मा दस्माज् जि॒ह्मम् । 38) जि॒ह्म-न्न॑यति नयति जि॒ह्म-ञ्जि॒ह्म-न्न॑यति । 39) न॒य॒ति॒ ता॒ज-क्ता॒ज-न्न॑यति नयति ता॒जक् । 40) ता॒ज-क्प्र प्र ता॒ज-क्ता॒ज-क्प्र । 41) प्र मी॑यते मीयते॒ प्र प्र मी॑यते । 42) मी॒य॒ते॒ शिर॒-श्शिरो॑ मीयते मीयते॒ शिरः॑ । 43) शिरो॒ वै वै शिर॒-श्शिरो॒ वै । 44) वा ए॒त दे॒त-द्वै वा ए॒तत् । 45) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञस्यै॒त दे॒त-द्य॒ज्ञस्य॑ । 46) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 47) यदा॑घा॒र आ॑घा॒रो य-द्यदा॑घा॒रः । 48) आ॒घा॒र आ॒त्मा ऽऽत्मा ऽऽघा॒र आ॑घा॒र आ॒त्मा । 48) आ॒घा॒र इत्या᳚ - घा॒रः । 49) आ॒त्मा ध्रु॒वा ध्रु॒वा ऽऽत्मा ऽऽत्मा ध्रु॒वा । 50) ध्रु॒वा ऽऽघा॒र मा॑घा॒र-न्ध्रु॒वा ध्रु॒वा ऽऽघा॒रम् । ॥ 67 ॥ (50/62)
1) आ॒घा॒र मा॒घार्या॒ घार्या॑ घा॒र मा॑घा॒र मा॒घार्य॑ । 1) आ॒घा॒रमित्या᳚ - घा॒रम् । 2) आ॒घार्य॑ ध्रु॒वा-न्ध्रु॒वा मा॒घार्या॒ घार्य॑ ध्रु॒वाम् । 2) आ॒घार्येत्या᳚ - घार्य॑ । 3) ध्रु॒वाग्ं सग्ं स-न्ध्रु॒वा-न्ध्रु॒वाग्ं सम् । 4) स म॑नक्त्यनक्ति॒ सग्ं स म॑नक्ति । 5) अ॒न॒-क्त्या॒त्म-न्ना॒त्म-न्न॑न-क्त्यन-क्त्या॒त्मन्न् । 6) आ॒त्म-न्ने॒वैवात्म-न्ना॒त्म-न्ने॒व । 7) ए॒व य॒ज्ञस्य॑ य॒ज्ञस्यै॒वैव य॒ज्ञस्य॑ । 8) य॒ज्ञस्य॒ शिर॒-श्शिरो॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ शिरः॑ । 9) शिरः॒ प्रति॒ प्रति॒ शिर॒-श्शिरः॒ प्रति॑ । 10) प्रति॑ दधाति दधाति॒ प्रति॒ प्रति॑ दधाति । 11) द॒धा॒ त्य॒ग्नि र॒ग्नि-र्द॑धाति दधा त्य॒ग्निः । 12) अ॒ग्नि-र्दे॒वाना᳚-न्दे॒वाना॑ म॒ग्नि र॒ग्नि-र्दे॒वाना᳚म् । 13) दे॒वाना᳚-न्दू॒तो दू॒तो दे॒वाना᳚-न्दे॒वाना᳚-न्दू॒तः । 14) दू॒त आसी॒ दासी᳚-द्दू॒तो दू॒त आसी᳚त् । 15) आसी॒-द्दैव्यो॒ दैव्य॒ आसी॒ दासी॒-द्दैव्यः॑ । 16) दैव्यो ऽसु॑राणा॒ मसु॑राणा॒-न्दैव्यो॒ दैव्यो ऽसु॑राणाम् । 17) असु॑राणा॒-न्तौ ता वसु॑राणा॒ मसु॑राणा॒-न्तौ । 18) तौ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-न्तौ तौ प्र॒जाप॑तिम् । 19) प्र॒जाप॑ति-म्प्र॒श्ञ-म्प्र॒श्ञ-म्प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्प्र॒श्ञम् । 19) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 20) प्र॒श्ञ मै॑ता मैता-म्प्र॒श्ञ-म्प्र॒श्ञ मै॑ताम् । 21) ऐ॒ता॒ग्ं॒ स स ऐ॑ता मैता॒ग्ं॒ सः । 22) स प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स स प्र॒जाप॑तिः । 23) प्र॒जाप॑ति-र्ब्राह्म॒ण-म्ब्रा᳚ह्म॒ण-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्ब्राह्म॒णम् । 23) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 24) ब्रा॒ह्म॒ण म॑ब्रवी दब्रवी-द्ब्राह्म॒ण-म्ब्रा᳚ह्म॒ण म॑ब्रवीत् । 25) अ॒ब्र॒वी॒ दे॒त दे॒त द॑ब्रवी दब्रवी दे॒तत् । 26) ए॒त-द्वि व्ये॑त दे॒त-द्वि । 27) वि ब्रू॑हि ब्रूहि॒ वि वि ब्रू॑हि । 28) ब्रू॒हीतीति॑ ब्रूहि ब्रू॒हीति॑ । 29) इत्येतीत्या । 30) आ श्रा॑वय श्राव॒या श्रा॑वय । 31) श्रा॒व॒ये तीति॑ श्रावय श्राव॒ये ति॑ । 32) इती॒द मि॒द मितीती॒दम् । 33) इ॒द-न्दे॑वा देवा इ॒द मि॒द-न्दे॑वाः । 34) दे॒वा॒-श्शृ॒णु॒त॒ शृ॒णु॒त॒ दे॒वा॒ दे॒वा॒-श्शृ॒णु॒त॒ । 35) शृ॒णु॒ते तीति॑ शृणुत शृणु॒ते ति॑ । 36) इति॒ वाव वावे तीति॒ वाव । 37) वाव त-त्त-द्वाव वाव तत् । 38) तद॑ब्रवी दब्रवी॒-त्त-त्तद॑ब्रवीत् । 39) अ॒ब्र॒वी॒ द॒ग्नि र॒ग्नि र॑ब्रवी दब्रवी द॒ग्निः । 40) अ॒ग्नि-र्दे॒वो दे॒वो᳚ ऽग्नि र॒ग्नि-र्दे॒वः । 41) दे॒वो होता॒ होता॑ दे॒वो दे॒वो होता᳚ । 42) होतेतीति॒ होता॒ होतेति॑ । 43) इति॒ यो य इतीति॒ यः । 44) य ए॒वैव यो य ए॒व । 45) ए॒व दे॒वाना᳚-न्दे॒वाना॑ मे॒वैव दे॒वाना᳚म् । 46) दे॒वाना॒-न्त-न्त-न्दे॒वाना᳚-न्दे॒वाना॒-न्तम् । 47) त म॑वृणीता वृणीत॒ त-न्त म॑वृणीत । 48) अ॒वृ॒णी॒त॒ तत॒ स्ततो॑ ऽवृणीता वृणीत॒ ततः॑ । 49) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः । 50) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् । ॥ 68 ॥ (50/54)
1) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ । 2) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः । 3) असु॑रा॒ यस्य॒ यस्यासु॑रा॒ असु॑रा॒ यस्य॑ । 4) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् । 5) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ । 6) वि॒दुषः॑ प्रव॒र-म्प्र॑व॒रं-विँ॒दुषो॑ वि॒दुषः॑ प्रव॒रम् । 7) प्र॒व॒र-म्प्र॑वृ॒णते᳚ प्रवृ॒णते᳚ प्रव॒र-म्प्र॑व॒र-म्प्र॑वृ॒णते᳚ । 7) प्र॒व॒रमिति॑ प्र - व॒रम् । 8) प्र॒वृ॒णते॒ भव॑ति॒ भव॑ति प्रवृ॒णते᳚ प्रवृ॒णते॒ भव॑ति । 8) प्र॒वृ॒णत॒ इति॑ प्र - वृ॒णते᳚ । 9) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ । 10) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ । 11) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य । 12) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः । 13) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । 14) भ॒व॒ति॒ य-द्य-द्भ॑वति भवति॒ यत् । 15) य-द्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो य-द्य-द्ब्रा᳚ह्म॒णः । 16) ब्रा॒ह्म॒णश्च॑ च ब्राह्म॒णो ब्रा᳚ह्म॒णश्च॑ । 17) चाब्रा᳚ह्म॒णो ऽब्रा᳚ह्मणश्च॒ चाब्रा᳚ह्मणः । 18) अब्रा᳚ह्मणश्च॒ चाब्रा᳚ह्म॒णो ऽब्रा᳚ह्मणश्च । 19) च॒ प्र॒श्ञ-म्प्र॒श्ञ-ञ्च॑ च प्र॒श्ञम् । 20) प्र॒श्ञ मे॒याता॑ मे॒याता᳚-म्प्र॒श्ञ-म्प्र॒श्ञ मे॒याता᳚म् । 21) ए॒याता᳚-म्ब्राह्म॒णाय॑ ब्राह्म॒णाये॒याता॑ मे॒याता᳚-म्ब्राह्म॒णाय॑ । 21) ए॒याता॒मित्या᳚ - इ॒याता᳚म् । 22) ब्रा॒ह्म॒णाया ध्यधि॑ ब्राह्म॒णाय॑ ब्राह्म॒णायाधि॑ । 23) अधि॑ ब्रूया-द्ब्रूया॒ दध्यधि॑ ब्रूयात् । 24) ब्रू॒या॒-द्य-द्य-द्ब्रू॑या-द्ब्रूया॒-द्यत् । 25) य-द्ब्रा᳚ह्म॒णाय॑ ब्राह्म॒णाय॒ य-द्य-द्ब्रा᳚ह्म॒णाय॑ । 26) ब्रा॒ह्म॒णाया॒ द्ध्याहा॒ द्ध्याह॑ ब्राह्म॒णाय॑ ब्राह्म॒णाया॒ द्ध्याह॑ । 27) अ॒द्ध्याहा॒त्मन॑ आ॒त्मने॒ ऽद्ध्याहा॒ द्ध्याहा॒त्मने᳚ । 27) अ॒द्ध्याहेत्य॑धि - आह॑ । 28) आ॒त्मने ऽध्यध्या॒त्मन॑ आ॒त्मने ऽधि॑ । 29) अध्या॑ हा॒हा ध्यध्या॑ह । 30) आ॒ह॒ य-द्यदा॑हाह॒ यत् । 31) य-द्ब्रा᳚ह्म॒ण-म्ब्रा᳚ह्म॒णं-यँ-द्य-द्ब्रा᳚ह्म॒णम् । 32) ब्रा॒ह्म॒ण-म्प॒राह॑ प॒राह॑ ब्राह्म॒ण-म्ब्रा᳚ह्म॒ण-म्प॒राह॑ । 33) प॒राहा॒त्मान॑ मा॒त्मान॑-म्प॒राह॑ प॒राहा॒त्मान᳚म् । 33) प॒राहेति॑ परा - आह॑ । 34) आ॒त्मान॒-म्परा॒ परा॒ ऽऽत्मान॑ मा॒त्मान॒-म्परा᳚ । 35) परा॑ ऽऽहाह॒ परा॒ परा॑ ऽऽह । 36) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् । 37) तस्मा᳚-द्ब्राह्म॒णो ब्रा᳚ह्म॒ण स्तस्मा॒-त्तस्मा᳚-द्ब्राह्म॒णः । 38) ब्रा॒ह्म॒णो न न ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो न । 39) न प॒रोच्यः॑ प॒रोच्यो॒ न न प॒रोच्यः॑ । 40) प॒रोच्य॒ इति॑ परा - उच्यः॑ । ॥ 69 ॥ (40/45) ॥ अ. 11 ॥
1) आयु॑ष्टे त॒ आयु॒ रायु॑ष्टे । 2) त॒ आ॒यु॒र्दा आ॑यु॒र्दा स्ते॑ त आयु॒र्दाः । 3) आ॒यु॒र्दा अ॑ग्ने अग्न आयु॒र्दा आ॑यु॒र्दा अ॑ग्ने । 3) आ॒यु॒र्दा इत्या॑युः - दाः । 4) अ॒ग्न॒ आ ऽग्ने॑ अग्न॒ आ । 5) आ प्या॑यस्व प्याय॒स्वा प्या॑यस्व । 6) प्या॒य॒स्व॒ सग्ं स-म्प्या॑यस्व प्यायस्व॒ सम् । 7) स-न्ते॑ ते॒ सग्ं स-न्ते᳚ । 8) ते ऽवाव॑ ते॒ ते ऽव॑ । 9) अव॑ ते॒ ते ऽवाव॑ ते । 10) ते॒ हेडो॒ हेड॑ स्ते ते॒ हेडः॑ । 11) हेड॒ उदुद्धेडो॒ हेड॒ उत् । 12) उदु॑त्त॒म मु॑त्त॒म मुदुदु॑त्त॒मम् । 13) उ॒त्त॒म-म्प्र प्रोत्त॒म मु॑त्त॒म-म्प्र । 13) उ॒त्त॒ममित्यु॑त् - त॒मम् । 14) प्र णो॑ नः॒ प्र प्र णः॑ । 15) नो॒ दे॒वी दे॒वी नो॑ नो दे॒वी । 16) दे॒व्या दे॒वी दे॒व्या । 17) आ नो॑ न॒ आ नः॑ । 18) नो॒ दि॒वो दि॒वो नो॑ नो दि॒वः । 19) दि॒वो ऽग्ना॑विष्णू॒ अग्ना॑विष्णू दि॒वो दि॒वो ऽग्ना॑विष्णू । 20) अग्ना॑विष्णू॒ अग्ना॑विष्णू । 20) अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ । 21) अग्ना॑विष्णू इ॒म मि॒म मग्ना॑विष्णू॒ अग्ना॑विष्णू इ॒मम् । 21) अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ । 22) इ॒म-म्मे॑ म इ॒म मि॒म-म्मे᳚ । 23) मे॒ व॒रु॒ण॒ व॒रु॒ण॒ मे॒ मे॒ व॒रु॒ण॒ । 24) व॒रु॒ण॒ त-त्त-द्व॑रुण वरुण॒ तत् । 25) त-त्त्वा᳚ त्वा॒ त-त्त-त्त्वा᳚ । 26) त्वा॒ या॒मि॒ या॒मि॒ त्वा॒ त्वा॒ या॒मि॒ । 27) या॒म्युदु-द्या॑मि या॒म्युत् । 28) उदु॑ वु॒ वुदुदु॑ । 29) उ॒ त्य-न्त्य मु॑ वु॒ त्यम् । 30) त्य-ञ्चि॒त्र-ञ्चि॒त्र-न्त्य-न्त्य-ञ्चि॒त्रम् । 31) चि॒त्रमिति॑ चि॒त्रम् । 32) अ॒पा-न्नपा॒-न्नपा॑द॒पा म॒पा-न्नपा᳚त् । 33) नपा॒दा नपा॒-न्नपा॒दा । 34) आ हि ह्या हि । 35) ह्यस्था॒ दस्था॒द्धि ह्यस्था᳚त् । 36) अस्था॑ दु॒पस्थ॑ मु॒पस्थ॒ मस्था॒ दस्था॑ दु॒पस्थ᳚म् । 37) उ॒पस्थ॑-ञ्जि॒ह्माना᳚-ञ्जि॒ह्माना॑ मु॒पस्थ॑ मु॒पस्थ॑-ञ्जि॒ह्माना᳚म् । 37) उ॒पस्थ॒मित्यु॒प - स्थ॒म् । 38) जि॒ह्माना॑ मू॒र्ध्व ऊ॒र्ध्वो जि॒ह्माना᳚-ञ्जि॒ह्माना॑ मू॒र्ध्वः । 39) ऊ॒र्ध्वो वि॒द्युतं॑-विँ॒द्युत॑ मू॒र्ध्व ऊ॒र्ध्वो वि॒द्युत᳚म् । 40) वि॒द्युतं॒-वँसा॑नो॒ वसा॑नो वि॒द्युतं॑-विँ॒द्युतं॒-वँसा॑नः । 40) वि॒द्युत॒मिति॑ वि - द्युत᳚म् । 41) वसा॑न॒ इति॒ वसा॑नः । 42) तस्य॒ ज्येष्ठ॒-ञ्ज्येष्ठ॒-न्तस्य॒ तस्य॒ ज्येष्ठ᳚म् । 43) ज्येष्ठ॑-म्महि॒मान॑-म्महि॒मान॒-ञ्ज्येष्ठ॒-ञ्ज्येष्ठ॑-म्महि॒मान᳚म् । 44) म॒हि॒मानं॒-वँह॑न्ती॒-र्वह॑न्ती-र्महि॒मान॑-म्महि॒मानं॒-वँह॑न्तीः । 45) वह॑न्ती॒र्॒ हिर॑ण्यवर्णा॒ हिर॑ण्यवर्णा॒ वह॑न्ती॒-र्वह॑न्ती॒र्॒ हिर॑ण्यवर्णाः । 46) हिर॑ण्यवर्णाः॒ परि॒ परि॒ हिर॑ण्यवर्णा॒ हिर॑ण्यवर्णाः॒ परि॑ । 46) हिर॑ण्यवर्णा॒ इति॒ हिर॑ण्य - व॒र्णाः॒ । 47) परि॑ यन्ति यन्ति॒ परि॒ परि॑ यन्ति । 48) य॒न्ति॒ य॒ह्वी-र्य॒ह्वी-र्य॑न्ति यन्ति य॒ह्वीः । 49) य॒ह्वीरिति॑ य॒ह्वीः । 50) स म॒न्या अ॒न्या-स्सग्ं स म॒न्याः । ॥ 70 ॥ (50/57)
1) अ॒न्या यन्ति॒ यन्त्य॒न्या अ॒न्या यन्ति॑ । 2) यन्त्युपोप॒ यन्ति॒ यन्त्युप॑ । 3) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति । 4) य॒न्त्य॒न्या अ॒न्या य॑न्ति यन्त्य॒न्याः । 5) अ॒न्या-स्स॑मा॒नग्ं स॑मा॒न म॒न्या अ॒न्या-स्स॑मा॒नम् । 6) स॒मा॒न मू॒र्व मू॒र्वग्ं स॑मा॒नग्ं स॑मा॒न मू॒र्वम् । 7) ऊ॒र्व-न्न॒द्यो॑ न॒द्य॑ ऊ॒र्व मू॒र्व-न्न॒द्यः॑ । 8) न॒द्यः॑ पृणन्ति पृणन्ति न॒द्यो॑ न॒द्यः॑ पृणन्ति । 9) पृ॒ण॒न्तीति॑ पृणन्ति । 10) त मु॑ वु॒ त-न्त मु॑ । 11) ऊ॒ शुचि॒ग्ं॒ शुचि॑ मु वू॒ शुचि᳚म् । 12) शुचि॒ग्ं॒ शुच॑य॒-श्शुच॑य॒-श्शुचि॒ग्ं॒ शुचि॒ग्ं॒ शुच॑यः । 13) शुच॑यो दीदि॒वाग्ंस॑-न्दीदि॒वाग्ंस॒ग्ं॒ शुच॑य॒-श्शुच॑यो दीदि॒वाग्ंस᳚म् । 14) दी॒दि॒वाग्ंस॑ म॒पा म॒पा-न्दी॑दि॒वाग्ंस॑-न्दीदि॒वाग्ंस॑ म॒पाम् । 15) अ॒पा-न्नपा॑त॒-न्नपा॑त म॒पा म॒पा-न्नपा॑तम् । 16) नपा॑त॒-म्परि॒ परि॒ णपा॑त॒-न्नपा॑त॒-म्परि॑ । 17) परि॑ तस्थु स्तस्थुः॒ परि॒ परि॑ तस्थुः । 18) त॒स्थु॒राप॒ आप॑ स्तस्थु स्तस्थु॒ रापः॑ । 19) आप॒ इत्यापः॑ । 20) त मस्मे॑रा॒ अस्मे॑रा॒ स्त-न्त मस्मे॑राः । 21) अस्मे॑रा युव॒तयो॑ युव॒तयो॒ अस्मे॑रा॒ अस्मे॑रा युव॒तयः॑ । 22) यु॒व॒तयो॒ युवा॑नं॒-युँवा॑नं-युँव॒तयो॑ युव॒तयो॒ युवा॑नम् । 23) युवा॑न-म्मर्मृ॒ज्यमा॑ना मर्मृ॒ज्यमा॑ना॒ युवा॑नं॒-युँवा॑न-म्मर्मृ॒ज्यमा॑नाः । 24) म॒र्मृ॒ज्यमा॑नाः॒ परि॒ परि॑ मर्मृ॒ज्यमा॑ना मर्मृ॒ज्यमा॑नाः॒ परि॑ । 25) परि॑ यन्ति यन्ति॒ परि॒ परि॑ यन्ति । 26) य॒न्त्याप॒ आपो॑ यन्ति य॒न्त्यापः॑ । 27) आप॒ इत्यापः॑ । 28) स शु॒क्रेण॑ शु॒क्रेण॒ स स शु॒क्रेण॑ । 29) शु॒क्रेण॒ शिक्व॑ना॒ शिक्व॑ना शु॒क्रेण॑ शु॒क्रेण॒ शिक्व॑ना । 30) शिक्व॑ना रे॒व-द्रे॒वच्छिक्व॑ना॒ शिक्व॑ना रे॒वत् । 31) रे॒व द॒ग्नि र॒ग्नी रे॒व-द्रे॒वद॒ग्निः । 32) अ॒ग्नि-र्दी॒दाय॑ दी॒दाया॒ग्नि र॒ग्नि-र्दी॒दाय॑ । 33) दी॒दाया॑नि॒द्ध्मो॑ ऽनि॒द्ध्मो दी॒दाय॑ दी॒दाया॑नि॒द्ध्मः । 34) अ॒नि॒द्ध्मो घृ॒तनि॑र्णिग् घृ॒तनि॑र्णि गनि॒द्ध्मो॑ ऽनि॒द्ध्मो घृ॒तनि॑र्णिक् । 35) घृ॒तनि॑र्णि ग॒फ्स्व॑फ्सु घृ॒तनि॑र्णिग् घृ॒तनि॑र्णि ग॒फ्सु । 35) घृ॒तनि॑र्णि॒गिति॑ घृ॒त - नि॒र्णि॒क् । 36) अ॒फ्स्वित्य॑प् - सु । 37) इन्द्रा॒वरु॑णयोर॒ह म॒ह मिन्द्रा॒वरु॑णयो॒ रिन्द्रा॒वरु॑णयोर॒हम् । 37) इन्द्रा॒वरु॑णयो॒रितीन्द्रा᳚ - वरु॑णयोः । 38) अ॒हग्ं स॒म्राजो᳚-स्स॒म्राजो॑र॒ह म॒हग्ं स॒म्राजोः᳚ । 39) स॒म्राजो॒रवो ऽव॑-स्स॒म्राजो᳚-स्स॒म्राजो॒रवः॑ । 39) स॒म्राजो॒रिति॑ सं - राजोः᳚ । 40) अव॒ आ ऽवो ऽव॒ आ । 41) आ वृ॑णे वृण॒ आ वृ॑णे । 42) वृ॒ण॒ इति॑ वृणे । 43) ता नो॑ न॒ स्ता ता नः॑ । 44) नो॒ मृ॒डा॒तो॒ मृ॒डा॒तो॒ नो॒ नो॒ मृ॒डा॒तः॒ । 45) मृ॒डा॒त॒ ई॒दृश॑ ई॒दृशे॑ मृडातो मृडात ई॒दृशे᳚ । 46) ई॒दृश॒ इती॒दृशे᳚ । 47) इन्द्रा॑वरुणा यु॒वं-युँ॒व मिन्द्रा॑वरु॒ णेन्द्रा॑वरुणा यु॒वम् । 47) इन्द्रा॑वरु॒णेतीन्द्रा᳚ - व॒रु॒णा॒ । 48) यु॒व म॑द्ध्व॒राया᳚ द्ध्व॒राय॑ यु॒वं-युँ॒व म॑द्ध्व॒राय॑ । 49) अ॒द्ध्व॒राय॑ नो नो अद्ध्व॒राया᳚ द्ध्व॒राय॑ नः । 50) नो॒ वि॒शे वि॒शे नो॑ नो वि॒शे । ॥ 71 ॥ (50/54)
1) वि॒शे जना॑य॒ जना॑य वि॒शे वि॒शे जना॑य । 2) जना॑य॒ महि॒ महि॒ जना॑य॒ जना॑य॒ महि॑ । 3) महि॒ शर्म॒ शर्म॒ महि॒ महि॒ शर्म॑ । 4) शर्म॑ यच्छतं-यँच्छत॒ग्ं॒ शर्म॒ शर्म॑ यच्छतम् । 5) य॒च्छ॒त॒मिति॑ यच्छतम् । 6) दी॒र्घप्र॑यज्यु॒ मत्यति॑ दी॒र्घप्र॑यज्यु-न्दी॒र्घप्र॑यज्यु॒ मति॑ । 6) दी॒र्घप्र॑यज्यु॒मिति॑ दी॒र्घ - प्र॒य॒ज्यु॒म् । 7) अति॒ यो यो अत्यति॒ यः । 8) यो व॑नु॒ष्यति॑ वनु॒ष्यति॒ यो यो व॑नु॒ष्यति॑ । 9) व॒नु॒ष्यति॑ व॒यं-वँ॒यं-वँ॑नु॒ष्यति॑ वनु॒ष्यति॑ व॒यम् । 10) व॒य-ञ्ज॑येम जयेम व॒यं-वँ॒य-ञ्ज॑येम । 11) ज॒ये॒म॒ पृत॑नासु॒ पृत॑नासु जयेम जयेम॒ पृत॑नासु । 12) पृत॑नासु दू॒ढ्यो॑ दू॒ढ्यः॑ पृत॑नासु॒ पृत॑नासु दू॒ढ्यः॑ । 13) दू॒ढ्य॑ इति॑ दू॒ढ्यः॑ । 14) आ नो॑ न॒ आ नः॑ । 15) नो॒ मि॒त्रा॒व॒रु॒णा॒ मि॒त्रा॒व॒रु॒णा॒ नो॒ नो॒ मि॒त्रा॒व॒रु॒णा॒ । 16) मि॒त्रा॒व॒रु॒णा॒ प्र प्र मि॑त्रावरुणा मित्रावरुणा॒ प्र । 16) मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ । 17) प्र बा॒हवा॑ बा॒हवा॒ प्र प्र बा॒हवा᳚ । 18) बा॒हवेति॑ बा॒हवा᳚ । 19) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ । 20) नो॒ अ॒ग्ने॒ अ॒ग्ने॒ नो॒ नो॒ अ॒ग्ने॒ । 21) अ॒ग्ने॒ वरु॑णस्य॒ वरु॑णस्याग्ने अग्ने॒ वरु॑णस्य । 22) वरु॑णस्य वि॒द्वान्. वि॒द्वान्. वरु॑णस्य॒ वरु॑णस्य वि॒द्वान् । 23) वि॒द्वा-न्दे॒वस्य॑ दे॒वस्य॑ वि॒द्वान्. वि॒द्वा-न्दे॒वस्य॑ । 24) दे॒वस्य॒ हेडो॒ हेडो॑ दे॒वस्य॑ दे॒वस्य॒ हेडः॑ । 25) हेडो ऽवाव॒ हेडो॒ हेडो ऽव॑ । 26) अव॑ यासिसीष्ठा यासिसीष्ठा॒ अवाव॑ यासिसीष्ठाः । 27) या॒सि॒सी॒ष्ठा॒ इति॑ यासिसीष्ठाः । 28) यजि॑ष्ठो॒ वह्नि॑तमो॒ वह्नि॑तमो॒ यजि॑ष्ठो॒ यजि॑ष्ठो॒ वह्नि॑तमः । 29) वह्नि॑तम॒-श्शोशु॑चान॒-श्शोशु॑चानो॒ वह्नि॑तमो॒ वह्नि॑तम॒-श्शोशु॑चानः । 29) वह्नि॑तम॒ इति॒ वह्नि॑ - त॒मः॒ । 30) शोशु॑चानो॒ विश्वा॒ विश्वा॒ शोशु॑चान॒-श्शोशु॑चानो॒ विश्वा᳚ । 31) विश्वा॒ द्वेषाग्ं॑सि॒ द्वेषाग्ं॑सि॒ विश्वा॒ विश्वा॒ द्वेषाग्ं॑सि । 32) द्वेषाग्ं॑सि॒ प्र प्र द्वेषाग्ं॑सि॒ द्वेषाग्ं॑सि॒ प्र । 33) प्र मु॑मुग्धि मुमुग्धि॒ प्र प्र मु॑मुग्धि । 34) मु॒मु॒ग्ध्य॒स्म द॒स्म-न्मु॑मुग्धि मुमुग्ध्य॒स्मत् । 35) अ॒स्मदित्य॒स्मत् । 36) स त्व-न्त्वग्ं स स त्वम् । 37) त्व-न्नो॑ न॒स्त्व-न्त्व-न्नः॑ । 38) नो॒ अ॒ग्ने॒ अ॒ग्ने॒ नो॒ नो॒ अ॒ग्ने॒ । 39) अ॒ग्ने॒ ऽव॒मो॑ ऽव॒मो᳚ ऽग्ने अग्ने ऽव॒मः । 40) अ॒व॒मो भ॑व भवाव॒मो॑ ऽव॒मो भ॑व । 41) भ॒वो॒त्यू॑ती भ॑व भवो॒ती । 42) ऊ॒ती नेदि॑ष्ठो॒ नेदि॑ष्ठ ऊ॒त्यू॑ती नेदि॑ष्ठः । 43) नेदि॑ष्ठो अ॒स्या अ॒स्या नेदि॑ष्ठो॒ नेदि॑ष्ठो अ॒स्याः । 44) अ॒स्या उ॒षस॑ उ॒षसो॑ अ॒स्या अ॒स्या उ॒षसः॑ । 45) उ॒षसो॒ व्यु॑ष्टौ॒ व्यु॑ष्टा वु॒षस॑ उ॒षसो॒ व्यु॑ष्टौ । 46) व्यु॑ष्टा॒विति॒ वि - उ॒ष्टौ॒ । 47) अव॑ यक्ष्व य॒क्ष्वावाव॑ यक्ष्व । 48) य॒क्ष्व॒ नो॒ नो॒ य॒क्ष्व॒ य॒क्ष्व॒ नः॒ । 49) नो॒ वरु॑णं॒-वँरु॑ण-न्नो नो॒ वरु॑णम् । 50) वरु॑ण॒ग्ं॒ ररा॑णो॒ ररा॑णो॒ वरु॑णं॒-वँरु॑ण॒ग्ं॒ ररा॑णः । ॥ 72 ॥ (50/53)
1) ररा॑णो वी॒हि वी॒हि ररा॑णो॒ ररा॑णो वी॒हि । 2) वी॒हि मृ॑डी॒क-म्मृ॑डी॒कं-वीँ॒हि वी॒हि मृ॑डी॒कम् । 3) मृ॒डी॒कग्ं सु॒हव॑-स्सु॒हवो॑ मृडी॒क-म्मृ॑डी॒कग्ं सु॒हवः॑ । 4) सु॒हवो॑ नो न-स्सु॒हव॑-स्सु॒हवो॑ नः । 4) सु॒हव॒ इति॑ सु - हवः॑ । 5) न॒ ए॒ध्ये॒धि॒ नो॒ न॒ ए॒धि॒ । 6) ए॒धीत्ये॑धि । 7) प्रप्रा॒य म॒य-म्प्रप्र॒ प्रप्रा॒यम् । 7) प्रप्रेति॒ प्र - प्र॒ । 8) अ॒य म॒ग्नि र॒ग्नि र॒य म॒य म॒ग्निः । 9) अ॒ग्नि-र्भ॑र॒तस्य॑ भर॒तस्या॒ग्नि र॒ग्नि-र्भ॑र॒तस्य॑ । 10) भ॒र॒तस्य॑ शृण्वे शृण्वे भर॒तस्य॑ भर॒तस्य॑ शृण्वे । 11) शृ॒ण्वे॒ वि वि शृ॑ण्वे शृण्वे॒ वि । 12) वि य-द्य-द्वि वि यत् । 13) य-थ्सूर्य॒-स्सूर्यो॒ य-द्य-थ्सूर्यः॑ । 14) सूर्यो॒ न न सूर्य॒-स्सूर्यो॒ न । 15) न रोच॑ते॒ रोच॑ते॒ न न रोच॑ते । 16) रोच॑ते बृ॒ह-द्बृ॒ह-द्रोच॑ते॒ रोच॑ते बृ॒हत् । 17) बृ॒ह-द्भा भा बृ॒ह-द्बृ॒ह-द्भाः । 18) भा इति॒ भाः । 19) अ॒भि यो यो अ॒भ्य॑भि यः । 20) यः पू॒रु-म्पू॒रुं-योँ यः पू॒रुम् । 21) पू॒रु-म्पृत॑नासु॒ पृत॑नासु पू॒रु-म्पू॒रु-म्पृत॑नासु । 22) पृत॑नासु त॒स्थौ त॒स्थौ पृत॑नासु॒ पृत॑नासु त॒स्थौ । 23) त॒स्थौ दी॒दाय॑ दी॒दाय॑ त॒स्थौ त॒स्थौ दी॒दाय॑ । 24) दी॒दाय॒ दैव्यो॒ दैव्यो॑ दी॒दाय॑ दी॒दाय॒ दैव्यः॑ । 25) दैव्यो॒ अति॑थि॒ रति॑थि॒-र्दैव्यो॒ दैव्यो॒ अति॑थिः । 26) अति॑थि-श्शि॒व-श्शि॒वो अति॑थि॒ रति॑थि-श्शि॒वः । 27) शि॒वो नो॑ न-श्शि॒व-श्शि॒वो नः॑ । 28) न॒ इति॑ नः । 29) प्र ते॑ ते॒ प्र प्र ते᳚ । 30) ते॒ य॒क्षि॒ य॒क्षि॒ ते॒ ते॒ य॒क्षि॒ । 31) य॒क्षि॒ प्र प्र य॑क्षि यक्षि॒ प्र । 32) प्र ते॑ ते॒ प्र प्र ते᳚ । 33) त॒ इ॒य॒र्मी॒य॒र्मि॒ ते॒ त॒ इ॒य॒र्मि॒ । 34) इ॒य॒र्मि॒ मन्म॒ मन्मे॑ यर्मीयर्मि॒ मन्म॑ । 35) मन्म॒ भुवो॒ भुवो॒ मन्म॒ मन्म॒ भुवः॑ । 36) भुवो॒ यथा॒ यथा॒ भुवो॒ भुवो॒ यथा᳚ । 37) यथा॒ वन्द्यो॒ वन्द्यो॒ यथा॒ यथा॒ वन्द्यः॑ । 38) वन्द्यो॑ नो नो॒ वन्द्यो॒ वन्द्यो॑ नः । 39) नो॒ हवे॑षु॒ हवे॑षु नो नो॒ हवे॑षु । 40) हवे॒ष्विति॒ हवे॑षु । 41) धन्व॑-न्निवे व॒ धन्व॒-न्धन्व॑-न्निव । 42) इ॒व॒ प्रपा॒ प्रपे॑वे व॒ प्रपा᳚ । 43) प्रपा॑ अस्यसि॒ प्रपा॒ प्रपा॑ असि । 43) प्र॒पेति॑ प्र - पा । 44) अ॒सि॒ त्व-न्त्व म॑स्यसि॒ त्वम् । 45) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने । 46) अ॒ग्न॒ इ॒य॒क्षव॑ इय॒क्षवे॑ अग्ने अग्न इय॒क्षवे᳚ । 47) इ॒य॒क्षवे॑ पू॒रवे॑ पू॒रव॑ इय॒क्षव॑ इय॒क्षवे॑ पू॒रवे᳚ । 48) पू॒रवे᳚ प्रत्न प्रत्न पू॒रवे॑ पू॒रवे᳚ प्रत्न । 49) प्र॒त्न॒ रा॒ज॒-न्रा॒ज॒-न्प्र॒त्न॒ प्र॒त्न॒ रा॒ज॒न्न् । 50) रा॒ज॒न्निति॑ राजन्न् । ॥ 73 ॥ (50/53)
1) वि पाज॑सा॒ पाज॑सा॒ वि वि पाज॑सा । 2) पाज॑सा॒ वि वि पाज॑सा॒ पाज॑सा॒ वि । 3) वि ज्योति॑षा॒ ज्योति॑षा॒ वि वि ज्योति॑षा । 4) ज्योति॒षेति॒ ज्योति॑षा । 5) स त्व-न्त्वग्ं स स त्वम् । 6) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने । 7) अ॒ग्ने॒ प्रती॑केन॒ प्रती॑केनाग्ने अग्ने॒ प्रती॑केन । 8) प्रती॑केन॒ प्रति॒ प्रति॒ प्रती॑केन॒ प्रती॑केन॒ प्रति॑ । 9) प्रत्यो॑षौष॒ प्रति॒ प्रत्यो॑ष । 10) ओ॒ष॒ या॒तु॒धा॒न्यो॑ यातुधा॒न्य॑ ओषौष यातुधा॒न्यः॑ । 11) या॒तु॒धा॒न्य॑ इति॑ यातु - धा॒न्यः॑ । 12) उ॒रु॒क्षये॑षु॒ दीद्य॒-द्दीद्य॑दुरु॒क्षये॑षू रु॒क्षये॑षु॒ दीद्य॑त् । 12) उ॒रु॒क्षये॒ष्वित्यु॑रु - क्षये॑षु । 13) दीद्य॒दिति॒ दीद्य॑त् । 14) तग्ं सु॒प्रती॑कग्ं सु॒प्रती॑क॒-न्त-न्तग्ं सु॒प्रती॑कम् । 15) सु॒प्रती॑कग्ं सु॒दृशग्ं॑ सु॒दृशग्ं॑ सु॒प्रती॑कग्ं सु॒प्रती॑कग्ं सु॒दृश᳚म् । 15) सु॒प्रती॑क॒मिति॑ सु - प्रती॑कम् । 16) सु॒दृश॒ग्ग्॒ स्वञ्च॒ग्ग्॒ स्वञ्चग्ं॑ सु॒दृशग्ं॑ सु॒दृश॒ग्ग्॒ स्वञ्च᳚म् । 16) सु॒दृश॒मिति॑ सु - दृश᳚म् । 17) स्वञ्च॒ मवि॑द्वा॒ग्ं॒सो ऽवि॑द्वाग्ंस॒-स्स्वञ्च॒ग्ग्॒ स्वञ्च॒ मवि॑द्वाग्ंसः । 18) अवि॑द्वाग्ंसो वि॒दुष्ट॑रं-विँ॒दुष्ट॑र॒ मवि॑द्वा॒ग्ं॒सो ऽवि॑द्वाग्ंसो वि॒दुष्ट॑रम् । 19) वि॒दुष्ट॑रग्ं सपेम सपेम वि॒दुष्ट॑रं-विँ॒दुष्ट॑रग्ं सपेम । 19) वि॒दुष्ट॑र॒मिति॑ वि॒दुः - त॒र॒म् । 20) स॒पे॒मेति॑ सपेम । 21) स य॑क्ष-द्यक्ष॒-थ्स स य॑क्षत् । 22) य॒क्ष॒-द्विश्वा॒ विश्वा॑ यक्ष-द्यक्ष॒-द्विश्वा᳚ । 23) विश्वा॑ व॒युना॑नि व॒युना॑नि॒ विश्वा॒ विश्वा॑ व॒युना॑नि । 24) व॒युना॑नि वि॒द्वान्. वि॒द्वान्. व॒युना॑नि व॒युना॑नि वि॒द्वान् । 25) वि॒द्वा-न्प्र प्र वि॒द्वान्. वि॒द्वा-न्प्र । 26) प्र ह॒व्यग्ं ह॒व्य-म्प्र प्र ह॒व्यम् । 27) ह॒व्य म॒ग्नि र॒ग्निर्-ह॒व्यग्ं ह॒व्य म॒ग्निः । 28) अ॒ग्नि र॒मृते᳚ ष्व॒मृते᳚ ष्व॒ग्नि र॒ग्नि र॒मृते॑षु । 29) अ॒मृते॑षु वोच-द्वोचद॒मृते᳚ ष्व॒मृते॑षु वोचत् । 30) वो॒च॒दिति॑ वोचत् । 31) अ॒ग्ं॒हो॒मुचे॑ वि॒वेष॑ वि॒वेषाग्ं॑हो॒मुचे ऽग्ं॑हो॒मुचे॑ वि॒वेष॑ । 31) अ॒ग्ं॒हो॒मुच॒ इत्यग्ं॑हः - मुचे᳚ । 32) वि॒वेष॒ य-द्य-द्वि॒वेष॑ वि॒वेष॒ यत् । 33) य-न्मा॑ मा॒ य-द्य-न्मा᳚ । 34) मा॒ वि वि मा॑ मा॒ वि । 35) वि नो॑ नो॒ वि वि नः॑ । 36) न॒ इ॒न्द्रे॒ न्द्र॒ नो॒ न॒ इ॒न्द्र॒ । 37) इ॒न्द्रे न्द्रे न्द्रे᳚ न्द्रे॒ न्द्रे न्द्र॑ । 38) इन्द्र॑ क्ष॒त्र-ङ्क्ष॒त्र मिन्द्रे न्द्र॑ क्ष॒त्रम् । 39) क्ष॒त्र मि॑न्द्रि॒याणी᳚ न्द्रि॒याणि॑ क्ष॒त्र-ङ्क्ष॒त्र मि॑न्द्रि॒याणि॑ । 40) इ॒न्द्रि॒याणि॑ शतक्रतो शतक्रतो इन्द्रि॒याणी᳚ न्द्रि॒याणि॑ शतक्रतो । 41) श॒त॒क्र॒तो-ऽन्वनु॑ शतक्रतो शतक्र॒तो-ऽनु॑ । 41) श॒त॒क्र॒तो॒ इति॑ शत - क्र॒तो॒ । 42) अनु॑ ते ते॒ अन्वनु॑ ते । 43) ते॒ दा॒यि॒ दा॒यि॒ ते॒ ते॒ दा॒यि॒ । 44) दा॒यीति॑ दायि । ॥ 74 ॥ (44, 50)
॥ अ. 12 ॥
Browse Related Categories: