Kanda 5 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) उ॒थ्स॒न्न॒य॒ज्ञो वै वा उ॑थ्सन्नय॒ज्ञ उ॑थ्सन्नय॒ज्ञो वै । 1) उ॒थ्स॒न्न॒य॒ज्ञ इत्यु॑थ्सन्न - य॒ज्ञः । 2) वा ए॒ष ए॒ष वै वा ए॒षः । 3) ए॒ष य-द्यदे॒ष ए॒ष यत् । 4) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 5) अ॒ग्निः कि-ङ्कि म॒ग्नि र॒ग्निः किम् । 6) किं-वाँ॑ वा॒ कि-ङ्किं-वाँ᳚ । 7) वा ऽहाह॑ वा॒ वा ऽह॑ । 8) अहै॒त स्यै॒त स्याहा है॒तस्य॑ । 9) ए॒तस्य॑ क्रि॒यते᳚ क्रि॒यत॑ ए॒त स्यै॒तस्य॑ क्रि॒यते᳚ । 10) क्रि॒यते॒ कि-ङ्कि-ङ्क्रि॒यते᳚ क्रि॒यते॒ किम् । 11) किं-वाँ॑ वा॒ कि-ङ्किं-वाँ᳚ । 12) वा॒ न न वा॑ वा॒ न । 13) न य-द्य-न्न न यत् । 14) य-द्वै वै य-द्य-द्वै । 15) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 16) य॒ज्ञस्य॑ क्रि॒यमा॑णस्य क्रि॒यमा॑णस्य य॒ज्ञस्य॑ य॒ज्ञस्य॑ क्रि॒यमा॑णस्य । 17) क्रि॒यमा॑णस्या न्त॒र्य-न्त्य॑न्त॒र्यन्ति॑ क्रि॒यमा॑णस्य क्रि॒यमा॑णस्या न्त॒र्यन्ति॑ । 18) अ॒न्त॒र्यन्ति॒ पूय॑ति॒ पूय॑ त्यन्त॒र्य-न्त्य॑न्त॒र्यन्ति॒ पूय॑ति । 18) अ॒न्त॒र्यन्तीत्य॑न्तः - यन्ति॑ । 19) पूय॑ति॒ वै वै पूय॑ति॒ पूय॑ति॒ वै । 20) वा अ॑स्यास्य॒ वै वा अ॑स्य । 21) अ॒स्य॒ त-त्तद॑ स्यास्य॒ तत् । 22) तदा᳚श्वि॒नी रा᳚श्वि॒नी स्त-त्तदा᳚श्वि॒नीः । 23) आ॒श्वि॒नी रुपोपा᳚ श्वि॒नीरा᳚ श्वि॒नी रुप॑ । 24) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 25) द॒धा॒ त्य॒श्विना॑ व॒श्विनौ॑ दधाति दधा त्य॒श्विनौ᳚ । 26) अ॒श्विनौ॒ वै वा अ॒श्विना॑ व॒श्विनौ॒ वै । 27) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 28) दे॒वाना᳚-म्भि॒षजौ॑ भि॒षजौ॑ दे॒वाना᳚-न्दे॒वाना᳚-म्भि॒षजौ᳚ । 29) भि॒षजौ॒ ताभ्या॒-न्ताभ्या᳚-म्भि॒षजौ॑ भि॒षजौ॒ ताभ्या᳚म् । 30) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व । 31) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 32) अ॒स्मै॒ भे॒ष॒ज-म्भे॑ष॒ज म॑स्मा अस्मै भेष॒जम् । 33) भे॒ष॒ज-ङ्क॑रोति करोति भेष॒ज-म्भे॑ष॒ज-ङ्क॑रोति । 34) क॒रो॒ति॒ पञ्च॒ पञ्च॑ करोति करोति॒ पञ्च॑ । 35) पञ्चोपोप॒ पञ्च॒ पञ्चोप॑ । 36) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 37) द॒धा॒ति॒ पाङ्क्तः॒ पाङ्क्तो॑ दधाति दधाति॒ पाङ्क्तः॑ । 38) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 39) य॒ज्ञो यावा॒न्॒. यावान्॑. य॒ज्ञो य॒ज्ञो यावान्॑ । 40) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व । 41) ए॒व य॒ज्ञो य॒ज्ञ ए॒वैव य॒ज्ञः । 42) य॒ज्ञ स्तस्मै॒ तस्मै॑ य॒ज्ञो य॒ज्ञ स्तस्मै᳚ । 43) तस्मै॑ भेष॒ज-म्भे॑ष॒ज-न्तस्मै॒ तस्मै॑ भेष॒जम् । 44) भे॒ष॒ज-ङ्क॑रोति करोति भेष॒ज-म्भे॑ष॒ज-ङ्क॑रोति । 45) क॒रो॒ त्यृ॒त॒व्या॑ ऋत॒व्याः᳚ करोति करो त्यृत॒व्याः᳚ । 46) ऋ॒त॒व्या॑ उपोपा᳚ र्त॒व्या॑ ऋत॒व्या॑ उप॑ । 47) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 48) द॒धा॒ त्यृ॒तू॒ना मृ॑तू॒ना-न्द॑धाति दधा त्यृतू॒नाम् । 49) ऋ॒तू॒ना-ङ्क्लृप्त्यै॒ क्लृप्त्या॑ ऋतू॒ना मृ॑तू॒ना-ङ्क्लृप्त्यै᳚ । 50) क्लृप्त्यै॒ पञ्च॒ पञ्च॒ क्लृप्त्यै॒ क्लृप्त्यै॒ पञ्च॑ । ॥ 1 ॥ (50/52)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) पञ्चोपोप॒ पञ्च॒ पञ्चोप॑ । 2) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 3) द॒धा॒ति॒ पञ्च॒ पञ्च॑ दधाति दधाति॒ पञ्च॑ । 4) पञ्च॒ वै वै पञ्च॒ पञ्च॒ वै । 5) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 6) ऋ॒तवो॒ याव॑न्तो॒ याव॑न्त ऋ॒तव॑ ऋ॒तवो॒ याव॑न्तः । 7) याव॑न्त ए॒वैव याव॑न्तो॒ याव॑न्त ए॒व । 8) ए॒व र्तव॑ ऋ॒तव॑ ए॒वैव र्तवः॑ । 9) ऋ॒तव॒ स्ताग् स्ता नृ॒तव॑ ऋ॒तव॒ स्तान् । 10) तान् क॑ल्पयति कल्पयति॒ ताग् स्तान् क॑ल्पयति । 11) क॒ल्प॒य॒ति॒ स॒मा॒नप्र॑भृतय-स्समा॒नप्र॑भृतयः कल्पयति कल्पयति समा॒नप्र॑भृतयः । 12) स॒मा॒नप्र॑भृतयो भवन्ति भवन्ति समा॒नप्र॑भृतय-स्समा॒नप्र॑भृतयो भवन्ति । 12) स॒मा॒नप्र॑भृतय॒ इति॑ समा॒न - प्र॒भृ॒त॒यः॒ । 13) भ॒व॒न्ति॒ स॒मा॒नोद॑र्का-स्समा॒नोद॑र्का भवन्ति भवन्ति समा॒नोद॑र्काः । 14) स॒मा॒नोद॑र्का॒ स्तस्मा॒-त्तस्मा᳚-थ्समा॒नोद॑र्का-स्समा॒नोद॑र्का॒ स्तस्मा᳚त् । 14) स॒मा॒नोद॑र्का॒ इति॑ समा॒न - उ॒द॒र्काः॒ । 15) तस्मा᳚-थ्समा॒ना-स्स॑मा॒ना स्तस्मा॒-त्तस्मा᳚-थ्समा॒नाः । 16) स॒मा॒ना ऋ॒तव॑ ऋ॒तव॑-स्समा॒ना-स्स॑मा॒ना ऋ॒तवः॑ । 17) ऋ॒तव॒ एके॒नैके॑न॒ र्तव॑ ऋ॒तव॒ एके॑न । 18) एके॑न प॒देन॑ प॒देनैके॒ नैके॑न प॒देन॑ । 19) प॒देन॒ व्याव॑र्तन्ते॒ व्याव॑र्तन्ते प॒देन॑ प॒देन॒ व्याव॑र्तन्ते । 20) व्याव॑र्तन्ते॒ तस्मा॒-त्तस्मा॒-द्व्याव॑र्तन्ते॒ व्याव॑र्तन्ते॒ तस्मा᳚त् । 20) व्याव॑र्तन्त॒ इति॑ वि - आव॑र्तन्ते । 21) तस्मा॑ दृ॒तव॑ ऋ॒तव॒ स्तस्मा॒-त्तस्मा॑ दृ॒तवः॑ । 22) ऋ॒तवो॒ व्याव॑र्तन्ते॒ व्याव॑र्तन्त ऋ॒तव॑ ऋ॒तवो॒ व्याव॑र्तन्ते । 23) व्याव॑र्तन्ते प्राण॒भृतः॑ प्राण॒भृतो॒ व्याव॑र्तन्ते॒ व्याव॑र्तन्ते प्राण॒भृतः॑ । 23) व्याव॑र्तन्त॒ इति॑ वि - आव॑र्तन्ते । 24) प्रा॒ण॒भृत॒ उपोप॑ प्राण॒भृतः॑ प्राण॒भृत॒ उप॑ । 24) प्रा॒ण॒भृत॒ इति॑ प्राण - भृतः॑ । 25) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 26) द॒धा॒ त्यृ॒तु ष्वृ॒तुषु॑ दधाति दधा त्यृ॒तुषु॑ । 27) ऋ॒तु ष्वे॒वैव र्तुष्वृ॒तु ष्वे॒व । 28) ए॒व प्रा॒णा-न्प्रा॒णा ने॒वैव प्रा॒णान् । 29) प्रा॒णा-न्द॑धाति दधाति प्रा॒णा-न्प्रा॒णा-न्द॑धाति । 29) प्रा॒णानिति॑ प्र - अ॒नान् । 30) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 31) तस्मा᳚-थ्समा॒ना-स्स॑मा॒ना स्तस्मा॒-त्तस्मा᳚-थ्समा॒नाः । 32) स॒मा॒ना-स्सन्त॒-स्सन्त॑-स्समा॒ना-स्स॑मा॒ना-स्सन्तः॑ । 33) सन्त॑ ऋ॒तव॑ ऋ॒तव॒-स्सन्त॒-स्सन्त॑ ऋ॒तवः॑ । 34) ऋ॒तवो॒ न न र्तव॑ ऋ॒तवो॒ न । 35) न जी᳚र्यन्ति जीर्यन्ति॒ न न जी᳚र्यन्ति । 36) जी॒र्य॒-न्त्यथो॒ अथो॑ जीर्यन्ति जीर्य॒-न्त्यथो᳚ । 37) अथो॒ प्र प्राथो॒ अथो॒ प्र । 37) अथो॒ इत्यथो᳚ । 38) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति । 39) ज॒न॒य॒ त्ये॒वैव ज॑नयति जनय त्ये॒व । 40) ए॒वैना॑ नेना ने॒वै वैनान्॑ । 41) ए॒ना॒ ने॒ष ए॒ष ए॑ना नेना ने॒षः । 42) ए॒ष वै वा ए॒ष ए॒ष वै । 43) वै वा॒यु-र्वा॒यु-र्वै वै वा॒युः । 44) वा॒यु-र्य-द्य-द्वा॒यु-र्वा॒यु-र्यत् । 45) य-त्प्रा॒णः प्रा॒णो य-द्य-त्प्रा॒णः । 46) प्रा॒णो य-द्य-त्प्रा॒णः प्रा॒णो यत् । 46) प्रा॒ण इति॑ प्र - अ॒नः । 47) यदृ॑त॒व्या॑ ऋत॒व्या॑ य-द्यदृ॑त॒व्याः᳚ । 48) ऋ॒त॒व्या॑ उप॒धायो॑ प॒धाय॑ र्त॒व्या॑ ऋत॒व्या॑ उप॒धाय॑ । 49) उ॒प॒धाय॑ प्राण॒भृतः॑ प्राण॒भृत॑ उप॒धायो॑ प॒धाय॑ प्राण॒भृतः॑ । 49) उ॒प॒धायेत्यु॑प - धाय॑ । 50) प्रा॒ण॒भृत॑ उप॒दधा᳚ त्युप॒दधा॑ति प्राण॒भृतः॑ प्राण॒भृत॑ उप॒दधा॑ति । 50) प्रा॒ण॒भृत॒ इति॑ प्राण - भृतः॑ । ॥ 2 ॥ (50/60)
1) उ॒प॒दधा॑ति॒ तस्मा॒-त्तस्मा॑ दुप॒दधा᳚ त्युप॒दधा॑ति॒ तस्मा᳚त् । 1) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 2) तस्मा॒-थ्सर्वा॒-न्थ्सर्वा॒-न्तस्मा॒-त्तस्मा॒-थ्सर्वान्॑ । 3) सर्वा॑ नृ॒तू नृ॒तू-न्थ्सर्वा॒-न्थ्सर्वा॑ नृ॒तून् । 4) ऋ॒तू नन्वन् वृ॒तू नृ॒तू ननु॑ । 5) अनु॑ वा॒यु-र्वा॒यु रन्वनु॑ वा॒युः । 6) वा॒युरा वा॒यु-र्वा॒युरा । 7) आ व॑रीवर्ति वरीव॒र्त्या व॑रीवर्ति । 8) व॒री॒व॒र्ति॒ वृ॒ष्टि॒सनी᳚-र्वृष्टि॒सनी᳚-र्वरीवर्ति वरीवर्ति वृष्टि॒सनीः᳚ । 9) वृ॒ष्टि॒सनी॒ रुपोप॑ वृष्टि॒सनी᳚-र्वृष्टि॒सनी॒ रुप॑ । 9) वृ॒ष्टि॒सनी॒रिति॑ वृष्टि - सनीः᳚ । 10) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 11) द॒धा॒ति॒ वृष्टिं॒-वृँष्टि॑-न्दधाति दधाति॒ वृष्टि᳚म् । 12) वृष्टि॑ मे॒वैव वृष्टिं॒-वृँष्टि॑ मे॒व । 13) ए॒वावा वै॒वै वाव॑ । 14) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 15) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् । 16) यदे॑क॒ धैक॒धा य-द्यदे॑क॒धा । 17) ए॒क॒धो प॑द॒द्ध्या दु॑पद॒द्ध्या दे॑क॒ धैक॒धो प॑द॒द्ध्यात् । 17) ए॒क॒धेत्ये॑क - धा । 18) उ॒प॒द॒द्ध्या देक॒ मेक॑ मुपद॒द्ध्या दु॑पद॒द्ध्या देक᳚म् । 18) उ॒प॒द॒द्ध्यादित्यु॑प - द॒द्ध्यात् । 19) एक॑ मृ॒तु मृ॒तु मेक॒ मेक॑ मृ॒तुम् । 20) ऋ॒तुं-वँ॑र्षे-द्वर्षेदृ॒तु मृ॒तुं-वँ॑र्षेत् । 21) व॒र्॒षे॒ द॒नु॒प॒रि॒हार॑ मनुपरि॒हारं॑-वँर्षे-द्वर्षे दनुपरि॒हार᳚म् । 22) अ॒नु॒प॒रि॒हारग्ं॑ सादयति सादय त्यनुपरि॒हार॑ मनुपरि॒हारग्ं॑ सादयति । 22) अ॒नु॒प॒रि॒हार॒मित्य॑नु - प॒रि॒हार᳚म् । 23) सा॒द॒य॒ति॒ तस्मा॒-त्तस्मा᳚-थ्सादयति सादयति॒ तस्मा᳚त् । 24) तस्मा॒-थ्सर्वा॒-न्थ्सर्वा॒-न्तस्मा॒-त्तस्मा॒-थ्सर्वान्॑ । 25) सर्वा॑ नृ॒तू नृ॒तू-न्थ्सर्वा॒-न्थ्सर्वा॑ नृ॒तून् । 26) ऋ॒तून्. व॑र्षति वर्ष त्यृ॒तू नृ॒तून्. व॑र्षति । 27) व॒र्॒ष॒ति॒ य-द्य-द्व॑र्षति वर्षति॒ यत् । 28) य-त्प्रा॑ण॒भृतः॑ प्राण॒भृतो॒ य-द्य-त्प्रा॑ण॒भृतः॑ । 29) प्रा॒ण॒भृत॑ उप॒धा यो॑प॒धाय॑ प्राण॒भृतः॑ प्राण॒भृत॑ उप॒धाय॑ । 29) प्रा॒ण॒भृत॒ इति॑ प्राण - भृतः॑ । 30) उ॒प॒धाय॑ वृष्टि॒सनी᳚-र्वृष्टि॒सनी॑ रुप॒धा यो॑प॒धाय॑ वृष्टि॒सनीः᳚ । 30) उ॒प॒धायेत्यु॑प - धाय॑ । 31) वृ॒ष्टि॒सनी॑ रुप॒दधा᳚ त्युप॒दधा॑ति वृष्टि॒सनी᳚-र्वृष्टि॒सनी॑ रुप॒दधा॑ति । 31) वृ॒ष्टि॒सनी॒रिति॑ वृष्टि - सनीः᳚ । 32) उ॒प॒दधा॑ति॒ तस्मा॒-त्तस्मा॑ दुप॒दधा᳚ त्युप॒दधा॑ति॒ तस्मा᳚त् । 32) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 33) तस्मा᳚-द्वा॒युप्र॑च्युता वा॒युप्र॑च्युता॒ तस्मा॒-त्तस्मा᳚-द्वा॒युप्र॑च्युता । 34) वा॒युप्र॑च्युता दि॒वो दि॒वो वा॒युप्र॑च्युता वा॒युप्र॑च्युता दि॒वः । 34) वा॒युप्र॑च्यु॒तेति॑ वा॒यु - प्र॒च्यु॒ता॒ । 35) दि॒वो वृष्टि॒-र्वृष्टि॑-र्दि॒वो दि॒वो वृष्टिः॑ । 36) वृष्टि॑ रीर्त ईर्ते॒ वृष्टि॒-र्वृष्टि॑ रीर्ते । 37) ई॒र्ते॒ प॒शवः॑ प॒शव॑ ईर्त ईर्ते प॒शवः॑ । 38) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 39) वै व॑य॒स्या॑ वय॒स्या॑ वै वै व॑य॒स्याः᳚ । 40) व॒य॒स्या॑ नाना॑मनसो॒ नाना॑मनसो वय॒स्या॑ वय॒स्या॑ नाना॑मनसः । 41) नाना॑मनसः॒ खलु॒ खलु॒ नाना॑मनसो॒ नाना॑मनसः॒ खलु॑ । 41) नाना॑मनस॒ इति॒ नाना᳚ - म॒न॒सः॒ । 42) खलु॒ वै वै खलु॒ खलु॒ वै । 43) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ । 44) प॒शवो॒ नाना᳚व्रता॒ नाना᳚व्रताः प॒शवः॑ प॒शवो॒ नाना᳚व्रताः । 45) नाना᳚व्रता॒ स्ते ते नाना᳚व्रता॒ नाना᳚व्रता॒ स्ते । 45) नाना᳚व्रता॒ इति॒ नाना᳚ - व्र॒ताः॒ । 46) ते᳚(1॒) ऽपो॑ ऽप स्ते ते॑ ऽपः । 47) अ॒प ए॒वैवापो॑ ऽप ए॒व । 48) ए॒वाभ्या᳚(1॒)भ्ये॑ वैवाभि । 49) अ॒भि सम॑नस॒-स्सम॑नसो॒ ऽभ्य॑भि सम॑नसः । 50) सम॑नसो॒ यं-यँग्ं सम॑नस॒-स्सम॑नसो॒ यम् । 50) सम॑नस॒ इति॒ स - म॒न॒सः॒ । ॥ 3 ॥ (50/63)
1) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 2) का॒मये॑ता प॒शु र॑प॒शुः का॒मये॑त का॒मये॑ता प॒शुः । 3) अ॒प॒शु-स्स्या᳚-थ्स्या दप॒शु र॑प॒शु-स्स्या᳚त् । 4) स्या॒ दितीति॑ स्या-थ्स्या॒ दिति॑ । 5) इति॑ वय॒स्या॑ वय॒स्या॑ इतीति॑ वय॒स्याः᳚ । 6) व॒य॒स्या᳚ स्तस्य॒ तस्य॑ वय॒स्या॑ वय॒स्या᳚ स्तस्य॑ । 7) तस्यो॑प॒धा यो॑प॒धाय॒ तस्य॒ तस्यो॑प॒धाय॑ । 8) उ॒प॒धाया॑ प॒स्या॑ अप॒स्या॑ उप॒धा यो॑प॒धाया॑ प॒स्याः᳚ । 8) उ॒प॒धायेत्यु॑प - धाय॑ । 9) अ॒प॒स्या॑ उपोपा॑ प॒स्या॑ अप॒स्या॑ उप॑ । 10) उप॑ दद्ध्या-द्दद्ध्या॒ दुपोप॑ दद्ध्यात् । 11) द॒द्ध्या॒ दसं᳚.ज्ञान॒ मसं᳚.ज्ञान-न्दद्ध्या-द्दद्ध्या॒ दसं᳚.ज्ञानम् । 12) असं᳚.ज्ञान मे॒वै वासं᳚.ज्ञान॒ मसं᳚.ज्ञान मे॒व । 12) असं᳚.ज्ञान॒मित्यसं᳚ - ज्ञा॒न॒म् । 13) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 14) अ॒स्मै॒ प॒शुभिः॑ प॒शुभि॑ रस्मा अस्मै प॒शुभिः॑ । 15) प॒शुभिः॑ करोति करोति प॒शुभिः॑ प॒शुभिः॑ करोति । 15) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 16) क॒रो॒ त्य॒प॒शु र॑प॒शुः क॑रोति करो त्यप॒शुः । 17) अ॒प॒शु रे॒वैवा प॒शुर॑ प॒शु रे॒व । 18) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 19) भ॒व॒ति॒ यं-यँ-म्भ॑वति भवति॒ यम् । 20) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 21) का॒मये॑त पशु॒मा-न्प॑शु॒मान् का॒मये॑त का॒मये॑त पशु॒मान् । 22) प॒शु॒मा-न्थ्स्या᳚-थ्स्या-त्पशु॒मा-न्प॑शु॒मा-न्थ्स्या᳚त् । 22) प॒शु॒मानिति॑ पशु - मान् । 23) स्या॒ दितीति॑ स्या-थ्स्या॒ दिति॑ । 24) इत्य॑प॒स्या॑ अप॒स्या॑ इतीत्य॑ प॒स्याः᳚ । 25) अ॒प॒स्या᳚ स्तस्य॒ तस्या॑ प॒स्या॑ अप॒स्या᳚ स्तस्य॑ । 26) तस्यो॑प॒धा यो॑प॒धाय॒ तस्य॒ तस्यो॑प॒धाय॑ । 27) उ॒प॒धाय॑ वय॒स्या॑ वय॒स्या॑ उप॒धा यो॑प॒धाय॑ वय॒स्याः᳚ । 27) उ॒प॒धायेत्यु॑प - धाय॑ । 28) व॒य॒स्या॑ उपोप॑ वय॒स्या॑ वय॒स्या॑ उप॑ । 29) उप॑ दद्ध्या-द्दद्ध्या॒ दुपोप॑ दद्ध्यात् । 30) द॒द्ध्या॒-थ्सं॒.ज्ञानग्ं॑ सं॒.ज्ञान॑-न्दद्ध्या-द्दद्ध्या-थ्सं॒.ज्ञान᳚म् । 31) सं॒.ज्ञान॑ मे॒वैव सं॒.ज्ञानग्ं॑ सं॒.ज्ञान॑ मे॒व । 31) सं॒.ज्ञान॒मिति॑ सं - ज्ञान᳚म् । 32) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 33) अ॒स्मै॒ प॒शुभिः॑ प॒शुभि॑ रस्मा अस्मै प॒शुभिः॑ । 34) प॒शुभिः॑ करोति करोति प॒शुभिः॑ प॒शुभिः॑ करोति । 34) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 35) क॒रो॒ति॒ प॒शु॒मा-न्प॑शु॒मान् क॑रोति करोति पशु॒मान् । 36) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒मा ने॒व । 36) प॒शु॒मानिति॑ पशु - मान् । 37) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 38) भ॒व॒ति॒ चत॑स्र॒ श्चत॑स्रो भवति भवति॒ चत॑स्रः । 39) चत॑स्रः पु॒रस्ता᳚-त्पु॒रस्ता॒च् चत॑स्र॒ श्चत॑स्रः पु॒रस्ता᳚त् । 40) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 41) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 42) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 43) तस्मा᳚च् च॒त्वारि॑ च॒त्वारि॒ तस्मा॒-त्तस्मा᳚च् च॒त्वारि॑ । 44) च॒त्वारि॒ चक्षु॑ष॒ श्चक्षु॑ष श्च॒त्वारि॑ च॒त्वारि॒ चक्षु॑षः । 45) चक्षु॑षो रू॒पाणि॑ रू॒पाणि॒ चक्षु॑ष॒ श्चक्षु॑षो रू॒पाणि॑ । 46) रू॒पाणि॒ द्वे द्वे रू॒पाणि॑ रू॒पाणि॒ द्वे । 47) द्वे शु॒क्ले शु॒क्ले द्वे द्वे शु॒क्ले । 47) द्वे इति॒ द्वे । 48) शु॒क्ले द्वे द्वे शु॒क्ले शु॒क्ले द्वे । 48) शु॒क्ले इति॑ शु॒क्ले । 49) द्वे कृ॒ष्णे कृ॒ष्णे द्वे द्वे कृ॒ष्णे । 49) द्वे इति॒ द्वे । 50) कृ॒ष्णे मू᳚र्ध॒न्वती᳚-र्मूर्ध॒न्वतीः᳚ कृ॒ष्णे कृ॒ष्णे मू᳚र्ध॒न्वतीः᳚ । 50) कृ॒ष्णे इति॑ कृ॒ष्णे । ॥ 4 ॥ (50/62)
1) मू॒र्ध॒न्वती᳚-र्भवन्ति भवन्ति मूर्ध॒न्वती᳚-र्मूर्ध॒न्वती᳚-र्भवन्ति । 1) मू॒र्ध॒न्वती॒रिति॑ मूर्धन्न् - वतीः᳚ । 2) भ॒व॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्भवन्ति भवन्ति॒ तस्मा᳚त् । 3) तस्मा᳚-त्पु॒रस्ता᳚-त्पु॒रस्ता॒-त्तस्मा॒-त्तस्मा᳚-त्पु॒रस्ता᳚त् । 4) पु॒रस्ता᳚-न्मू॒र्धा मू॒र्धा पु॒रस्ता᳚-त्पु॒रस्ता᳚-न्मू॒र्धा । 5) मू॒र्धा पञ्च॒ पञ्च॑ मू॒र्धा मू॒र्धा पञ्च॑ । 6) पञ्च॒ दक्षि॑णाया॒-न्दक्षि॑णाया॒-म्पञ्च॒ पञ्च॒ दक्षि॑णायाम् । 7) दक्षि॑णाया॒ग्॒ श्रोण्या॒ग्॒ श्रोण्या॒-न्दक्षि॑णाया॒-न्दक्षि॑णाया॒ग्॒ श्रोण्या᳚म् । 8) श्रोण्या॒ मुपोप॒ श्रोण्या॒ग्॒ श्रोण्या॒ मुप॑ । 9) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 10) द॒धा॒ति॒ पञ्च॒ पञ्च॑ दधाति दधाति॒ पञ्च॑ । 11) पञ्चो त्त॑रस्या॒ मुत्त॑रस्या॒-म्पञ्च॒ पञ्चो त्त॑रस्याम् । 12) उत्त॑रस्या॒-न्तस्मा॒-त्तस्मा॒ दुत्त॑रस्या॒ मुत्त॑रस्या॒-न्तस्मा᳚त् । 12) उत्त॑रस्या॒मित्युत् - त॒र॒स्या॒म् । 13) तस्मा᳚-त्प॒श्चा-त्प॒श्चा-त्तस्मा॒-त्तस्मा᳚-त्प॒श्चात् । 14) प॒श्चा-द्वर्षी॑या॒न्॒. वर्षी॑या-न्प॒श्चा-त्प॒श्चा-द्वर्षी॑यान् । 15) वर्षी॑या-न्पु॒रस्ता᳚त्प्रवणः पु॒रस्ता᳚त्प्रवणो॒ वर्षी॑या॒न्॒. वर्षी॑या-न्पु॒रस्ता᳚त्प्रवणः । 16) पु॒रस्ता᳚त्प्रवणः प॒शुः प॒शुः पु॒रस्ता᳚त्प्रवणः पु॒रस्ता᳚त्प्रवणः प॒शुः । 16) पु॒रस्ता᳚त्प्रवण॒ इति॑ पु॒रस्ता᳚त् - प्र॒व॒णः॒ । 17) प॒शु-र्ब॒स्तो ब॒स्तः प॒शुः प॒शु-र्ब॒स्तः । 18) ब॒स्तो वयो॒ वयो॑ ब॒स्तो ब॒स्तो वयः॑ । 19) वय॒ इतीति॒ वयो॒ वय॒ इति॑ । 20) इति॒ दक्षि॑णे॒ दक्षि॑ण॒ इतीति॒ दक्षि॑णे । 21) दक्षि॒णे ऽग्ंसे ऽग्ंसे॒ दक्षि॑णे॒ दक्षि॒णे ऽग्ंसे᳚ । 22) अग्ंस॒ उपोपाग्ंसे ऽग्ंस॒ उप॑ । 23) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 24) द॒धा॒ति॒ वृ॒ष्णि-र्वृ॒ष्णि-र्द॑धाति दधाति वृ॒ष्णिः । 25) वृ॒ष्णि-र्वयो॒ वयो॑ वृ॒ष्णि-र्वृ॒ष्णि-र्वयः॑ । 26) वय॒ इतीति॒ वयो॒ वय॒ इति॑ । 27) इत्युत्त॑र॒ उत्त॑र॒ इती त्युत्त॑रे । 28) उत्त॒रे ऽग्ंसा॒ वग्ंसा॒ वुत्त॑र॒ उत्त॒रे ऽग्ंसौ᳚ । 28) उत्त॑र॒ इत्युत् - त॒रे॒ । 29) अग्ंसा॑ वे॒वै वाग्ंसा॒ वग्ंसा॑ वे॒व । 30) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ । 31) प्रति॑ दधाति दधाति॒ प्रति॒ प्रति॑ दधाति । 32) द॒धा॒ति॒ व्या॒घ्रो व्या॒घ्रो द॑धाति दधाति व्या॒घ्रः । 33) व्या॒घ्रो वयो॒ वयो᳚ व्या॒घ्रो व्या॒घ्रो वयः॑ । 34) वय॒ इतीति॒ वयो॒ वय॒ इति॑ । 35) इति॒ दक्षि॑णे॒ दक्षि॑ण॒ इतीति॒ दक्षि॑णे । 36) दक्षि॑णे प॒क्षे प॒क्षे दक्षि॑णे॒ दक्षि॑णे प॒क्षे । 37) प॒क्ष उपोप॑ प॒क्षे प॒क्ष उप॑ । 38) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 39) द॒धा॒ति॒ सि॒ग्ं॒ह-स्सि॒ग्ं॒हो द॑धाति दधाति सि॒ग्ं॒हः । 40) सि॒ग्ं॒हो वयो॒ वय॑-स्सि॒ग्ं॒ह-स्सि॒ग्ं॒हो वयः॑ । 41) वय॒ इतीति॒ वयो॒ वय॒ इति॑ । 42) इत्युत्त॑र॒ उत्त॑र॒ इतीत्युत्त॑रे । 43) उत्त॑रे प॒क्षयोः᳚ प॒क्षयो॒ रुत्त॑र॒ उत्त॑रे प॒क्षयोः᳚ । 43) उत्त॑र॒ इत्युत् - त॒रे॒ । 44) प॒क्षयो॑ रे॒वैव प॒क्षयोः᳚ प॒क्षयो॑ रे॒व । 45) ए॒व वी॒र्यं॑-वीँ॒र्य॑ मे॒वैव वी॒र्य᳚म् । 46) वी॒र्य॑-न्दधाति दधाति वी॒र्यं॑-वीँ॒र्य॑-न्दधाति । 47) द॒धा॒ति॒ पुरु॑षः॒ पुरु॑षो दधाति दधाति॒ पुरु॑षः । 48) पुरु॑षो॒ वयो॒ वयः॒ पुरु॑षः॒ पुरु॑षो॒ वयः॑ । 49) वय॒ इतीति॒ वयो॒ वय॒ इति॑ । 50) इति॒ मद्ध्ये॒ मद्ध्य॒ इतीति॒ मद्ध्ये᳚ । 51) मद्ध्ये॒ तस्मा॒-त्तस्मा॒-न्मद्ध्ये॒ मद्ध्ये॒ तस्मा᳚त् । 52) तस्मा॒-त्पुरु॑षः॒ पुरु॑ष॒ स्तस्मा॒-त्तस्मा॒-त्पुरु॑षः । 53) पुरु॑षः पशू॒ना-म्प॑शू॒ना-म्पुरु॑षः॒ पुरु॑षः पशू॒नाम् । 54) प॒शू॒ना मधि॑पति॒ रधि॑पतिः पशू॒ना-म्प॑शू॒ना मधि॑पतिः । 55) अधि॑पति॒रित्यधि॑ - प॒तिः॒ । ॥ 5 ॥ (55/60) ॥ अ. 1 ॥
1) इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒ मव्य॑थमाना॒ मिन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी॒ अव्य॑थमानाम् । 1) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । 2) अव्य॑थमाना॒ मितीत्य व्य॑थमाना॒ मव्य॑थमाना॒ मिति॑ । 3) इति॑ स्वयमातृ॒ण्णाग् स्व॑यमातृ॒ण्णा मितीति॑ स्वयमातृ॒ण्णाम् । 4) स्व॒य॒मा॒तृ॒ण्णा मुपोप॑ स्वयमातृ॒ण्णाग् स्व॑यमातृ॒ण्णा मुप॑ । 4) स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । 5) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 6) द॒धा॒ती॒ न्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्या᳚-न्दधाति दधाती न्द्रा॒ग्निभ्या᳚म् । 7) इ॒न्द्रा॒ग्निभ्यां॒-वैँ वा इ॑न्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्यां॒-वैँ । 7) इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् । 8) वा इ॒मा वि॒मौ वै वा इ॒मौ । 9) इ॒मौ लो॒कौ लो॒का वि॒मा वि॒मौ लो॒कौ । 10) लो॒कौ विधृ॑तौ॒ विधृ॑तौ लो॒कौ लो॒कौ विधृ॑तौ । 11) विधृ॑ता व॒नयो॑ र॒नयो॒-र्विधृ॑तौ॒ विधृ॑ता व॒नयोः᳚ । 11) विधृ॑ता॒विति॒ वि - धृ॒तौ॒ । 12) अ॒नयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ र॒नयो॑ र॒नयो᳚-र्लो॒कयोः᳚ । 13) लो॒कयो॒-र्विधृ॑त्यै॒ विधृ॑त्यै लो॒कयो᳚-र्लो॒कयो॒-र्विधृ॑त्यै । 14) विधृ॑त्या॒ अधृ॒ता ऽधृ॑ता॒ विधृ॑त्यै॒ विधृ॑त्या॒ अधृ॑ता । 14) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । 15) अधृ॑तेवे॒ वाधृ॒ता ऽधृ॑तेव । 16) इ॒व॒वै वा इ॑वेव॒ वै । 17) वा ए॒षैषा वै वा ए॒षा । 18) ए॒षा य-द्यदे॒ षैषा यत् । 19) य-न्म॑द्ध्य॒मा म॑द्ध्य॒मा य-द्य-न्म॑द्ध्य॒मा । 20) म॒द्ध्य॒मा चिति॒ श्चिति॑-र्मद्ध्य॒मा म॑द्ध्य॒मा चितिः॑ । 21) चिति॑ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्चिति॒ श्चिति॑ र॒न्तरि॑क्षम् । 22) अ॒न्तरि॑क्ष मिवे वा॒न्तरि॑क्ष म॒न्तरि॑क्ष मिव । 23) इ॒व॒ वै वा इ॑वेव॒ वै । 24) वा ए॒षैषा वै वा ए॒षा । 25) ए॒षे न्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी ए॒षै षेन्द्रा᳚ग्नी । 26) इन्द्रा᳚ग्नी॒ इतीती न्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी॒ इति॑ । 26) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । 27) इत्या॑ हा॒हे तीत्या॑ह । 28) आ॒हे॒न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी आ॑हा हेन्द्रा॒ग्नी । 29) इ॒न्द्रा॒ग्नी वै वा इ॑न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी वै । 29) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । 30) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 31) दे॒वाना॑ मोजो॒भृता॑ वोजो॒भृतौ॑ दे॒वाना᳚-न्दे॒वाना॑ मोजो॒भृतौ᳚ । 32) ओ॒जो॒भृता॒ वोज॒सौ ज॑सौजो॒ भृता॑ वोजो॒भृता॒ वोज॑सा । 32) ओ॒जो॒भृता॒वित्यो॑जः - भृतौ᳚ । 33) ओज॑ सै॒वैवौज॒ सौज॑सै॒व । 34) ए॒वैना॑ मेना मे॒वै वैना᳚म् । 35) ए॒ना॒ म॒न्तरि॑क्षे॒ ऽन्तरि॑क्ष एना मेना म॒न्तरि॑क्षे । 36) अ॒न्तरि॑क्षे चिनुते चिनुते॒ ऽन्तरि॑क्षे॒ ऽन्तरि॑क्षे चिनुते । 37) चि॒नु॒ते॒ धृत्यै॒ धृत्यै॑ चिनुते चिनुते॒ धृत्यै᳚ । 38) धृत्यै᳚ स्वयमातृ॒ण्णाग् स्व॑यमातृ॒ण्णा-न्धृत्यै॒ धृत्यै᳚ स्वयमातृ॒ण्णाम् । 39) स्व॒य॒मा॒तृ॒ण्णा मुपोप॑ स्वयमातृ॒ण्णाग् स्व॑यमातृ॒ण्णा मुप॑ । 39) स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । 40) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 41) द॒धा॒ त्य॒न्तरि॑क्ष म॒न्तरि॑क्ष-न्दधाति दधा त्य॒न्तरि॑क्षम् । 42) अ॒न्तरि॑क्षं॒-वैँ वा अ॒न्तरि॑क्ष म॒न्तरि॑क्षं॒-वैँ । 43) वै स्व॑यमातृ॒ण्णा स्व॑यमातृ॒ण्णा वै वै स्व॑यमातृ॒ण्णा । 44) स्व॒य॒मा॒तृ॒ण्णा ऽन्तरि॑क्ष म॒न्तरि॑क्षग्ग् स्वयमातृ॒ण्णा स्व॑यमातृ॒ण्णा ऽन्तरि॑क्षम् । 44) स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । 45) अ॒न्तरि॑क्ष मे॒वै वान्तरि॑क्ष म॒न्तरि॑क्ष मे॒व । 46) ए॒वोपो पै॒वै वोप॑ । 47) उप॑ धत्ते धत्त॒ उपोप॑ धत्ते । 48) ध॒त्ते ऽश्व॒ मश्व॑-न्धत्ते ध॒त्ते ऽश्व᳚म् । 49) अश्व॒ मुपोपाश्व॒ मश्व॒ मुप॑ । 50) उप॑ घ्रापयति घ्रापय॒ त्युपोप॑ घ्रापयति । ॥ 6 ॥ (50/60)
1) घ्रा॒प॒य॒ति॒ प्रा॒ण-म्प्रा॒ण-ङ्घ्रा॑पयति घ्रापयति प्रा॒णम् । 2) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व । 2) प्रा॒णमिति॑ प्र - अ॒नम् । 3) ए॒वास्या॑ मस्या मे॒वै वास्या᳚म् । 4) अ॒स्या॒-न्द॒धा॒ति॒ द॒धा॒ त्य॒स्या॒ म॒स्या॒-न्द॒धा॒ति॒ । 5) द॒धा॒ त्यथो॒ अथो॑ दधाति दधा॒ त्यथो᳚ । 6) अथो᳚ प्राजाप॒त्यः प्रा॑जाप॒त्यो ऽथो॒ अथो᳚ प्राजाप॒त्यः । 6) अथो॒ इत्यथो᳚ । 7) प्रा॒जा॒प॒त्यो वै वै प्रा॑जाप॒त्यः प्रा॑जाप॒त्यो वै । 7) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । 8) वा अश्वो ऽश्वो॒ वै वा अश्वः॑ । 9) अश्वः॑ प्र॒जाप॑तिना प्र॒जाप॑ति॒ना ऽश्वो ऽश्वः॑ प्र॒जाप॑तिना । 10) प्र॒जाप॑ति नै॒वैव प्र॒जाप॑तिना प्र॒जाप॑ति नै॒व । 10) प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । 11) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् । 12) अ॒ग्नि-ञ्चि॑नुते चिनुते॒ ऽग्नि म॒ग्नि-ञ्चि॑नुते । 13) चि॒नु॒ते॒ स्व॒य॒मा॒तृ॒ण्णा स्व॑यमातृ॒ण्णा चि॑नुते चिनुते स्वयमातृ॒ण्णा । 14) स्व॒य॒मा॒तृ॒ण्णा भ॑वति भवति स्वयमातृ॒ण्णा स्व॑यमातृ॒ण्णा भ॑वति । 14) स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । 15) भ॒व॒ति॒ प्रा॒णाना᳚-म्प्रा॒णाना᳚-म्भवति भवति प्रा॒णाना᳚म् । 16) प्रा॒णाना॒ मुथ्सृ॑ष्ट्या॒ उथ्सृ॑ष्ट्यै प्रा॒णाना᳚-म्प्रा॒णाना॒ मुथ्सृ॑ष्ट्यै । 16) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 17) उथ्सृ॑ष्ट्या॒ अथो॒ अथो॒ उथ्सृ॑ष्ट्या॒ उथ्सृ॑ष्ट्या॒ अथो᳚ । 17) उथ्सृ॑ष्ट्या॒ इत्युत् - सृ॒ष्ट्यै॒ । 18) अथो॑ सुव॒र्गस्य॑ सुव॒र्ग स्याथो॒ अथो॑ सुव॒र्गस्य॑ । 18) अथो॒ इत्यथो᳚ । 19) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 19) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 20) लो॒कस्या नु॑ख्यात्या॒ अनु॑ख्यात्यै लो॒कस्य॑ लो॒कस्या नु॑ख्यात्यै । 21) अनु॑ख्यात्यै दे॒वाना᳚-न्दे॒वाना॒ मनु॑ख्यात्या॒ अनु॑ख्यात्यै दे॒वाना᳚म् । 21) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । 22) दे॒वानां॒-वैँ वै दे॒वाना᳚-न्दे॒वानां॒-वैँ । 23) वै सु॑व॒र्गग्ं सु॑व॒र्गं-वैँ वै सु॑व॒र्गम् । 24) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 24) सु॒व॒र्गमिति॑ सुवः - गम् । 25) लो॒कं-यँ॒तां-यँ॒ताम् ँलो॒कम् ँलो॒कं-यँ॒ताम् । 26) य॒ता-न्दिशो॒ दिशो॑ य॒तां-यँ॒ता-न्दिशः॑ । 27) दिश॒-स्सग्ं स-न्दिशो॒ दिश॒-स्सम् । 28) स म॑व्लीयन्ता व्लीयन्त॒ सग्ं स म॑व्लीयन्त । 29) अ॒व्ली॒य॒न्त॒ ते ते᳚ ऽव्लीयन्ता व्लीयन्त॒ ते । 30) त ए॒ता ए॒ता स्ते त ए॒ताः । 31) ए॒ता दिश्या॒ दिश्या॑ ए॒ता ए॒ता दिश्याः᳚ । 32) दिश्या॑ अपश्य-न्नपश्य॒-न्दिश्या॒ दिश्या॑ अपश्यन्न् । 33) अ॒प॒श्य॒-न्ता स्ता अ॑पश्य-न्नपश्य॒-न्ताः । 34) ता उपोप॒ ता स्ता उप॑ । 35) उपा॑ दधता दध॒तो पोपा॑ दधत । 36) अ॒द॒ध॒त॒ ताभि॒ स्ताभि॑ रदधता दधत॒ ताभिः॑ । 37) ताभि॒-र्वै वै ताभि॒ स्ताभि॒-र्वै । 38) वै ते ते वै वै ते । 39) ते दिशो॒ दिश॒ स्ते ते दिशः॑ । 40) दिशो॑ ऽदृग्ंह-न्नदृग्ंह॒-न्दिशो॒ दिशो॑ ऽदृग्ंहन्न् । 41) अ॒दृ॒ग्ं॒ह॒न्॒. य-द्यद॑दृग्ंह-न्नदृग्ंह॒न्॒. यत् । 42) य-द्दिश्या॒ दिश्या॒ य-द्य-द्दिश्याः᳚ । 43) दिश्या॑ उप॒दधा᳚ त्युप॒दधा॑ति॒ दिश्या॒ दिश्या॑ उप॒दधा॑ति । 44) उ॒प॒दधा॑ति दि॒शा-न्दि॒शा मु॑प॒दधा᳚ त्युप॒दधा॑ति दि॒शाम् । 44) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 45) दि॒शां-विँधृ॑त्यै॒ विधृ॑त्यै दि॒शा-न्दि॒शां-विँधृ॑त्यै । 46) विधृ॑त्यै॒ दश॒ दश॒ विधृ॑त्यै॒ विधृ॑त्यै॒ दश॑ । 46) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । 47) दश॑ प्राण॒भृतः॑ प्राण॒भृतो॒ दश॒ दश॑ प्राण॒भृतः॑ । 48) प्रा॒ण॒भृतः॑ पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प्राण॒भृतः॑ प्राण॒भृतः॑ पु॒रस्ता᳚त् । 48) प्रा॒ण॒भृत॒ इति॑ प्राण - भृतः॑ । 49) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 50) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । ॥ 7 ॥ (50/64)
1) द॒धा॒ति॒ नव॒ नव॑ दधाति दधाति॒ नव॑ । 2) नव॒ वै वै नव॒ नव॒ वै । 3) वै पुरु॑षे॒ पुरु॑षे॒ वै वै पुरु॑षे । 4) पुरु॑षे प्रा॒णाः प्रा॒णाः पुरु॑षे॒ पुरु॑षे प्रा॒णाः । 5) प्रा॒णा नाभि॒-र्नाभिः॑ प्रा॒णाः प्रा॒णा नाभिः॑ । 5) प्रा॒णा इति॑ प्र - अ॒नाः । 6) नाभि॑-र्दश॒मी द॑श॒मी नाभि॒-र्नाभि॑-र्दश॒मी । 7) द॒श॒मी प्रा॒णा-न्प्रा॒णा-न्द॑श॒मी द॑श॒मी प्रा॒णान् । 8) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व । 8) प्रा॒णानिति॑ प्र - अ॒नान् । 9) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् । 10) पु॒रस्ता᳚-द्धत्ते धत्ते पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्धत्ते । 11) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 12) तस्मा᳚-त्पु॒रस्ता᳚-त्पु॒रस्ता॒-त्तस्मा॒-त्तस्मा᳚-त्पु॒रस्ता᳚त् । 13) पु॒रस्ता᳚-त्प्रा॒णाः प्रा॒णाः पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प्रा॒णाः । 14) प्रा॒णा ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती-म्प्रा॒णाः प्रा॒णा ज्योति॑ष्मतीम् । 14) प्रा॒णा इति॑ प्र - अ॒नाः । 15) ज्योति॑ष्मती मुत्त॒मा मु॑त्त॒मा-ञ्ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती मुत्त॒माम् । 16) उ॒त्त॒मा मुपोपो᳚ त्त॒मा मु॑त्त॒मा मुप॑ । 16) उ॒त्त॒मामित्यु॑त् - त॒माम् । 17) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 18) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 19) तस्मा᳚-त्प्रा॒णाना᳚-म्प्रा॒णाना॒-न्तस्मा॒-त्तस्मा᳚-त्प्रा॒णाना᳚म् । 20) प्रा॒णानां॒-वाँग् वा-क्प्रा॒णाना᳚-म्प्रा॒णानां॒-वाँक् । 20) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 21) वाग् ज्योति॒-र्ज्योति॒-र्वाग् वाग् ज्योतिः॑ । 22) ज्योति॑ रुत्त॒मो त्त॒मा ज्योति॒-र्ज्योति॑ रुत्त॒मा । 23) उ॒त्त॒मा दश॒ दशो᳚ त्त॒मो त्त॒मा दश॑ । 23) उ॒त्त॒मेत्यु॑त् - त॒मा । 24) दशो पोप॒ दश॒ दशोप॑ । 25) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 26) द॒धा॒ति॒ दशा᳚क्षरा॒ दशा᳚क्षरा दधाति दधाति॒ दशा᳚क्षरा । 27) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् । 27) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । 28) वि॒रा-ड्वि॒राट् । 28) वि॒राडिति॑ वि - राट् । 29) वि॒राट् छन्द॑सा॒-ञ्छन्द॑सां-विँ॒रा-ड्वि॒राट् छन्द॑साम् । 29) वि॒राडिति॑ वि - राट् । 30) छन्द॑सा॒-ञ्ज्योति॒-र्ज्योति॒ श्छन्द॑सा॒-ञ्छन्द॑सा॒-ञ्ज्योतिः॑ । 31) ज्योति॒-र्ज्योतिः॑ । 32) ज्योति॑ रे॒वैव ज्योति॒-र्ज्योति॑ रे॒व । 33) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् । 34) पु॒रस्ता᳚-द्धत्ते धत्ते पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्धत्ते । 35) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 36) तस्मा᳚-त्पु॒रस्ता᳚-त्पु॒रस्ता॒-त्तस्मा॒-त्तस्मा᳚-त्पु॒रस्ता᳚त् । 37) पु॒रस्ता॒ज् ज्योति॒-र्ज्योतिः॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ज् ज्योतिः॑ । 38) ज्योति॒ रुपोप॒ ज्योति॒-र्ज्योति॒ रुप॑ । 39) उपा᳚स्मह आस्मह॒ उपोपा᳚ स्महे । 40) आ॒स्म॒हे॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्यास्मह आस्महे॒ छन्दाग्ं॑सि । 41) छन्दाग्ं॑सि प॒शुषु॑ प॒शुषु॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि प॒शुषु॑ । 42) प॒शु ष्वा॒जि मा॒जि-म्प॒शुषु॑ प॒शु ष्वा॒जिम् । 43) आ॒जि म॑यु रयु रा॒जि मा॒जि म॑युः । 44) अ॒यु॒ स्ताग् स्ता न॑यु रयु॒स्तान् । 45) ता-न्बृ॑ह॒ती बृ॑ह॒ती ताग् स्ता-न्बृ॑ह॒ती । 46) बृ॒ह॒ त्युदु-द्बृ॑ह॒ती बृ॑ह॒ त्युत् । 47) उद॑जय दजय॒ दुदु द॑जयत् । 48) अ॒ज॒य॒-त्तस्मा॒-त्तस्मा॑ दजय दजय॒-त्तस्मा᳚त् । 49) तस्मा॒-द्बार्ह॑ता॒ बार्ह॑ता॒ स्तस्मा॒-त्तस्मा॒-द्बार्ह॑ताः । 50) बार्ह॑ताः प॒शवः॑ प॒शवो॒ बार्ह॑ता॒ बार्ह॑ताः प॒शवः॑ । ॥ 8 ॥ (50/59)
1) प॒शव॑ उच्यन्त उच्यन्ते प॒शवः॑ प॒शव॑ उच्यन्ते । 2) उ॒च्य॒न्ते॒ मा मोच्य॑न्त उच्यन्ते॒ मा । 3) मा छन्द॒ श्छन्दो॒ मा मा छन्दः॑ । 4) छन्द॒ इतीति॒ छन्द॒ श्छन्द॒ इति॑ । 5) इति॑ दक्षिण॒तो द॑क्षिण॒त इतीति॑ दक्षिण॒तः । 6) द॒क्षि॒ण॒त उपोप॑ दक्षिण॒तो द॑क्षिण॒त उप॑ । 7) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 8) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 9) तस्मा᳚-द्दक्षि॒णावृ॑तो दक्षि॒णावृ॑त॒ स्तस्मा॒-त्तस्मा᳚-द्दक्षि॒णावृ॑तः । 10) द॒क्षि॒णावृ॑तो॒ मासा॒ मासा॑ दक्षि॒णावृ॑तो दक्षि॒णावृ॑तो॒ मासाः᳚ । 10) द॒क्षि॒णावृ॑त॒ इति॑ दक्षि॒णा - आ॒वृ॒तः॒ । 11) मासाः᳚ पृथि॒वी पृ॑थि॒वी मासा॒ मासाः᳚ पृथि॒वी । 12) पृ॒थि॒वी छन्द॒ श्छन्दः॑ पृथि॒वी पृ॑थि॒वी छन्दः॑ । 13) छन्द॒ इतीति॒ छन्द॒ श्छन्द॒ इति॑ । 14) इति॑ प॒श्चा-त्प॒श्चा दितीति॑ प॒श्चात् । 15) प॒श्चा-त्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै प॒श्चा-त्प॒श्चा-त्प्रति॑ष्ठित्यै । 16) प्रति॑ष्ठित्या अ॒ग्नि र॒ग्निः प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या अ॒ग्निः । 16) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 17) अ॒ग्नि-र्दे॒वता॑ दे॒वता॒ ऽग्नि र॒ग्नि-र्दे॒वता᳚ । 18) दे॒व तेतीति॑ दे॒वता॑ दे॒व तेति॑ । 19) इत्यु॑त्तर॒त उ॑त्तर॒त इती त्यु॑त्तर॒तः । 20) उ॒त्त॒र॒त ओज॒ ओज॑ उत्तर॒त उ॑त्तर॒त ओजः॑ । 20) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 21) ओजो॒ वै वा ओज॒ ओजो॒ वै । 22) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 23) अ॒ग्नि रोज॒ ओजो॒ ऽग्नि र॒ग्नि रोजः॑ । 24) ओज॑ ए॒वै वौज॒ ओज॑ ए॒व । 25) ए॒वोत्त॑र॒त उ॑त्तर॒त ए॒वै वोत्त॑र॒तः । 26) उ॒त्त॒र॒तो ध॑त्ते धत्त उत्तर॒त उ॑त्तर॒तो ध॑त्ते । 26) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 27) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 28) तस्मा॑ दुत्तरतोभिप्रया॒ य्यु॑त्तरतोभिप्रया॒यी तस्मा॒-त्तस्मा॑ दुत्तरतोभिप्रया॒यी । 29) उ॒त्त॒र॒तो॒भि॒प्र॒या॒यी ज॑यति जय त्युत्तरतोभिप्रया॒ य्यु॑त्तरतोभिप्रया॒यी ज॑यति । 29) उ॒त्त॒र॒तो॒भि॒प्र॒या॒यीत्यु॑त्तरतः - अ॒भि॒प्र॒या॒यी । 30) ज॒य॒ति॒ षट्त्रिग्ं॑श॒ थ्षट्त्रिग्ं॑शज् जयति जयति॒ षट्त्रिग्ं॑शत् । 31) षट्त्रिग्ं॑श॒-थ्सग्ं सग्ं षट्त्रिग्ं॑श॒ थ्षट्त्रिग्ं॑श॒-थ्सम् । 31) षट्त्रिग्ं॑श॒दिति॒ षट् - त्रि॒ग्ं॒श॒त् । 32) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 33) प॒द्य॒न्ते॒ षट्त्रिग्ं॑शदक्षरा॒ षट्त्रिग्ं॑शदक्षरा पद्यन्ते पद्यन्ते॒ षट्त्रिग्ं॑शदक्षरा । 34) षट्त्रिग्ं॑शदक्षरा बृह॒ती बृ॑ह॒ती षट्त्रिग्ं॑शदक्षरा॒ षट्त्रिग्ं॑शदक्षरा बृह॒ती । 34) षट्त्रिग्ं॑शदक्ष॒रेति॒ षट्त्रिग्ं॑शत् - अ॒क्ष॒रा॒ । 35) बृ॒ह॒ती बार्ह॑ता॒ बार्ह॑ता बृह॒ती बृ॑ह॒ती बार्ह॑ताः । 36) बार्ह॑ताः प॒शवः॑ प॒शवो॒ बार्ह॑ता॒ बार्ह॑ताः प॒शवः॑ । 37) प॒शवो॑ बृह॒त्या बृ॑ह॒त्या प॒शवः॑ प॒शवो॑ बृह॒त्या । 38) बृ॒ह॒त्यैवैव बृ॑ह॒त्या बृ॑ह॒त्यैव । 39) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 40) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् । 41) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 42) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 43) रु॒न्धे॒ बृ॒ह॒ती बृ॑ह॒ती रु॑न्धे रुन्धे बृह॒ती । 44) बृ॒ह॒ती छन्द॑सा॒-ञ्छन्द॑सा-म्बृह॒ती बृ॑ह॒ती छन्द॑साम् । 45) छन्द॑सा॒ग्॒ स्वारा᳚ज्य॒ग्ग्॒ स्वारा᳚ज्य॒-ञ्छन्द॑सा॒-ञ्छन्द॑सा॒ग्॒ स्वारा᳚ज्यम् । 46) स्वारा᳚ज्य॒-म्परि॒ परि॒ स्वारा᳚ज्य॒ग्ग्॒ स्वारा᳚ज्य॒-म्परि॑ । 46) स्वारा᳚ज्य॒मिति॒ स्व - रा॒ज्य॒म् । 47) परी॑ यायेयाय॒ परि॒ परी॑याय । 48) इ॒या॒य॒ यस्य॒ यस्ये॑याये याय॒ यस्य॑ । 49) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 50) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । ॥ 9 ॥ (50/58)
1) उ॒प॒धी॒यन्ते॒ गच्छ॑ति॒ गच्छ॑ त्युपधी॒यन्त॑ उपधी॒यन्ते॒ गच्छ॑ति । 1) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 2) गच्छ॑ति॒ स्वारा᳚ज्य॒ग्ग्॒ स्वारा᳚ज्य॒-ङ्गच्छ॑ति॒ गच्छ॑ति॒ स्वारा᳚ज्यम् । 3) स्वारा᳚ज्यग्ं स॒प्त स॒प्त स्वारा᳚ज्य॒ग्ग्॒ स्वारा᳚ज्यग्ं स॒प्त । 3) स्वारा᳚ज्य॒मिति॒ स्व - रा॒ज्य॒म् । 4) स॒प्त वाल॑खिल्या॒ वाल॑खिल्या-स्स॒प्त स॒प्त वाल॑खिल्याः । 5) वाल॑खिल्याः पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वाल॑खिल्या॒ वाल॑खिल्याः पु॒रस्ता᳚त् । 5) वाल॑खिल्या॒ इति॒ वाल॑ - खि॒ल्याः॒ । 6) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 7) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 8) द॒धा॒ति॒ स॒प्त स॒प्त द॑धाति दधाति स॒प्त । 9) स॒प्त प॒श्चा-त्प॒श्चा-थ्स॒प्त स॒प्त प॒श्चात् । 10) प॒श्चा-थ्स॒प्त स॒प्त प॒श्चा-त्प॒श्चा-थ्स॒प्त । 11) स॒प्त वै वै स॒प्त स॒प्त वै । 12) वै शी॑र्ष॒ण्या᳚-श्शीर्ष॒ण्या॑ वै वै शी॑र्ष॒ण्याः᳚ । 13) शी॒र्॒ष॒ण्याः᳚ प्रा॒णाः प्रा॒णा-श्शी॑र्ष॒ण्या᳚-श्शीर्ष॒ण्याः᳚ प्रा॒णाः । 14) प्रा॒णा द्वौ द्वौ प्रा॒णाः प्रा॒णा द्वौ । 14) प्रा॒णा इति॑ प्र - अ॒नाः । 15) द्वा ववा᳚ञ्चा॒ ववा᳚ञ्चौ॒ द्वौ द्वा ववा᳚ञ्चौ । 16) अवा᳚ञ्चौ प्रा॒णाना᳚-म्प्रा॒णाना॒ मवा᳚ञ्चा॒ ववा᳚ञ्चौ प्रा॒णाना᳚म् । 17) प्रा॒णानाग्ं॑ सवीर्य॒त्वाय॑ सवीर्य॒त्वाय॑ प्रा॒णाना᳚-म्प्रा॒णानाग्ं॑ सवीर्य॒त्वाय॑ । 17) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 18) स॒वी॒र्य॒त्वाय॑ मू॒र्धा मू॒र्धा स॑वीर्य॒त्वाय॑ सवीर्य॒त्वाय॑ मू॒र्धा । 18) स॒वी॒र्य॒त्वायेति॑ सवीर्य - त्वाय॑ । 19) मू॒र्धा ऽस्य॑सि मू॒र्धा मू॒र्धा ऽसि॑ । 20) अ॒सि॒ राड् राड॑ स्यसि॒ राट् । 21) राडितीति॒ राड् राडिति॑ । 22) इति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दितीति॑ पु॒रस्ता᳚त् । 23) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 24) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 25) द॒धा॒ति॒ यन्त्री॒ यन्त्री॑ दधाति दधाति॒ यन्त्री᳚ । 26) यन्त्री॒ राड् राड् यन्त्री॒ यन्त्री॒ राट् । 27) राडितीति॒ राड् राडिति॑ । 28) इति॑ प॒श्चा-त्प॒श्चा दितीति॑ प॒श्चात् । 29) प॒श्चा-त्प्रा॒णा-न्प्रा॒णा-न्प॒श्चा-त्प॒श्चा-त्प्रा॒णान् । 30) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व । 30) प्रा॒णानिति॑ प्र - अ॒नान् । 31) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 32) अ॒स्मै॒ स॒मीच॑-स्स॒मीचो᳚ ऽस्मा अस्मै स॒मीचः॑ । 33) स॒मीचो॑ दधाति दधाति स॒मीच॑-स्स॒मीचो॑ दधाति । 34) द॒धा॒तीति॑ दधाति । ॥ 10 ॥ (34/41) ॥ अ. 2 ॥
1) दे॒वा वै वै दे॒वा दे॒वा वै । 2) वै य-द्य-द्वै वै यत् । 3) य-द्य॒ज्ञे य॒ज्ञे य-द्य-द्य॒ज्ञे । 4) य॒ज्ञे ऽकु॑र्व॒ता कु॑र्वत य॒ज्ञे य॒ज्ञे ऽकु॑र्वत । 5) अकु॑र्वत॒ त-त्तदकु॑र्व॒ता कु॑र्वत॒ तत् । 6) तदसु॑रा॒ असु॑रा॒ स्त-त्तदसु॑राः । 7) असु॑रा अकुर्वता कुर्व॒ता सु॑रा॒ असु॑रा अकुर्वत । 8) अ॒कु॒र्व॒त॒ ते ते॑ ऽकुर्वता कुर्वत॒ ते । 9) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 10) दे॒वा ए॒ता ए॒ता दे॒वा दे॒वा ए॒ताः । 11) ए॒ता अ॑क्ष्णयास्तो॒मीया॑ अक्ष्णयास्तो॒मीया॑ ए॒ता ए॒ता अ॑क्ष्णयास्तो॒मीयाः᳚ । 12) अ॒क्ष्ण॒या॒स्तो॒मीया॑ अपश्य-न्नपश्य-न्नक्ष्णयास्तो॒मीया॑ अक्ष्णयास्तो॒मीया॑ अपश्यन्न् । 12) अ॒क्ष्ण॒या॒स्तो॒मीया॒ इत्य॑क्ष्णया - स्तो॒मीयाः᳚ । 13) अ॒प॒श्य॒-न्ता स्ता अ॑पश्य-न्नपश्य॒-न्ताः । 14) ता अ॒न्यथा॒ ऽन्यथा॒ ता स्ता अ॒न्यथा᳚ । 15) अ॒न्यथा॒ ऽनूच्या॒ नूच्या॒ न्यथा॒ ऽन्यथा॒ ऽनूच्य॑ । 16) अ॒नूच्या॒ न्यथा॒ ऽन्यथा॒ ऽनूच्या॒ नूच्या॒ न्यथा᳚ । 16) अ॒नूच्येत्य॑नु - उच्य॑ । 17) अ॒न्यथोपोपा॒ न्यथा॒ ऽन्यथोप॑ । 18) उपा॑ दधता दध॒तोपोपा॑ दधत । 19) अ॒द॒ध॒त॒ त-त्तद॑दधता दधत॒ तत् । 20) तदसु॑रा॒ असु॑रा॒ स्त-त्तदसु॑राः । 21) असु॑रा॒ न नासु॑रा॒ असु॑रा॒ न । 22) नान्ववा॑य-न्न॒न्ववा॑य॒-न्न नान्ववा॑यन्न् । 23) अ॒न्ववा॑य॒-न्तत॒ स्ततो॒ ऽन्ववा॑य-न्न॒न्ववा॑य॒-न्ततः॑ । 23) अ॒न्ववा॑य॒न्नित्य॑नु - अवा॑यन्न् । 24) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः । 25) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् । 26) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ । 27) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः । 28) असु॑रा॒ य-द्यदसु॑रा॒ असु॑रा॒ यत् । 29) यद॑क्ष्णयास्तो॒मीया॑ अक्ष्णयास्तो॒मीया॒ य-द्यद॑क्ष्णयास्तो॒मीयाः᳚ । 30) अ॒क्ष्ण॒या॒स्तो॒मीया॑ अ॒न्यथा॒ ऽन्यथा᳚ ऽक्ष्णयास्तो॒मीया॑ अक्ष्णयास्तो॒मीया॑ अ॒न्यथा᳚ । 30) अ॒क्ष्ण॒या॒स्तो॒मीया॒ इत्य॑क्ष्णया - स्तो॒मीयाः᳚ । 31) अ॒न्यथा॒ ऽनूच्या॒ नूच्या॒ न्यथा॒ ऽन्यथा॒ ऽनूच्य॑ । 32) अ॒नूच्या॒ न्यथा॒ ऽन्यथा॒ ऽनूच्या॒ नूच्या॒ न्यथा᳚ । 32) अ॒नूच्येत्य॑नु - उच्य॑ । 33) अ॒न्यथो॑ प॒दधा᳚ त्युप॒दधा᳚ त्य॒न्यथा॒ ऽन्यथो॑ प॒दधा॑ति । 34) उ॒प॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्या उप॒दधा᳚ त्युप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै । 34) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 35) भ्रातृ॑व्याभिभूत्यै॒ भव॑ति॒ भव॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑ति । 35) भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । 36) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ । 37) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ । 38) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य । 39) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः । 40) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । 41) भ॒व॒ त्या॒शु रा॒शु-र्भ॑वति भव त्या॒शुः । 42) आ॒शु स्त्रि॒वृ-त्त्रि॒वृ दा॒शु रा॒शु स्त्रि॒वृत् । 43) त्रि॒वृ दितीति॑ त्रि॒वृ-त्त्रि॒वृ दिति॑ । 43) त्रि॒वृदिति॑ त्रि - वृत् । 44) इति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दितीति॑ पु॒रस्ता᳚त् । 45) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 46) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 47) द॒धा॒ति॒ य॒ज्ञ॒मु॒खं-यँ॑ज्ञमु॒ख-न्द॑धाति दधाति यज्ञमु॒खम् । 48) य॒ज्ञ॒मु॒खं-वैँ वै य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खं-वैँ । 48) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 49) वै त्रि॒वृ-त्त्रि॒वृ-द्वै वै त्रि॒वृत् । 50) त्रि॒वृ-द्य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख-न्त्रि॒वृ-त्त्रि॒वृ-द्य॑ज्ञमु॒खम् । 50) त्रि॒वृदिति॑ त्रि - वृत् । ॥ 11 ॥ (50/60)
1) य॒ज्ञ॒मु॒ख मे॒वैव य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख मे॒व । 1) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 2) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् । 3) पु॒रस्ता॒-द्वि वि पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वि । 4) वि या॑तयति यातयति॒ वि वि या॑तयति । 5) या॒त॒य॒ति॒ व्यो॑म॒ व्यो॑म यातयति यातयति॒ व्यो॑म । 6) व्यो॑म सप्तद॒श-स्स॑प्तद॒शो व्यो॑म॒ व्यो॑म सप्तद॒शः । 6) व्यो॑मेति॒ वि - ओ॒म॒ । 7) स॒प्त॒द॒श इतीति॑ सप्तद॒श-स्स॑प्तद॒श इति॑ । 7) स॒प्त॒द॒श इति॑ सप्त - द॒शः । 8) इति॑ दक्षिण॒तो द॑क्षिण॒त इतीति॑ दक्षिण॒तः । 9) द॒क्षि॒ण॒तो ऽन्न॒ मन्न॑-न्दक्षिण॒तो द॑क्षिण॒तो ऽन्न᳚म् । 10) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 11) वै व्यो॑म॒ व्यो॑म॒ वै वै व्यो॑म । 12) व्यो॑मान्न॒ मन्नं॒-व्योँ॑म॒ व्यो॑मान्न᳚म् । 12) व्यो॑मेति॒ वि - ओ॒म॒ । 13) अन्नग्ं॑ सप्तद॒श-स्स॑प्तद॒शो ऽन्न॒ मन्नग्ं॑ सप्तद॒शः । 14) स॒प्त॒द॒शो ऽन्न॒ मन्नग्ं॑ सप्तद॒श-स्स॑प्तद॒शो ऽन्न᳚म् । 14) स॒प्त॒द॒श इति॑ सप्त - द॒शः । 15) अन्न॑ मे॒वैवान्न॒ मन्न॑ मे॒व । 16) ए॒व द॑क्षिण॒तो द॑क्षिण॒त ए॒वैव द॑क्षिण॒तः । 17) द॒क्षि॒ण॒तो ध॑त्ते धत्ते दक्षिण॒तो द॑क्षिण॒तो ध॑त्ते । 18) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 19) तस्मा॒-द्दक्षि॑णेन॒ दक्षि॑णेन॒ तस्मा॒-त्तस्मा॒-द्दक्षि॑णेन । 20) दक्षि॑णे॒ नान्न॒ मन्न॒-न्दक्षि॑णेन॒ दक्षि॑णे॒ नान्न᳚म् । 21) अन्न॑ मद्यते ऽद्य॒ते ऽन्न॒ मन्न॑ मद्यते । 22) अ॒द्य॒ते॒ ध॒रुणो॑ ध॒रुणो᳚ ऽद्यते ऽद्यते ध॒रुणः॑ । 23) ध॒रुण॑ एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो ध॒रुणो॑ ध॒रुण॑ एकवि॒ग्ं॒शः । 24) ए॒क॒वि॒ग्ं॒श इतीत्ये॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒श इति॑ । 24) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 25) इति॑ प॒श्चा-त्प॒श्चा दितीति॑ प॒श्चात् । 26) प॒श्चा-त्प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा प॒श्चा-त्प॒श्चा-त्प्र॑ति॒ष्ठा । 27) प्र॒ति॒ष्ठा वै वै प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा वै । 27) प्र॒ति॒ष्ठेति॑ प्रति - स्था । 28) वा ए॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो वै वा ए॑कवि॒ग्ं॒शः । 29) ए॒क॒वि॒ग्ं॒शः प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शः प्रति॑ष्ठित्यै । 29) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 30) प्रति॑ष्ठित्यै भा॒न्तो भा॒न्तः प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भा॒न्तः । 30) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 31) भा॒न्तः प॑ञ्चद॒शः प॑ञ्चद॒शो भा॒न्तो भा॒न्तः प॑ञ्चद॒शः । 32) प॒ञ्च॒द॒श इतीति॑ पञ्चद॒शः प॑ञ्चद॒श इति॑ । 32) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । 33) इत्यु॑त्तर॒त उ॑त्तर॒त इतीत्यु॑ त्तर॒तः । 34) उ॒त्त॒र॒त ओज॒ ओज॑ उत्तर॒त उ॑त्तर॒त ओजः॑ । 34) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 35) ओजो॒ वै वा ओज॒ ओजो॒ वै । 36) वै भा॒न्तो भा॒न्तो वै वै भा॒न्तः । 37) भा॒न्त ओज॒ ओजो॑ भा॒न्तो भा॒न्त ओजः॑ । 38) ओजः॑ पञ्चद॒शः प॑ञ्चद॒श ओज॒ ओजः॑ पञ्चद॒शः । 39) प॒ञ्च॒द॒श ओज॒ ओजः॑ पञ्चद॒शः प॑ञ्चद॒श ओजः॑ । 39) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । 40) ओज॑ ए॒वैवौज॒ ओज॑ ए॒व । 41) ए॒वोत्त॑र॒त उ॑त्तर॒त ए॒वैवोत्त॑र॒तः । 42) उ॒त्त॒र॒तो ध॑त्ते धत्त उत्तर॒त उ॑त्तर॒तो ध॑त्ते । 42) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 43) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 44) तस्मा॑ दुत्तरतोभिप्रया॒ य्यु॑त्तरतोभिप्रया॒यी तस्मा॒-त्तस्मा॑ दुत्तरतोभिप्रया॒यी । 45) उ॒त्त॒र॒तो॒भि॒प्र॒या॒यी ज॑यति जयत्युत्तरतोभिप्रया॒ य्यु॑त्तरतोभिप्रया॒यी ज॑यति । 45) उ॒त्त॒र॒तो॒भि॒प्र॒या॒यीत्यु॑त्तरतः - अ॒भि॒प्र॒या॒यी । 46) ज॒य॒ति॒ प्रतू᳚र्तिः॒ प्रतू᳚र्ति-र्जयति जयति॒ प्रतू᳚र्तिः । 47) प्रतू᳚र्ति रष्टाद॒शो᳚ ऽष्टाद॒शः प्रतू᳚र्तिः॒ प्रतू᳚र्ति रष्टाद॒शः । 47) प्रतू᳚र्ति॒रिति॒ प्र - तू॒र्तिः॒ । 48) अ॒ष्टा॒द॒श इतीत्य॑ ष्टाद॒शो᳚ ऽष्टाद॒श इति॑ । 48) अ॒ष्टा॒द॒श इत्य॑ष्टा - द॒शः । 49) इति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दितीति॑ पु॒रस्ता᳚त् । 50) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । ॥ 12 ॥ (50/66)
1) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 2) द॒धा॒ति॒ द्वौ द्वौ द॑धाति दधाति॒ द्वौ । 3) द्वौ त्रि॒वृतौ᳚ त्रि॒वृतौ॒ द्वौ द्वौ त्रि॒वृतौ᳚ । 4) त्रि॒वृता॑ वभिपू॒र्व म॑भिपू॒र्व-न्त्रि॒वृतौ᳚ त्रि॒वृता॑ वभिपू॒र्वम् । 4) त्रि॒वृता॒विति॑ त्रि - वृतौ᳚ । 5) अ॒भि॒पू॒र्वं-यँ॑ज्ञमु॒खे य॑ज्ञमु॒खे॑ ऽभिपू॒र्व म॑भिपू॒र्वं-यँ॑ज्ञमु॒खे । 5) अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । 6) य॒ज्ञ॒मु॒खे वि वि य॑ज्ञमु॒खे य॑ज्ञमु॒खे वि । 6) य॒ज्ञ॒मु॒ख इति॑ यज्ञ - मु॒खे । 7) वि या॑तयति यातयति॒ वि वि या॑तयति । 8) या॒त॒य॒ त्य॒भि॒व॒र्तो॑ ऽभिव॒र्तो या॑तयति यातय त्यभिव॒र्तः । 9) अ॒भि॒व॒र्त-स्स॑वि॒ग्ं॒श-स्स॑वि॒ग्ं॒शो॑ ऽभिव॒र्तो॑ ऽभिव॒र्त-स्स॑वि॒ग्ं॒शः । 9) अ॒भि॒व॒र्त इत्य॑भि - व॒र्तः । 10) स॒वि॒ग्ं॒श इतीति॑ सवि॒ग्ं॒श-स्स॑वि॒ग्ं॒श इति॑ । 10) स॒वि॒ग्ं॒श इति॑ स - वि॒ग्ं॒शः । 11) इति॑ दक्षिण॒तो द॑क्षिण॒त इतीति॑ दक्षिण॒तः । 12) द॒क्षि॒ण॒तो ऽन्न॒ मन्न॑-न्दक्षिण॒तो द॑क्षिण॒तो ऽन्न᳚म् । 13) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 14) वा अ॑भिव॒र्तो॑ ऽभिव॒र्तो वै वा अ॑भिव॒र्तः । 15) अ॒भि॒व॒र्तो ऽन्न॒ मन्न॑ मभिव॒र्तो॑ ऽभिव॒र्तो ऽन्न᳚म् । 15) अ॒भि॒व॒र्त इत्य॑भि - व॒र्तः । 16) अन्नग्ं॑ सवि॒ग्ं॒श-स्स॑वि॒ग्ं॒शो ऽन्न॒ मन्नग्ं॑ सवि॒ग्ं॒शः । 17) स॒वि॒ग्ं॒शो ऽन्न॒ मन्नग्ं॑ सवि॒ग्ं॒श-स्स॑वि॒ग्ं॒शो ऽन्न᳚म् । 17) स॒वि॒ग्ं॒श इति॑ स - वि॒ग्ं॒शः । 18) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व । 19) ए॒व द॑क्षिण॒तो द॑क्षिण॒त ए॒वैव द॑क्षिण॒तः । 20) द॒क्षि॒ण॒तो ध॑त्ते धत्ते दक्षिण॒तो द॑क्षिण॒तो ध॑त्ते । 21) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 22) तस्मा॒-द्दक्षि॑णेन॒ दक्षि॑णेन॒ तस्मा॒-त्तस्मा॒-द्दक्षि॑णेन । 23) दक्षि॑णे॒ नान्न॒ मन्न॒-न्दक्षि॑णेन॒ दक्षि॑णे॒ नान्न᳚म् । 24) अन्न॑ मद्यते ऽद्य॒ते ऽन्न॒ मन्न॑ मद्यते । 25) अ॒द्य॒ते॒ वर्चो॒ वर्चो᳚ ऽद्यते ऽद्यते॒ वर्चः॑ । 26) वर्चो᳚ द्वावि॒ग्ं॒शो द्वा॑वि॒ग्ं॒शो वर्चो॒ वर्चो᳚ द्वावि॒ग्ं॒शः । 27) द्वा॒वि॒ग्ं॒श इतीति॑ द्वावि॒ग्ं॒शो द्वा॑वि॒ग्ं॒श इति॑ । 28) इति॑ प॒श्चा-त्प॒श्चा दितीति॑ प॒श्चात् । 29) प॒श्चा-द्य-द्य-त्प॒श्चा-त्प॒श्चा-द्यत् । 30) य-द्विग्ं॑श॒ति-र्विग्ं॑श॒ति-र्य-द्य-द्विग्ं॑श॒तिः । 31) वि॒ग्ं॒श॒ति-र्द्वे द्वे विग्ं॑श॒ति-र्विग्ं॑श॒ति-र्द्वे । 32) द्वे तेन॒ तेन॒ द्वे द्वे तेन॑ । 32) द्वे इति॒ द्वे । 33) तेन॑ वि॒राजौ॑ वि॒राजौ॒ तेन॒ तेन॑ वि॒राजौ᳚ । 34) वि॒राजौ॒ य-द्य-द्वि॒राजौ॑ वि॒राजौ॒ यत् । 34) वि॒राजा॒विति॑ वि - राजौ᳚ । 35) य-द्द्वे द्वे य-द्य-द्द्वे । 36) द्वे प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा द्वे द्वे प्र॑ति॒ष्ठा । 36) द्वे इति॒ द्वे । 37) प्र॒ति॒ष्ठा तेन॒ तेन॑ प्रति॒ष्ठा प्र॑ति॒ष्ठा तेन॑ । 37) प्र॒ति॒ष्ठेति॑ प्रति - स्था । 38) तेन॑ वि॒राजो᳚-र्वि॒राजो॒ स्तेन॒ तेन॑ वि॒राजोः᳚ । 39) वि॒राजो॑ रे॒वैव वि॒राजो᳚-र्वि॒राजो॑ रे॒व । 39) वि॒राजो॒रिति॑ वि - राजोः᳚ । 40) ए॒वाभि॑पू॒र्व म॑भिपू॒र्व मे॒वैवा भि॑पू॒र्वम् । 41) अ॒भि॒पू॒र्व म॒न्नाद्ये॒ ऽन्नाद्ये॑ ऽभिपू॒र्व म॑भिपू॒र्व म॒न्नाद्ये᳚ । 41) अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । 42) अ॒न्नाद्ये॒ प्रति॒ प्रत्य॒ न्नाद्ये॒ ऽन्नाद्ये॒ प्रति॑ । 42) अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । 43) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 44) ति॒ष्ठ॒ति॒ तप॒ स्तप॑ स्तिष्ठति तिष्ठति॒ तपः॑ । 45) तपो॑ नवद॒शो न॑वद॒श स्तप॒ स्तपो॑ नवद॒शः । 46) न॒व॒द॒श इतीति॑ नवद॒शो न॑वद॒श इति॑ । 46) न॒व॒द॒श इति॑ नव - द॒शः । 47) इत्यु॑त्तर॒त उ॑त्तर॒त इती त्यु॑त्तर॒तः । 48) उ॒त्त॒र॒त स्तस्मा॒-त्तस्मा॑ दुत्तर॒त उ॑त्तर॒त स्तस्मा᳚त् । 48) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 49) तस्मा᳚-थ्स॒व्य-स्स॒व्य स्तस्मा॒-त्तस्मा᳚-थ्स॒व्यः । 50) स॒व्यो हस्त॑यो॒र्॒ हस्त॑यो-स्स॒व्य-स्स॒व्यो हस्त॑योः । ॥ 13 ॥ (50/66)
1) हस्त॑यो स्तप॒स्वित॑र स्तप॒स्वित॑रो॒ हस्त॑यो॒र्॒ हस्त॑यो स्तप॒स्वित॑रः । 2) त॒प॒स्वित॑रो॒ योनि॒-र्योनि॑ स्तप॒स्वित॑ रस्तप॒स्वित॑रो॒ योनिः॑ । 2) त॒प॒स्वित॑र॒ इति॑ तप॒स्वि - त॒रः॒ । 3) योनि॑ श्चतुर्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒शो योनि॒-र्योनि॑ श्चतुर्वि॒ग्ं॒शः । 4) च॒तु॒र्वि॒ग्ं॒श इतीति॑ चतुर्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒श इति॑ । 4) च॒तु॒र्वि॒ग्ं॒श इति॑ चतुः - वि॒ग्ं॒शः । 5) इति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दितीति॑ पु॒रस्ता᳚त् । 6) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 7) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 8) द॒धा॒ति॒ चतु॑र्विग्ंशत्यक्षरा॒ चतु॑र्विग्ंशत्यक्षरा दधाति दधाति॒ चतु॑र्विग्ंशत्यक्षरा । 9) चतु॑र्विग्ंशत्यक्षरा गाय॒त्री गा॑य॒त्री चतु॑र्विग्ंशत्यक्षरा॒ चतु॑र्विग्ंशत्यक्षरा गाय॒त्री । 9) चतु॑र्विग्ंशत्यक्ष॒रेति॒ चतु॑र्विग्ंशति - अ॒क्ष॒रा॒ । 10) गा॒य॒त्री गा॑य॒त्री । 11) गा॒य॒त्री य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख-ङ्गा॑य॒त्री गा॑य॒त्री य॑ज्ञमु॒खम् । 12) य॒ज्ञ॒मु॒खं-यँ॑ज्ञमु॒खम् । 12) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 13) य॒ज्ञ॒मु॒ख मे॒वैव य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख मे॒व । 13) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 14) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् । 15) पु॒रस्ता॒-द्वि वि पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वि । 16) वि या॑तयति यातयति॒ वि वि या॑तयति । 17) या॒त॒य॒ति॒ गर्भा॒ गर्भा॑ यातयति यातयति॒ गर्भाः᳚ । 18) गर्भाः᳚ पञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒शो गर्भा॒ गर्भाः᳚ पञ्चवि॒ग्ं॒शः । 19) प॒ञ्च॒वि॒ग्ं॒श इतीति॑ पञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒श इति॑ । 19) प॒ञ्च॒वि॒ग्ं॒श इति॑ पञ्च - वि॒ग्ं॒शः । 20) इति॑ दक्षिण॒तो द॑क्षिण॒त इतीति॑ दक्षिण॒तः । 21) द॒क्षि॒ण॒तो ऽन्न॒ मन्न॑-न्दक्षिण॒तो द॑क्षिण॒तो ऽन्न᳚म् । 22) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 23) वै गर्भा॒ गर्भा॒ वै वै गर्भाः᳚ । 24) गर्भा॒ अन्न॒ मन्न॒-ङ्गर्भा॒ गर्भा॒ अन्न᳚म् । 25) अन्न॑-म्पञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒शो ऽन्न॒ मन्न॑-म्पञ्चवि॒ग्ं॒शः । 26) प॒ञ्च॒वि॒ग्ं॒शो ऽन्न॒ मन्न॑-म्पञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒शो ऽन्न᳚म् । 26) प॒ञ्च॒वि॒ग्ं॒श इति॑ पञ्च - वि॒ग्ं॒शः । 27) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व । 28) ए॒व द॑क्षिण॒तो द॑क्षिण॒त ए॒वैव द॑क्षिण॒तः । 29) द॒क्षि॒ण॒तो ध॑त्ते धत्ते दक्षिण॒तो द॑क्षिण॒तो ध॑त्ते । 30) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 31) तस्मा॒-द्दक्षि॑णेन॒ दक्षि॑णेन॒ तस्मा॒-त्तस्मा॒-द्दक्षि॑णेन । 32) दक्षि॑णे॒ नान्न॒ मन्न॒-न्दक्षि॑णेन॒ दक्षि॑णे॒ नान्न᳚म् । 33) अन्न॑ मद्यते ऽद्य॒ते ऽन्न॒ मन्न॑ मद्यते । 34) अ॒द्य॒त॒ ओज॒ ओजो᳚ ऽद्यते ऽद्यत॒ ओजः॑ । 35) ओज॑ स्त्रिण॒व स्त्रि॑ण॒व ओज॒ ओज॑ स्त्रिण॒वः । 36) त्रि॒ण॒व इतीति॑ त्रिण॒व स्त्रि॑ण॒व इति॑ । 36) त्रि॒ण॒व इति॑ त्रि - न॒वः । 37) इति॑ प॒श्चा-त्प॒श्चा दितीति॑ प॒श्चात् । 38) प॒श्चा दि॒म इ॒मे प॒श्चा-त्प॒श्चा दि॒मे । 39) इ॒मे वै वा इ॒म इ॒मे वै । 40) वै लो॒का लो॒का वै वै लो॒काः । 41) लो॒का स्त्रि॑ण॒व स्त्रि॑ण॒वो लो॒का लो॒का स्त्रि॑ण॒वः । 42) त्रि॒ण॒व ए॒ष्वे॑षु त्रि॑ण॒व स्त्रि॑ण॒व ए॒षु । 42) त्रि॒ण॒व इति॑ त्रि - न॒वः । 43) ए॒ष्वे॑ वैवै ष्वे᳚(1॒) ष्वे॑व । 44) ए॒व लो॒केषु॑ लो॒केष्वे॒ वैव लो॒केषु॑ । 45) लो॒केषु॒ प्रति॒ प्रति॑ लो॒केषु॑ लो॒केषु॒ प्रति॑ । 46) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 47) ति॒ष्ठ॒ति॒ स॒म्भर॑ण-स्स॒म्भर॑ण स्तिष्ठति तिष्ठति स॒म्भर॑णः । 48) स॒म्भर॑ण स्त्रयोवि॒ग्ं॒श स्त्र॑योवि॒ग्ं॒श-स्स॒म्भर॑ण-स्स॒म्भर॑ण स्त्रयोवि॒ग्ं॒शः । 48) स॒म्भर॑ण॒ इति॑ सं - भर॑णः । 49) त्र॒यो॒वि॒ग्ं॒श इतीति॑ त्रयोवि॒ग्ं॒श स्त्र॑योवि॒ग्ं॒श इति॑ । 49) त्र॒यो॒वि॒ग्ं॒श इति॑ त्रयः - वि॒ग्ं॒शः । 50) इत्यु॑त्तर॒त उ॑त्तर॒त इती त्यु॑त्तर॒तः । ॥ 14 ॥ (50/61)
1) उ॒त्त॒र॒त स्तस्मा॒-त्तस्मा॑ दुत्तर॒त उ॑त्तर॒त स्तस्मा᳚त् । 1) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 2) तस्मा᳚-थ्स॒व्य-स्स॒व्य स्तस्मा॒-त्तस्मा᳚-थ्स॒व्यः । 3) स॒व्यो हस्त॑यो॒र्॒ हस्त॑यो-स्स॒व्य-स्स॒व्यो हस्त॑योः । 4) हस्त॑यो-स्सम्भा॒र्य॑तर-स्सम्भा॒र्य॑तरो॒ हस्त॑यो॒र्॒ हस्त॑यो-स्सम्भा॒र्य॑तरः । 5) स॒म्भा॒र्य॑तरः॒ क्रतुः॒ क्रतु॑-स्सम्भा॒र्य॑तर-स्सम्भा॒र्य॑तरः॒ क्रतुः॑ । 5) स॒म्भा॒र्य॑तर॒ इति॑ सम्भा॒र्य॑ - त॒रः॒ । 6) क्रतु॑ रेकत्रि॒ग्ं॒श ए॑कत्रि॒ग्ं॒शः क्रतुः॒ क्रतु॑ रेकत्रि॒ग्ं॒शः । 7) ए॒क॒त्रि॒ग्ं॒श इती त्ये॑कत्रि॒ग्ं॒श ए॑कत्रि॒ग्ं॒श इति॑ । 7) ए॒क॒त्रि॒ग्ं॒श इत्ये॑क - त्रि॒ग्ं॒शः । 8) इति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दितीति॑ पु॒रस्ता᳚त् । 9) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 10) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 11) द॒धा॒ति॒ वाग् वाग् द॑धाति दधाति॒ वाक् । 12) वाग् वै वै वाग् वाग् वै । 13) वै क्रतुः॒ क्रतु॒-र्वै वै क्रतुः॑ । 14) क्रतु॑-र्यज्ञमु॒खं-यँ॑ज्ञमु॒ख-ङ्क्रतुः॒ क्रतु॑-र्यज्ञमु॒खम् । 15) य॒ज्ञ॒मु॒खं-वाँग् वाग् य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खं-वाँक् । 15) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 16) वाग् य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खं-वाँग् वाग् य॑ज्ञमु॒खम् । 17) य॒ज्ञ॒मु॒ख मे॒वैव य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख मे॒व । 17) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 18) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् । 19) पु॒रस्ता॒-द्वि वि पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वि । 20) वि या॑तयति यातयति॒ वि वि या॑तयति । 21) या॒त॒य॒ति॒ ब्र॒द्ध्नस्य॑ ब्र॒द्ध्नस्य॑ यातयति यातयति ब्र॒द्ध्नस्य॑ । 22) ब्र॒द्ध्नस्य॑ वि॒ष्टपं॑-विँ॒ष्टप॑-म्ब्र॒द्ध्नस्य॑ ब्र॒द्ध्नस्य॑ वि॒ष्टप᳚म् । 23) वि॒ष्टप॑-ञ्चतुस्त्रि॒ग्ं॒श श्च॑तुस्त्रि॒ग्ं॒शो वि॒ष्टपं॑-विँ॒ष्टप॑-ञ्चतुस्त्रि॒ग्ं॒शः । 24) च॒तु॒स्त्रि॒ग्ं॒श इतीति॑ चतुस्त्रि॒ग्ं॒श श्च॑तुस्त्रि॒ग्ं॒श इति॑ । 24) च॒तु॒स्त्रि॒ग्ं॒श इति॑ चतुः - त्रि॒ग्ं॒शः । 25) इति॑ दक्षिण॒तो द॑क्षिण॒त इतीति॑ दक्षिण॒तः । 26) द॒क्षि॒ण॒तो॑ ऽसा व॒सौ द॑क्षिण॒तो द॑क्षिण॒तो॑ ऽसौ । 27) अ॒सौ वै वा अ॒सा व॒सौ वै । 28) वा आ॑दि॒त्य आ॑दि॒त्यो वै वा आ॑दि॒त्यः । 29) आ॒दि॒त्यो ब्र॒द्ध्नस्य॑ ब्र॒द्ध्न स्या॑दि॒त्य आ॑दि॒त्यो ब्र॒द्ध्नस्य॑ । 30) ब्र॒द्ध्नस्य॑ वि॒ष्टपं॑-विँ॒ष्टप॑-म्ब्र॒द्ध्नस्य॑ ब्र॒द्ध्नस्य॑ वि॒ष्टप᳚म् । 31) वि॒ष्टप॑-म्ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सं-विँ॒ष्टपं॑-विँ॒ष्टप॑-म्ब्रह्मवर्च॒सम् । 32) ब्र॒ह्म॒व॒र्च॒स मे॒वैव ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒व । 32) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 33) ए॒व द॑क्षिण॒तो द॑क्षिण॒त ए॒वैव द॑क्षिण॒तः । 34) द॒क्षि॒ण॒तो ध॑त्ते धत्ते दक्षिण॒तो द॑क्षिण॒तो ध॑त्ते । 35) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 36) तस्मा॒-द्दक्षि॑णो॒ दक्षि॑ण॒ स्तस्मा॒-त्तस्मा॒-द्दक्षि॑णः । 37) दक्षि॒णो ऽर्धो ऽर्धो॒ दक्षि॑णो॒ दक्षि॒णो ऽर्धः॑ । 38) अर्धो᳚ ब्रह्मवर्च॒सित॑रो ब्रह्मवर्च॒सित॒रो ऽर्धो ऽर्धो᳚ ब्रह्मवर्च॒सित॑रः । 39) ब्र॒ह्म॒व॒र्च॒सित॑रः प्रति॒ष्ठा प्र॑ति॒ष्ठा ब्र॑ह्मवर्च॒सित॑रो ब्रह्मवर्च॒सित॑रः प्रति॒ष्ठा । 39) ब्र॒ह्म॒व॒र्च॒सित॑र॒ इति॑ ब्रह्मवर्च॒सि - त॒रः॒ । 40) प्र॒ति॒ष्ठा त्र॑यस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शः प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा त्र॑यस्त्रि॒ग्ं॒शः । 40) प्र॒ति॒ष्ठेति॑ प्रति - स्था । 41) त्र॒य॒स्त्रि॒ग्ं॒श इतीति॑ त्रयस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒श इति॑ । 41) त्र॒य॒स्त्रि॒ग्ं॒श इति॑ त्रयः - त्रि॒ग्ं॒शः । 42) इति॑ प॒श्चा-त्प॒श्चा दितीति॑ प॒श्चात् । 43) प॒श्चा-त्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै प॒श्चा-त्प॒श्चा-त्प्रति॑ष्ठित्यै । 44) प्रति॑ष्ठित्यै॒ नाको॒ नाकः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ नाकः॑ । 44) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 45) नाक॑ ष्षट्त्रि॒ग्ं॒श ष्ष॑ट्त्रि॒ग्ं॒शो नाको॒ नाक॑ ष्षट्त्रि॒ग्ं॒शः । 46) ष॒ट्त्रि॒ग्ं॒श इतीति॑ षट्त्रि॒ग्ं॒श ष्ष॑ट्त्रि॒ग्ं॒श इति॑ । 46) ष॒ट्त्रि॒ग्ं॒श इति॑ षट् - त्रि॒ग्ं॒शः । 47) इत्यु॑त्तर॒त उ॑त्तर॒त इतीत्यु॑ त्तर॒तः । 48) उ॒त्त॒र॒त-स्सु॑व॒र्ग-स्सु॑व॒र्ग उ॑त्तर॒त उ॑त्तर॒त-स्सु॑व॒र्गः । 48) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 49) सु॒व॒र्गो वै वै सु॑व॒र्ग-स्सु॑व॒र्गो वै । 49) सु॒व॒र्ग इति॑ सुवः - गः । 50) वै लो॒को लो॒को वै वै लो॒कः । 51) लो॒को नाको॒ नाको॑ लो॒को लो॒को नाकः॑ । 52) नाक॑-स्सुव॒र्गस्य॑ सुव॒र्गस्य॒ नाको॒ नाक॑-स्सुव॒र्गस्य॑ । 53) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 53) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 54) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । 55) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । ॥ 15 ॥ (55/70) ॥ अ. 3 ॥
1) अ॒ग्ने-र्भा॒गो भा॒गो᳚ ऽग्ने र॒ग्ने-र्भा॒गः । 2) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । 3) अ॒सी तीत्य॑ स्य॒सीति॑ । 4) इति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दितीति॑ पु॒रस्ता᳚त् । 5) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 6) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 7) द॒धा॒ति॒ य॒ज्ञ॒मु॒खं-यँ॑ज्ञमु॒ख-न्द॑धाति दधाति यज्ञमु॒खम् । 8) य॒ज्ञ॒मु॒खं-वैँ वै य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खं-वैँ । 8) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 9) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 10) अ॒ग्नि-र्य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख म॒ग्नि र॒ग्नि-र्य॑ज्ञमु॒खम् । 11) य॒ज्ञ॒मु॒ख-न्दी॒क्षा दी॒क्षा य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख-न्दी॒क्षा । 11) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 12) दी॒क्षा य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख-न्दी॒क्षा दी॒क्षा य॑ज्ञमु॒खम् । 13) य॒ज्ञ॒मु॒ख-म्ब्रह्म॒ ब्रह्म॑ यज्ञमु॒खं-यँ॑ज्ञमु॒ख-म्ब्रह्म॑ । 13) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 14) ब्रह्म॑ यज्ञमु॒खं-यँ॑ज्ञमु॒ख-म्ब्रह्म॒ ब्रह्म॑ यज्ञमु॒खम् । 15) य॒ज्ञ॒मु॒ख-न्त्रि॒वृ-त्त्रि॒वृ-द्य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख-न्त्रि॒वृत् । 15) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 16) त्रि॒वृ-द्य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख-न्त्रि॒वृ-त्त्रि॒वृ-द्य॑ज्ञमु॒खम् । 16) त्रि॒वृदिति॑ त्रि - वृत् । 17) य॒ज्ञ॒मु॒ख मे॒वैव य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख मे॒व । 17) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 18) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् । 19) पु॒रस्ता॒-द्वि वि पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वि । 20) वि या॑तयति यातयति॒ वि वि या॑तयति । 21) या॒त॒य॒ति॒ नृ॒चक्ष॑सा-न्नृ॒चक्ष॑सां-याँतयति यातयति नृ॒चक्ष॑साम् । 22) नृ॒चक्ष॑सा-म्भा॒गो भा॒गो नृ॒चक्ष॑सा-न्नृ॒चक्ष॑सा-म्भा॒गः । 22) नृ॒चक्ष॑सा॒मिति॑ नृ - चक्ष॑साम् । 23) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । 24) अ॒सीती त्य॑स्य॒सीति॑ । 25) इति॑ दक्षिण॒तो द॑क्षिण॒त इतीति॑ दक्षिण॒तः । 26) द॒क्षि॒ण॒त-श्शु॑श्रु॒वाग्ंस॑-श्शुश्रु॒वाग्ंसो॑ दक्षिण॒तो द॑क्षिण॒त-श्शु॑श्रु॒वाग्ंसः॑ । 27) शु॒श्रु॒वाग्ंसो॒ वै वै शु॑श्रु॒वाग्ंस॑-श्शुश्रु॒वाग्ंसो॒ वै । 28) वै नृ॒चक्ष॑सो नृ॒चक्ष॑सो॒ वै वै नृ॒चक्ष॑सः । 29) नृ॒चक्ष॒सो ऽन्न॒ मन्न॑-न्नृ॒चक्ष॑सो नृ॒चक्ष॒सो ऽन्न᳚म् । 29) नृ॒चक्ष॑स॒ इति॑ नृ - चक्ष॑सः । 30) अन्न॑-न्धा॒ता धा॒ता ऽन्न॒ मन्न॑-न्धा॒ता । 31) धा॒ता जा॒ताय॑ जा॒ताय॑ धा॒ता धा॒ता जा॒ताय॑ । 32) जा॒ता यै॒वैव जा॒ताय॑ जा॒ता यै॒व । 33) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 34) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् । 35) अन्न॒ मप्य प्यन्न॒ मन्न॒ मपि॑ । 36) अपि॑ दधाति दधा॒ त्यप्यपि॑ दधाति । 37) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 38) तस्मा᳚ज् जा॒तो जा॒त स्तस्मा॒-त्तस्मा᳚ज् जा॒तः । 39) जा॒तो ऽन्न॒ मन्न॑-ञ्जा॒तो जा॒तो ऽन्न᳚म् । 40) अन्न॑ मत्त्य॒ त्त्यन्न॒ मन्न॑ मत्ति । 41) अ॒त्ति॒ ज॒नित्र॑-ञ्ज॒नित्र॑ मत्त्यत्ति ज॒नित्र᳚म् । 42) ज॒नित्रग्ग्॑ स्पृ॒तग्ग् स्पृ॒त-ञ्ज॒नित्र॑-ञ्ज॒नित्रग्ग्॑ स्पृ॒तम् । 43) स्पृ॒तग्ं स॑प्तद॒श-स्स॑प्तद॒श-स्स्पृ॒तग्ग् स्पृ॒तग्ं स॑प्तद॒शः । 44) स॒प्त॒द॒श-स्स्तोम॒-स्स्तोम॑-स्सप्तद॒श-स्स॑प्तद॒श-स्स्तोमः॑ । 44) स॒प्त॒द॒श इति॑ सप्त - द॒शः । 45) स्तोम॒ इतीति॒ स्तोम॒-स्स्तोम॒ इति॑ । 46) इत्या॑हा॒हे तीत्या॑ह । 47) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् । 48) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 49) वै ज॒नित्र॑-ञ्ज॒नित्रं॒-वैँ वै ज॒नित्र᳚म् । 50) ज॒नित्र॒ मन्न॒ मन्न॑-ञ्ज॒नित्र॑-ञ्ज॒नित्र॒ मन्न᳚म् । ॥ 16 ॥ (50/59)
1) अन्नग्ं॑ सप्तद॒श-स्स॑प्तद॒शो ऽन्न॒ मन्नग्ं॑ सप्तद॒शः । 2) स॒प्त॒द॒शो ऽन्न॒ मन्नग्ं॑ सप्तद॒श-स्स॑प्तद॒शो ऽन्न᳚म् । 2) स॒प्त॒द॒श इति॑ सप्त - द॒शः । 3) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व । 4) ए॒व द॑क्षिण॒तो द॑क्षिण॒त ए॒वैव द॑क्षिण॒तः । 5) द॒क्षि॒ण॒तो ध॑त्ते धत्ते दक्षिण॒तो द॑क्षिण॒तो ध॑त्ते । 6) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 7) तस्मा॒-द्दक्षि॑णेन॒ दक्षि॑णेन॒ तस्मा॒-त्तस्मा॒-द्दक्षि॑णेन । 8) दक्षि॑णे॒ नान्न॒ मन्न॒-न्दक्षि॑णेन॒ दक्षि॑णे॒ नान्न᳚म् । 9) अन्न॑ मद्यते ऽद्य॒ते ऽन्न॒ मन्न॑ मद्यते । 10) अ॒द्य॒ते॒ मि॒त्रस्य॑ मि॒त्रस्या᳚ द्यते ऽद्यते मि॒त्रस्य॑ । 11) मि॒त्रस्य॑ भा॒गो भा॒गो मि॒त्रस्य॑ मि॒त्रस्य॑ भा॒गः । 12) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । 13) अ॒सीती त्य॑स्य॒ सीति॑ । 14) इति॑ प॒श्चा-त्प॒श्चा दितीति॑ प॒श्चात् । 15) प॒श्चा-त्प्रा॒णः प्रा॒णः प॒श्चा-त्प॒श्चा-त्प्रा॒णः । 16) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै । 16) प्रा॒ण इति॑ प्र - अ॒नः । 17) वै मि॒त्रो मि॒त्रो वै वै मि॒त्रः । 18) मि॒त्रो॑ ऽपा॒नो॑ ऽपा॒नो मि॒त्रो मि॒त्रो॑ ऽपा॒नः । 19) अ॒पा॒नो वरु॑णो॒ वरु॑णो ऽपा॒नो॑ ऽपा॒नो वरु॑णः । 19) अ॒पा॒न इत्य॑प - अ॒नः । 20) वरु॑णः प्राणापा॒नौ प्रा॑णापा॒नौ वरु॑णो॒ वरु॑णः प्राणापा॒नौ । 21) प्रा॒णा॒पा॒ना वे॒वैव प्रा॑णापा॒नौ प्रा॑णापा॒ना वे॒व । 21) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । 22) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । 23) अ॒स्मि॒-न्द॒धा॒ति॒ द॒धा॒ त्य॒स्मि॒-न्न॒स्मि॒-न्द॒धा॒ति॒ । 24) द॒धा॒ति॒ दि॒वो दि॒वो द॑धाति दधाति दि॒वः । 25) दि॒वो वृ॒ष्टि-र्वृ॒ष्टि-र्दि॒वो दि॒वो वृ॒ष्टिः । 26) वृ॒ष्टि-र्वाता॒ वाता॑ वृ॒ष्टि-र्वृ॒ष्टि-र्वाताः᳚ । 27) वाता᳚-स्स्पृ॒ता-स्स्पृ॒ता वाता॒ वाता᳚-स्स्पृ॒ताः । 28) स्पृ॒ता ए॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒श-स्स्पृ॒ता-स्स्पृ॒ता ए॑कवि॒ग्ं॒शः । 29) ए॒क॒वि॒ग्ं॒श-स्स्तोम॒-स्स्तोम॑ एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श-स्स्तोमः॑ । 29) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 30) स्तोम॒ इतीति॒ स्तोम॒-स्स्तोम॒ इति॑ । 31) इत्या॑ हा॒हे तीत्या॑ह । 32) आ॒ह॒ प्र॒ति॒ष्ठा प्र॑ति॒ष्ठा ऽऽहा॑ह प्रति॒ष्ठा । 33) प्र॒ति॒ष्ठा वै वै प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा वै । 33) प्र॒ति॒ष्ठेति॑ प्रति - स्था । 34) वा ए॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो वै वा ए॑कवि॒ग्ं॒शः । 35) ए॒क॒वि॒ग्ं॒शः प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शः प्रति॑ष्ठित्यै । 35) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 36) प्रति॑ष्ठित्या॒ इन्द्र॒ स्येन्द्र॑स्य॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ इन्द्र॑स्य । 36) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 37) इन्द्र॑स्य भा॒गो भा॒ग इन्द्र॒ स्येन्द्र॑स्य भा॒गः । 38) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । 39) अ॒सीती त्य॑स्य॒ सीति॑ । 40) इत्यु॑त्तर॒त उ॑त्तर॒त इती त्यु॑त्तर॒तः । 41) उ॒त्त॒र॒त ओज॒ ओज॑ उत्तर॒त उ॑त्तर॒त ओजः॑ । 41) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 42) ओजो॒ वै वा ओज॒ ओजो॒ वै । 43) वा इन्द्र॒ इन्द्रो॒ वै वा इन्द्रः॑ । 44) इन्द्र॒ ओज॒ ओज॒ इन्द्र॒ इन्द्र॒ ओजः॑ । 45) ओजो॒ विष्णु॒-र्विष्णु॒ रोज॒ ओजो॒ विष्णुः॑ । 46) विष्णु॒ रोज॒ ओजो॒ विष्णु॒-र्विष्णु॒ रोजः॑ । 47) ओजः॑, क्ष॒त्र-ङ्क्ष॒त्र मोज॒ ओजः॑, क्ष॒त्रम् । 48) क्ष॒त्र मोज॒ ओजः॑, क्ष॒त्र-ङ्क्ष॒त्र मोजः॑ । 49) ओजः॑ पञ्चद॒शः प॑ञ्चद॒श ओज॒ ओजः॑ पञ्चद॒शः । 50) प॒ञ्च॒द॒श ओज॒ ओजः॑ पञ्चद॒शः प॑ञ्चद॒श ओजः॑ । 50) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । ॥ 17 ॥ (50/60)
1) ओज॑ ए॒वै वौज॒ ओज॑ ए॒व । 2) ए॒वोत्त॑र॒त उ॑त्तर॒त ए॒वैवोत्त॑र॒तः । 3) उ॒त्त॒र॒तो ध॑त्ते धत्त उत्तर॒त उ॑त्तर॒तो ध॑त्ते । 3) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 4) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 5) तस्मा॑ दुत्तरतोभिप्रया॒ य्यु॑त्तरतोभिप्रया॒यी तस्मा॒-त्तस्मा॑ दुत्तरतोभिप्रया॒यी । 6) उ॒त्त॒र॒तो॒भि॒प्र॒या॒यी ज॑यति जय त्युत्तरतोभिप्रया॒ य्यु॑त्तरतोभिप्रया॒यी ज॑यति । 6) उ॒त्त॒र॒तो॒भि॒प्र॒या॒यीत्यु॑त्तरतः - अ॒भि॒प्र॒या॒यी । 7) ज॒य॒ति॒ वसू॑नां॒-वँसू॑ना-ञ्जयति जयति॒ वसू॑नाम् । 8) वसू॑ना-म्भा॒गो भा॒गो वसू॑नां॒-वँसू॑ना-म्भा॒गः । 9) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । 10) अ॒सीती त्य॑स्य॒ सीति॑ । 11) इति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दितीति॑ पु॒रस्ता᳚त् । 12) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 13) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 14) द॒धा॒ति॒ य॒ज्ञ॒मु॒खं-यँ॑ज्ञमु॒ख-न्द॑धाति दधाति यज्ञमु॒खम् । 15) य॒ज्ञ॒मु॒खं-वैँ वै य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खं-वैँ । 15) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 16) वै वस॑वो॒ वस॑वो॒ वै वै वस॑वः । 17) वस॑वो यज्ञमु॒खं-यँ॑ज्ञमु॒खं-वँस॑वो॒ वस॑वो यज्ञमु॒खम् । 18) य॒ज्ञ॒मु॒खग्ं रु॒द्रा रु॒द्रा य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खग्ं रु॒द्राः । 18) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 19) रु॒द्रा य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खग्ं रु॒द्रा रु॒द्रा य॑ज्ञमु॒खम् । 20) य॒ज्ञ॒मु॒ख-ञ्च॑तुर्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒शो य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख-ञ्च॑तुर्वि॒ग्ं॒शः । 20) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 21) च॒तु॒र्वि॒ग्ं॒शो य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख-ञ्च॑तुर्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒शो य॑ज्ञमु॒खम् । 21) च॒तु॒र्वि॒ग्ं॒श इति॑ चतुः - वि॒ग्ं॒शः । 22) य॒ज्ञ॒मु॒ख मे॒वैव य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख मे॒व । 22) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 23) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् । 24) पु॒रस्ता॒-द्वि वि पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वि । 25) वि या॑तयति यातयति॒ वि वि या॑तयति । 26) या॒त॒य॒ त्या॒दि॒त्याना॑ मादि॒त्यानां᳚-याँतयति यातय त्यादि॒त्याना᳚म् । 27) आ॒दि॒त्याना᳚-म्भा॒गो भा॒ग आ॑दि॒त्याना॑ मादि॒त्याना᳚-म्भा॒गः । 28) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । 29) अ॒सीती त्य॑स्य॒ सीति॑ । 30) इति॑ दक्षिण॒तो द॑क्षिण॒त इतीति॑ दक्षिण॒तः । 31) द॒क्षि॒ण॒तो ऽन्न॒ मन्न॑-न्दक्षिण॒तो द॑क्षिण॒तो ऽन्न᳚म् । 32) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 33) वा आ॑दि॒त्या आ॑दि॒त्या वै वा आ॑दि॒त्याः । 34) आ॒दि॒त्या अन्न॒ मन्न॑ मादि॒त्या आ॑दि॒त्या अन्न᳚म् । 35) अन्न॑-म्म॒रुतो॑ म॒रुतो ऽन्न॒ मन्न॑-म्म॒रुतः॑ । 36) म॒रुतो ऽन्न॒ मन्न॑-म्म॒रुतो॑ म॒रुतो ऽन्न᳚म् । 37) अन्न॒-ङ्गर्भा॒ गर्भा॒ अन्न॒ मन्न॒-ङ्गर्भाः᳚ । 38) गर्भा॒ अन्न॒ मन्न॒-ङ्गर्भा॒ गर्भा॒ अन्न᳚म् । 39) अन्न॑-म्पञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒शो ऽन्न॒ मन्न॑-म्पञ्चवि॒ग्ं॒शः । 40) प॒ञ्च॒वि॒ग्ं॒शो ऽन्न॒ मन्न॑-म्पञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒शो ऽन्न᳚म् । 40) प॒ञ्च॒वि॒ग्ं॒श इति॑ पञ्च - वि॒ग्ं॒शः । 41) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व । 42) ए॒व द॑क्षिण॒तो द॑क्षिण॒त ए॒वैव द॑क्षिण॒तः । 43) द॒क्षि॒ण॒तो ध॑त्ते धत्ते दक्षिण॒तो द॑क्षिण॒तो ध॑त्ते । 44) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 45) तस्मा॒-द्दक्षि॑णेन॒ दक्षि॑णेन॒ तस्मा॒-त्तस्मा॒-द्दक्षि॑णेन । 46) दक्षि॑णे॒ नान्न॒ मन्न॒-न्दक्षि॑णेन॒ दक्षि॑णे॒ नान्न᳚म् । 47) अन्न॑ मद्यते ऽद्य॒ते ऽन्न॒ मन्न॑ मद्यते । 48) अ॒द्य॒ते ऽदि॑त्या॒ अदि॑त्या अद्यते ऽद्य॒ते ऽदि॑त्यै । 49) अदि॑त्यै भा॒गो भा॒गो ऽदि॑त्या॒ अदि॑त्यै भा॒गः । 50) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । ॥ 18 ॥ (50/58)
1) अ॒सीती त्य॑स्य॒ सीति॑ । 2) इति॑ प॒श्चा-त्प॒श्चा दितीति॑ प॒श्चात् । 3) प॒श्चा-त्प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा प॒श्चा-त्प॒श्चा-त्प्र॑ति॒ष्ठा । 4) प्र॒ति॒ष्ठा वै वै प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा वै । 4) प्र॒ति॒ष्ठेति॑ प्रति - स्था । 5) वा अदि॑ति॒ रदि॑ति॒-र्वै वा अदि॑तिः । 6) अदि॑तिः प्रति॒ष्ठा प्र॑ति॒ष्ठा ऽदि॑ति॒ रदि॑तिः प्रति॒ष्ठा । 7) प्र॒ति॒ष्ठा पू॒षा पू॒षा प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा पू॒षा । 7) प्र॒ति॒ष्ठेति॑ प्रति - स्था । 8) पू॒षा प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा पू॒षा पू॒षा प्र॑ति॒ष्ठा । 9) प्र॒ति॒ष्ठा त्रि॑ण॒व स्त्रि॑ण॒वः प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा त्रि॑ण॒वः । 9) प्र॒ति॒ष्ठेति॑ प्रति - स्था । 10) त्रि॒ण॒वः प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै त्रिण॒व स्त्रि॑ण॒वः प्रति॑ष्ठित्यै । 10) त्रि॒ण॒व इति॑ त्रि - न॒वः । 11) प्रति॑ष्ठित्यै दे॒वस्य॑ दे॒वस्य॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै दे॒वस्य॑ । 11) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 12) दे॒वस्य॑ सवि॒तु-स्स॑वि॒तु-र्दे॒वस्य॑ दे॒वस्य॑ सवि॒तुः । 13) स॒वि॒तु-र्भा॒गो भा॒ग-स्स॑वि॒तु-स्स॑वि॒तु-र्भा॒गः । 14) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । 15) अ॒सीती त्य॑स्य॒ सीति॑ । 16) इत्यु॑त्तर॒त उ॑त्तर॒त इती त्यु॑त्तर॒तः । 17) उ॒त्त॒र॒तो ब्रह्म॒ ब्रह्मो᳚ त्तर॒त उ॑त्तर॒तो ब्रह्म॑ । 17) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 18) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै । 19) वै दे॒वो दे॒वो वै वै दे॒वः । 20) दे॒व-स्स॑वि॒ता स॑वि॒ता दे॒वो दे॒व-स्स॑वि॒ता । 21) स॒वि॒ता ब्रह्म॒ ब्रह्म॑ सवि॒ता स॑वि॒ता ब्रह्म॑ । 22) ब्रह्म॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॒ ब्रह्म॒ बृह॒स्पतिः॑ । 23) बृह॒स्पति॒-र्ब्रह्म॒ ब्रह्म॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑ । 24) ब्रह्म॑ चतुष्टो॒म श्च॑तुष्टो॒मो ब्रह्म॒ ब्रह्म॑ चतुष्टो॒मः । 25) च॒तु॒ष्टो॒मो ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ञ्च॑तुष्टो॒म श्च॑तुष्टो॒मो ब्र॑ह्मवर्च॒सम् । 25) च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः । 26) ब्र॒ह्म॒व॒र्च॒स मे॒वैव ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒व । 26) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 27) ए॒वोत्त॑र॒त उ॑त्तर॒त ए॒वैवो त्त॑र॒तः । 28) उ॒त्त॒र॒तो ध॑त्ते धत्त उत्तर॒त उ॑त्तर॒तो ध॑त्ते । 28) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 29) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 30) तस्मा॒ दुत्त॑र॒ उत्त॑र॒ स्तस्मा॒-त्तस्मा॒ दुत्त॑रः । 31) उत्त॒रो ऽर्धो ऽर्ध॒ उत्त॑र॒ उत्त॒रो ऽर्धः॑ । 31) उत्त॑र॒ इत्युत् - त॒रः॒ । 32) अर्धो᳚ ब्रह्मवर्च॒सित॑रो ब्रह्मवर्च॒सित॒रो ऽर्धो ऽर्धो᳚ ब्रह्मवर्च॒सित॑रः । 33) ब्र॒ह्म॒व॒र्च॒सित॑र-स्सावि॒त्रव॑ती सावि॒त्रव॑ती ब्रह्मवर्च॒सित॑रो ब्रह्मवर्च॒सित॑र-स्सावि॒त्रव॑ती । 33) ब्र॒ह्म॒व॒र्च॒सित॑र॒ इति॑ ब्रह्मवर्च॒सि - त॒रः॒ । 34) सा॒वि॒त्रव॑ती भवति भवति सावि॒त्रव॑ती सावि॒त्रव॑ती भवति । 34) सा॒वि॒त्रव॒तीति॑ सावि॒त्र - व॒ती॒ । 35) भ॒व॒ति॒ प्रसू᳚त्यै॒ प्रसू᳚त्यै भवति भवति॒ प्रसू᳚त्यै । 36) प्रसू᳚त्यै॒ तस्मा॒-त्तस्मा॒-त्प्रसू᳚त्यै॒ प्रसू᳚त्यै॒ तस्मा᳚त् । 36) प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । 37) तस्मा᳚-द्ब्राह्म॒णाना᳚-म्ब्राह्म॒णाना॒-न्तस्मा॒-त्तस्मा᳚-द्ब्राह्म॒णाना᳚म् । 38) ब्रा॒ह्म॒णाना॒ मुदी॒ च्युदी॑ची ब्राह्म॒णाना᳚-म्ब्राह्म॒णाना॒ मुदी॑ची । 39) उदी॑ची स॒नि-स्स॒नि रुदी॒ च्युदी॑ची स॒निः । 40) स॒निः प्रसू॑ता॒ प्रसू॑ता स॒नि-स्स॒निः प्रसू॑ता । 41) प्रसू॑ता ध॒र्त्रो ध॒र्त्रः प्रसू॑ता॒ प्रसू॑ता ध॒र्त्रः । 41) प्रसू॒तेति॒ प्र - सू॒ता॒ । 42) ध॒र्त्र श्च॑तुष्टो॒म श्च॑तुष्टो॒मो ध॒र्त्रो ध॒र्त्र श्च॑तुष्टो॒मः । 43) च॒तु॒ष्टो॒म इतीति॑ चतुष्टो॒म श्च॑तुष्टो॒म इति॑ । 43) च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः । 44) इति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दितीति॑ पु॒रस्ता᳚त् । 45) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 46) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 47) द॒धा॒ति॒ य॒ज्ञ॒मु॒खं-यँ॑ज्ञमु॒ख-न्द॑धाति दधाति यज्ञमु॒खम् । 48) य॒ज्ञ॒मु॒खं-वैँ वै य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खं-वैँ । 48) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 49) वै ध॒र्त्रो ध॒र्त्रो वै वै ध॒र्त्रः । 50) ध॒र्त्रो य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख-न्ध॒र्त्रो ध॒र्त्रो य॑ज्ञमु॒खम् । ॥ 19 ॥ (50/66)
1) य॒ज्ञ॒मु॒ख-ञ्च॑तुष्टो॒म श्च॑तुष्टो॒मो य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख-ञ्च॑तुष्टो॒मः । 1) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 2) च॒तु॒ष्टो॒मो य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख-ञ्च॑तुष्टो॒म श्च॑तुष्टो॒मो य॑ज्ञमु॒खम् । 2) च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः । 3) य॒ज्ञ॒मु॒ख मे॒वैव य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख मे॒व । 3) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 4) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् । 5) पु॒रस्ता॒-द्वि वि पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वि । 6) वि या॑तयति यातयति॒ वि वि या॑तयति । 7) या॒त॒य॒ति॒ यावा॑नां॒-याँवा॑नां-याँतयति यातयति॒ यावा॑नाम् । 8) यावा॑ना-म्भा॒गो भा॒गो यावा॑नां॒-याँवा॑ना-म्भा॒गः । 9) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । 10) अ॒सीती त्य॑स्य॒ सीति॑ । 11) इति॑ दक्षिण॒तो द॑क्षिण॒त इतीति॑ दक्षिण॒तः । 12) द॒क्षि॒ण॒तो मासा॒ मासा॑ दक्षिण॒तो द॑क्षिण॒तो मासाः᳚ । 13) मासा॒ वै वै मासा॒ मासा॒ वै । 14) वै यावा॒ यावा॒ वै वै यावाः᳚ । 15) यावा॑ अर्धमा॒सा अ॑र्धमा॒सा यावा॒ यावा॑ अर्धमा॒साः । 16) अ॒र्ध॒मा॒सा अया॑वा॒ अया॑वा अर्धमा॒सा अ॑र्धमा॒सा अया॑वाः । 16) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः । 17) अया॑वा॒ स्तस्मा॒-त्तस्मा॒ दया॑वा॒ अया॑वा॒ स्तस्मा᳚त् । 18) तस्मा᳚-द्दक्षि॒णावृ॑तो दक्षि॒णावृ॑त॒ स्तस्मा॒-त्तस्मा᳚-द्दक्षि॒णावृ॑तः । 19) द॒क्षि॒णावृ॑तो॒ मासा॒ मासा॑ दक्षि॒णावृ॑तो दक्षि॒णावृ॑तो॒ मासाः᳚ । 19) द॒क्षि॒णावृ॑त॒ इति॑ दक्षि॒णा - आ॒वृ॒तः॒ । 20) मासा॒ अन्न॒ मन्न॒-म्मासा॒ मासा॒ अन्न᳚म् । 21) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 22) वै यावा॒ यावा॒ वै वै यावाः᳚ । 23) यावा॒ अन्न॒ मन्नं॒-याँवा॒ यावा॒ अन्न᳚म् । 24) अन्न॑-म्प्र॒जाः प्र॒जा अन्न॒ मन्न॑-म्प्र॒जाः । 25) प्र॒जा अन्न॒ मन्न॑-म्प्र॒जाः प्र॒जा अन्न᳚म् । 25) प्र॒जा इति॑ प्र - जाः । 26) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व । 27) ए॒व द॑क्षिण॒तो द॑क्षिण॒त ए॒वैव द॑क्षिण॒तः । 28) द॒क्षि॒ण॒तो ध॑त्ते धत्ते दक्षिण॒तो द॑क्षिण॒तो ध॑त्ते । 29) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 30) तस्मा॒-द्दक्षि॑णेन॒ दक्षि॑णेन॒ तस्मा॒-त्तस्मा॒-द्दक्षि॑णेन । 31) दक्षि॑णे॒ नान्न॒ मन्न॒-न्दक्षि॑णेन॒ दक्षि॑णे॒ नान्न᳚म् । 32) अन्न॑ मद्यते ऽद्य॒ते ऽन्न॒ मन्न॑ मद्यते । 33) अ॒द्य॒त॒ ऋ॒भू॒णा मृ॑भू॒णा म॑द्यते ऽद्यत ऋभू॒णाम् । 34) ऋ॒भू॒णा-म्भा॒गो भा॒ग ऋ॑भू॒णा मृ॑भू॒णा-म्भा॒गः । 35) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । 36) अ॒सीती त्य॑स्य॒ सीति॑ । 37) इति॑ प॒श्चा-त्प॒श्चा दितीति॑ प॒श्चात् । 38) प॒श्चा-त्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै प॒श्चा-त्प॒श्चा-त्प्रति॑ष्ठित्यै । 39) प्रति॑ष्ठित्यै विव॒र्तो वि॑व॒र्तः प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै विव॒र्तः । 39) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 40) वि॒व॒र्तो᳚ ऽष्टाचत्वारि॒ग्ं॒शो᳚ ऽष्टाचत्वारि॒ग्ं॒शो वि॑व॒र्तो वि॑व॒र्तो᳚ ऽष्टाचत्वारि॒ग्ं॒शः । 40) वि॒व॒र्त इति॑ वि - व॒र्तः । 41) अ॒ष्टा॒च॒त्वा॒रि॒ग्ं॒श इतीत्य॑ ष्टाचत्वारि॒ग्ं॒शो᳚ ऽष्टाचत्वारि॒ग्ं॒श इति॑ । 41) अ॒ष्टा॒च॒त्वा॒रि॒ग्ं॒श इत्य॑ष्टा - च॒त्वा॒रि॒ग्ं॒शः । 42) इत्यु॑त्तर॒त उ॑त्तर॒त इती त्यु॑त्तर॒तः । 43) उ॒त्त॒र॒तो॑ ऽनयो॑ र॒नयो॑ रुत्तर॒त उ॑त्तर॒तो॑ ऽनयोः᳚ । 43) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 44) अ॒नयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ र॒नयो॑ र॒नयो᳚-र्लो॒कयोः᳚ । 45) लो॒कयो᳚-स्सवीर्य॒त्वाय॑ सवीर्य॒त्वाय॑ लो॒कयो᳚-र्लो॒कयो᳚-स्सवीर्य॒त्वाय॑ । 46) स॒वी॒र्य॒त्वाय॒ तस्मा॒-त्तस्मा᳚-थ्सवीर्य॒त्वाय॑ सवीर्य॒त्वाय॒ तस्मा᳚त् । 46) स॒वी॒र्य॒त्वायेति॑ सवीर्य - त्वाय॑ । 47) तस्मा॑ दि॒मा वि॒मौ तस्मा॒-त्तस्मा॑ दि॒मौ । 48) इ॒मौ लो॒कौ लो॒का वि॒मा वि॒मौ लो॒कौ । 49) लो॒कौ स॒माव॑द्वीर्यौ स॒माव॑द्वीर्यौ लो॒कौ लो॒कौ स॒माव॑द्वीर्यौ । 50) स॒माव॑द्वीर्यौ॒ यस्य॒ यस्य॑ स॒माव॑द्वीर्यौ स॒माव॑द्वीर्यौ॒ यस्य॑ । 50) स॒माव॑द्वीर्या॒विति॑ स॒माव॑त् - वी॒र्यौ॒ । ॥ 20 ॥ (50/62)
1) यस्य॒ मुख्य॑वती॒-र्मुख्य॑वती॒-र्यस्य॒ यस्य॒ मुख्य॑वतीः । 2) मुख्य॑वतीः पु॒रस्ता᳚-त्पु॒रस्ता॒-न्मुख्य॑वती॒-र्मुख्य॑वतीः पु॒रस्ता᳚त् । 2) मुख्य॑वती॒रिति॒ मुख्य॑ - व॒तीः॒ । 3) पु॒रस्ता॑ दुपधी॒यन्त॑ उपधी॒यन्ते॑ पु॒रस्ता᳚-त्पु॒रस्ता॑ दुपधी॒यन्ते᳚ । 4) उ॒प॒धी॒यन्ते॒ मुख्यो॒ मुख्य॑ उपधी॒यन्त॑ उपधी॒यन्ते॒ मुख्यः॑ । 4) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 5) मुख्य॑ ए॒वैव मुख्यो॒ मुख्य॑ ए॒व । 6) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 7) भ॒व॒त्या भ॑वति भव॒त्या । 8) आ ऽस्या॒स्या ऽस्य॑ । 9) अ॒स्य॒ मुख्यो॒ मुख्यो᳚ ऽस्यास्य॒ मुख्यः॑ । 10) मुख्यो॑ जायते जायते॒ मुख्यो॒ मुख्यो॑ जायते । 11) जा॒य॒ते॒ यस्य॒ यस्य॑ जायते जायते॒ यस्य॑ । 12) यस्या न्न॑वती॒ रन्न॑वती॒-र्यस्य॒ यस्या न्न॑वतीः । 13) अन्न॑वती-र्दक्षिण॒तो द॑क्षिण॒तो ऽन्न॑वती॒ रन्न॑वती-र्दक्षिण॒तः । 13) अन्न॑वती॒रित्यन्न॑ - व॒तीः॒ । 14) द॒क्षि॒ण॒तो ऽत्त्यत्ति॑ दक्षिण॒तो द॑क्षिण॒तो ऽत्ति॑ । 15) अत्त्यन्न॒ मन्न॒ मत्त्य त्त्यन्न᳚म् । 16) अन्न॒ मा ऽन्न॒ मन्न॒ मा । 17) आ ऽस्या॒स्या ऽस्य॑ । 18) अ॒स्या॒ न्ना॒दो᳚ ऽन्ना॒दो᳚ ऽस्यास्या न्ना॒दः । 19) अ॒न्ना॒दो जा॑यते जायते ऽन्ना॒दो᳚ ऽन्ना॒दो जा॑यते । 19) अ॒न्ना॒द इत्य॑न्न - अ॒दः । 20) जा॒य॒ते॒ यस्य॒ यस्य॑ जायते जायते॒ यस्य॑ । 21) यस्य॑ प्रति॒ष्ठाव॑तीः प्रति॒ष्ठाव॑ती॒-र्यस्य॒ यस्य॑ प्रति॒ष्ठाव॑तीः । 22) प्र॒ति॒ष्ठाव॑तीः प॒श्चा-त्प॒श्चा-त्प्र॑ति॒ष्ठाव॑तीः प्रति॒ष्ठाव॑तीः प॒श्चात् । 22) प्र॒ति॒ष्ठाव॑ ती॒रिति॑ प्रति॒ष्ठा - व॒तीः॒ । 23) प॒श्चा-त्प्रति॒ प्रति॑ प॒श्चा-त्प॒श्चा-त्प्रति॑ । 24) प्रत्ये॒ वैव प्रति॒ प्रत्ये॒व । 25) ए॒व ति॑ष्ठति तिष्ठ त्ये॒वैव ति॑ष्ठति । 26) ति॒ष्ठ॒ति॒ यस्य॒ यस्य॑ तिष्ठति तिष्ठति॒ यस्य॑ । 27) यस्यौ ज॑स्वती॒ रोज॑स्वती॒-र्यस्य॒ यस्यौज॑स्वतीः । 28) ओज॑स्वती रुत्तर॒त उ॑त्तर॒त ओज॑स्वती॒ रोज॑स्वती रुत्तर॒तः । 29) उ॒त्त॒र॒त ओ॑ज॒ स्व्यो॑ज॒ स्व्यु॑त्तर॒त उ॑त्तर॒त ओ॑ज॒स्वी । 29) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 30) ओ॒ज॒ स्व्ये॑वै वौज॒ स्व्यो॑ज॒ स्व्ये॑व । 31) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 32) भ॒व॒त्या भ॑वति भव॒त्या । 33) आ ऽस्या॒स्या ऽस्य॑ । 34) अ॒स्यौ॒ज॒ स्व्यो॑ज॒ स्व्य॑स्या स्यौज॒स्वी । 35) ओ॒ज॒स्वी जा॑यते जायत ओज॒ स्व्यो॑ज॒स्वी जा॑यते । 36) जा॒य॒ते॒ ऽर्को᳚ ऽर्को जा॑यते जायते॒ ऽर्कः । 37) अ॒र्को वै वा अ॒र्को᳚ ऽर्को वै । 38) वा ए॒ष ए॒ष वै वा ए॒षः । 39) ए॒ष य-द्यदे॒ष ए॒ष यत् । 40) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 41) अ॒ग्नि स्तस्य॒ तस्या॒ ग्नि र॒ग्नि स्तस्य॑ । 42) तस्यै॒त दे॒त-त्तस्य॒ तस्यै॒तत् । 43) ए॒त दे॒वैवैत दे॒त दे॒व । 44) ए॒व स्तो॒त्रग्ग् स्तो॒त्र मे॒वैव स्तो॒त्रम् । 45) स्तो॒त्र मे॒तदे॒त-थ्स्तो॒त्रग्ग् स्तो॒त्र मे॒तत् । 46) ए॒त च्छ॒स्त्रग्ं श॒स्त्र मे॒त दे॒त च्छ॒स्त्रम् । 47) श॒स्त्रं-यँ-द्यच्छ॒ स्त्रग्ं श॒स्त्रं-यँत् । 48) यदे॒षैषा य-द्यदे॒षा । 49) ए॒षा वि॒धा वि॒धैषैषा वि॒धा । 50) वि॒धा वि॑धी॒यते॑ विधी॒यते॑ वि॒धा वि॒धा वि॑धी॒यते᳚ । 50) वि॒धेति॑ वि - धा । ॥ 21 ॥ (50/57)
1) वि॒धी॒यते॒ ऽर्के᳚ ऽर्के वि॑धी॒यते॑ विधी॒यते॒ ऽर्के । 1) वि॒धी॒यत॒ इति॑ वि - धी॒यते᳚ । 2) अ॒र्क ए॒वैवार्के᳚ ऽर्क ए॒व । 3) ए॒व त-त्तदे॒ वैव तत् । 4) तद॒र्क्य॑ म॒र्क्य॑-न्त-त्तद॒र्क्य᳚म् । 5) अ॒र्क्य॑ मन्वन् व॒र्क्य॑ म॒र्क्य॑ मनु॑ । 6) अनु॒ वि व्यन् वनु॒ वि । 7) वि धी॑यते धीयते॒ वि वि धी॑यते । 8) धी॒य॒ते ऽत्त्यत्ति॑ धीयते धीय॒ते ऽत्ति॑ । 9) अत्त्यन्न॒ मन्न॒ मत्त्य त्त्यन्न᳚म् । 10) अन्न॒ मा ऽन्न॒ मन्न॒ मा । 11) आ ऽस्या॒स्या ऽस्य॑ । 12) अ॒स्या॒ न्ना॒दो᳚ ऽन्ना॒दो᳚ ऽस्यास्या न्ना॒दः । 13) अ॒न्ना॒दो जा॑यते जायते ऽन्ना॒दो᳚ ऽन्ना॒दो जा॑यते । 13) अ॒न्ना॒द इत्य॑न्न - अ॒दः । 14) जा॒य॒ते॒ यस्य॒ यस्य॑ जायते जायते॒ यस्य॑ । 15) यस्यै॒षैषा यस्य॒ यस्यै॒षा । 16) ए॒षा वि॒धा वि॒धैषैषा वि॒धा । 17) वि॒धा वि॑धी॒यते॑ विधी॒यते॑ वि॒धा वि॒धा वि॑धी॒यते᳚ । 17) वि॒धेति॑ वि - धा । 18) वि॒धी॒यते॒ यो यो वि॑धी॒यते॑ विधी॒यते॒ यः । 18) वि॒धी॒यत॒ इति॑ वि - धी॒यते᳚ । 19) य उ॑ वु॒ यो य उ॑ । 20) उ॒ च॒ च॒ वु॒ च॒ । 21) चै॒ना॒ मे॒ना॒-ञ्च॒ चै॒ना॒म् । 22) ए॒ना॒ मे॒व मे॒व मे॑ना मेना मे॒वम् । 23) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 24) वेद॒ सृष्टी॒-स्सृष्टी॒-र्वेद॒ वेद॒ सृष्टीः᳚ । 25) सृष्टी॒ रुपोप॒ सृष्टी॒-स्सृष्टी॒ रुप॑ । 26) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 27) द॒धा॒ति॒ य॒था॒सृ॒ष्टं-यँ॑थासृ॒ष्ट-न्द॑धाति दधाति यथासृ॒ष्टम् । 28) य॒था॒सृ॒ष्ट मे॒वैव य॑थासृ॒ष्टं-यँ॑थासृ॒ष्ट मे॒व । 28) य॒था॒सृ॒ष्टमिति॑ यथा - सृ॒ष्टम् । 29) ए॒वावा वै॒वै वाव॑ । 30) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 31) रु॒न्धे॒ न न रु॑न्धे रुन्धे॒ न । 32) न वै वै न न वै । 33) वा इ॒द मि॒दं-वैँ वा इ॒दम् । 34) इ॒द-न्दिवा॒ दिवे॒द मि॒द-न्दिवा᳚ । 35) दिवा॒ न न दिवा॒ दिवा॒ न । 36) न नक्त॒-न्नक्त॒-न्न न नक्त᳚म् । 37) नक्त॑ मासीदासी॒-न्नक्त॒-न्नक्त॑ मासीत् । 38) आ॒सी॒ दव्या॑वृत्त॒ मव्या॑वृत्त मासी दासी॒ दव्या॑वृत्तम् । 39) अव्या॑वृत्त॒-न्ते ते ऽव्या॑वृत्त॒ मव्या॑वृत्त॒-न्ते । 39) अव्या॑वृत्त॒मित्यवि॑ - आ॒वृ॒त्त॒म् । 40) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 41) दे॒वा ए॒ता ए॒ता दे॒वा दे॒वा ए॒ताः । 42) ए॒ता व्यु॑ष्टी॒-र्व्यु॑ष्टी रे॒ता ए॒ता व्यु॑ष्टीः । 43) व्यु॑ष्टी रपश्य-न्नपश्य॒न् व्यु॑ष्टी॒-र्व्यु॑ष्टी रपश्यन्न् । 43) व्यु॑ष्टी॒रिति॒ वि - उ॒ष्टीः॒ । 44) अ॒प॒श्य॒-न्ता स्ता अ॑पश्य-न्नपश्य॒-न्ताः । 45) ता उपोप॒ ता स्ता उप॑ । 46) उपा॑ दधता दध॒तोपोपा॑ दधत । 47) अ॒द॒ध॒त॒ तत॒ स्ततो॑ ऽदधता दधत॒ ततः॑ । 48) ततो॒ वै वै तत॒ स्ततो॒ वै । 49) वा इ॒द मि॒दं-वैँ वा इ॒दम् । 50) इ॒दं-विँ वीद मि॒दं-विँ । 51) व्यौ᳚च्छ दौच्छ॒-द्वि व्यौ᳚च्छत् । 52) औ॒च्छ॒-द्यस्य॒ यस्यौ᳚च्छ दौच्छ॒-द्यस्य॑ । 53) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 54) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । 55) उ॒प॒धी॒यन्ते॒ वि व्यु॑पधी॒यन्त॑ उपधी॒यन्ते॒ वि । 55) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 56) व्ये॑वैव वि व्ये॑व । 57) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 58) अ॒स्मा॒ उ॒च्छ॒ त्यु॒च्छ॒ त्य॒स्मा॒ अ॒स्मा॒ उ॒च्छ॒ति॒ । 59) उ॒च्छ॒ त्यथो॒ अथो॑ उच्छ त्युच्छ॒ त्यथो᳚ । 60) अथो॒ तम॒ स्तमो ऽथो॒ अथो॒ तमः॑ । 60) अथो॒ इत्यथो᳚ । 61) तम॑ ए॒वैव तम॒ स्तम॑ ए॒व । 62) ए॒वापा पै॒वै वाप॑ । 63) अप॑ हते ह॒ते ऽपाप॑ हते । 64) ह॒त॒ इति॑ हते । ॥ 22 ॥ (64/73) ॥ अ. 4 ॥
1) अग्ने॑ जा॒तान् जा॒ता नग्ने ऽग्ने॑ जा॒तान् । 2) जा॒ता-न्प्र प्र जा॒तान् जा॒ता-न्प्र । 3) प्र णु॑द नुद॒ प्र प्र णु॑द । 4) नु॒दा॒ नो॒ नो॒ नु॒द॒ नु॒दा॒ नः॒ । 5) न॒-स्स॒पत्ना᳚-न्थ्स॒पत्ना᳚-न्नो न-स्स॒पत्नान्॑ । 6) स॒पत्ना॒ नितीति॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒ निति॑ । 7) इति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दितीति॑ पु॒रस्ता᳚त् । 8) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 9) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 10) द॒धा॒ति॒ जा॒तान् जा॒ता-न्द॑धाति दधाति जा॒तान् । 11) जा॒ता ने॒वैव जा॒तान् जा॒ता ने॒व । 12) ए॒व भ्रातृ॑व्या॒-न्भ्रातृ॑व्या ने॒वैव भ्रातृ॑व्यान् । 13) भ्रातृ॑व्या॒-न्प्र प्र भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒-न्प्र । 14) प्र णु॑दते नुदते॒ प्र प्र णु॑दते । 15) नु॒द॒ते॒ सह॑सा॒ सह॑सा नुदते नुदते॒ सह॑सा । 16) सह॑सा जा॒तान् जा॒ता-न्थ्सह॑सा॒ सह॑सा जा॒तान् । 17) जा॒ता नितीति॑ जा॒तान् जा॒ता निति॑ । 18) इति॑ प॒श्चा-त्प॒श्चा दितीति॑ प॒श्चात् । 19) प॒श्चाज् ज॑नि॒ष्यमा॑णान् जनि॒ष्यमा॑णा-न्प॒श्चा-त्प॒श्चाज् ज॑नि॒ष्यमा॑णान् । 20) ज॒नि॒ष्यमा॑णा ने॒वैव ज॑नि॒ष्यमा॑णान् जनि॒ष्यमा॑णा ने॒व । 21) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ । 22) प्रति॑ नुदते नुदते॒ प्रति॒ प्रति॑ नुदते । 23) नु॒द॒ते॒ च॒तु॒श्च॒त्वा॒रि॒ग्ं॒श श्च॑तुश्चत्वारि॒ग्ं॒शो नु॑दते नुदते चतुश्चत्वारि॒ग्ं॒शः । 24) च॒तु॒श्च॒त्वा॒रि॒ग्ं॒श-स्स्तोम॒-स्स्तोम॑ श्चतुश्चत्वारि॒ग्ं॒श श्च॑तुश्चत्वारि॒ग्ं॒श-स्स्तोमः॑ । 24) च॒तु॒श्च॒त्वा॒रि॒ग्ं॒श इति॑ चतुः - च॒त्वा॒रि॒ग्ं॒शः । 25) स्तोम॒ इतीति॒ स्तोम॒-स्स्तोम॒ इति॑ । 26) इति॑ दक्षिण॒तो द॑क्षिण॒त इतीति॑ दक्षिण॒तः । 27) द॒क्षि॒ण॒तो ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्द॑क्षिण॒तो द॑क्षिण॒तो ब्र॑ह्मवर्च॒सम् । 28) ब्र॒ह्म॒व॒र्च॒सं-वैँ वै ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सं-वैँ । 28) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 29) वै च॑तुश्चत्वारि॒ग्ं॒श श्च॑तुश्चत्वारि॒ग्ं॒शो वै वै च॑तुश्चत्वारि॒ग्ं॒शः । 30) च॒तु॒श्च॒त्वा॒रि॒ग्ं॒शो ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ञ्च॑तुश्चत्वारि॒ग्ं॒श श्च॑तुश्चत्वारि॒ग्ं॒शो ब्र॑ह्मवर्च॒सम् । 30) च॒तु॒श्च॒त्वा॒रि॒ग्ं॒श इति॑ चतुः - च॒त्वा॒रि॒ग्ं॒शः । 31) ब्र॒ह्म॒व॒र्च॒स मे॒वैव ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒व । 31) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 32) ए॒व द॑क्षिण॒तो द॑क्षिण॒त ए॒वैव द॑क्षिण॒तः । 33) द॒क्षि॒ण॒तो ध॑त्ते धत्ते दक्षिण॒तो द॑क्षिण॒तो ध॑त्ते । 34) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 35) तस्मा॒-द्दक्षि॑णो॒ दक्षि॑ण॒ स्तस्मा॒-त्तस्मा॒-द्दक्षि॑णः । 36) दक्षि॒णो ऽर्धो ऽर्धो॒ दक्षि॑णो॒ दक्षि॒णो ऽर्धः॑ । 37) अर्धो᳚ ब्रह्मवर्च॒सित॑रो ब्रह्मवर्च॒सित॒रो ऽर्धो ऽर्धो᳚ ब्रह्मवर्च॒सित॑रः । 38) ब्र॒ह्म॒व॒र्च॒सित॑र ष्षोड॒श ष्षो॑ड॒शो ब्र॑ह्मवर्च॒सित॑रो ब्रह्मवर्च॒सित॑र ष्षोड॒शः । 38) ब्र॒ह्म॒व॒र्च॒सित॑र॒ इति॑ ब्रह्मवर्च॒सि - त॒रः॒ । 39) षो॒ड॒श-स्स्तोम॒-स्स्तोम॑ ष्षोड॒श ष्षो॑ड॒श-स्स्तोमः॑ । 40) स्तोम॒ इतीति॒ स्तोम॒-स्स्तोम॒ इति॑ । 41) इत्यु॑त्तर॒त उ॑त्तर॒त इती त्यु॑त्तर॒तः । 42) उ॒त्त॒र॒त ओज॒ ओज॑ उत्तर॒त उ॑त्तर॒त ओजः॑ । 42) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 43) ओजो॒ वै वा ओज॒ ओजो॒ वै । 44) वै षो॑ड॒श ष्षो॑ड॒शो वै वै षो॑ड॒शः । 45) षो॒ड॒श ओज॒ ओज॑ ष्षोड॒श ष्षो॑ड॒श ओजः॑ । 46) ओज॑ ए॒वै वौज॒ ओज॑ ए॒व । 47) ए॒वोत्त॑र॒त उ॑त्तर॒त ए॒वैवो त्त॑र॒तः । 48) उ॒त्त॒र॒तो ध॑त्ते धत्त उत्तर॒त उ॑त्तर॒तो ध॑त्ते । 48) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 49) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 50) तस्मा॑ दुत्तरतोभिप्रया॒य्यु॑ त्तरतोभिप्रया॒यी तस्मा॒-त्तस्मा॑ दुत्तरतोभिप्रया॒यी । ॥ 23 ॥ (50/57)
1) उ॒त्त॒र॒तो॒भि॒प्र॒या॒यी ज॑यति जय त्युत्तरतोभिप्रया॒ य्यु॑त्तरतोभिप्रया॒यी ज॑यति । 1) उ॒त्त॒र॒तो॒भि॒प्र॒या॒यीत्यु॑त्तरतः - अ॒भि॒प्र॒या॒यी । 2) ज॒य॒ति॒ वज्रो॒ वज्रो॑ जयति जयति॒ वज्रः॑ । 3) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै । 4) वै च॑तुश्चत्वारि॒ग्ं॒श श्च॑तुश्चत्वारि॒ग्ं॒शो वै वै च॑तुश्चत्वारि॒ग्ं॒शः । 5) च॒तु॒श्च॒त्वा॒रि॒ग्ं॒शो वज्रो॒ वज्र॑श्चतुश्चत्वारि॒ग्ं॒श श्च॑तुश्चत्वारि॒ग्ं॒शो वज्रः॑ । 5) च॒तु॒श्च॒त्वा॒रि॒ग्ं॒श इति॑ चतुः - च॒त्वा॒रि॒ग्ं॒शः । 6) वज्र॑ ष्षोड॒श ष्षो॑ड॒शो वज्रो॒ वज्र॑ ष्षोड॒शः । 7) षो॒ड॒शो य-द्य-थ्षो॑ड॒श ष्षो॑ड॒शो यत् । 8) यदे॒ते ए॒ते य-द्यदे॒ते । 9) ए॒ते इष्ट॑के॒ इष्ट॑के ए॒ते ए॒ते इष्ट॑के । 9) ए॒ते इत्ये॒ते । 10) इष्ट॑के उप॒दधा᳚ त्युप॒दधा॒तीष्ट॑के॒ इष्ट॑के उप॒दधा॑ति । 10) इष्ट॑के॒ इतीष्ट॑के । 11) उ॒प॒दधा॑ति जा॒तान् जा॒ता नु॑प॒दधा᳚ त्युप॒दधा॑ति जा॒तान् । 11) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 12) जा॒ताग् श्च॑ च जा॒तान् जा॒ताग् श्च॑ । 13) चै॒वैव च॑ चै॒व । 14) ए॒व ज॑नि॒ष्यमा॑णान् जनि॒ष्यमा॑णा ने॒वैव ज॑नि॒ष्यमा॑णान् । 15) ज॒नि॒ष्यमा॑णाग् श्च च जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णाग् श्च । 16) च॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्याग् श्च च॒ भ्रातृ॑व्यान् । 17) भ्रातृ॑व्या-न्प्र॒णुद्य॑ प्र॒णुद्य॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्प्र॒णुद्य॑ । 18) प्र॒णुद्य॒ वज्रं॒-वँज्र॑-म्प्र॒णुद्य॑ प्र॒णुद्य॒ वज्र᳚म् । 18) प्र॒णुद्येति॑ प्र - नुद्य॑ । 19) वज्र॒ मन्वनु॒ वज्रं॒-वँज्र॒ मनु॑ । 20) अनु॒ प्र प्राण्वनु॒ प्र । 21) प्र ह॑रति हरति॒ प्र प्र ह॑रति । 22) ह॒र॒ति॒ स्तृत्यै॒ स्तृत्यै॑ हरति हरति॒ स्तृत्यै᳚ । 23) स्तृत्यै॒ पुरी॑षवती॒-म्पुरी॑षवती॒ग्॒ स्तृत्यै॒ स्तृत्यै॒ पुरी॑षवतीम् । 24) पुरी॑षवती॒-म्मद्ध्ये॒ मद्ध्ये॒ पुरी॑षवती॒-म्पुरी॑षवती॒-म्मद्ध्ये᳚ । 24) पुरी॑षवती॒मिति॒ पुरी॑ष - व॒ती॒म् । 25) मद्ध्य॒ उपोप॒ मद्ध्ये॒ मद्ध्य॒ उप॑ । 26) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 27) द॒धा॒ति॒ पुरी॑ष॒-म्पुरी॑ष-न्दधाति दधाति॒ पुरी॑षम् । 28) पुरी॑षं॒-वैँ वै पुरी॑ष॒-म्पुरी॑षं॒-वैँ । 29) वै मद्ध्य॒-म्मद्ध्यं॒-वैँ वै मद्ध्य᳚म् । 30) मद्ध्य॑ मा॒त्मन॑ आ॒त्मनो॒ मद्ध्य॒-म्मद्ध्य॑ मा॒त्मनः॑ । 31) आ॒त्मन॒-स्सात्मा॑न॒ग्ं॒ सात्मा॑न मा॒त्मन॑ आ॒त्मन॒-स्सात्मा॑नम् । 32) सात्मा॑न मे॒वैव सात्मा॑न॒ग्ं॒ सात्मा॑न मे॒व । 32) सात्मा॑न॒मिति॒ स - आ॒त्मा॒न॒म् । 33) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् । 34) अ॒ग्नि-ञ्चि॑नुते चिनुते॒ ऽग्नि म॒ग्नि-ञ्चि॑नुते । 35) चि॒नु॒ते॒ सात्मा॒ सात्मा॑ चिनुते चिनुते॒ सात्मा᳚ । 36) सात्मा॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्थ्सात्मा॒ सात्मा॒ ऽमुष्मिन्न्॑ । 36) सात्मेति॒ स - आ॒त्मा॒ । 37) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 38) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति । 39) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 40) य ए॒व मे॒वं-योँ य ए॒वम् । 41) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 42) वेदै॒ता ए॒ता वेद॒ वेदै॒ताः । 43) ए॒ता वै वा ए॒ता ए॒ता वै । 44) वा अ॑सप॒त्ना अ॑सप॒त्ना वै वा अ॑सप॒त्नाः । 45) अ॒स॒प॒त्ना नाम॒ नामा॑ सप॒त्ना अ॑सप॒त्ना नाम॑ । 46) नामेष्ट॑का॒ इष्ट॑का॒ नाम॒ नामेष्ट॑काः । 47) इष्ट॑का॒ यस्य॒ यस्ये ष्ट॑का॒ इष्ट॑का॒ यस्य॑ । 48) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 49) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । 50) उ॒प॒धी॒यन्ते॒ न नोप॑धी॒यन्त॑ उपधी॒यन्ते॒ न । 50) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । ॥ 24 ॥ (50/60)
1) नास्या᳚स्य॒ न नास्य॑ । 2) अ॒स्य॒ स॒पत्न॑-स्स॒पत्नो᳚ ऽस्यास्य स॒पत्नः॑ । 3) स॒पत्नो॑ भवति भवति स॒पत्न॑-स्स॒पत्नो॑ भवति । 4) भ॒व॒ति॒ प॒शुः प॒शु-र्भ॑वति भवति प॒शुः । 5) प॒शु-र्वै वै प॒शुः प॒शु-र्वै । 6) वा ए॒ष ए॒ष वै वा ए॒षः । 7) ए॒ष य-द्यदे॒ष ए॒ष यत् । 8) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 9) अ॒ग्नि-र्वि॒राजो॑ वि॒राजो॒ ऽग्नि र॒ग्नि-र्वि॒राजः॑ । 10) वि॒राज॑ उत्त॒माया॑ मुत्त॒मायां᳚-विँ॒राजो॑ वि॒राज॑ उत्त॒माया᳚म् । 10) वि॒राज॒ इति॑ वि - राजः॑ । 11) उ॒त्त॒माया॒-ञ्चित्या॒-ञ्चित्या॑ मुत्त॒माया॑ मुत्त॒माया॒-ञ्चित्या᳚म् । 11) उ॒त्त॒माया॒मित्यु॑त् - त॒माया᳚म् । 12) चित्या॒ मुपोप॒ चित्या॒-ञ्चित्या॒ मुप॑ । 13) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 14) द॒धा॒ति॒ वि॒राजं॑-विँ॒राज॑-न्दधाति दधाति वि॒राज᳚म् । 15) वि॒राज॑ मे॒वैव वि॒राजं॑-विँ॒राज॑ मे॒व । 15) वि॒राज॒मिति॑ वि - राज᳚म् । 16) ए॒वोत्त॒मा मु॑त्त॒मा मे॒वै वोत्त॒माम् । 17) उ॒त्त॒मा-म्प॒शुषु॑ प॒शुषू᳚त्त॒मा मु॑त्त॒मा-म्प॒शुषु॑ । 17) उ॒त्त॒मामित्यु॑त् - त॒माम् । 18) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति । 19) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 20) तस्मा᳚-त्पशु॒मा-न्प॑शु॒मा-न्तस्मा॒-त्तस्मा᳚-त्पशु॒मान् । 21) प॒शु॒मा नु॑त्त॒मा मु॑त्त॒मा-म्प॑शु॒मा-न्प॑शु॒मा नु॑त्त॒माम् । 21) प॒शु॒मानिति॑ पशु - मान् । 22) उ॒त्त॒मां-वाँचं॒-वाँच॑ मुत्त॒मा मु॑त्त॒मां-वाँच᳚म् । 22) उ॒त्त॒मामित्यु॑त् - त॒माम् । 23) वाचं॑-वँदति वदति॒ वाचं॒-वाँचं॑-वँदति । 24) व॒द॒ति॒ दश॑दश॒ दश॑दश वदति वदति॒ दश॑दश । 25) दश॑द॒शो पोप॒ दश॑दश॒ दश॑द॒शोप॑ । 25) दश॑द॒शेति॒ दश॑ - द॒श॒ । 26) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 27) द॒धा॒ति॒ स॒वी॒र्य॒त्वाय॑ सवीर्य॒त्वाय॑ दधाति दधाति सवीर्य॒त्वाय॑ । 28) स॒वी॒र्य॒त्वाया᳚ क्ष्ण॒या ऽक्ष्ण॒या स॑वीर्य॒त्वाय॑ सवीर्य॒त्वाया᳚ क्ष्ण॒या । 28) स॒वी॒र्य॒त्वायेति॑ सवीर्य - त्वाय॑ । 29) अ॒क्ष्ण॒यो पोपा᳚ क्ष्ण॒या ऽक्ष्ण॒योप॑ । 30) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 31) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 32) तस्मा॑ दक्ष्ण॒या ऽक्ष्ण॒या तस्मा॒-त्तस्मा॑ दक्ष्ण॒या । 33) अ॒क्ष्ण॒या प॒शवः॑ प॒शवो᳚ ऽक्ष्ण॒या ऽक्ष्ण॒या प॒शवः॑ । 34) प॒शवो ऽङ्गा॒ न्यङ्गा॑नि प॒शवः॑ प॒शवो ऽङ्गा॑नि । 35) अङ्गा॑नि॒ प्र प्राङ्गा॒ न्यङ्गा॑नि॒ प्र । 36) प्र ह॑रन्ति हरन्ति॒ प्र प्र ह॑रन्ति । 37) ह॒र॒न्ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै हरन्ति हरन्ति॒ प्रति॑ष्ठित्यै । 38) प्रति॑ष्ठित्यै॒ यानि॒ यानि॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यानि॑ । 38) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 39) यानि॒ वै वै यानि॒ यानि॒ वै । 40) वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि । 41) छन्दाग्ं॑सि सुव॒र्ग्या॑णि सुव॒र्ग्या॑णि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि सुव॒र्ग्या॑णि । 42) सु॒व॒र्ग्या᳚ ण्यास॒-न्नासन्᳚ थ्सुव॒र्ग्या॑णि सुव॒र्ग्या᳚ ण्यासन्न्॑ । 42) सु॒व॒र्ग्या॑णीति॑ सुवः - ग्या॑नि । 43) आस॒-न्तै स्तै रास॒-न्नास॒-न्तैः । 44) तै-र्दे॒वा दे॒वा स्तै स्तै-र्दे॒वाः । 45) दे॒वा-स्सु॑व॒र्गग्ं सु॑व॒र्ग-न्दे॒वा दे॒वा-स्सु॑व॒र्गम् । 46) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 46) सु॒व॒र्गमिति॑ सुवः - गम् । 47) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् । 48) आ॒य॒-न्तेन॒ तेना॑य-न्नाय॒-न्तेन॑ । 49) तेन र्ष॑य॒ ऋष॑य॒ स्तेन॒ तेन र्ष॑यः । 50) ऋष॑यो ऽश्राम्य-न्नश्राम्य॒-न्नृष॑य॒ ऋष॑यो ऽश्राम्यन्न् । ॥ 25 ॥ (50/61)
1) अ॒श्रा॒म्य॒-न्ते ते᳚ ऽश्राम्य-न्नश्राम्य॒-न्ते । 2) ते तप॒ स्तप॒ स्ते ते तपः॑ । 3) तपो॑ ऽतप्यन्ता तप्यन्त॒ तप॒ स्तपो॑ ऽतप्यन्त । 4) अ॒त॒प्य॒न्त॒ तानि॒ तान्य॑तप्यन्ता तप्यन्त॒ तानि॑ । 5) तानि॒ तप॑सा॒ तप॑सा॒ तानि॒ तानि॒ तप॑सा । 6) तप॑सा ऽपश्य-न्नपश्य॒-न्तप॑सा॒ तप॑सा ऽपश्यन्न् । 7) अ॒प॒श्य॒-न्तेभ्य॒ स्तेभ्यो॑ ऽपश्य-न्नपश्य॒-न्तेभ्यः॑ । 8) तेभ्य॑ ए॒ता ए॒ता स्तेभ्य॒ स्तेभ्य॑ ए॒ताः । 9) ए॒ता इष्ट॑का॒ इष्ट॑का ए॒ता ए॒ता इष्ट॑काः । 10) इष्ट॑का॒ नि-र्णिरिष्ट॑का॒ इष्ट॑का॒ निः । 11) निर॑मिमता मिमत॒ नि-र्णिर॑मिमत । 12) अ॒मि॒म॒ तेव॒ एवो॑ ऽमिमता मिम॒तेवः॑ । 13) एव॒ श्छन्द॒ श्छन्द॒ एव॒ एव॒ श्छन्दः॑ । 14) छन्दो॒ वरि॑वो॒ वरि॑व॒ श्छन्द॒ श्छन्दो॒ वरि॑वः । 15) वरि॑व॒ श्छन्द॒ श्छन्दो॒ वरि॑वो॒ वरि॑व॒ श्छन्दः॑ । 16) छन्द॒ इतीति॒ छन्द॒ श्छन्द॒ इति॑ । 17) इति॒ ता स्ता इतीति॒ ताः । 18) ता उपोप॒ ता स्ता उप॑ । 19) उपा॑ दधता दध॒तोपोपा॑ दधत । 20) अ॒द॒ध॒त॒ ताभि॒ स्ताभि॑ रदधता दधत॒ ताभिः॑ । 21) ताभि॒-र्वै वै ताभि॒ स्ताभि॒-र्वै । 22) वै ते ते वै वै ते । 23) ते सु॑व॒र्गग्ं सु॑व॒र्ग-न्ते ते सु॑व॒र्गम् । 24) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 24) सु॒व॒र्गमिति॑ सुवः - गम् । 25) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् । 26) आ॒य॒न्॒. य-द्यदा॑य-न्नाय॒न्॒. यत् । 27) यदे॒ता ए॒ता य-द्यदे॒ताः । 28) ए॒ता इष्ट॑का॒ इष्ट॑का ए॒ता ए॒ता इष्ट॑काः । 29) इष्ट॑का उप॒दधा᳚त्यु प॒दधा॒ती ष्ट॑का॒ इष्ट॑का उप॒दधा॑ति । 30) उ॒प॒दधा॑ति॒ यानि॒ यान्यु॑प॒दधा᳚ त्युप॒दधा॑ति॒ यानि॑ । 30) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 31) यान्ये॒ वैव यानि॒ यान्ये॒व । 32) ए॒व छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒वैव छन्दाग्ं॑सि । 33) छन्दाग्ं॑सि सुव॒र्ग्या॑णि सुव॒र्ग्या॑णि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि सुव॒र्ग्या॑णि । 34) सु॒व॒र्ग्या॑णि॒ तै स्तै-स्सु॑व॒र्ग्या॑णि सुव॒र्ग्या॑णि॒ तैः । 34) सु॒व॒र्ग्या॑णीति॑ सुवः - ग्या॑नि । 35) तै रे॒वैव तै स्तै रे॒व । 36) ए॒व यज॑मानो॒ यज॑मान ए॒वैव यज॑मानः । 37) यज॑मान-स्सुव॒र्गग्ं सु॑व॒र्गं-यँज॑मानो॒ यज॑मान-स्सुव॒र्गम् । 38) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 38) सु॒व॒र्गमिति॑ सुवः - गम् । 39) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 40) ए॒ति॒ य॒ज्ञेन॑ य॒ज्ञेनै᳚ त्येति य॒ज्ञेन॑ । 41) य॒ज्ञेन॒ वै वै य॒ज्ञेन॑ य॒ज्ञेन॒ वै । 42) वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः । 43) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः । 43) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 44) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत । 44) प्र॒जा इति॑ प्र - जाः । 45) अ॒सृ॒ज॒त॒ तास्ता अ॑सृजता सृजत॒ ताः । 46) ता-स्स्तोम॑भागै॒-स्स्तोम॑भागै॒ स्तास्ता-स्स्तोम॑भागैः । 47) स्तोम॑भागै रे॒वैव स्तोम॑भागै॒-स्स्तोम॑भागै रे॒व । 47) स्तोम॑भागै॒रिति॒ स्तोम॑ - भा॒गैः॒ । 48) ए॒वा सृ॑जता सृजतै॒ वैवा सृ॑जत । 49) अ॒सृ॒ज॒त॒ य-द्यद॑सृजता सृजत॒ यत् । 50) य-थ्स्तोम॑भागा॒-स्स्तोम॑भागा॒ य-द्य-थ्स्तोम॑भागाः । ॥ 26 ॥ (50/57)
1) स्तोम॑भागा उप॒दधा᳚ त्युप॒दधा॑ति॒ स्तोम॑भागा॒-स्स्तोम॑भागा उप॒दधा॑ति । 1) स्तोम॑भागा॒ इति॒ स्तोम॑ - भा॒गाः॒ । 2) उ॒प॒दधा॑ति प्र॒जाः प्र॒जा उ॑प॒दधा᳚ त्युप॒दधा॑ति प्र॒जाः । 2) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 3) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व । 3) प्र॒जा इति॑ प्र - जाः । 4) ए॒व त-त्तदे॒ वैव तत् । 5) त-द्यज॑मानो॒ यज॑मान॒ स्त-त्त-द्यज॑मानः । 6) यज॑मान-स्सृजते सृजते॒ यज॑मानो॒ यज॑मान-स्सृजते । 7) सृ॒ज॒ते॒ बृह॒स्पति॒-र्बृह॒स्पति॑-स्सृजते सृजते॒ बृह॒स्पतिः॑ । 8) बृह॒स्पति॒-र्वै वै बृह॒स्पति॒-र्बृह॒स्पति॒-र्वै । 9) वा ए॒त दे॒त-द्वै वा ए॒तत् । 10) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ । 11) य॒ज्ञस्य॒ तेज॒ स्तेजो॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ तेजः॑ । 12) तेज॒-स्सग्ं स-न्तेज॒ स्तेज॒-स्सम् । 13) स म॑भर दभर॒-थ्सग्ं स म॑भरत् । 14) अ॒भ॒र॒-द्य-द्यद॑भर दभर॒-द्यत् । 15) य-थ्स्तोम॑भागा॒-स्स्तोम॑भागा॒ य-द्य-थ्स्तोम॑भागाः । 16) स्तोम॑भागा॒ य-द्य-थ्स्तोम॑भागा॒-स्स्तोम॑भागा॒ यत् । 16) स्तोम॑भागा॒ इति॒ स्तोम॑ - भा॒गाः॒ । 17) य-थ्स्तोम॑भागा॒-स्स्तोम॑भागा॒ य-द्य-थ्स्तोम॑भागाः । 18) स्तोम॑भागा उप॒दधा᳚ त्युप॒दधा॑ति॒ स्तोम॑भागा॒-स्स्तोम॑भागा उप॒दधा॑ति । 18) स्तोम॑भागा॒ इति॒ स्तोम॑ - भा॒गाः॒ । 19) उ॒प॒दधा॑ति॒ सते॑जस॒ग्ं॒ सते॑जस मुप॒दधा᳚ त्युप॒दधा॑ति॒ सते॑जसम् । 19) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 20) सते॑जस मे॒वैव सते॑जस॒ग्ं॒ सते॑जस मे॒व । 20) सते॑जस॒मिति॒ स - ते॒ज॒स॒म् । 21) ए॒वाग्नि म॒ग्नि मे॒वैवाग्निम् । 22) अ॒ग्नि-ञ्चि॑नुते चिनुते॒ ऽग्नि म॒ग्नि-ञ्चि॑नुते । 23) चि॒नु॒ते॒ बृह॒स्पति॒-र्बृह॒स्पति॑ श्चिनुते चिनुते॒ बृह॒स्पतिः॑ । 24) बृह॒स्पति॒-र्वै वै बृह॒स्पति॒-र्बृह॒स्पति॒-र्वै । 25) वा ए॒ता मे॒तां-वैँ वा ए॒ताम् । 26) ए॒तां-यँ॒ज्ञस्य॑ य॒ज्ञ स्यै॒ता मे॒तां-यँ॒ज्ञस्य॑ । 27) य॒ज्ञस्य॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठां-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ प्रति॒ष्ठाम् । 28) प्र॒ति॒ष्ठा म॑पश्य दपश्य-त्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा म॑पश्यत् । 28) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 29) अ॒प॒श्य॒-द्य-द्यद॑पश्य दपश्य॒-द्यत् । 30) य-थ्स्तोम॑भागा॒-स्स्तोम॑भागा॒ य-द्य-थ्स्तोम॑भागाः । 31) स्तोम॑भागा॒ य-द्य-थ्स्तोम॑भागा॒-स्स्तोम॑भागा॒ यत् । 31) स्तोम॑भागा॒ इति॒ स्तोम॑ - भा॒गाः॒ । 32) य-थ्स्तोम॑भागा॒-स्स्तोम॑भागा॒ य-द्य-थ्स्तोम॑भागाः । 33) स्तोम॑भागा उप॒दधा᳚ त्युप॒दधा॑ति॒ स्तोम॑भागा॒-स्स्तोम॑भागा उप॒दधा॑ति । 33) स्तोम॑भागा॒ इति॒ स्तोम॑ - भा॒गाः॒ । 34) उ॒प॒दधा॑ति य॒ज्ञस्य॑ य॒ज्ञस्यो॑ प॒दधा᳚ त्युप॒दधा॑ति य॒ज्ञस्य॑ । 34) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 35) य॒ज्ञस्य॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ प्रति॑ष्ठित्यै । 36) प्रति॑ष्ठित्यै स॒प्तस॑प्त स॒प्तस॑प्त॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै स॒प्तस॑प्त । 36) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 37) स॒प्तस॒प्तो पोप॑ स॒प्तस॑प्त स॒प्तस॒प्तोप॑ । 37) स॒प्तस॒प्तेति॑ स॒प्त - स॒प्त॒ । 38) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 39) द॒धा॒ति॒ स॒वी॒र्य॒त्वाय॑ सवीर्य॒त्वाय॑ दधाति दधाति सवीर्य॒त्वाय॑ । 40) स॒वी॒र्य॒त्वाय॑ ति॒स्र स्ति॒स्र-स्स॑वीर्य॒त्वाय॑ सवीर्य॒त्वाय॑ ति॒स्रः । 40) स॒वी॒र्य॒त्वायेति॑ सवीर्य - त्वाय॑ । 41) ति॒स्रो मद्ध्ये॒ मद्ध्ये॑ ति॒स्र स्ति॒स्रो मद्ध्ये᳚ । 42) मद्ध्ये॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ मद्ध्ये॒ मद्ध्ये॒ प्रति॑ष्ठित्यै । 43) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । ॥ 27 ॥ (43/57) ॥ अ. 5 ॥
1) र॒श्मि रितीति॑ र॒श्मी र॒श्मि रिति॑ । 2) इत्ये॒वैवे तीत्ये॒व । 3) ए॒वादि॒त्य मा॑दि॒त्य मे॒वै वादि॒त्यम् । 4) आ॒दि॒त्य म॑सृजता सृजतादि॒त्य मा॑दि॒त्य म॑सृजत । 5) अ॒सृ॒ज॒त॒ प्रेतिः॒ प्रेति॑ रसृजता सृजत॒ प्रेतिः॑ । 6) प्रेति॒ रितीति॒ प्रेतिः॒ प्रेति॒ रिति॑ । 6) प्रेति॒रिति॒ प्र - इ॒तिः॒ । 7) इति॒ धर्म॒-न्धर्म॒ मितीति॒ धर्म᳚म् । 8) धर्म॒ मन्वि॑ति॒ रन्वि॑ति॒-र्धर्म॒-न्धर्म॒ मन्वि॑तिः । 9) अन्वि॑ति॒रिती त्यन्वि॑ति॒ रन्वि॑ति॒ रिति॑ । 9) अन्वि॑ति॒रित्यनु॑ - इ॒तिः॒ । 10) इति॒ दिव॒-न्दिव॒ मितीति॒ दिव᳚म् । 11) दिवग्ं॑ स॒न्धि-स्स॒न्धि-र्दिव॒-न्दिवग्ं॑ स॒न्धिः । 12) स॒न्धि रितीति॑ स॒न्धि-स्स॒न्धि रिति॑ । 12) स॒न्धिरिति॑ सं - धिः । 13) इत्य॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मिती त्य॒न्तरि॑क्षम् । 14) अ॒न्तरि॑क्ष-म्प्रति॒धिः प्र॑ति॒धि र॒न्तरि॑क्ष म॒न्तरि॑क्ष-म्प्रति॒धिः । 15) प्र॒ति॒धि रितीति॑ प्रति॒धिः प्र॑ति॒धि रिति॑ । 15) प्र॒ति॒धिरिति॑ प्रति - धिः । 16) इति॑ पृथि॒वी-म्पृ॑थि॒वी मितीति॑ पृथि॒वीम् । 17) पृ॒थि॒वीं-विँ॑ष्ट॒म्भो वि॑ष्ट॒म्भः पृ॑थि॒वी-म्पृ॑थि॒वीं-विँ॑ष्ट॒म्भः । 18) वि॒ष्ट॒म्भ इतीति॑ विष्ट॒म्भो वि॑ष्ट॒म्भ इति॑ । 18) वि॒ष्ट॒म्भ इति॑ वि - स्त॒म्भः । 19) इति॒ वृष्टिं॒-वृँष्टि॒ मितीति॒ वृष्टि᳚म् । 20) वृष्टि॑-म्प्र॒वा प्र॒वा वृष्टिं॒-वृँष्टि॑-म्प्र॒वा । 21) प्र॒वे तीति॑ प्र॒वा प्र॒वेति॑ । 21) प्र॒वेति॑ प्र - वा । 22) इत्यह॒ रह॒ रिती त्यहः॑ । 23) अह॑ रनु॒वा ऽनु॒वा ऽह॒ रह॑ रनु॒वा । 24) अ॒नु॒वेती त्य॑नु॒वा ऽनु॒वेति॑ । 24) अ॒नु॒वेत्य॑नु - वा । 25) इति॒ रात्रि॒ग्ं॒ रात्रि॒ मितीति॒ रात्रि᳚म् । 26) रात्रि॑ मु॒शि गु॒शिग् रात्रि॒ग्ं॒ रात्रि॑ मु॒शिक् । 27) उ॒शि गिती त्यु॒शि गु॒शि गिति॑ । 28) इति॒ वसू॒न्॒. वसू॒ नितीति॒ वसून्॑ । 29) वसू᳚-न्प्रके॒तः प्र॑के॒तो वसू॒न्॒. वसू᳚-न्प्रके॒तः । 30) प्र॒के॒त इतीति॑ प्रके॒तः प्र॑के॒त इति॑ । 30) प्र॒के॒त इति॑ प्र - के॒तः । 31) इति॑ रु॒द्रा-न्रु॒द्रा नितीति॑ रु॒द्रान् । 32) रु॒द्रा-न्थ्सु॑दी॒ति-स्सु॑दी॒ती रु॒द्रा-न्रु॒द्रा-न्थ्सु॑दी॒तिः । 33) सु॒दी॒ति रितीति॑ सुदी॒ति-स्सु॑दी॒ति रिति॑ । 33) सु॒दी॒तिरिति॑ सु - दी॒तिः । 34) इत्या॑दि॒त्या ना॑दि॒त्या निती त्या॑दि॒त्यान् । 35) आ॒दि॒त्या नोज॒ ओज॑ आदि॒त्या ना॑दि॒त्या नोजः॑ । 36) ओज॒ इतीत्योज॒ ओज॒ इति॑ । 37) इति॑ पि॒तॄ-न्पि॒तॄ नितीति॑ पि॒तॄन् । 38) पि॒तॄ-न्तन्तु॒ स्तन्तुः॑ पि॒तॄ-न्पि॒तॄ-न्तन्तुः॑ । 39) तन्तु॒ रितीति॒ तन्तु॒ स्तन्तु॒ रिति॑ । 40) इति॑ प्र॒जाः प्र॒जा इतीति॑ प्र॒जाः । 41) प्र॒जाः पृ॑तना॒षाट् पृ॑तना॒षाट् प्र॒जाः प्र॒जाः पृ॑तना॒षाट् । 41) प्र॒जा इति॑ प्र - जाः । 42) पृ॒त॒ना॒षा डितीति॑ पृतना॒षाट् पृ॑तना॒षा डिति॑ । 43) इति॑ प॒शू-न्प॒शू नितीति॑ प॒शून् । 44) प॒शू-न्रे॒व-द्रे॒व-त्प॒शू-न्प॒शू-न्रे॒वत् । 45) रे॒व दितीति॑ रे॒व-द्रे॒व दिति॑ । 46) इत्योष॑धी॒ रोष॑धी॒ रिती त्योष॑धीः । 47) ओष॑धी रभि॒जि द॑भि॒जि दोष॑धी॒ रोष॑धी रभि॒जित् । 48) अ॒भि॒जि द॑स्यस्य भि॒जि द॑भि॒जि द॑सि । 48) अ॒भि॒जिदित्य॑भि - जित् । 49) अ॒सि॒ यु॒क्तग्रा॑वा यु॒क्तग्रा॑वा ऽस्यसि यु॒क्तग्रा॑वा । 50) यु॒क्तग्रा॒ वेन्द्रा॒ येन्द्रा॑य यु॒क्तग्रा॑वा यु॒क्तग्रा॒ वेन्द्रा॑य । 50) यु॒क्तग्रा॒वेति॑ यु॒क्त - ग्रा॒वा॒ । ॥ 28 ॥ (50/62)
1) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ येन्द्रा॑य त्वा । 2) त्वेन्द्र॒ मिन्द्र॑-न्त्वा॒ त्वेन्द्र᳚म् । 3) इन्द्र॑-ञ्जिन्व जि॒न्वेन्द्र॒ मिन्द्र॑-ञ्जिन्व । 4) जि॒न्वे तीति॑ जिन्व जि॒न्वे ति॑ । 5) इत्ये॒वैवे तीत्ये॒व । 6) ए॒व द॑क्षिण॒तो द॑क्षिण॒त ए॒वैव द॑क्षिण॒तः । 7) द॒क्षि॒ण॒तो वज्रं॒-वँज्र॑-न्दक्षिण॒तो द॑क्षिण॒तो वज्र᳚म् । 8) वज्र॒-म्परि॒ परि॒ वज्रं॒-वँज्र॒-म्परि॑ । 9) पर्यौ॑ह दौह॒-त्परि॒ पर्यौ॑हत् । 10) औ॒ह॒ द॒भिजि॑त्या अ॒भिजि॑त्या औह दौह द॒भिजि॑त्यै । 11) अ॒भिजि॑त्यै॒ ता स्ता अ॒भिजि॑त्या अ॒भिजि॑त्यै॒ ताः । 11) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । 12) ताः प्र॒जाः प्र॒जा स्ता स्ताः प्र॒जाः । 13) प्र॒जा अप॑प्राणा॒ अप॑प्राणाः प्र॒जाः प्र॒जा अप॑प्राणाः । 13) प्र॒जा इति॑ प्र - जाः । 14) अप॑प्राणा असृजता सृज॒ता प॑प्राणा॒ अप॑प्राणा असृजत । 14) अप॑प्राणा॒ इत्यप॑ - प्रा॒णाः॒ । 15) अ॒सृ॒ज॒त॒ तासु॒ तास्व॑ सृजता सृजत॒ तासु॑ । 16) तास्व धि॑पति॒ रधि॑पति॒ स्तासु॒ तास्व धि॑पतिः । 17) अधि॑पति रस्य॒स्य धि॑पति॒ रधि॑पति रसि । 17) अधि॑पति॒रित्यधि॑ - प॒तिः॒ । 18) अ॒सीती त्य॑स्य॒ सीति॑ । 19) इत्ये॒ वैवेती त्ये॒व । 20) ए॒व प्रा॒ण-म्प्रा॒ण मे॒वैव प्रा॒णम् । 21) प्रा॒ण म॑दधा ददधा-त्प्रा॒ण-म्प्रा॒ण म॑दधात् । 21) प्रा॒णमिति॑ प्र - अ॒नम् । 22) अ॒द॒धा॒-द्य॒न्ता य॒न्ता ऽद॑धा ददधा-द्य॒न्ता । 23) य॒न्तेतीति॑ य॒न्ता य॒न्तेति॑ । 24) इत्य॑पा॒न म॑पा॒न मिती त्य॑पा॒नम् । 25) अ॒पा॒नग्ं स॒ग्ं॒सर्प॑-स्स॒ग्ं॒सर्पो॑ ऽपा॒न म॑पा॒नग्ं स॒ग्ं॒सर्पः॑ । 25) अ॒पा॒नमित्य॑प - अ॒नम् । 26) स॒ग्ं॒सर्प॒ इतीति॑ स॒ग्ं॒सर्प॑-स्स॒ग्ं॒सर्प॒ इति॑ । 26) स॒ग्ं॒सर्प॒ इति॑ सं - सर्पः॑ । 27) इति॒ चक्षु॒ श्चक्षु॒ रितीति॒ चक्षुः॑ । 28) चक्षु॑-र्वयो॒धा व॑यो॒धा श्चक्षु॒ श्चक्षु॑-र्वयो॒धाः । 29) व॒यो॒धा इतीति॑ वयो॒धा व॑यो॒धा इति॑ । 29) व॒यो॒धा इति॑ वयः - धाः । 30) इति॒ श्रोत्र॒ग्ग्॒ श्रोत्र॒ मितीति॒ श्रोत्र᳚म् । 31) श्रोत्र॒-न्ता स्ता-श्श्रोत्र॒ग्ग्॒ श्रोत्र॒-न्ताः । 32) ताः प्र॒जाः प्र॒जा स्ता स्ताः प्र॒जाः । 33) प्र॒जाः प्रा॑ण॒तीः प्रा॑ण॒तीः प्र॒जाः प्र॒जाः प्रा॑ण॒तीः । 33) प्र॒जा इति॑ प्र - जाः । 34) प्रा॒ण॒ती र॑पान॒ती र॑पान॒तीः प्रा॑ण॒तीः प्रा॑ण॒ती र॑पान॒तीः । 34) प्रा॒ण॒तीरिति॑ प्र - अ॒न॒तीः । 35) अ॒पा॒न॒तीः पश्य॑न्तीः॒ पश्य॑न्ती रपान॒ती र॑पान॒तीः पश्य॑न्तीः । 35) अ॒पा॒न॒तीरित्य॑प - अ॒न॒तीः । 36) पश्य॑न्ती-श्शृण्व॒ती-श्शृ॑ण्व॒तीः पश्य॑न्तीः॒ पश्य॑न्ती-श्शृण्व॒तीः । 37) शृ॒ण्व॒ती-र्न न शृ॑ण्व॒ती-श्शृ॑ण्व॒ती-र्न । 38) न मि॑थु॒नी मि॑थु॒नी न न मि॑थु॒नी । 39) मि॒थु॒नी अ॑भव-न्नभव-न्मिथु॒नी मि॑थु॒नी अ॑भवन्न् । 40) अ॒भ॒व॒-न्तासु॒ तास्व॑भव-न्नभव॒-न्तासु॑ । 41) तासु॑ त्रि॒वृ-त्त्रि॒वृ-त्तासु॒ तासु॑ त्रि॒वृत् । 42) त्रि॒वृ द॑स्यसि त्रि॒वृ-त्त्रि॒वृ द॑सि । 42) त्रि॒वृदिति॑ त्रि - वृत् । 43) अ॒सीत्ती य॑स्य॒ सीति॑ । 44) इत्ये॒वैवेती त्ये॒व । 45) ए॒व मि॑थु॒न-म्मि॑थु॒न मे॒वैव मि॑थु॒नम् । 46) मि॒थु॒न म॑दधा ददधा-न्मिथु॒न-म्मि॑थु॒न म॑दधात् । 47) अ॒द॒धा॒-त्ता स्ता अ॑दधा ददधा॒-त्ताः । 48) ताः प्र॒जाः प्र॒जा स्ता स्ताः प्र॒जाः । 49) प्र॒जा मि॑थु॒नी मि॑थु॒नी प्र॒जाः प्र॒जा मि॑थु॒नी । 49) प्र॒जा इति॑ प्र - जाः । 50) मि॒थु॒नी भव॑न्ती॒-र्भव॑न्ती-र्मिथु॒नी मि॑थु॒नी भव॑न्तीः । ॥ 29 ॥ (50/63)
1) भव॑न्ती॒-र्न न भव॑न्ती॒-र्भव॑न्ती॒-र्न । 2) न प्र प्र ण न प्र । 3) प्रा जा॑यन्ता जायन्त॒ प्र प्रा जा॑यन्त । 4) अ॒जा॒य॒न्त॒ ता स्ता अ॑जायन्ता जायन्त॒ ताः । 5) ता-स्सग्ं॑रो॒ह-स्सग्ं॑रो॒ह स्ता स्ता-स्सग्ं॑रो॒हः । 6) स॒ग्ं॒रो॒हो᳚ ऽस्यसि सग्ंरो॒ह-स्सग्ं॑रो॒हो॑ ऽसि । 6) स॒ग्ं॒रो॒ह इति॑ सं - रो॒हः । 7) अ॒सि॒ नी॒रो॒हो नी॑रो॒हो᳚ ऽस्यसि नीरो॒हः । 8) नी॒रो॒हो᳚ ऽस्यसि नीरो॒हो नी॑रो॒हो॑ ऽसि । 8) नी॒रो॒ह इति॑ निः - रो॒हः । 9) अ॒सीती त्य॑स्य॒ सीति॑ । 10) इत्ये॒वैवेती त्ये॒व । 11) ए॒व प्र प्रैवैव प्र । 12) प्रा ज॑नय दजनय॒-त्प्र प्रा ज॑नयत् । 13) अ॒ज॒न॒य॒-त्ता स्ता अ॑जनय दजनय॒-त्ताः । 14) ताः प्र॒जाः प्र॒जा स्ता स्ताः प्र॒जाः । 15) प्र॒जाः प्रजा॑ताः॒ प्रजा॑ताः प्र॒जाः प्र॒जाः प्रजा॑ताः । 15) प्र॒जा इति॑ प्र - जाः । 16) प्रजा॑ता॒ न न प्रजा॑ताः॒ प्रजा॑ता॒ न । 16) प्रजा॑ता॒ इति॒ प्र - जा॒ताः॒ । 17) न प्रति॒ प्रति॒ न न प्रति॑ । 18) प्रत्य॑तिष्ठ-न्नतिष्ठ॒-न्प्रति॒ प्रत्य॑तिष्ठन्न् । 19) अ॒ति॒ष्ठ॒-न्ता स्ता अ॑तिष्ठ-न्नतिष्ठ॒-न्ताः । 20) ता व॑सु॒को व॑सु॒क स्ता स्ता व॑सु॒कः । 21) व॒सु॒को᳚ ऽस्यसि वसु॒को व॑सु॒को॑ ऽसि । 22) अ॒सि॒ वेष॑श्रि॒-र्वेष॑श्रि रस्यसि॒ वेष॑श्रिः । 23) वेष॑श्रि रस्यसि॒ वेष॑श्रि॒-र्वेष॑श्रि रसि । 23) वेष॑श्रि॒रिति॒ वेष॑ - श्रिः॒ । 24) अ॒सि॒ वस्य॑ष्टि॒-र्वस्य॑ष्टि रस्यसि॒ वस्य॑ष्टिः । 25) वस्य॑ष्टि रस्यसि॒ वस्य॑ष्टि॒-र्वस्य॑ष्टि रसि । 26) अ॒सीती त्य॑स्य॒ सीति॑ । 27) इत्ये॒वैवेती त्ये॒व । 28) ए॒वैष्वे᳚(1॒) ष्वे॑वै वैषु । 29) ए॒षु लो॒केषु॑ लो॒के ष्वे॒ ष्वे॑षु लो॒केषु॑ । 30) लो॒केषु॒ प्रति॒ प्रति॑ लो॒केषु॑ लो॒केषु॒ प्रति॑ । 31) प्रत्य॑स्थापय दस्थापय॒-त्प्रति॒ प्रत्य॑स्थापयत् । 32) अ॒स्था॒प॒य॒-द्य-द्यद॑स्थापय दस्थापय॒-द्यत् । 33) यदाहाह॒ य-द्यदाह॑ । 34) आह॑ वसु॒को व॑सु॒क आहाह॑ वसु॒कः । 35) व॒सु॒को᳚ ऽस्यसि वसु॒को व॑सु॒को॑ ऽसि । 36) अ॒सि॒ वेष॑श्रि॒-र्वेष॑श्रि रस्यसि॒ वेष॑श्रिः । 37) वेष॑श्रि रस्यसि॒ वेष॑श्रि॒-र्वेष॑श्रि रसि । 37) वेष॑श्रि॒रिति॒ वेष॑ - श्रिः॒ । 38) अ॒सि॒ वस्य॑ष्टि॒-र्वस्य॑ष्टि रस्यसि॒ वस्य॑ष्टिः । 39) वस्य॑ष्टि रस्यसि॒ वस्य॑ष्टि॒-र्वस्य॑ष्टि रसि । 40) अ॒सीती त्य॑स्य॒ सीति॑ । 41) इति॑ प्र॒जाः प्र॒जा इतीति॑ प्र॒जाः । 42) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व । 42) प्र॒जा इति॑ प्र - जाः । 43) ए॒व प्रजा॑ताः॒ प्रजा॑ता ए॒वैव प्रजा॑ताः । 44) प्रजा॑ता ए॒ष्वे॑षु प्रजा॑ताः॒ प्रजा॑ता ए॒षु । 44) प्रजा॑ता॒ इति॒ प्र - जा॒ताः॒ । 45) ए॒षु लो॒केषु॑ लो॒के ष्वे॒ ष्वे॑षु लो॒केषु॑ । 46) लो॒केषु॒ प्रति॒ प्रति॑ लो॒केषु॑ लो॒केषु॒ प्रति॑ । 47) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति । 48) स्था॒प॒य॒ति॒ सात्मा॒ सात्मा᳚ स्थापयति स्थापयति॒ सात्मा᳚ । 49) सात्मा॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒ग्ं॒ सात्मा॒ सात्मा॒ ऽन्तरि॑क्षम् । 49) सात्मेति॒ स - आ॒त्मा॒ । 50) अ॒न्तरि॑क्षग्ं रोहति रोहत्य॒ न्तरि॑क्ष म॒न्तरि॑क्षग्ं रोहति । 51) रो॒ह॒ति॒ सप्रा॑ण॒-स्सप्रा॑णो रोहति रोहति॒ सप्रा॑णः । 52) सप्रा॑णो॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्थ्सप्रा॑ण॒-स्सप्रा॑णो॒ ऽमुष्मिन्न्॑ । 52) सप्रा॑ण॒ इति॒ स - प्रा॒णः॒ । 53) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 54) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ । 55) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 56) ति॒ष्ठ॒त्य व्य॑र्धु॒को ऽव्य॑र्धुक स्तिष्ठति तिष्ठ॒त्य व्य॑र्धुकः । 57) अव्य॑र्धुकः प्राणापा॒नाभ्या᳚-म्प्राणापा॒नाभ्या॒ मव्य॑र्धु॒को ऽव्य॑र्धुकः प्राणापा॒नाभ्या᳚म् । 57) अव्य॑र्धुक॒ इत्यवि॑ - अ॒र्धु॒कः॒ । 58) प्रा॒णा॒पा॒नाभ्या᳚-म्भवति भवति प्राणापा॒नाभ्या᳚-म्प्राणापा॒नाभ्या᳚-म्भवति । 58) प्रा॒णा॒पा॒नाभ्या॒मिति॑ प्राण - अ॒पा॒नाभ्या᳚म् । 59) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 60) य ए॒व मे॒वं-योँ य ए॒वम् । 61) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 62) वेदेति॒ वेद॑ । ॥ 30 ॥ (62/74) ॥ अ. 6 ॥
1) ना॒क॒सद्भि॒-र्वै वै ना॑क॒सद्भि॑-र्नाक॒सद्भि॒-र्वै । 1) ना॒क॒सद्भि॒रिति॑ नाक॒सत् - भिः॒ । 2) वै दे॒वा दे॒वा वै वै दे॒वाः । 3) दे॒वा-स्सु॑व॒र्गग्ं सु॑व॒र्ग-न्दे॒वा दे॒वा-स्सु॑व॒र्गम् । 4) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 4) सु॒व॒र्गमिति॑ सुवः - गम् । 5) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् । 6) आ॒य॒-न्त-त्तदा॑य-न्नाय॒-न्तत् । 7) त-न्ना॑क॒सदा᳚-न्नाक॒सदा॒-न्त-त्त-न्ना॑क॒सदा᳚म् । 8) ना॒क॒सदा᳚-न्नाकस॒त्त्व-न्ना॑कस॒त्त्व-न्ना॑क॒सदा᳚-न्नाक॒सदा᳚-न्नाकस॒त्त्वम् । 8) ना॒क॒सदा॒मिति॑ नाक - सदा᳚म् । 9) ना॒क॒स॒त्त्वं-यँ-द्य-न्ना॑कस॒त्त्व-न्ना॑कस॒त्त्वं-यँत् । 9) ना॒क॒स॒त्त्वमिति॑ नाकसत् - त्वम् । 10) य-न्ना॑क॒सदो॑ नाक॒सदो॒ य-द्य-न्ना॑क॒सदः॑ । 11) ना॒क॒सद॑ उप॒दधा᳚ त्युप॒दधा॑ति नाक॒सदो॑ नाक॒सद॑ उप॒दधा॑ति । 11) ना॒क॒सद॒ इति॑ नाक - सदः॑ । 12) उ॒प॒दधा॑ति नाक॒सद्भि॑-र्नाक॒सद्भि॑ रुप॒दधा᳚ त्युप॒दधा॑ति नाक॒सद्भिः॑ । 12) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 13) ना॒क॒सद्भि॑ रे॒वैव ना॑क॒सद्भि॑-र्नाक॒सद्भि॑ रे॒व । 13) ना॒क॒सद्भि॒रिति॑ नाक॒सत् - भिः॒ । 14) ए॒व त-त्तदे॒ वैव तत् । 15) त-द्यज॑मानो॒ यज॑मान॒ स्त-त्त-द्यज॑मानः । 16) यज॑मान-स्सुव॒र्गग्ं सु॑व॒र्गं-यँज॑मानो॒ यज॑मान-स्सुव॒र्गम् । 17) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 17) सु॒व॒र्गमिति॑ सुवः - गम् । 18) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 19) ए॒ति॒ सु॒व॒र्ग-स्सु॑व॒र्ग ए᳚त्येति सुव॒र्गः । 20) सु॒व॒र्गो वै वै सु॑व॒र्ग-स्सु॑व॒र्गो वै । 20) सु॒व॒र्ग इति॑ सुवः - गः । 21) वै लो॒को लो॒को वै वै लो॒कः । 22) लो॒को नाको॒ नाको॑ लो॒को लो॒को नाकः॑ । 23) नाको॒ यस्य॒ यस्य॒ नाको॒ नाको॒ यस्य॑ । 24) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 25) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । 26) उ॒प॒धी॒यन्ते॒ न नोप॑धी॒यन्त॑ उपधी॒यन्ते॒ न । 26) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 27) नास्मा॑ अस्मै॒ न नास्मै᳚ । 28) अ॒स्मा॒ अक॒ मक॑ मस्मा अस्मा॒ अक᳚म् । 29) अक॑-म्भवति भव॒ त्यक॒ मक॑-म्भवति । 30) भ॒व॒ति॒ य॒ज॒मा॒ना॒य॒त॒नं-यँ॑जमानायत॒न-म्भ॑वति भवति यजमानायत॒नम् । 31) य॒ज॒मा॒ना॒य॒त॒नं-वैँ वै य॑जमानायत॒नं-यँ॑जमानायत॒नं-वैँ । 31) य॒ज॒मा॒ना॒य॒त॒नमिति॑ यजमान - आ॒य॒त॒नम् । 32) वै ना॑क॒सदो॑ नाक॒सदो॒ वै वै ना॑क॒सदः॑ । 33) ना॒क॒सदो॒ य-द्य-न्ना॑क॒सदो॑ नाक॒सदो॒ यत् । 33) ना॒क॒सद॒ इति॑ नाक - सदः॑ । 34) य-न्ना॑क॒सदो॑ नाक॒सदो॒ य-द्य-न्ना॑क॒सदः॑ । 35) ना॒क॒सद॑ उप॒दधा᳚ त्युप॒दधा॑ति नाक॒सदो॑ नाक॒सद॑ उप॒दधा॑ति । 35) ना॒क॒सद॒ इति॑ नाक - सदः॑ । 36) उ॒प॒दधा᳚ त्या॒यत॑न मा॒यत॑न मुप॒दधा᳚ त्युप॒दधा᳚ त्या॒यत॑नम् । 36) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 37) आ॒यत॑न मे॒वै वायत॑न मा॒यत॑न मे॒व । 37) आ॒यत॑न॒मित्या᳚ - यत॑नम् । 38) ए॒व त-त्तदे॒ वैव तत् । 39) त-द्यज॑मानो॒ यज॑मान॒ स्त-त्त-द्यज॑मानः । 40) यज॑मानः कुरुते कुरुते॒ यज॑मानो॒ यज॑मानः कुरुते । 41) कु॒रु॒ते॒ पृ॒ष्ठाना᳚-म्पृ॒ष्ठाना᳚-ङ्कुरुते कुरुते पृ॒ष्ठाना᳚म् । 42) पृ॒ष्ठानां॒-वैँ वै पृ॒ष्ठाना᳚-म्पृ॒ष्ठानां॒-वैँ । 43) वा ए॒त दे॒त-द्वै वा ए॒तत् । 44) ए॒त-त्तेज॒ स्तेज॑ ए॒त दे॒त-त्तेजः॑ । 45) तेज॒-स्सम्भृ॑त॒ग्ं॒ सम्भृ॑त॒-न्तेज॒ स्तेज॒-स्सम्भृ॑तम् । 46) सम्भृ॑तं॒-यँ-द्य-थ्सम्भृ॑त॒ग्ं॒ सम्भृ॑तं॒-यँत् । 46) सम्भृ॑त॒मिति॒ सं - भृ॒त॒म् । 47) य-न्ना॑क॒सदो॑ नाक॒सदो॒ य-द्य-न्ना॑क॒सदः॑ । 48) ना॒क॒सदो॒ य-द्य-न्ना॑क॒सदो॑ नाक॒सदो॒ यत् । 48) ना॒क॒सद॒ इति॑ नाक - सदः॑ । 49) य-न्ना॑क॒सदो॑ नाक॒सदो॒ य-द्य-न्ना॑क॒सदः॑ । 50) ना॒क॒सद॑ उप॒दधा᳚ त्युप॒दधा॑ति नाक॒सदो॑ नाक॒सद॑ उप॒दधा॑ति । 50) ना॒क॒सद॒ इति॑ नाक - सदः॑ । ॥ 31 ॥ (50/68)
1) उ॒प॒दधा॑ति पृ॒ष्ठाना᳚-म्पृ॒ष्ठाना॑ मुप॒दधा᳚ त्युप॒दधा॑ति पृ॒ष्ठाना᳚म् । 1) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 2) पृ॒ष्ठाना॑ मे॒वैव पृ॒ष्ठाना᳚-म्पृ॒ष्ठाना॑ मे॒व । 3) ए॒व तेज॒ स्तेज॑ ए॒वैव तेजः॑ । 4) तेजो ऽवाव॒ तेज॒ स्तेजो ऽव॑ । 5) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 6) रु॒न्धे॒ प॒ञ्च॒चोडाः᳚ पञ्च॒चोडा॑ रुन्धे रुन्धे पञ्च॒चोडाः᳚ । 7) प॒ञ्च॒चोडा॒ उपोप॑ पञ्च॒चोडाः᳚ पञ्च॒चोडा॒ उप॑ । 7) प॒ञ्च॒चोडा॒ इति॑ पञ्च - चोडाः᳚ । 8) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 9) द॒धा॒त्य॒ फ्स॒रसो᳚ ऽफ्स॒रसो॑ दधाति दधात्य फ्स॒रसः॑ । 10) अ॒फ्स॒रस॑ ए॒वैवा फ्स॒रसो᳚ ऽफ्स॒रस॑ ए॒व । 11) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 12) ए॒न॒ मे॒ता ए॒ता ए॑न मेन मे॒ताः । 13) ए॒ता भू॒ता भू॒ता ए॒ता ए॒ता भू॒ताः । 14) भू॒ता अ॒मुष्मि॑-न्न॒मुष्मि॑-न्भू॒ता भू॒ता अ॒मुष्मिन्न्॑ । 15) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 16) लो॒क उपोप॑ लो॒के लो॒क उप॑ । 17) उप॑ शेरे शेर॒ उपोप॑ शेरे । 18) शे॒रे ऽथो॒ अथो॑ शेरे शे॒रे ऽथो᳚ । 19) अथो॑ तनू॒पानी᳚ स्तनू॒पानी॒ रथो॒ अथो॑ तनू॒पानीः᳚ । 19) अथो॒ इत्यथो᳚ । 20) त॒नू॒पानी॑ रे॒वैव त॑नू॒पानी᳚ स्तनू॒पानी॑ रे॒व । 20) त॒नू॒पानी॒रिति॑ तनू - पानीः᳚ । 21) ए॒वैता ए॒ता ए॒वैवैताः । 22) ए॒ता यज॑मानस्य॒ यज॑मान स्यै॒ता ए॒ता यज॑मानस्य । 23) यज॑मानस्य॒ यं-यंँ यज॑मानस्य॒ यज॑मानस्य॒ यम् । 24) य-न्द्वि॒ष्या-द्द्वि॒ष्या-द्यं-यँ-न्द्वि॒ष्यात् । 25) द्वि॒ष्या-त्त-न्त-न्द्वि॒ष्या-द्द्वि॒ष्या-त्तम् । 26) त मु॑प॒दध॑ दुप॒दध॒-त्त-न्त मु॑प॒दध॑त् । 27) उ॒प॒दध॑-द्ध्याये-द्ध्याये दुप॒दध॑ दुप॒दध॑-द्ध्यायेत् । 27) उ॒प॒दध॒दित्यु॑प - दध॑त् । 28) ध्या॒ये॒ दे॒ताभ्य॑ ए॒ताभ्यो᳚ ध्याये-द्ध्याये दे॒ताभ्यः॑ । 29) ए॒ताभ्य॑ ए॒वै वैताभ्य॑ ए॒ताभ्य॑ ए॒व । 30) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 31) ए॒न॒-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य एन मेन-न्दे॒वता᳚भ्यः । 32) दे॒वता᳚भ्य॒ आ दे॒वता᳚भ्यो दे॒वता᳚भ्य॒ आ । 33) आ वृ॑श्चति वृश्च॒त्या वृ॑श्चति । 34) वृ॒श्च॒ति॒ ता॒ज-क्ता॒जग् वृ॑श्चति वृश्चति ता॒जक् । 35) ता॒जगार्ति॒ मार्ति॑-न्ता॒ज-क्ता॒जगार्ति᳚म् । 36) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 37) आर्च्छ॑ त्यृच्छ त्यार्च्छति । 38) ऋ॒च्छ॒ त्युत्त॑रा॒ उत्त॑रा ऋच्छ त्यृच्छ॒ त्युत्त॑राः । 39) उत्त॑रा नाक॒सद्भ्यो॑ नाक॒सद्भ्य॒ उत्त॑रा॒ उत्त॑रा नाक॒सद्भ्यः॑ । 39) उत्त॑रा॒ इत्युत् - त॒राः॒ । 40) ना॒क॒सद्भ्य॒ उपोप॑ नाक॒सद्भ्यो॑ नाक॒सद्भ्य॒ उप॑ । 40) ना॒क॒सद्भ्य॒ इति॑ नाक॒सत् - भ्यः॒ । 41) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 42) द॒धा॒ति॒ यथा॒ यथा॑ दधाति दधाति॒ यथा᳚ । 43) यथा॑ जा॒या-ञ्जा॒यां-यँथा॒ यथा॑ जा॒याम् । 44) जा॒या मा॒नीया॒नीय॑ जा॒या-ञ्जा॒या मा॒नीय॑ । 45) आ॒नीय॑ गृ॒हेषु॑ गृ॒हे ष्वा॒नीया॒ नीय॑ गृ॒हेषु॑ । 45) आ॒नीयेत्या᳚ - नीय॑ । 46) गृ॒हेषु॑ निषा॒दय॑ति निषा॒दय॑ति गृ॒हेषु॑ गृ॒हेषु॑ निषा॒दय॑ति । 47) नि॒षा॒दय॑ति ता॒दृ-क्ता॒दृ-न्नि॑षा॒दय॑ति निषा॒दय॑ति ता॒दृक् । 47) नि॒षा॒दय॒तीति॑ नि - सा॒दय॑ति । 48) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृगे॒व । 49) ए॒व त-त्तदे॒ वैव तत् । 50) त-त्प॒श्चा-त्प॒श्चा-त्त-त्त-त्प॒श्चात् । ॥ 32 ॥ (50/59)
1) प॒श्चा-त्प्राची॒-म्प्राची᳚-म्प॒श्चा-त्प॒श्चा-त्प्राची᳚म् । 2) प्राची॑ मुत्त॒मा मु॑त्त॒मा-म्प्राची॒-म्प्राची॑ मुत्त॒माम् । 3) उ॒त्त॒मा मुपोपो᳚ त्त॒मा मु॑त्त॒मा मुप॑ । 3) उ॒त्त॒मामित्यु॑त् - त॒माम् । 4) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 5) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 6) तस्मा᳚-त्प॒श्चा-त्प॒श्चा-त्तस्मा॒-त्तस्मा᳚-त्प॒श्चात् । 7) प॒श्चा-त्प्राची॒ प्राची॑ प॒श्चा-त्प॒श्चा-त्प्राची᳚ । 8) प्राची॒ पत्नी॒ पत्नी॒ प्राची॒ प्राची॒ पत्नी᳚ । 9) पत्न्य न्वनु॒ पत्नी॒ पत्न्यनु॑ । 10) अन्वा᳚स्त आस्ते॒ ऽन्वन् वा᳚स्ते । 11) आ॒स्ते॒ स्व॒य॒मा॒तृ॒ण्णाग् स्व॑यमातृ॒ण्णा मा᳚स्त आस्ते स्वयमातृ॒ण्णाम् । 12) स्व॒य॒मा॒तृ॒ण्णा-ञ्च॑ च स्वयमातृ॒ण्णाग् स्व॑यमातृ॒ण्णा-ञ्च॑ । 12) स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । 13) च॒ वि॒क॒र्णीं-विँ॑क॒र्णी-ञ्च॑ च विक॒र्णीम् । 14) वि॒क॒र्णी-ञ्च॑ च विक॒र्णीं-विँ॑क॒र्णी-ञ्च॑ । 14) वि॒क॒र्णीमिति॑ वि - क॒र्णीम् । 15) चो॒त्त॒मे उ॑त्त॒मे च॑ चोत्त॒मे । 16) उ॒त्त॒मे उपोपो᳚ त्त॒मे उ॑त्त॒मे उप॑ । 16) उ॒त्त॒मे इत्यु॑त् - त॒मे । 17) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 18) द॒धा॒ति॒ प्रा॒णः प्रा॒णो द॑धाति दधाति प्रा॒णः । 19) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै । 19) प्रा॒ण इति॑ प्र - अ॒नः । 20) वै स्व॑यमातृ॒ण्णा स्व॑यमातृ॒ण्णा वै वै स्व॑यमातृ॒ण्णा । 21) स्व॒य॒मा॒तृ॒ण्णा ऽऽयु॒ रायु॑-स्स्वयमातृ॒ण्णा स्व॑यमातृ॒ण्णा ऽऽयुः॑ । 21) स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । 22) आयु॑-र्विक॒र्णी वि॑क॒र्ण्यायु॒ रायु॑-र्विक॒र्णी । 23) वि॒क॒र्णी प्रा॒ण-म्प्रा॒णं-विँ॑क॒र्णी वि॑क॒र्णी प्रा॒णम् । 23) वि॒क॒र्णीति॑ वि - क॒र्णी । 24) प्रा॒ण-ञ्च॑ च प्रा॒ण-म्प्रा॒ण-ञ्च॑ । 24) प्रा॒णमिति॑ प्र - अ॒नम् । 25) चै॒वैव च॑ चै॒व । 26) ए॒वायु॒ रायु॑ रे॒वै वायुः॑ । 27) आयु॑श्च॒ चायु॒ रायु॑श्च । 28) च॒ प्रा॒णाना᳚-म्प्रा॒णाना᳚-ञ्च च प्रा॒णाना᳚म् । 29) प्रा॒णाना॑ मुत्त॒मा वु॑त्त॒मौ प्रा॒णाना᳚-म्प्रा॒णाना॑ मुत्त॒मौ । 29) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 30) उ॒त्त॒मौ ध॑त्ते धत्त उत्त॒मा वु॑त्त॒मौ ध॑त्ते । 30) उ॒त्त॒मावित्यु॑त् - त॒मौ । 31) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् । 32) तस्मा᳚-त्प्रा॒णः प्रा॒ण स्तस्मा॒-त्तस्मा᳚-त्प्रा॒णः । 33) प्रा॒णश्च॑ च प्रा॒णः प्रा॒णश्च॑ । 33) प्रा॒ण इति॑ प्र - अ॒नः । 34) चायु॒ रायु॑श्च॒ चायुः॑ । 35) आयु॑श्च॒ चायु॒ रायु॑श्च । 36) च॒ प्रा॒णाना᳚-म्प्रा॒णाना᳚-ञ्च च प्रा॒णाना᳚म् । 37) प्रा॒णाना॑ मुत्त॒मा वु॑त्त॒मौ प्रा॒णाना᳚-म्प्रा॒णाना॑ मुत्त॒मौ । 37) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 38) उ॒त्त॒मौ न नोत्त॒मा वु॑त्त॒मौ न । 38) उ॒त्त॒मावित्यु॑त् - त॒मौ । 39) नान्या म॒न्या-न्न नान्याम् । 40) अ॒न्या मुत्त॑रा॒ मुत्त॑रा म॒न्या म॒न्या मुत्त॑राम् । 41) उत्त॑रा॒ मिष्ट॑का॒ मिष्ट॑का॒ मुत्त॑रा॒ मुत्त॑रा॒ मिष्ट॑काम् । 41) उत्त॑रा॒मित्युत् - त॒रा॒म् । 42) इष्ट॑का॒ मुपोपे ष्ट॑का॒ मिष्ट॑का॒ मुप॑ । 43) उप॑ दद्ध्या-द्दद्ध्या॒ दुपोप॑ दद्ध्यात् । 44) द॒द्ध्या॒-द्य-द्य-द्द॑द्ध्या-द्दद्ध्या॒-द्यत् । 45) यद॒न्या म॒न्यां-यँ-द्यद॒न्याम् । 46) अ॒न्या मुत्त॑रा॒ मुत्त॑रा म॒न्या म॒न्या मुत्त॑राम् । 47) उत्त॑रा॒ मिष्ट॑का॒ मिष्ट॑का॒ मुत्त॑रा॒ मुत्त॑रा॒ मिष्ट॑काम् । 47) उत्त॑रा॒मित्युत् - त॒रा॒म् । 48) इष्ट॑का मुपद॒द्ध्या दु॑पद॒द्ध्या दिष्ट॑का॒ मिष्ट॑का मुपद॒द्ध्यात् । 49) उ॒प॒द॒द्ध्या-त्प॑शू॒ना-म्प॑शू॒ना मु॑पद॒द्ध्या दु॑पद॒द्ध्या-त्प॑शू॒नाम् । 49) उ॒प॒द॒द्ध्यादित्यु॑प - द॒द्ध्यात् । 50) प॒शू॒ना-ञ्च॑ च पशू॒ना-म्प॑शू॒ना-ञ्च॑ । ॥ 33 ॥ (50/66)
1) च॒ यज॑मानस्य॒ यज॑मानस्य च च॒ यज॑मानस्य । 2) यज॑मानस्य च च॒ यज॑मानस्य॒ यज॑मानस्य च । 3) च॒ प्रा॒ण-म्प्रा॒ण-ञ्च॑ च प्रा॒णम् । 4) प्रा॒ण-ञ्च॑ च प्रा॒ण-म्प्रा॒ण-ञ्च॑ । 4) प्रा॒णमिति॑ प्र - अ॒नम् । 5) चायु॒ रायु॑श्च॒ चायुः॑ । 6) आयु॑श्च॒ चायु॒ रायु॑श्च । 7) चाप्यपि॑ च॒ चापि॑ । 8) अपि॑ दद्ध्या-द्दद्ध्या॒ दप्यपि॑ दद्ध्यात् । 9) द॒द्ध्या॒-त्तस्मा॒-त्तस्मा᳚-द्दद्ध्या-द्दद्ध्या॒-त्तस्मा᳚त् । 10) तस्मा॒-न्न न तस्मा॒-त्तस्मा॒-न्न । 11) नान्या ऽन्या न नान्या । 12) अ॒न्यो त्त॒रोत्त॑रा॒ ऽन्या ऽन्योत्त॑रा । 13) उत्त॒रेष्ट॒ केष्ट॒ कोत्त॒ रोत्त॒ रेष्ट॑का । 13) उत्त॒रेत्युत् - त॒रा॒ । 14) इष्ट॑कोप॒धे यो॑प॒धे येष्ट॒ केष्ट॑ कोप॒धेया᳚ । 15) उ॒प॒धेया᳚ स्वयमातृ॒ण्णाग् स्व॑यमातृ॒ण्णा मु॑प॒धेयो॑ प॒धेया᳚ स्वयमातृ॒ण्णाम् । 15) उ॒प॒धेयेत्यु॑प - धेया᳚ । 16) स्व॒य॒मा॒तृ॒ण्णा मुपोप॑ स्वयमातृ॒ण्णाग् स्व॑यमातृ॒ण्णा मुप॑ । 16) स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । 17) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 18) द॒धा॒ त्य॒सा व॒सौ द॑धाति दधा त्य॒सौ । 19) अ॒सौ वै वा अ॒सा व॒सौ वै । 20) वै स्व॑यमातृ॒ण्णा स्व॑यमातृ॒ण्णा वै वै स्व॑यमातृ॒ण्णा । 21) स्व॒य॒मा॒तृ॒ण्णा ऽमू म॒मूग् स्व॑यमातृ॒ण्णा स्व॑यमातृ॒ण्णा ऽमूम् । 21) स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । 22) अ॒मू मे॒वै वामू म॒मू मे॒व । 23) ए॒वो पोपै॒ वैवोप॑ । 24) उप॑ धत्ते धत्त॒ उपोप॑ धत्ते । 25) ध॒त्ते ऽश्व॒ मश्व॑-न्धत्ते ध॒त्ते ऽश्व᳚म् । 26) अश्व॒ मुपो पाश्व॒ मश्व॒ मुप॑ । 27) उप॑ घ्रापयति घ्रापय॒ त्युपोप॑ घ्रापयति । 28) घ्रा॒प॒य॒ति॒ प्रा॒ण-म्प्रा॒ण-ङ्घ्रा॑पयति घ्रापयति प्रा॒णम् । 29) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व । 29) प्रा॒णमिति॑ प्र - अ॒नम् । 30) ए॒वास्या॑ मस्या मे॒वै वास्या᳚म् । 31) अ॒स्या॒-न्द॒धा॒ति॒ द॒धा॒ त्य॒स्या॒ म॒स्या॒-न्द॒धा॒ति॒ । 32) द॒धा॒ त्यथो॒ अथो॑ दधाति दधा॒ त्यथो᳚ । 33) अथो᳚ प्राजाप॒त्यः प्रा॑जाप॒त्यो ऽथो॒ अथो᳚ प्राजाप॒त्यः । 33) अथो॒ इत्यथो᳚ । 34) प्रा॒जा॒प॒त्यो वै वै प्रा॑जाप॒त्यः प्रा॑जाप॒त्यो वै । 34) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । 35) वा अश्वो ऽश्वो॒ वै वा अश्वः॑ । 36) अश्वः॑ प्र॒जाप॑तिना प्र॒जाप॑ति॒ना ऽश्वो ऽश्वः॑ प्र॒जाप॑तिना । 37) प्र॒जाप॑तिनै॒ वैव प्र॒जाप॑तिना प्र॒जाप॑ति नै॒व । 37) प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । 38) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् । 39) अ॒ग्नि-ञ्चि॑नुते चिनुते॒ ऽग्नि म॒ग्नि-ञ्चि॑नुते । 40) चि॒नु॒ते॒ स्व॒य॒मा॒तृ॒ण्णा स्व॑यमातृ॒ण्णा चि॑नुते चिनुते स्वयमातृ॒ण्णा । 41) स्व॒य॒मा॒तृ॒ण्णा भ॑वति भवति स्वयमातृ॒ण्णा स्व॑यमातृ॒ण्णा भ॑वति । 41) स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । 42) भ॒व॒ति॒ प्रा॒णाना᳚-म्प्रा॒णाना᳚-म्भवति भवति प्रा॒णाना᳚म् । 43) प्रा॒णाना॒ मुथ्सृ॑ष्ट्या॒ उथ्सृ॑ष्ट्यै प्रा॒णाना᳚-म्प्रा॒णाना॒ मुथ्सृ॑ष्ट्यै । 43) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 44) उथ्सृ॑ष्ट्या॒ अथो॒ अथो॒ उथ्सृ॑ष्ट्या॒ उथ्सृ॑ष्ट्या॒ अथो᳚ । 44) उथ्सृ॑ष्ट्या॒ इत्युत् - सृ॒ष्ट्यै॒ । 45) अथो॑ सुव॒र्गस्य॑ सुव॒र्गस्याथो॒ अथो॑ सुव॒र्गस्य॑ । 45) अथो॒ इत्यथो᳚ । 46) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 46) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 47) लो॒कस्या नु॑ख्यात्या॒ अनु॑ख्यात्यै लो॒कस्य॑ लो॒कस्या नु॑ख्यात्यै । 48) अनु॑ख्यात्या ए॒षैषा ऽनु॑ख्यात्या॒ अनु॑ख्यात्या ए॒षा । 48) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । 49) ए॒षा वै वा ए॒षैषा वै । 50) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 51) दे॒वानां॒-विँक्रा᳚न्ति॒-र्विक्रा᳚न्ति-र्दे॒वाना᳚-न्दे॒वानां॒-विँक्रा᳚न्तिः । 52) विक्रा᳚न्ति॒-र्य-द्य-द्विक्रा᳚न्ति॒-र्विक्रा᳚न्ति॒-र्यत् । 52) विक्रा᳚न्ति॒रिति॒ वि - क्रा॒न्तिः॒ । 53) य-द्वि॑क॒र्णी वि॑क॒र्णी य-द्य-द्वि॑क॒र्णी । 54) वि॒क॒र्णी य-द्य-द्वि॑क॒र्णी वि॑क॒र्णी यत् । 54) वि॒क॒र्णीति॑ वि - क॒र्णी । 55) य-द्वि॑क॒र्णीं-विँ॑क॒र्णीं-यँ-द्य-द्वि॑क॒र्णीम् । 56) वि॒क॒र्णी मु॑प॒दधा᳚ त्युप॒दधा॑ति विक॒र्णीं-विँ॑क॒र्णी मु॑प॒दधा॑ति । 56) वि॒क॒र्णीमिति॑ वि - क॒र्णीम् । 57) उ॒प॒दधा॑ति दे॒वाना᳚-न्दे॒वाना॑ मुप॒दधा᳚ त्युप॒दधा॑ति दे॒वाना᳚म् । 57) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 58) दे॒वाना॑ मे॒वैव दे॒वाना᳚-न्दे॒वाना॑ मे॒व । 59) ए॒व विक्रा᳚न्तिं॒-विँक्रा᳚न्ति मे॒वैव विक्रा᳚न्तिम् । 60) विक्रा᳚न्ति॒ मन्वनु॒ विक्रा᳚न्तिं॒-विँक्रा᳚न्ति॒ मनु॑ । 60) विक्रा᳚न्ति॒मिति॒ वि - क्रा॒न्ति॒म् । 61) अनु॒ वि व्यन्वनु॒ वि । 62) वि क्र॑मते क्रमते॒ वि वि क्र॑मते । 63) क्र॒म॒त॒ उ॒त्त॒र॒त उ॑त्तर॒तः क्र॑मते क्रमत उत्तर॒तः । 64) उ॒त्त॒र॒त उपोपो᳚त्तर॒त उ॑त्तर॒त उप॑ । 64) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 65) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 66) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 67) तस्मा॑ दुत्तर॒तउ॑पचार उत्तर॒तउ॑पचार॒ स्तस्मा॒-त्तस्मा॑ दुत्तर॒तउ॑पचारः । 68) उ॒त्त॒र॒तउ॑पचारो॒ ऽग्नि र॒ग्नि रु॑त्तर॒तउ॑पचार उत्तर॒तउ॑पचारो॒ ऽग्निः । 68) उ॒त्त॒र॒तउ॑पचार॒ इत्यु॑त्तर॒तः - उ॒प॒चा॒रः॒ । 69) अ॒ग्नि-र्वा॑यु॒मती॑ वायु॒म त्य॒ग्नि र॒ग्नि-र्वा॑यु॒मती᳚ । 70) वा॒यु॒मती॑ भवति भवति वायु॒मती॑ वायु॒मती॑ भवति । 70) वा॒यु॒मतीति॑ वायु - मती᳚ । 71) भ॒व॒ति॒ समि॑द्ध्यै॒ समि॑द्ध्यै भवति भवति॒ समि॑द्ध्यै । 72) समि॑द्ध्या॒ इति॒ सं - इ॒द्ध्यै॒ । ॥ 34 ॥ (72/95) ॥ अ. 7 ॥
1) छन्दा॒ग्॒ स्युपोप॒ छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्युप॑ । 2) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 3) द॒धा॒ति॒ प॒शवः॑ प॒शवो॑ दधाति दधाति प॒शवः॑ । 4) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 5) वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि । 6) छन्दाग्ं॑सि प॒शू-न्प॒शून् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि प॒शून् । 7) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व । 8) ए॒वावा वै॒वै वाव॑ । 9) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 10) रु॒न्धे॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि रुन्धे रुन्धे॒ छन्दाग्ं॑सि । 11) छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै । 12) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 13) दे॒वानां᳚-वाँ॒मं-वाँ॒म-न्दे॒वाना᳚-न्दे॒वानां᳚-वाँ॒मम् । 14) वा॒म-म्प॒शवः॑ प॒शवो॑ वा॒मं-वाँ॒म-म्प॒शवः॑ । 15) प॒शवो॑ वा॒मं-वाँ॒म-म्प॒शवः॑ प॒शवो॑ वा॒मम् । 16) वा॒म मे॒वैव वा॒मं-वाँ॒म मे॒व । 17) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 18) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 19) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 20) रु॒न्ध॒ ए॒ता मे॒ताग्ं रु॑न्धे रुन्ध ए॒ताम् । 21) ए॒ताग्ं ह॑ है॒ता मे॒ताग्ं ह॑ । 22) ह॒ वै वै ह॑ ह॒ वै । 23) वै य॒ज्ञसे॑नो य॒ज्ञसे॑नो॒ वै वै य॒ज्ञसे॑नः । 24) य॒ज्ञसे॑न श्चैत्रियाय॒ण श्चै᳚त्रियाय॒णो य॒ज्ञसे॑नो य॒ज्ञसे॑न श्चैत्रियाय॒णः । 24) य॒ज्ञसे॑न॒ इति॑ य॒ज्ञ - से॒नः॒ । 25) चै॒त्रि॒या॒य॒ण श्चिति॒-ञ्चिति॑-ञ्चैत्रियाय॒ण श्चै᳚त्रियाय॒ण श्चिति᳚म् । 26) चितिं॑-विँ॒दां-विँ॒दा-ञ्चिति॒-ञ्चितिं॑-विँ॒दाम् । 27) वि॒दा-ञ्च॑कार चकार वि॒दां-विँ॒दा-ञ्च॑कार । 28) च॒का॒र॒ तया॒ तया॑ चकार चकार॒ तया᳚ । 29) तया॒ वै वै तया॒ तया॒ वै । 30) वै स स वै वै सः । 31) स प॒शू-न्प॒शू-न्थ्स स प॒शून् । 32) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 33) अवा॑रुन्धा रु॒न्धा वावा॑ रुन्ध । 34) अ॒रु॒न्ध॒ य-द्यद॑रुन्धा रुन्ध॒ यत् । 35) यदे॒ता मे॒तां-यँ-द्यदे॒ताम् । 36) ए॒ता मु॑प॒दधा᳚ त्युप॒दधा᳚ त्ये॒ता मे॒ता मु॑प॒दधा॑ति । 37) उ॒प॒दधा॑ति प॒शू-न्प॒शू नु॑प॒दधा᳚ त्युप॒दधा॑ति प॒शून् । 37) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 38) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व । 39) ए॒वावा वै॒वै वाव॑ । 40) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 41) रु॒न्धे॒ गा॒य॒त्री-र्गा॑य॒त्री रु॑न्धे रुन्धे गाय॒त्रीः । 42) गा॒य॒त्रीः पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्गाय॒त्री-र्गा॑य॒त्रीः पु॒रस्ता᳚त् । 43) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 44) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 45) द॒धा॒ति॒ तेज॒ स्तेजो॑ दधाति दधाति॒ तेजः॑ । 46) तेजो॒ वै वै तेज॒ स्तेजो॒ वै । 47) वै गा॑य॒त्री गा॑य॒त्री वै वै गा॑य॒त्री । 48) गा॒य॒त्री तेज॒ स्तेजो॑ गाय॒त्री गा॑य॒त्री तेजः॑ । 49) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व । 50) ए॒व मु॑ख॒तो मु॑ख॒त ए॒वैव मु॑ख॒तः । ॥ 35 ॥ (50/52)
1) मु॒ख॒तो ध॑त्ते धत्ते मुख॒तो मु॑ख॒तो ध॑त्ते । 2) ध॒त्ते॒ मू॒र्ध॒न्वती᳚-र्मूर्ध॒न्वती᳚-र्धत्ते धत्ते मूर्ध॒न्वतीः᳚ । 3) मू॒र्ध॒न्वती᳚-र्भवन्ति भवन्ति मूर्ध॒न्वती᳚-र्मूर्ध॒न्वती᳚-र्भवन्ति । 3) मू॒र्ध॒न्वती॒रिति॑ मूर्धन्न् - वतीः᳚ । 4) भ॒व॒न्ति॒ मू॒र्धान॑-म्मू॒र्धान॑-म्भवन्ति भवन्ति मू॒र्धान᳚म् । 5) मू॒र्धान॑ मे॒वैव मू॒र्धान॑-म्मू॒र्धान॑ मे॒व । 6) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 7) ए॒न॒ग्ं॒ स॒मा॒नानाग्ं॑ समा॒नाना॑ मेन मेनग्ं समा॒नाना᳚म् । 8) स॒मा॒नाना᳚-ङ्करोति करोति समा॒नानाग्ं॑ समा॒नाना᳚-ङ्करोति । 9) क॒रो॒ति॒ त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभः॑ करोति करोति त्रि॒ष्टुभः॑ । 10) त्रि॒ष्टुभ॒ उपोप॑ त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभ॒ उप॑ । 11) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 12) द॒धा॒ती॒ न्द्रि॒य मि॑न्द्रि॒य-न्द॑धाति दधाती न्द्रि॒यम् । 13) इ॒न्द्रि॒यं-वैँ वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ । 14) वै त्रि॒ष्टु-क्त्रि॒ष्टुग् वै वै त्रि॒ष्टुक् । 15) त्रि॒ष्टु गि॑न्द्रि॒य मि॑न्द्रि॒य-न्त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रि॒यम् । 16) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व । 17) ए॒व म॑द्ध्य॒तो म॑द्ध्य॒त ए॒वैव म॑द्ध्य॒तः । 18) म॒द्ध्य॒तो ध॑त्ते धत्ते मद्ध्य॒तो म॑द्ध्य॒तो ध॑त्ते । 19) ध॒त्ते॒ जग॑ती॒-र्जग॑ती-र्धत्ते धत्ते॒ जग॑तीः । 20) जग॑ती॒ रुपोप॒ जग॑ती॒-र्जग॑ती॒ रुप॑ । 21) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 22) द॒धा॒ति॒ जाग॑ता॒ जाग॑ता दधाति दधाति॒ जाग॑ताः । 23) जाग॑ता॒ वै वै जाग॑ता॒ जाग॑ता॒ वै । 24) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ । 25) प॒शवः॑ प॒शू-न्प॒शू-न्प॒शवः॑ प॒शवः॑ प॒शून् । 26) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व । 27) ए॒वावा वै॒वै वाव॑ । 28) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 29) रु॒न्धे॒ ऽनु॒ष्टुभो॑ ऽनु॒ष्टुभो॑ रुन्धे रुन्धे ऽनु॒ष्टुभः॑ । 30) अ॒नु॒ष्टुभ॒ उपोपा॑ नु॒ष्टुभो॑ ऽनु॒ष्टुभ॒ उप॑ । 30) अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ । 31) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 32) द॒धा॒ति॒ प्रा॒णाः प्रा॒णा द॑धाति दधाति प्रा॒णाः । 33) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै । 33) प्रा॒णा इति॑ प्र - अ॒नाः । 34) वा अ॑नु॒ष्टु ब॑नु॒ष्टुब् वै वा अ॑नु॒ष्टुप् । 35) अ॒नु॒ष्टुप् प्रा॒णाना᳚-म्प्रा॒णाना॑ मनु॒ष्टु ब॑नु॒ष्टुप् प्रा॒णाना᳚म् । 35) अ॒नु॒ष्टुबित्य॑नु - स्तुप् । 36) प्रा॒णाना॒ मुथ्सृ॑ष्ट्या॒ उथ्सृ॑ष्ट्यै प्रा॒णाना᳚-म्प्रा॒णाना॒ मुथ्सृ॑ष्ट्यै । 36) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 37) उथ्सृ॑ष्ट्यै बृह॒ती-र्बृ॑ह॒ती रुथ्सृ॑ष्ट्या॒ उथ्सृ॑ष्ट्यै बृह॒तीः । 37) उथ्सृ॑ष्ट्या॒ इत्युत् - सृ॒ष्ट्यै॒ । 38) बृ॒ह॒ती रु॒ष्णिहा॑ उ॒ष्णिहा॑ बृह॒ती-र्बृ॑ह॒ती रु॒ष्णिहाः᳚ । 39) उ॒ष्णिहाः᳚ प॒ङ्क्तीः प॒ङ्क्ती रु॒ष्णिहा॑ उ॒ष्णिहाः᳚ प॒ङ्क्तीः । 40) प॒ङ्क्ती र॒क्षर॑पङ्क्ती र॒क्षर॑पङ्क्तीः प॒ङ्क्तीः प॒ङ्क्ती र॒क्षर॑पङ्क्तीः । 41) अ॒क्षर॑पङ्क्ती॒ रिती त्य॒क्षर॑पङ्क्ती र॒क्षर॑पङ्क्ती॒ रिति॑ । 41) अ॒क्षर॑पङ्क्ती॒रित्य॒क्षर॑ - प॒ङ्क्तीः॒ । 42) इति॒ विषु॑रूपाणि॒ विषु॑रूपा॒णीतीति॒ विषु॑रूपाणि । 43) विषु॑रूपाणि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ विषु॑रूपाणि॒ विषु॑रूपाणि॒ छन्दाग्ं॑सि । 43) विषु॑रूपा॒णीति॒ विषु॑ - रू॒पा॒णि॒ । 44) छन्दा॒ग्॒ स्युपोप॒ छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्युप॑ । 45) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 46) द॒धा॒ति॒ विषु॑रूपा॒ विषु॑रूपा दधाति दधाति॒ विषु॑रूपाः । 47) विषु॑रूपा॒ वै वै विषु॑रूपा॒ विषु॑रूपा॒ वै । 47) विषु॑रूपा॒ इति॒ विषु॑ - रू॒पाः॒ । 48) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ । 49) प॒शवः॑ प॒शवः॑ । 50) प॒शव॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि प॒शवः॑ प॒शव॒ श्छन्दाग्ं॑सि । ॥ 36 ॥ (50/59)
1) छन्दाग्ं॑सि॒ विषु॑रूपा॒न्॒. विषु॑रूपा॒न् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ विषु॑रूपान् । 2) विषु॑रूपा ने॒वैव विषु॑रूपा॒न्॒. विषु॑रूपा ने॒व । 2) विषु॑रूपा॒निति॒ विषु॑ - रू॒पा॒न् । 3) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 4) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 5) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 6) रु॒न्धे॒ विषु॑रूपं॒-विँषु॑रूपग्ं रुन्धे रुन्धे॒ विषु॑रूपम् । 7) विषु॑रूप मस्यास्य॒ विषु॑रूपं॒-विँषु॑रूप मस्य । 7) विषु॑रूप॒मिति॒ विषु॑ - रू॒प॒म् । 8) अ॒स्य॒ गृ॒हे गृ॒हे᳚ ऽस्यास्य गृ॒हे । 9) गृ॒हे दृ॑श्यते दृश्यते गृ॒हे गृ॒हे दृ॑श्यते । 10) दृ॒श्य॒ते॒ यस्य॒ यस्य॑ दृश्यते दृश्यते॒ यस्य॑ । 11) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 12) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । 13) उ॒प॒धी॒यन्ते॒ यो य उ॑पधी॒यन्त॑ उपधी॒यन्ते॒ यः । 13) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 14) य उ॑ वु॒ यो य उ॑ । 15) उ॒ च॒ च॒ वु॒ च॒ । 16) चै॒ना॒ ए॒ना॒श्च॒ चै॒नाः॒ । 17) ए॒ना॒ ए॒व मे॒व मे॑ना एना ए॒वम् । 18) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 19) वेदा ति॑च्छन्दस॒ मति॑च्छन्दसं॒-वेँद॒ वेदा ति॑च्छन्दसम् । 20) अति॑च्छन्दस॒ मुपोपा ति॑च्छन्दस॒ मति॑च्छन्दस॒ मुप॑ । 20) अति॑च्छन्दस॒मित्यति॑ - छ॒न्द॒स॒म् । 21) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 22) द॒धा॒त्य ति॑च्छन्दा॒ अति॑च्छन्दा दधाति दधा॒त्य ति॑च्छन्दाः । 23) अति॑च्छन्दा॒ वै वा अति॑च्छन्दा॒ अति॑च्छन्दा॒ वै । 23) अति॑च्छन्दा॒ इत्यति॑ - छ॒न्दाः॒ । 24) वै सर्वा॑णि॒ सर्वा॑णि॒ वै वै सर्वा॑णि । 25) सर्वा॑णि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ सर्वा॑णि॒ सर्वा॑णि॒ छन्दाग्ं॑सि । 26) छन्दाग्ं॑सि॒ सर्वे॑भि॒-स्सर्वे॑भि॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ सर्वे॑भिः । 27) सर्वे॑भि रे॒वैव सर्वे॑भि॒-स्सर्वे॑भि रे॒व । 28) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 29) ए॒न॒-ञ्छन्दो॑भि॒ श्छन्दो॑भि रेन मेन॒-ञ्छन्दो॑भिः । 30) छन्दो॑भि श्चिनुते चिनुते॒ छन्दो॑भि॒ श्छन्दो॑भि श्चिनुते । 30) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 31) चि॒नु॒ते॒ वर्ष्म॒ वर्ष्म॑ चिनुते चिनुते॒ वर्ष्म॑ । 32) वर्ष्म॒ वै वै वर्ष्म॒ वर्ष्म॒ वै । 33) वा ए॒षैषा वै वा ए॒षा । 34) ए॒षा छन्द॑सा॒-ञ्छन्द॑सा मे॒षैषा छन्द॑साम् । 35) छन्द॑सां॒-यँ-द्यच् छन्द॑सा॒-ञ्छन्द॑सां॒-यँत् । 36) यदति॑च्छन्दा॒ अति॑च्छन्दा॒ य-द्यदति॑च्छन्दाः । 37) अति॑च्छन्दा॒ य-द्यदति॑च्छन्दा॒ अति॑च्छन्दा॒ यत् । 37) अति॑च्छन्दा॒ इत्यति॑ - छ॒न्दाः॒ । 38) यदति॑च्छन्दस॒ मति॑च्छन्दसं॒-यँ-द्यदति॑च्छन्दसम् । 39) अति॑च्छन्दस मुप॒दधा᳚ त्युप॒दधा॒ त्यति॑च्छन्दस॒ मति॑च्छन्दस मुप॒दधा॑ति । 39) अति॑च्छन्दस॒मित्यति॑ - छ॒न्द॒स॒म् । 40) उ॒प॒दधा॑ति॒ वर्ष्म॒ वर्ष्मो॑ प॒दधा᳚ त्युप॒दधा॑ति॒ वर्ष्म॑ । 40) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 41) वर्ष्मै॒ वैव वर्ष्म॒ वर्ष्मै॒व । 42) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 43) ए॒न॒ग्ं॒ स॒मा॒नानाग्ं॑ समा॒नाना॑ मेन मेनग्ं समा॒नाना᳚म् । 44) स॒मा॒नाना᳚-ङ्करोति करोति समा॒नानाग्ं॑ समा॒नाना᳚-ङ्करोति । 45) क॒रो॒ति॒ द्वि॒पदा᳚ द्वि॒पदाः᳚ करोति करोति द्वि॒पदाः᳚ । 46) द्वि॒पदा॒ उपोप॑ द्वि॒पदा᳚ द्वि॒पदा॒ उप॑ । 46) द्वि॒पदा॒ इति॑ द्वि - पदाः᳚ । 47) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 48) द॒धा॒ति॒ द्वि॒पा-द्द्वि॒पा-द्द॑धाति दधाति द्वि॒पात् । 49) द्वि॒पा-द्यज॑मानो॒ यज॑मानो द्वि॒पा-द्द्वि॒पा-द्यज॑मानः । 49) द्वि॒पादिति॑ द्वि - पात् । 50) यज॑मानः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यज॑मानो॒ यज॑मानः॒ प्रति॑ष्ठित्यै । 51) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । ॥ 37 ॥ (51/62) ॥ अ. 8 ॥
1) सर्वा᳚भ्यो॒ वै वै सर्वा᳚भ्य॒-स्सर्वा᳚भ्यो॒ वै । 2) वै दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ वै वै दे॒वता᳚भ्यः । 3) दे॒वता᳚भ्यो॒ ऽग्नि र॒ग्नि-र्दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ ऽग्निः । 4) अ॒ग्नि श्ची॑यते चीयते॒ ऽग्नि र॒ग्नि श्ची॑यते । 5) ची॒य॒ते॒ य-द्यच् ची॑यते चीयते॒ यत् । 6) य-थ्स॒युज॑-स्स॒युजो॒ य-द्य-थ्स॒युजः॑ । 7) स॒युजो॒ न न स॒युज॑-स्स॒युजो॒ न । 7) स॒युज॒ इति॑ स - युजः॑ । 8) नोप॑द॒द्ध्या दु॑पद॒द्ध्या-न्न नोप॑द॒द्ध्यात् । 9) उ॒प॒द॒द्ध्या-द्दे॒वता॑ दे॒वता॑ उपद॒द्ध्या दु॑पद॒द्ध्या-द्दे॒वताः᳚ । 9) उ॒प॒द॒द्ध्यादित्यु॑प - द॒ध्यात् । 10) दे॒वता॑ अस्यास्य दे॒वता॑ दे॒वता॑ अस्य । 11) अ॒स्या॒ग्नि म॒ग्नि म॑स्या स्या॒ग्निम् । 12) अ॒ग्निं-वृँ॑ञ्जीरन् वृञ्जीर-न्न॒ग्नि म॒ग्निं-वृँ॑ञ्जीरन्न् । 13) वृ॒ञ्जी॒र॒न्॒. य-द्य-द्वृ॑ञ्जीरन् वृञ्जीर॒न्॒. यत् । 14) य-थ्स॒युज॑-स्स॒युजो॒ य-द्य-थ्स॒युजः॑ । 15) स॒युज॑ उप॒दधा᳚ त्युप॒दधा॑ति स॒युज॑-स्स॒युज॑ उप॒दधा॑ति । 15) स॒युज॒ इति॑ स - युजः॑ । 16) उ॒प॒दधा᳚ त्या॒त्मना॒ ऽऽत्मनो॑ प॒दधा᳚ त्युप॒दधा᳚ त्या॒त्मना᳚ । 16) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 17) आ॒त्म नै॒वै वात्मना॒ ऽऽत्मनै॒व । 18) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 19) ए॒न॒ग्ं॒ स॒युजग्ं॑ स॒युज॑ मेन मेनग्ं स॒युज᳚म् । 20) स॒युज॑-ञ्चिनुते चिनुते स॒युजग्ं॑ स॒युज॑-ञ्चिनुते । 20) स॒युज॒मिति॑ स - युज᳚म् । 21) चि॒नु॒ते॒ न न चि॑नुते चिनुते॒ न । 22) नाग्निना॒ ऽग्निना॒ न नाग्निना᳚ । 23) अ॒ग्निना॒ वि व्य॑ग्निना॒ ऽग्निना॒ वि । 24) व्यृ॑द्ध्यत ऋद्ध्यते॒ वि व्यृ॑द्ध्यते । 25) ऋ॒द्ध्य॒ते ऽथो॒ अथो॑ ऋद्ध्यत ऋद्ध्य॒ते ऽथो᳚ । 26) अथो॒ यथा॒ यथा ऽथो॒ अथो॒ यथा᳚ । 26) अथो॒ इत्यथो᳚ । 27) यथा॒ पुरु॑षः॒ पुरु॑षो॒ यथा॒ यथा॒ पुरु॑षः । 28) पुरु॑ष॒-स्स्नाव॑भि॒-स्स्नाव॑भिः॒ पुरु॑षः॒ पुरु॑ष॒-स्स्नाव॑भिः । 29) स्नाव॑भि॒-स्सन्त॑त॒-स्सन्त॑त॒-स्स्नाव॑भि॒-स्स्नाव॑भि॒-स्सन्त॑तः । 29) स्नाव॑भि॒रिति॒ स्नाव॑ - भिः॒ । 30) सन्त॑त ए॒व मे॒वग्ं सन्त॑त॒-स्सन्त॑त ए॒वम् । 30) सन्त॑त॒ इति॒ सं - त॒तः॒ । 31) ए॒व मे॒वै वैव मे॒व मे॒व । 32) ए॒वै ताभि॑ रे॒ताभि॑ रे॒वै वैताभिः॑ । 33) ए॒ताभि॑ र॒ग्नि र॒ग्नि रे॒ताभि॑ रे॒ताभि॑ र॒ग्निः । 34) अ॒ग्नि-स्सन्त॑त॒-स्सन्त॑तो॒ ऽग्नि र॒ग्नि-स्सन्त॑तः । 35) सन्त॑तो॒ ऽग्निना॒ ऽग्निना॒ सन्त॑त॒-स्सन्त॑तो॒ ऽग्निना᳚ । 35) सन्त॑त॒ इति॒ सं - त॒तः॒ । 36) अ॒ग्निना॒ वै वा अ॒ग्निना॒ ऽग्निना॒ वै । 37) वै दे॒वा दे॒वा वै वै दे॒वाः । 38) दे॒वा-स्सु॑व॒र्गग्ं सु॑व॒र्ग-न्दे॒वा दे॒वा-स्सु॑व॒र्गम् । 39) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 39) सु॒व॒र्गमिति॑ सुवः - गम् । 40) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् । 41) आ॒य॒-न्तास्ता आ॑य-न्नाय॒-न्ताः । 42) ता अ॒मू र॒मू स्ता स्ता अ॒मूः । 43) अ॒मूः कृत्ति॑काः॒ कृत्ति॑का अ॒मू र॒मूः कृत्ति॑काः । 44) कृत्ति॑का अभव-न्नभव॒न् कृत्ति॑काः॒ कृत्ति॑का अभवन्न् । 45) अ॒भ॒व॒न्॒. यस्य॒ यस्या॑ भव-न्नभव॒न्॒. यस्य॑ । 46) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 47) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । 48) उ॒प॒धी॒यन्ते॑ सुव॒र्गग्ं सु॑व॒र्ग मु॑पधी॒यन्त॑ उपधी॒यन्ते॑ सुव॒र्गम् । 48) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 49) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व । 49) सु॒व॒र्गमिति॑ सुवः - गम् । 50) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् । ॥ 38 ॥ (50/62)
1) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 2) ए॒ति॒ गच्छ॑ति॒ गच्छ॑ त्ये त्येति॒ गच्छ॑ति । 3) गच्छ॑ति प्रका॒श-म्प्र॑का॒श-ङ्गच्छ॑ति॒ गच्छ॑ति प्रका॒शम् । 4) प्र॒का॒श-ञ्चि॒त्र-ञ्चि॒त्र-म्प्र॑का॒श-म्प्र॑का॒श-ञ्चि॒त्रम् । 4) प्र॒का॒शमिति॑ प्र - का॒शम् । 5) चि॒त्र मे॒वैव चि॒त्र-ञ्चि॒त्र मे॒व । 6) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 7) भ॒व॒ति॒ म॒ण्ड॒ले॒ष्ट॒का म॑ण्डलेष्ट॒का भ॑वति भवति मण्डलेष्ट॒काः । 8) म॒ण्ड॒ले॒ष्ट॒का उपोप॑ मण्डलेष्ट॒का म॑ण्डलेष्ट॒का उप॑ । 8) म॒ण्ड॒ले॒ष्ट॒का इति॑ मण्डल - इ॒ष्ट॒काः । 9) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 10) द॒धा॒ती॒म इ॒मे द॑धाति दधाती॒मे । 11) इ॒मे वै वा इ॒म इ॒मे वै । 12) वै लो॒का लो॒का वै वै लो॒काः । 13) लो॒का म॑ण्डलेष्ट॒का म॑ण्डलेष्ट॒का लो॒का लो॒का म॑ण्डलेष्ट॒काः । 14) म॒ण्ड॒ले॒ष्ट॒का इ॒म इ॒मे म॑ण्डलेष्ट॒का म॑ण्डलेष्ट॒का इ॒मे । 14) म॒ण्ड॒ले॒ष्ट॒का इति॑ मण्डल - इ॒ष्ट॒काः । 15) इ॒मे खलु॒ खल्वि॒म इ॒मे खलु॑ । 16) खलु॒ वै वै खलु॒ खलु॒ वै । 17) वै लो॒का लो॒का वै वै लो॒काः । 18) लो॒का दे॑वपु॒रा दे॑वपु॒रा लो॒का लो॒का दे॑वपु॒राः । 19) दे॒व॒पु॒रा दे॑वपु॒राः । 19) दे॒व॒पु॒रा इति॑ देव - पु॒राः । 20) दे॒व॒पु॒रा ए॒वैव दे॑वपु॒रा दे॑वपु॒रा ए॒व । 20) दे॒व॒पु॒रा इति॑ देव - पु॒राः । 21) ए॒व प्र प्रैवैव प्र । 22) प्र वि॑शति विशति॒ प्र प्र वि॑शति । 23) वि॒श॒ति॒ न न वि॑शति विशति॒ न । 24) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् । 25) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 26) आर्च्छ॑ त्यृच्छ त्यार्च्छति । 27) ऋ॒च्छ॒ त्य॒ग्नि म॒ग्नि मृ॑च्छ त्यृच्छ त्य॒ग्निम् । 28) अ॒ग्नि-ञ्चि॑क्या॒न श्चि॑क्या॒नो᳚ ऽग्नि म॒ग्नि-ञ्चि॑क्या॒नः । 29) चि॒क्या॒नो वि॒श्वज्यो॑तिषो वि॒श्वज्यो॑तिष श्चिक्या॒न श्चि॑क्या॒नो वि॒श्वज्यो॑तिषः । 30) वि॒श्वज्यो॑तिष॒ उपोप॑ वि॒श्वज्यो॑तिषो वि॒श्वज्यो॑तिष॒ उप॑ । 30) वि॒श्वज्यो॑तिष॒ इति॑ वि॒श्व - ज्यो॒ति॒षः॒ । 31) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 32) द॒धा॒ती॒मा नि॒मा-न्द॑धाति दधाती॒मान् । 33) इ॒मा ने॒वैवे मा नि॒मा ने॒व । 34) ए॒वैताभि॑ रे॒ताभि॑ रे॒वै वैताभिः॑ । 35) ए॒ताभि॑-र्लो॒कान् ँलो॒का ने॒ताभि॑ रे॒ताभि॑-र्लो॒कान् । 36) लो॒कान् ज्योति॑ष्मतो॒ ज्योति॑ष्मतो लो॒कान् ँलो॒कान् ज्योति॑ष्मतः । 37) ज्योति॑ष्मतः कुरुते कुरुते॒ ज्योति॑ष्मतो॒ ज्योति॑ष्मतः कुरुते । 38) कु॒रु॒ते ऽथो॒ अथो॑ कुरुते कुरु॒ते ऽथो᳚ । 39) अथो᳚ प्रा॒णा-न्प्रा॒णा नथो॒ अथो᳚ प्रा॒णान् । 39) अथो॒ इत्यथो᳚ । 40) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व । 40) प्रा॒णानिति॑ प्र - अ॒नान् । 41) ए॒वैता ए॒ता ए॒वै वैताः । 42) ए॒ता यज॑मानस्य॒ यज॑मान स्यै॒ता ए॒ता यज॑मानस्य । 43) यज॑मानस्य दाद्ध्रति दाद्ध्रति॒ यज॑मानस्य॒ यज॑मानस्य दाद्ध्रति । 44) दा॒द्ध्र॒ त्ये॒ता ए॒ता दा᳚द्ध्रति दाद्ध्र त्ये॒ताः । 45) ए॒ता वै वा ए॒ता ए॒ता वै । 46) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ । 47) दे॒वता᳚-स्सुव॒र्ग्या᳚-स्सुव॒र्ग्या॑ दे॒वता॑ दे॒वता᳚-स्सुव॒र्ग्याः᳚ । 48) सु॒व॒र्ग्या᳚ स्ता स्ता-स्सु॑व॒र्ग्या᳚-स्सुव॒र्ग्या᳚स्ताः । 48) सु॒व॒र्ग्या॑ इति॑ सुवः - ग्याः᳚ । 49) ता ए॒वैव ता स्ता ए॒व । 50) ए॒वा न्वा॒रभ्या᳚ न्वा॒रभ्यै॒ वैवा न्वा॒रभ्य॑ । 51) अ॒न्वा॒रभ्य॑ सुव॒र्गग्ं सु॑व॒र्ग म॑न्वा॒रभ्या᳚ न्वा॒रभ्य॑ सुव॒र्गम् । 51) अ॒न्वा॒रभ्येत्य॑नु - आ॒रभ्य॑ । 52) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 52) सु॒व॒र्गमिति॑ सुवः - गम् । 53) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 54) ए॒तीत्ये॑ति । ॥ 39 ॥ (54/65) ॥ अ. 9 ॥
1) वृ॒ष्टि॒सनी॒ रुपोप॑ वृष्टि॒सनी᳚-र्वृष्टि॒सनी॒ रुप॑ । 1) वृ॒ष्टि॒सनी॒रिति॑ वृष्टि - सनीः᳚ । 2) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 3) द॒धा॒ति॒ वृष्टिं॒-वृँष्टि॑-न्दधाति दधाति॒ वृष्टि᳚म् । 4) वृष्टि॑ मे॒वैव वृष्टिं॒-वृँष्टि॑ मे॒व । 5) ए॒वावा वै॒वै वाव॑ । 6) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 7) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् । 8) यदे॑क॒ धैक॒धा य-द्यदे॑क॒धा । 9) ए॒क॒धो प॑द॒द्ध्या दु॑पद॒द्ध्या दे॑क॒धैक॒धो प॑द॒द्ध्यात् । 9) ए॒क॒धेत्ये॑क - धा । 10) उ॒प॒द॒द्ध्या देक॒ मेक॑ मुपद॒द्ध्या दु॑पद॒द्ध्या देक᳚म् । 10) उ॒प॒द॒द्ध्यादित्यु॑प - द॒द्ध्यात् । 11) एक॑ मृ॒तु मृ॒तु मेक॒ मेक॑ मृ॒तुम् । 12) ऋ॒तुं-वँ॑र्षे-द्वर्षेदृ॒तु मृ॒तुं-वँ॑र्षेत् । 13) व॒र्॒षे॒ द॒नु॒प॒रि॒हार॑ मनुपरि॒हारं॑-वँर्षे-द्वर्षे दनुपरि॒हार᳚म् । 14) अ॒नु॒प॒रि॒हारग्ं॑ सादयति सादय त्यनुपरि॒हार॑ मनुपरि॒हारग्ं॑ सादयति । 14) अ॒नु॒प॒रि॒हार॒मित्य॑नु - प॒रि॒हार᳚म् । 15) सा॒द॒य॒ति॒ तस्मा॒-त्तस्मा᳚-थ्सादयति सादयति॒ तस्मा᳚त् । 16) तस्मा॒-थ्सर्वा॒-न्थ्सर्वा॒-न्तस्मा॒-त्तस्मा॒-थ्सर्वान्॑ । 17) सर्वा॑ नृ॒तू नृ॒तू-न्थ्सर्वा॒-न्थ्सर्वा॑ नृ॒तून् । 18) ऋ॒तून्. व॑र्षति वर्ष त्यृ॒तू नृ॒तून्. व॑र्षति । 19) व॒र्॒ष॒ति॒ पु॒रो॒वा॒त॒सनिः॑ पुरोवात॒सनि॑-र्वर्षति वर्षति पुरोवात॒सनिः॑ । 20) पु॒रो॒वा॒त॒सनि॑ रस्यसि पुरोवात॒सनिः॑ पुरोवात॒सनि॑ रसि । 20) पु॒रो॒वा॒त॒सनि॒रिति॑ पुरोवात - सनिः॑ । 21) अ॒सीती त्य॑स्य॒ सीति॑ । 22) इत्या॑हा॒हे तीत्या॑ह । 23) आ॒है॒त दे॒त दा॑हाहै॒तत् । 24) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 25) वै वृष्ट्यै॒ वृष्ट्यै॒ वै वै वृष्ट्यै᳚ । 26) वृष्ट्यै॑ रू॒पग्ं रू॒पं-वृँष्ट्यै॒ वृष्ट्यै॑ रू॒पम् । 27) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ । 28) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व । 29) ए॒व वृष्टिं॒-वृँष्टि॑ मे॒वैव वृष्टि᳚म् । 30) वृष्टि॒ मवाव॒ वृष्टिं॒-वृँष्टि॒ मव॑ । 31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 32) रु॒न्धे॒ सं॒याँनी॑भि-स्सं॒याँनी॑भी रुन्धे रुन्धे सं॒याँनी॑भिः । 33) सं॒याँनी॑भि॒-र्वै वै सं॒याँनी॑भि-स्सं॒याँनी॑भि॒-र्वै । 33) सं॒याँनी॑भि॒रिति॑ सं - यानी॑भिः । 34) वै दे॒वा दे॒वा वै वै दे॒वाः । 35) दे॒वा इ॒मा नि॒मा-न्दे॒वा दे॒वा इ॒मान् । 36) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् । 37) लो॒का-न्थ्सग्ं सम् ँलो॒कान् ँलो॒का-न्थ्सम् । 38) स म॑यु रयु॒-स्सग्ं स म॑युः । 39) अ॒यु॒ स्त-त्तद॑यु रयु॒ स्तत् । 40) त-थ्सं॒याँनी॑नाग्ं सं॒याँनी॑ना॒-न्त-त्त-थ्सं॒याँनी॑नाम् । 41) सं॒याँनी॑नाग्ं संयाँनि॒त्वग्ं सं॑याँनि॒त्वग्ं सं॒याँनी॑नाग्ं सं॒याँनी॑नाग्ं संयाँनि॒त्वम् । 41) सं॒याँनी॑ना॒मिति॑ सं - यानी॑नाम् । 42) सं॒याँ॒नि॒त्वं-यँ-द्य-थ्सं॑याँनि॒त्वग्ं सं॑याँनि॒त्वं-यँत् । 42) सं॒याँ॒नि॒त्वमिति॑ संयाँनि - त्वम् । 43) य-थ्सं॒याँनी᳚-स्सं॒याँनी॒-र्य-द्य-थ्सं॒याँनीः᳚ । 44) सं॒याँनी॑ रुप॒दधा᳚ त्युप॒दधा॑ति सं॒याँनी᳚-स्सं॒याँनी॑ रुप॒दधा॑ति । 44) सं॒याँनी॒रिति॑ सं - यानीः᳚ । 45) उ॒प॒दधा॑ति॒ यथा॒ यथो॑ प॒दधा᳚ त्युप॒दधा॑ति॒ यथा᳚ । 45) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 46) यथा॒ ऽफ्स्व॑फ्सु यथा॒ यथा॒ ऽफ्सु । 47) अ॒फ्सु ना॒वा ना॒वा ऽफ्स्व॑फ्सु ना॒वा । 47) अ॒फ्स्वित्य॑प् - सु । 48) ना॒वा सं॒याँति॑ सं॒याँति॑ ना॒वा ना॒वा सं॒याँति॑ । 49) सं॒याँत्ये॒व मे॒वग्ं सं॒याँति॑ सं॒याँत्ये॒वम् । 49) सं॒याँतीति॑ सं - याति॑ । 50) ए॒व मे॒वै वैव मे॒व मे॒व । ॥ 40 ॥ (50/62)
1) ए॒वैताभि॑ रे॒ताभि॑ रे॒वैवैताभिः॑ । 2) ए॒ताभि॒-र्यज॑मानो॒ यज॑मान ए॒ताभि॑ रे॒ताभि॒-र्यज॑मानः । 3) यज॑मान इ॒मा नि॒मान्. यज॑मानो॒ यज॑मान इ॒मान् । 4) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् । 5) लो॒का-न्थ्सग्ं सम् ँलो॒कान् ँलो॒का-न्थ्सम् । 6) सं-याँ॑ति याति॒ सग्ं सं-याँ॑ति । 7) या॒ति॒ प्ल॒वः प्ल॒वो या॑ति याति प्ल॒वः । 8) प्ल॒वो वै वै प्ल॒वः प्ल॒वो वै । 9) वा ए॒ष ए॒ष वै वा ए॒षः । 10) ए॒षो᳚ ऽग्ने र॒ग्ने रे॒ष ए॒षो᳚ ऽग्नेः । 11) अ॒ग्ने-र्य-द्यद॒ग्ने र॒ग्ने-र्यत् । 12) य-थ्सं॒याँनी᳚-स्सं॒याँनी॒-र्य-द्य-थ्सं॒याँनीः᳚ । 13) सं॒याँनी॒-र्य-द्य-थ्सं॒याँनी᳚-स्सं॒याँनी॒-र्यत् । 13) सं॒याँनी॒रिति॑ सं - यानीः᳚ । 14) य-थ्सं॒याँनी᳚-स्सं॒याँनी॒-र्य-द्य-थ्सं॒याँनीः᳚ । 15) सं॒याँनी॑ रुप॒दधा᳚ त्युप॒दधा॑ति सं॒याँनी᳚-स्सं॒याँनी॑ रुप॒दधा॑ति । 15) सं॒याँनी॒रिति॑ सं - यानीः᳚ । 16) उ॒प॒दधा॑ति प्ल॒व-म्प्ल॒व मु॑प॒दधा᳚ त्युप॒दधा॑ति प्ल॒वम् । 16) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 17) प्ल॒व मे॒वैव प्ल॒व-म्प्ल॒व मे॒व । 18) ए॒वैत मे॒त मे॒वै वैतम् । 19) ए॒त म॒ग्नये॒ ऽग्नय॑ ए॒त मे॒त म॒ग्नये᳚ । 20) अ॒ग्नय॒ उपोपा॒ ग्नये॒ ऽग्नय॒ उप॑ । 21) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 22) द॒धा॒ त्यु॒तोत द॑धाति दधा त्यु॒त । 23) उ॒त यस्य॒ यस्यो॒तोत यस्य॑ । 24) यस्यै॒ता स्वे॒तासु॒ यस्य॒ यस्यै॒तासु॑ । 25) ए॒तासू प॑हिता॒सू प॑हिता स्वे॒ता स्वे॒तासू प॑हितासु । 26) उप॑हिता॒ स्वाप॒ आप॒ उप॑हिता॒सू प॑हिता॒ स्वापः॑ । 26) उप॑हिता॒स्वित्युप॑ - हि॒ता॒सु॒ । 27) आपो॒ ऽग्नि म॒ग्नि माप॒ आपो॒ ऽग्निम् । 28) अ॒ग्निग्ं हर॑न्ति॒ हर॑न्त्य॒ग्नि म॒ग्निग्ं हर॑न्ति । 29) हर॒-न्त्यहृ॒तो ऽहृ॑तो॒ हर॑न्ति॒ हर॒-न्त्यहृ॑तः । 30) अहृ॑त ए॒वैवा हृ॒तो ऽहृ॑त ए॒व । 31) ए॒वास्या᳚ स्यै॒वैवास्य॑ । 32) अ॒स्या॒ग्नि र॒ग्नि र॑स्या स्या॒ग्निः । 33) अ॒ग्नि रा॑दित्येष्ट॒का आ॑दित्येष्ट॒का अ॒ग्नि र॒ग्नि रा॑दित्येष्ट॒काः । 34) आ॒दि॒त्ये॒ष्ट॒का उपोपा॑ दित्येष्ट॒का आ॑दित्येष्ट॒का उप॑ । 34) आ॒दि॒त्ये॒ष्ट॒का इत्या॑दित्य - इ॒ष्ट॒काः । 35) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 36) द॒धा॒ त्या॒दि॒त्या आ॑दि॒त्या द॑धाति दधा त्यादि॒त्याः । 37) आ॒दि॒त्या वै वा आ॑दि॒त्या आ॑दि॒त्या वै । 38) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 39) ए॒त-म्भूत्यै॒ भूत्या॑ ए॒त मे॒त-म्भूत्यै᳚ । 40) भूत्यै॒ प्रति॒ प्रति॒ भूत्यै॒ भूत्यै॒ प्रति॑ । 41) प्रति॑ नुदन्ते नुदन्ते॒ प्रति॒ प्रति॑ नुदन्ते । 42) नु॒द॒न्ते॒ यो यो नु॑दन्ते नुदन्ते॒ यः । 43) यो ऽल॒ मलं॒-योँ यो ऽल᳚म् । 44) अल॒-म्भूत्यै॒ भूत्या॒ अल॒ मल॒-म्भूत्यै᳚ । 45) भूत्यै॒ स-न्थ्स-न्भूत्यै॒ भूत्यै॒ सन्न् । 46) स-न्भूति॒-म्भूति॒ग्ं॒ स-न्थ्स-न्भूति᳚म् । 47) भूति॒-न्न न भूति॒-म्भूति॒-न्न । 48) न प्रा॒प्नोति॑ प्रा॒प्नोति॒ न न प्रा॒प्नोति॑ । 49) प्रा॒प्नो त्या॑दि॒त्या आ॑दि॒त्याः प्रा॒प्नोति॑ प्रा॒प्नो त्या॑दि॒त्याः । 49) प्रा॒प्नोतीति॑ प्र - आ॒प्नोति॑ । 50) आ॒दि॒त्या ए॒वै वादि॒त्या आ॑दि॒त्या ए॒व । ॥ 41 ॥ (50/56)
1) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 2) ए॒न॒-म्भूति॒-म्भूति॑ मेन मेन॒-म्भूति᳚म् । 3) भूति॑-ङ्गमयन्ति गमयन्ति॒ भूति॒-म्भूति॑-ङ्गमयन्ति । 4) ग॒म॒य॒-न्त्य॒सा व॒सौ ग॑मयन्ति गमय-न्त्य॒सौ । 5) अ॒सौ वै वा अ॒सा व॒सौ वै । 6) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ । 7) ए॒त स्या॑दि॒त्य आ॑दि॒त्य ए॒त स्यै॒त स्या॑दि॒त्यः । 8) आ॒दि॒त्यो रुच॒ग्ं॒ रुच॑ मादि॒त्य आ॑दि॒त्यो रुच᳚म् । 9) रुच॒ मा रुच॒ग्ं॒ रुच॒ मा । 10) आ द॑त्ते दत्त॒ आ द॑त्ते । 11) द॒त्ते॒ यो यो द॑त्ते दत्ते॒ यः । 12) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 13) अ॒ग्नि-ञ्चि॒त्वा चि॒त्वा ऽग्नि म॒ग्नि-ञ्चि॒त्वा । 14) चि॒त्वा न न चि॒त्वा चि॒त्वा न । 15) न रोच॑ते॒ रोच॑ते॒ न न रोच॑ते । 16) रोच॑ते॒ य-द्य-द्रोच॑ते॒ रोच॑ते॒ यत् । 17) यदा॑दित्येष्ट॒का आ॑दित्येष्ट॒का य-द्यदा॑दित्येष्ट॒काः । 18) आ॒दि॒त्ये॒ष्ट॒का उ॑प॒दधा᳚ त्युप॒दधा᳚ त्यादित्येष्ट॒का आ॑दित्येष्ट॒का उ॑प॒दधा॑ति । 18) आ॒दि॒त्ये॒ष्ट॒का इत्या॑दित्य - इ॒ष्ट॒काः । 19) उ॒प॒दधा᳚ त्य॒सा व॒सा वु॑प॒दधा᳚ त्युप॒दधा᳚ त्य॒सौ । 19) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 20) अ॒सा वे॒वै वासा व॒सा वे॒व । 21) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । 22) अ॒स्मि॒-न्ना॒दि॒त्य आ॑दि॒त्यो᳚ ऽस्मि-न्नस्मि-न्नादि॒त्यः । 23) आ॒दि॒त्यो रुच॒ग्ं॒ रुच॑ मादि॒त्य आ॑दि॒त्यो रुच᳚म् । 24) रुच॑-न्दधाति दधाति॒ रुच॒ग्ं॒ रुच॑-न्दधाति । 25) द॒धा॒ति॒ यथा॒ यथा॑ दधाति दधाति॒ यथा᳚ । 26) यथा॒ ऽसा व॒सौ यथा॒ यथा॒ ऽसौ । 27) अ॒सौ दे॒वाना᳚-न्दे॒वाना॑ म॒सा व॒सौ दे॒वाना᳚म् । 28) दे॒वाना॒ग्ं॒ रोच॑ते॒ रोच॑ते दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ रोच॑ते । 29) रोच॑त ए॒व मे॒वग्ं रोच॑ते॒ रोच॑त ए॒वम् । 30) ए॒व मे॒वै वैव मे॒व मे॒व । 31) ए॒वैष ए॒ष ए॒वै वैषः । 32) ए॒ष म॑नु॒ष्या॑णा-म्मनु॒ष्या॑णा मे॒ष ए॒ष म॑नु॒ष्या॑णाम् । 33) म॒नु॒ष्या॑णाग्ं रोचते रोचते मनु॒ष्या॑णा-म्मनु॒ष्या॑णाग्ं रोचते । 34) रो॒च॒ते॒ घृ॒ते॒ष्ट॒का घृ॑तेष्ट॒का रो॑चते रोचते घृतेष्ट॒काः । 35) घृ॒ते॒ष्ट॒का उपोप॑ घृतेष्ट॒का घृ॑तेष्ट॒का उप॑ । 35) घृ॒ते॒ष्ट॒का इति॑ घृत - इ॒ष्ट॒काः । 36) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 37) द॒धा॒ त्ये॒त दे॒त-द्द॑धाति दधा त्ये॒तत् । 38) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 39) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 40) अ॒ग्नेः प्रि॒य-म्प्रि॒य म॒ग्ने र॒ग्नेः प्रि॒यम् । 41) प्रि॒य-न्धाम॒ धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॑ । 42) धाम॒ य-द्य-द्धाम॒ धाम॒ यत् । 43) य-द्घृ॒त-ङ्घृ॒तं-यँ-द्य-द्घृ॒तम् । 44) घृ॒त-म्प्रि॒येण॑ प्रि॒येण॑ घृ॒त-ङ्घृ॒त-म्प्रि॒येण॑ । 45) प्रि॒ये णै॒वैव प्रि॒येण॑ प्रि॒ये णै॒व । 46) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 47) ए॒न॒-न्धाम्ना॒ धाम्नै॑न मेन॒-न्धाम्ना᳚ । 48) धाम्ना॒ सग्ं स-न्धाम्ना॒ धाम्ना॒ सम् । 49) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 50) अ॒र्ध॒य॒ त्यथो॒ अथो॑ अर्धय त्यर्धय॒ त्यथो᳚ । ॥ 42 ॥ (50/53)
1) अथो॒ तेज॑सा॒ तेज॒सा ऽथो॒ अथो॒ तेज॑सा । 1) अथो॒ इत्यथो᳚ । 2) तेज॑सा ऽनुपरि॒हार॑ मनुपरि॒हार॒-न्तेज॑सा॒ तेज॑सा ऽनुपरि॒हार᳚म् । 3) अ॒नु॒प॒रि॒हारग्ं॑ सादयति सादयत्य नुपरि॒हार॑ मनुपरि॒हारग्ं॑ सादयति । 3) अ॒नु॒प॒रि॒हार॒मित्य॑नु - प॒रि॒हार᳚म् । 4) सा॒द॒य॒ त्यप॑रिवर्ग॒ मप॑रिवर्गग्ं सादयति सादय॒ त्यप॑रिवर्गम् । 5) अप॑रिवर्ग मे॒वैवा प॑रिवर्ग॒ मप॑रिवर्ग मे॒व । 5) अप॑रिवर्ग॒मित्यप॑रि - व॒र्ग॒म् । 6) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । 7) अ॒स्मि॒-न्तेज॒ स्तेजो᳚ ऽस्मि-न्नस्मि॒-न्तेजः॑ । 8) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति । 9) द॒धा॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्दधाति दधाति प्र॒जाप॑तिः । 10) प्र॒जाप॑ति र॒ग्नि म॒ग्नि-म्प्र॒जाप॑तिः प्र॒जाप॑ति र॒ग्निम् । 10) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 11) अ॒ग्नि म॑चिनुता चिनुता॒ग्नि म॒ग्नि म॑चिनुत । 12) अ॒चि॒नु॒त॒ स सो॑ ऽचिनुता चिनुत॒ सः । 13) स यश॑सा॒ यश॑सा॒ स स यश॑सा । 14) यश॑सा॒ वि वि यश॑सा॒ यश॑सा॒ वि । 15) व्या᳚र्ध्यता र्ध्यत॒ वि व्या᳚र्ध्यत । 16) आ॒र्ध्य॒त॒ स स आ᳚र्ध्यता र्ध्यत॒ सः । 17) स ए॒ता ए॒ता-स्स स ए॒ताः । 18) ए॒ता य॑शो॒दा य॑शो॒दा ए॒ता ए॒ता य॑शो॒दाः । 19) य॒शो॒दा अ॑पश्य दपश्य-द्यशो॒दा य॑शो॒दा अ॑पश्यत् । 19) य॒शो॒दा इति॑ यशः - दाः । 20) अ॒प॒श्य॒-त्तास्ता अ॑पश्य दपश्य॒-त्ताः । 21) ता उपोप॒ ता स्ता उप॑ । 22) उपा॑ धत्ता ध॒त्तोपोपा॑ धत्त । 23) अ॒ध॒त्त॒ ताभि॒ स्ताभि॑ रधत्ता धत्त॒ ताभिः॑ । 24) ताभि॒-र्वै वै ताभि॒ स्ताभि॒-र्वै । 25) वै स स वै वै सः । 26) स यशो॒ यश॒-स्स स यशः॑ । 27) यश॑ आ॒त्म-न्ना॒त्मन्. यशो॒ यश॑ आ॒त्मन्न् । 28) आ॒त्म-न्न॑धत्ता धत्ता॒त्म-न्ना॒त्म-न्न॑धत्त । 29) अ॒ध॒त्त॒ य-द्यद॑धत्ता धत्त॒ यत् । 30) य-द्य॑शो॒दा य॑शो॒दा य-द्य-द्य॑शो॒दाः । 31) य॒शो॒दा उ॑प॒दधा᳚ त्युप॒दधा॑ति यशो॒दा य॑शो॒दा उ॑प॒दधा॑ति । 31) य॒शो॒दा इति॑ यशः - दाः । 32) उ॒प॒दधा॑ति॒ यशो॒ यश॑ उप॒दधा᳚ त्युप॒दधा॑ति॒ यशः॑ । 32) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 33) यश॑ ए॒वैव यशो॒ यश॑ ए॒व । 34) ए॒व ताभि॒ स्ताभि॑ रे॒वैव ताभिः॑ । 35) ताभि॒-र्यज॑मानो॒ यज॑मान॒ स्ताभि॒ स्ताभि॒-र्यज॑मानः । 36) यज॑मान आ॒त्म-न्ना॒त्मन्. यज॑मानो॒ यज॑मान आ॒त्मन्न् । 37) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 38) ध॒त्ते॒ पञ्च॒ पञ्च॑ धत्ते धत्ते॒ पञ्च॑ । 39) पञ्चोपोप॒ पञ्च॒ पञ्चोप॑ । 40) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 41) द॒धा॒ति॒ पाङ्क्तः॒ पाङ्क्तो॑ दधाति दधाति॒ पाङ्क्तः॑ । 42) पाङ्क्तः॒ पुरु॑षः॒ पुरु॑षः॒ पाङ्क्तः॒ पाङ्क्तः॒ पुरु॑षः । 43) पुरु॑षो॒ यावा॒न्॒. यावा॒-न्पुरु॑षः॒ पुरु॑षो॒ यावान्॑ । 44) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व । 45) ए॒व पुरु॑षः॒ पुरु॑ष ए॒वैव पुरु॑षः । 46) पुरु॑ष॒ स्तस्मि॒ग्ग्॒ स्तस्मि॒-न्पुरु॑षः॒ पुरु॑ष॒ स्तस्मिन्न्॑ । 47) तस्मि॒न्॒. यशो॒ यश॒ स्तस्मि॒ग्ग्॒ स्तस्मि॒न्॒. यशः॑ । 48) यशो॑ दधाति दधाति॒ यशो॒ यशो॑ दधाति । 49) द॒धा॒तीति॑ दधाति । ॥ 43 ॥ (49/56) ॥ अ. 10 ॥
1) दे॒वा॒सु॒रा-स्संयँ॑त्ता॒-स्संयँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्संयँ॑त्ताः । 1) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । 2) संयँ॑त्ता आस-न्नास॒-न्थ्संयँ॑त्ता॒-स्संयँ॑त्ता आसन्न् । 2) संयँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ । 3) आ॒स॒न् कनी॑याग्ंसः॒ कनी॑याग्ंस आस-न्नास॒न् कनी॑याग्ंसः । 4) कनी॑याग्ंसो दे॒वा दे॒वाः कनी॑याग्ंसः॒ कनी॑याग्ंसो दे॒वाः । 5) दे॒वा आस॒-न्नास॑-न्दे॒वा दे॒वा आसन्न्॑ । 6) आस॒-न्भूयाग्ं॑सो॒ भूयाग्ं॑स॒ आस॒-न्नास॒-न्भूयाग्ं॑सः । 7) भूया॒ग्ं॒सो ऽसु॑रा॒ असु॑रा॒ भूयाग्ं॑सो॒ भूया॒ग्ं॒सो ऽसु॑राः । 8) असु॑रा॒ स्ते ते ऽसु॑रा॒ असु॑रा॒ स्ते । 9) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 10) दे॒वा ए॒ता ए॒ता दे॒वा दे॒वा ए॒ताः । 11) ए॒ता इष्ट॑का॒ इष्ट॑का ए॒ता ए॒ता इष्ट॑काः । 12) इष्ट॑का अपश्य-न्नपश्य॒-न्निष्ट॑का॒ इष्ट॑का अपश्यन्न् । 13) अ॒प॒श्य॒-न्ता स्ता अ॑पश्य-न्नपश्य॒-न्ताः । 14) ता उपोप॒ ता स्ता उप॑ । 15) उपा॑ दधता दध॒तो पोपा॑ दधत । 16) अ॒द॒ध॒त॒ भू॒य॒स्कृ-द्भू॑य॒स्कृ द॑दधता दधत भूय॒स्कृत् । 17) भू॒य॒स्कृ द॑स्यसि भूय॒स्कृ-द्भू॑य॒स्कृ द॑सि । 17) भू॒य॒स्कृदिति॑ भूयः - कृत् । 18) अ॒सीती त्य॑स्य॒ सीति॑ । 19) इत्ये॒ वैवे तीत्ये॒व । 20) ए॒व भूयाग्ं॑सो॒ भूयाग्ं॑स ए॒वैव भूयाग्ं॑सः । 21) भूयाग्ं॑सो ऽभव-न्नभव॒-न्भूयाग्ं॑सो॒ भूयाग्ं॑सो ऽभवन्न् । 22) अ॒भ॒व॒न्॒. वन॒स्पति॑भि॒-र्वन॒स्पति॑भि रभव-न्नभव॒न्॒. वन॒स्पति॑भिः । 23) वन॒स्पति॑भि॒ रोष॑धीभि॒ रोष॑धीभि॒-र्वन॒स्पति॑भि॒-र्वन॒स्पति॑भि॒ रोष॑धीभिः । 23) वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑ - भिः॒ । 24) ओष॑धीभि-र्वरिव॒स्कृ-द्व॑रिव॒स्कृ दोष॑धीभि॒ रोष॑धीभि-र्वरिव॒स्कृत् । 24) ओष॑धीभि॒रित्योष॑धि - भिः॒ । 25) व॒रि॒व॒स्कृ द॑स्यसि वरिव॒स्कृ-द्व॑रिव॒स्कृ द॑सि । 25) व॒रि॒व॒स्कृदिति॑ वरिवः - कृत् । 26) अ॒सीती त्य॑स्य॒ सीति॑ । 27) इती॒मा मि॒मा मितीती॒माम् । 28) इ॒मा म॑जय-न्नजय-न्नि॒मा मि॒मा म॑जयन्न् । 29) अ॒ज॒य॒-न्प्राची॒ प्राच्य॑जय-न्नजय॒-न्प्राची᳚ । 30) प्राच्य॑स्यसि॒ प्राची॒ प्राच्य॑सि । 31) अ॒सीती त्य॑स्य॒ सीति॑ । 32) इति॒ प्राची॒-म्प्राची॒ मितीति॒ प्राची᳚म् । 33) प्राची॒-न्दिश॒-न्दिश॒-म्प्राची॒-म्प्राची॒-न्दिश᳚म् । 34) दिश॑ मजय-न्नजय॒-न्दिश॒-न्दिश॑ मजयन्न् । 35) अ॒ज॒य॒-न्नू॒र्ध्वो र्ध्वा ऽज॑य-न्नजय-न्नू॒र्ध्वा । 36) ऊ॒र्ध्वा ऽस्य॑ स्यू॒र्ध्वो र्ध्वा ऽसि॑ । 37) अ॒सीती त्य॑स्य॒ सीति॑ । 38) इत्य॒मू म॒मू मिती त्य॒मूम् । 39) अ॒मू म॑जय-न्नजय-न्न॒मू म॒मू म॑जयन्न् । 40) अ॒ज॒य॒-न्न॒न्त॒रि॒क्ष॒स द॑न्तरिक्ष॒स द॑जय-न्नजय-न्नन्तरिक्ष॒सत् । 41) अ॒न्त॒रि॒क्ष॒स द॑स्यस्य न्तरिक्ष॒स द॑न्तरिक्ष॒स द॑सि । 41) अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष - सत् । 42) अ॒स्य॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे ऽस्यस्य॒ न्तरि॑क्षे । 43) अ॒न्तरि॑क्षे सीद सीदा॒ न्तरि॑क्षे॒ ऽन्तरि॑क्षे सीद । 44) सी॒दे तीति॑ सीद सी॒देति॑ । 45) इत्य॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मितीत्य॒ न्तरि॑क्षम् । 46) अ॒न्तरि॑क्ष मजय-न्नजय-न्न॒न्तरि॑क्ष म॒न्तरि॑क्ष मजयन्न् । 47) अ॒ज॒य॒-न्तत॒ स्ततो॑ ऽजय-न्नजय॒-न्ततः॑ । 48) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः । 49) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् । 50) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ । ॥ 44 ॥ (50/57)
1) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः । 2) असु॑रा॒ यस्य॒ यस्यासु॑रा॒ असु॑रा॒ यस्य॑ । 3) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 4) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । 5) उ॒प॒धी॒यन्ते॒ भूया॒-न्भूया॑ नुपधी॒यन्त॑ उपधी॒यन्ते॒ भूयान्॑ । 5) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 6) भूया॑ ने॒वैव भूया॒-न्भूया॑ ने॒व । 7) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 8) भ॒व॒ त्य॒भ्य॑भि भ॑वति भव त्य॒भि । 9) अ॒भीमा नि॒मा न॒भ्य॑ भीमान् । 10) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् । 11) लो॒कान् ज॑यति जयति लो॒कान् ँलो॒कान् ज॑यति । 12) ज॒य॒ति॒ भव॑ति॒ भव॑ति जयति जयति॒ भव॑ति । 13) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ । 14) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ । 15) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य । 16) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः । 17) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । 18) भ॒व॒त्य॒ फ्सु॒ष द॑फ्सु॒ष-द्भ॑वति भवत्य फ्सु॒षत् । 19) अ॒फ्सु॒ष द॑स्यस्य फ्सु॒ष द॑फ्सु॒ष द॑सि । 19) अ॒फ्सु॒षदित्य॑फ्सु - सत् । 20) अ॒सि॒ श्ये॒न॒स च्छ्ये॑न॒स द॑स्यसि श्येन॒सत् । 21) श्ये॒न॒स द॑स्यसि श्येन॒स च्छ्ये॑न॒स द॑सि । 21) श्ये॒न॒सदिति॑ श्येन - सत् । 22) अ॒सीती त्य॑स्य॒ सीति॑ । 23) इत्या॑हा॒हे तीत्या॑ह । 24) आ॒है॒त दे॒त दा॑हा है॒तत् । 25) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 26) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 27) अ॒ग्ने रू॒पग्ं रू॒प म॒ग्ने र॒ग्ने रू॒पम् । 28) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ । 29) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व । 30) ए॒वाग्नि म॒ग्नि मे॒वैवाग्निम् । 31) अ॒ग्नि मवा वा॒ग्नि म॒ग्नि मव॑ । 32) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 33) रु॒न्धे॒ पृ॒थि॒व्याः पृ॑थि॒व्या रु॑न्धे रुन्धे पृथि॒व्याः । 34) पृ॒थि॒व्या स्त्वा᳚ त्वा पृथि॒व्याः पृ॑थि॒व्या स्त्वा᳚ । 35) त्वा॒ द्रवि॑णे॒ द्रवि॑णे त्वा त्वा॒ द्रवि॑णे । 36) द्रवि॑णे सादयामि सादयामि॒ द्रवि॑णे॒ द्रवि॑णे सादयामि । 37) सा॒द॒या॒ मीतीति॑ सादयामि सादया॒ मीति॑ । 38) इत्या॑ हा॒हे तीत्या॑ह । 39) आ॒हे॒ मा नि॒मा ना॑हाहे॒मान् । 40) इ॒मा ने॒वैवेमा नि॒मा ने॒व । 41) ए॒वै ताभि॑ रे॒ताभि॑ रे॒वैवैताभिः॑ । 42) ए॒ताभि॑-र्लो॒कान् ँलो॒का ने॒ताभि॑ रे॒ताभि॑-र्लो॒कान् । 43) लो॒का-न्द्रवि॑णावतो॒ द्रवि॑णावतो लो॒कान् ँलो॒का-न्द्रवि॑णावतः । 44) द्रवि॑णावतः कुरुते कुरुते॒ द्रवि॑णावतो॒ द्रवि॑णावतः कुरुते । 44) द्रवि॑णावत॒ इति॒ द्रवि॑ण - व॒तः॒ । 45) कु॒रु॒त॒ आ॒यु॒ष्या॑ आयु॒ष्याः᳚ कुरुते कुरुत आयु॒ष्याः᳚ । 46) आ॒यु॒ष्या॑ उपोपा॑ यु॒ष्या॑ आयु॒ष्या॑ उप॑ । 47) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 48) द॒धा॒ त्यायु॒ रायु॑-र्दधाति दधा॒ त्यायुः॑ । 49) आयु॑ रे॒वै वायु॒ रायु॑ रे॒व । 50) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । ॥ 45 ॥ (50/54)
1) अ॒स्मि॒-न्द॒धा॒ति॒ द॒धा॒ त्य॒स्मि॒-न्न॒स्मि॒-न्द॒धा॒ति॒ । 2) द॒धा॒ त्यग्ने ऽग्ने॑ दधाति दधा॒ त्यग्ने᳚ । 3) अग्ने॒ य-द्यदग्ने ऽग्ने॒ यत् । 4) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 5) ते॒ पर॒-म्पर॑-न्ते ते॒ पर᳚म् । 6) पर॒ग्ं॒ हृ द्धृ-त्पर॒-म्पर॒ग्ं॒ हृत् । 7) हृ-न्नाम॒ नाम॒ हृ द्धृ-न्नाम॑ । 8) नामे तीति॒ नाम॒ नामे ति॑ । 9) इत्या॑ हा॒हे तीत्या॑ह । 10) आ॒है॒त दे॒त दा॑हा है॒तत् । 11) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 12) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 13) अ॒ग्नेः प्रि॒य-म्प्रि॒य म॒ग्ने र॒ग्नेः प्रि॒यम् । 14) प्रि॒य-न्धाम॒ धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॑ । 15) धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॒ धाम॑ प्रि॒यम् । 16) प्रि॒य मे॒वैव प्रि॒य-म्प्रि॒य मे॒व । 17) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 18) अ॒स्य॒ धाम॒ धामा᳚ स्यास्य॒ धाम॑ । 19) धामो पोप॒ धाम॒ धामोप॑ । 20) उपा᳚प्नो त्याप्नो॒ त्युपोपा᳚ प्नोति । 21) आ॒प्नो॒ति॒ तौ ता वा᳚प्नो त्याप्नोति॒ तौ । 22) ता वा तौ ता वा । 23) एही॒ह्येहि॑ । 24) इ॒हि॒ सग्ं स मि॑हीहि॒ सम् । 25) सग्ं र॑भावहै रभावहै॒ सग्ं सग्ं र॑भावहै । 26) र॒भा॒व॒हा॒ इतीति॑ रभावहै रभावहा॒ इति॑ । 27) इत्या॑ हा॒हे तीत्या॑ह । 28) आ॒ह॒ वि व्या॑हाह॒ वि । 29) व्ये॑वैव वि व्ये॑व । 30) ए॒वैने॑ नैने नै॒वै वैने॑न । 31) ए॒ने॒न॒ परि॒ पर्ये॑ने नैनेन॒ परि॑ । 32) परि॑ धत्ते धत्ते॒ परि॒ परि॑ धत्ते । 33) ध॒त्ते॒ पाञ्च॑जन्येषु॒ पाञ्च॑जन्येषु धत्ते धत्ते॒ पाञ्च॑जन्येषु । 34) पाञ्च॑जन्ये॒ ष्वप्यपि॒ पाञ्च॑जन्येषु॒ पाञ्च॑जन्ये॒ ष्वपि॑ । 34) पाञ्च॑जन्ये॒ष्विति॒ पाञ्च॑ - ज॒न्ये॒षु॒ । 35) अप्ये᳚ध्ये॒ ध्यप्य प्ये॑धि । 36) ए॒ध्य॒ग्ने॒ ऽग्न॒ ए॒ध्ये॒ ध्य॒ग्ने॒ । 37) अ॒ग्न॒ इती त्य॑ग्ने ऽग्न॒ इति॑ । 38) इत्या॑ हा॒हे तीत्या॑ह । 39) आ॒है॒ष ए॒ष आ॑हा है॒षः । 40) ए॒ष वै वा ए॒ष ए॒ष वै । 41) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 42) अ॒ग्निः पाञ्च॑जन्यः॒ पाञ्च॑जन्यो॒ ऽग्निर॒ग्निः पाञ्च॑जन्यः । 43) पाञ्च॑जन्यो॒ यो यः पाञ्च॑जन्यः॒ पाञ्च॑जन्यो॒ यः । 43) पाञ्च॑जन्य॒ इति॒ पाञ्च॑ - ज॒न्यः॒ । 44) यः पञ्च॑चितीकः॒ पञ्च॑चितीको॒ यो यः पञ्च॑चितीकः । 45) पञ्च॑चितीक॒ स्तस्मा॒-त्तस्मा॒-त्पञ्च॑चितीकः॒ पञ्च॑चितीक॒ स्तस्मा᳚त् । 45) पञ्च॑चितीक॒ इति॒ पञ्च॑ - चि॒ती॒कः॒ । 46) तस्मा॑दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् । 47) ए॒व मा॑हा है॒व मे॒व मा॑ह । 48) आ॒ह॒ र्त॒व्या॑ ऋत॒व्या॑ आहाह र्त॒व्याः᳚ । 49) ऋ॒त॒व्या॑ उपोपा᳚ र्त॒व्या॑ ऋत॒व्या॑ उप॑ । 50) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 51) द॒धा॒ त्ये॒त दे॒त-द्द॑धाति दधा त्ये॒तत् । 52) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 53) वा ऋ॑तू॒ना मृ॑तू॒नां-वैँ वा ऋ॑तू॒नाम् । 54) ऋ॒तू॒ना-म्प्रि॒य-म्प्रि॒य मृ॑तू॒ना मृ॑तू॒ना-म्प्रि॒यम् । 55) प्रि॒य-न्धाम॒ धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॑ । 56) धाम॒ य-द्य-द्धाम॒ धाम॒ यत् । 57) यदृ॑त॒व्या॑ ऋत॒व्या॑ य-द्यदृ॑त॒व्याः᳚ । 58) ऋ॒त॒व्या॑ ऋतू॒ना मृ॑तू॒ना मृ॑त॒व्या॑ ऋत॒व्या॑ ऋतू॒नाम् । 59) ऋ॒तू॒ना मे॒वैव र्तू॒ना मृ॑तू॒ना मे॒व । 60) ए॒व प्रि॒य-म्प्रि॒य मे॒वैव प्रि॒यम् । 61) प्रि॒य-न्धाम॒ धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॑ । 62) धामावाव॒ धाम॒ धामाव॑ । 63) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 64) रु॒न्धे॒ सु॒मेक॑-स्सु॒मेको॑ रुन्धे रुन्धे सु॒मेकः॑ । 65) सु॒मेक॒ इतीति॑ सु॒मेक॑-स्सु॒मेक॒ इति॑ । 65) सु॒मेक॒ इति॑ सु - मेकः॑ । 66) इत्या॑ हा॒हे तीत्या॑ह । 67) आ॒ह॒ सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒र आ॑हाह संवँथ्स॒रः । 68) सं॒वँ॒थ्स॒रो वै वै सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वै । 68) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 69) वै सु॒मेक॑-स्सु॒मेको॒ वै वै सु॒मेकः॑ । 70) सु॒मेक॑-स्संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॑ सु॒मेक॑-स्सु॒मेक॑-स्संवँथ्स॒रस्य॑ । 70) सु॒मेक॒ इति॑ सु - मेकः॑ । 71) सं॒वँ॒थ्स॒र स्यै॒वैव सं॑वँथ्स॒रस्य॑ संवँथ्स॒र स्यै॒व । 71) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 72) ए॒व प्रि॒य-म्प्रि॒य मे॒वैव प्रि॒यम् । 73) प्रि॒य-न्धाम॒ धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॑ । 74) धामो पोप॒ धाम॒ धामोप॑ । 75) उपा᳚प्नो त्याप्नो॒ त्युपोपा᳚ प्नोति । 76) आ॒प्नो॒तीत्या᳚प्नोति । ॥ 46 ॥ (76/83) ॥ अ. 11 ॥
1) प्र॒जाप॑ते॒ रक्ष्यक्षि॑ प्र॒जाप॑तेः प्र॒जाप॑ते॒ रक्षि॑ । 1) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 2) अक्ष्य॑ श्वयद श्वय॒ दक्ष्य क्ष्य॑ श्वयत् । 3) अ॒श्व॒य॒-त्त-त्तद॑श्वय दश्वय॒-त्तत् । 4) त-त्परा॒ परा॒ त-त्त-त्परा᳚ । 5) परा॑ ऽपत दपत॒-त्परा॒ परा॑ ऽपतत् । 6) अ॒प॒त॒-त्त-त्तद॑पत दपत॒-त्तत् । 7) तदश्वो ऽश्व॒ स्त-त्तदश्वः॑ । 8) अश्वो॑ ऽभव दभव॒ दश्वो ऽश्वो॑ ऽभवत् । 9) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् । 10) यदश्व॑य॒ दश्व॑य॒-द्य-द्यदश्व॑यत् । 11) अश्व॑य॒-त्त-त्तदश्व॑य॒ दश्व॑य॒-त्तत् । 12) तदश्व॒स्या श्व॑स्य॒ त-त्तदश्व॑स्य । 13) अश्व॑स्या श्व॒त्व म॑श्व॒त्व मश्व॒स्या श्व॑स्या श्व॒त्वम् । 14) अ॒श्व॒त्व-न्त-त्तद॑श्व॒त्व म॑श्व॒त्व-न्तत् । 14) अ॒श्व॒त्वमित्य॑श्व - त्वम् । 15) त-द्दे॒वा दे॒वा स्त-त्त-द्दे॒वाः । 16) दे॒वा अ॑श्वमे॒धेना᳚ श्वमे॒धेन॑ दे॒वा दे॒वा अ॑श्वमे॒धेन॑ । 17) अ॒श्व॒मे॒धे नै॒वै वाश्व॑मे॒धेना᳚ श्वमे॒धेनै॒व । 17) अ॒श्व॒मे॒धेनेत्य॑श्व - मे॒धेन॑ । 18) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ । 19) प्रत्य॑ दधु रदधुः॒ प्रति॒ प्रत्य॑ दधुः । 20) अ॒द॒धु॒ रे॒ष ए॒षो॑ ऽदधु रदधु रे॒षः । 21) ए॒ष वै वा ए॒ष ए॒ष वै । 22) वै प्र॒जाप॑ति-म्प्र॒जाप॑तिं॒-वैँ वै प्र॒जाप॑तिम् । 23) प्र॒जाप॑ति॒ग्ं॒ सर्व॒ग्ं॒ सर्व॑-म्प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ सर्व᳚म् । 23) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 24) सर्व॑-ङ्करोति करोति॒ सर्व॒ग्ं॒ सर्व॑-ङ्करोति । 25) क॒रो॒ति॒ यो यः क॑रोति करोति॒ यः । 26) यो᳚ ऽश्वमे॒धेना᳚ श्वमे॒धेन॒ यो यो᳚ ऽश्वमे॒धेन॑ । 27) अ॒श्व॒मे॒धेन॒ यज॑ते॒ यज॑ते ऽश्वमे॒धेना᳚ श्वमे॒धेन॒ यज॑ते । 27) अ॒श्व॒मे॒धेनेत्य॑श्व - मे॒धेन॑ । 28) यज॑ते॒ सर्व॒-स्सर्वो॒ यज॑ते॒ यज॑ते॒ सर्वः॑ । 29) सर्व॑ ए॒वैव सर्व॒-स्सर्व॑ ए॒व । 30) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 31) भ॒व॒ति॒ सर्व॑स्य॒ सर्व॑स्य भवति भवति॒ सर्व॑स्य । 32) सर्व॑स्य॒ वै वै सर्व॑स्य॒ सर्व॑स्य॒ वै । 33) वा ए॒षैषा वै वा ए॒षा । 34) ए॒षा प्राय॑श्चित्तिः॒ प्राय॑श्चित्ति रे॒षैषा प्राय॑श्चित्तिः । 35) प्राय॑श्चित्ति॒-स्सर्व॑स्य॒ सर्व॑स्य॒ प्राय॑श्चित्तिः॒ प्राय॑श्चित्ति॒-स्सर्व॑स्य । 36) सर्व॑स्य भेष॒ज-म्भे॑ष॒जग्ं सर्व॑स्य॒ सर्व॑स्य भेष॒जम् । 37) भे॒ष॒जग्ं सर्व॒ग्ं॒ सर्व॑-म्भेष॒ज-म्भे॑ष॒जग्ं सर्व᳚म् । 38) सर्वं॒-वैँ वै सर्व॒ग्ं॒ सर्वं॒-वैँ । 39) वा ए॒ते नै॒तेन॒ वै वा ए॒तेन॑ । 40) ए॒तेन॑ पा॒प्मान॑-म्पा॒प्मान॑ मे॒ते नै॒तेन॑ पा॒प्मान᳚म् । 41) पा॒प्मान॑-न्दे॒वा दे॒वाः पा॒प्मान॑-म्पा॒प्मान॑-न्दे॒वाः । 42) दे॒वा अ॑तर-न्नतर-न्दे॒वा दे॒वा अ॑तरन्न् । 43) अ॒त॒र॒-न्नप्य प्य॑तर-न्नतर॒-न्नपि॑ । 44) अपि॒ वै वा अप्यपि॒ वै । 45) वा ए॒ते नै॒तेन॒ वै वा ए॒तेन॑ । 46) ए॒तेन॑ ब्रह्मह॒त्या-म्ब्र॑ह्मह॒त्या मे॒ते नै॒तेन॑ ब्रह्मह॒त्याम् । 47) ब्र॒ह्म॒ह॒त्या म॑तर-न्नतर-न्ब्रह्मह॒त्या-म्ब्र॑ह्मह॒त्या म॑तरन्न् । 47) ब्र॒ह्म॒ह॒त्यामिति॑ ब्रह्म - ह॒त्याम् । 48) अ॒त॒र॒-न्थ्सर्व॒ग्ं॒ सर्व॑ मतर-न्नतर॒-न्थ्सर्व᳚म् । 49) सर्व॑-म्पा॒प्मान॑-म्पा॒प्मान॒ग्ं॒ सर्व॒ग्ं॒ सर्व॑-म्पा॒प्मान᳚म् । 50) पा॒प्मान॑-न्तरति तरति पा॒प्मान॑-म्पा॒प्मान॑-न्तरति । ॥ 47 ॥ (50/56)
1) त॒र॒ति॒ तर॑ति॒ तर॑ति तरति तरति॒ तर॑ति । 2) तर॑ति ब्रह्मह॒त्या-म्ब्र॑ह्मह॒त्या-न्तर॑ति॒ तर॑ति ब्रह्मह॒त्याम् । 3) ब्र॒ह्म॒ह॒त्यां-योँ यो ब्र॑ह्मह॒त्या-म्ब्र॑ह्मह॒त्यां-यः ँ। 3) ब्र॒ह्म॒ह॒त्यामिति॑ ब्रह्म - ह॒त्याम् । 4) यो᳚ ऽश्वमे॒धेना᳚ श्वमे॒धेन॒ यो यो᳚ ऽश्वमे॒धेन॑ । 5) अ॒श्व॒मे॒धेन॒ यज॑ते॒ यज॑ते ऽश्वमे॒धेना᳚ श्वमे॒धेन॒ यज॑ते । 5) अ॒श्व॒मे॒धेनेत्य॑श्व - मे॒धेन॑ । 6) यज॑ते॒ यो यो यज॑ते॒ यज॑ते॒ यः । 7) य उ॑ वु॒ यो य उ॑ । 8) उ॒ च॒ च॒ वु॒ च॒ । 9) चै॒न॒ मे॒न॒-ञ्च॒ चै॒न॒म् । 10) ए॒न॒ मे॒व मे॒व मे॑न मेन मे॒वम् । 11) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 12) वेदोत्त॑र॒ मुत्त॑रं॒-वेँद॒ वेदोत्त॑रम् । 13) उत्त॑रं॒-वैँ वा उत्त॑र॒ मुत्त॑रं॒-वैँ । 13) उत्त॑र॒मित्युत् - त॒र॒म् । 14) वै त-त्त-द्वै वै तत् । 15) त-त्प्र॒जाप॑तेः प्र॒जाप॑ते॒ स्त-त्त-त्प्र॒जाप॑तेः । 16) प्र॒जाप॑ते॒ रक्ष्यक्षि॑ प्र॒जाप॑तेः प्र॒जाप॑ते॒ रक्षि॑ । 16) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 17) अक्ष्य॑ श्वय दश्वय॒ दक्ष्य क्ष्य॑ श्वयत् । 18) अ॒श्व॒य॒-त्तस्मा॒-त्तस्मा॑ दश्वय दश्वय॒-त्तस्मा᳚त् । 19) तस्मा॒ दश्व॒स्या श्व॑स्य॒ तस्मा॒-त्तस्मा॒ दश्व॑स्य । 20) अश्व॑स्यो त्तर॒त उ॑त्तर॒तो ऽश्व॒स्या श्व॑स्यो त्तर॒तः । 21) उ॒त्त॒र॒तो ऽवावो᳚ त्तर॒त उ॑त्तर॒तो ऽव॑ । 21) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 22) अव॑ द्यन्ति द्य॒-न्त्यवाव॑ द्यन्ति । 23) द्य॒न्ति॒ द॒क्षि॒ण॒तो द॑क्षिण॒तो द्य॑न्ति द्यन्ति दक्षिण॒तः । 24) द॒क्षि॒ण॒तो᳚ ऽन्येषा॑ म॒न्येषा᳚-न्दक्षिण॒तो द॑क्षिण॒तो᳚ ऽन्येषा᳚म् । 25) अ॒न्येषा᳚-म्पशू॒ना-म्प॑शू॒ना म॒न्येषा॑ म॒न्येषा᳚-म्पशू॒नाम् । 26) प॒शू॒नां-वैँ॑त॒सो वै॑त॒सः प॑शू॒ना-म्प॑शू॒नां-वैँ॑त॒सः । 27) वै॒त॒सः कटः॒ कटो॑ वैत॒सो वै॑त॒सः कटः॑ । 28) कटो॑ भवति भवति॒ कटः॒ कटो॑ भवति । 29) भ॒व॒ त्य॒फ्सुयो॑नि र॒फ्सुयो॑नि-र्भवति भव त्य॒फ्सुयो॑निः । 30) अ॒फ्सुयो॑नि॒-र्वै वा अ॒फ्सुयो॑नि र॒फ्सुयो॑नि॒-र्वै । 30) अ॒फ्सुयो॑नि॒रित्य॒फ्सु - यो॒निः॒ । 31) वा अश्वो ऽश्वो॒ वै वा अश्वः॑ । 32) अश्वो᳚ ऽफ्सु॒जो᳚ ऽफ्सु॒जो ऽश्वो ऽश्वो᳚ ऽफ्सु॒जः । 33) अ॒फ्सु॒जो वे॑त॒सो वे॑त॒सो᳚ ऽफ्सु॒जो᳚ ऽफ्सु॒जो वे॑त॒सः । 33) अ॒फ्सु॒ज इत्य॑फ्सु - जः । 34) वे॒त॒स-स्स्वे स्वे वे॑त॒सो वे॑त॒स-स्स्वे । 35) स्व ए॒वैव स्वे स्व ए॒व । 36) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 37) ए॒नं॒-योँनौ॒ योना॑ वेन मेनं॒-योँनौ᳚ । 38) योनौ॒ प्रति॒ प्रति॒ योनौ॒ योनौ॒ प्रति॑ । 39) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति । 40) स्था॒प॒य॒ति॒ च॒तु॒ष्टो॒म श्च॑तुष्टो॒म-स्स्था॑पयति स्थापयति चतुष्टो॒मः । 41) च॒तु॒ष्टो॒म-स्स्तोम॒-स्स्तोम॑ श्चतुष्टो॒म श्च॑तुष्टो॒म-स्स्तोमः॑ । 41) च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः । 42) स्तोमो॑ भवति भवति॒ स्तोम॒-स्स्तोमो॑ भवति । 43) भ॒व॒ति॒ स॒र-ट्थ्स॒र-ड्भ॑वति भवति स॒रट् । 44) स॒रड्ढ॑ ह स॒र-ट्थ्स॒रड्ढ॑ । 45) ह॒ वै वै ह॑ ह॒ वै । 46) वा अश्व॒स्या श्व॑स्य॒ वै वा अश्व॑स्य । 47) अश्व॑स्य॒ सक्थि॒ सक्थ्य श्व॒स्या श्व॑स्य॒ सक्थि॑ । 48) सक्थ्या सक्थि॒ सक्थ्या । 49) आ ऽवृ॑ह दवृह॒दा ऽवृ॑हत् । 50) अ॒वृ॒ह॒-त्त-त्तद॑वृह दवृह॒-त्तत् । 51) त-द्दे॒वा दे॒वा स्त-त्त-द्दे॒वाः । 52) दे॒वा श्च॑तुष्टो॒मेन॑ चतुष्टो॒मेन॑ दे॒वा दे॒वा श्च॑तुष्टो॒मेन॑ । 53) च॒तु॒ष्टो॒मेनै॒ वैव च॑तुष्टो॒मेन॑ चतुष्टो॒मे नै॒व । 53) च॒तु॒ष्टो॒मेनेति॑ चतुः - स्तो॒मेन॑ । 54) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ । 55) प्रत्य॑दधु रदधुः॒ प्रति॒ प्रत्य॑दधुः । 56) अ॒द॒धु॒-र्य-द्यद॑दधु रदधु॒-र्यत् । 57) यच् च॑तुष्टो॒म श्च॑तुष्टो॒मो य-द्यच् च॑तुष्टो॒मः । 58) च॒तु॒ष्टो॒म-स्स्तोम॒-स्स्तोम॑ श्चतुष्टो॒म श्च॑तुष्टो॒म-स्स्तोमः॑ । 58) च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः । 59) स्तोमो॒ भव॑ति॒ भव॑ति॒ स्तोम॒-स्स्तोमो॒ भव॑ति । 60) भव॒त्य श्व॒स्या श्व॑स्य॒ भव॑ति॒ भव॒त्य श्व॑स्य । 61) अश्व॑स्य सर्व॒त्वाय॑ सर्व॒त्वाया श्व॒स्या श्व॑स्य सर्व॒त्वाय॑ । 62) स॒र्व॒त्वायेति॑ सर्व - त्वाय॑ । ॥ 48 ॥ (62, 72)
॥ अ. 12 ॥
Browse Related Categories: