Ashtottara Sata Nama · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
नारसिंहो महासिंहो दिव्यसिंहो महाबलः । उग्रसिंहो महादेवस्स्तंभजश्चोग्रलोचनः ॥ 1 ॥
रौद्रस्सर्वाद्भुतः श्रीमान् योगानंदस्त्रिविक्रमः । हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
पंचाननः परब्रह्म चाऽघोरो घोरविक्रमः । ज्वलन्मुखो ज्वालमाली महाज्वालो महाप्रभुः ॥ 3 ॥
निटिलाक्षस्सहस्राक्षो दुर्निरीक्षः प्रतापनः । महादंष्ट्रायुधः प्राज्ञश्चंडकोपी सदाशिवः ॥ 4 ॥
हिरण्यकशिपुध्वंसी दैत्यदानवभंजनः । गुणभद्रो महाभद्रो बलभद्रस्सुभद्रकः ॥ 5 ॥
करालो विकरालश्च विकर्ता सर्वकर्तृकः । शिंशुमारस्त्रिलोकात्मा ईशस्सर्वेश्वरो विभुः ॥ 6 ॥
भैरवाडंबरो दिव्यश्चाऽच्युतः कवि माधवः । अधोक्षजोऽक्षरश्शर्वो वनमाली वरप्रदः ॥ 7 ॥
विश्वंभरोऽद्भुतो भव्यः श्रीविष्णुः पुरुषोत्तमः । अनघास्त्रो नखास्त्रश्च सूर्यज्योतिस्सुरेश्वरः ॥ 8 ॥
सहस्रबाहुःस्सर्वज्ञस्सर्वसिद्धिप्रदायकः । वज्रदंष्ट्रो वज्रनखो महानंदः परंतपः ॥ 9 ॥
सर्वमंत्रैकरूपश्च सर्वयंत्रविदारणः । सर्वतंत्रात्मकोऽव्यक्तस्सुव्यक्तो भक्तवत्सलः ॥ 10 ॥
वैशाखशुक्लभूतोत्थः शरणागतवत्सलः । उदारकीर्तिः पुण्यात्मा महात्मा चंडविक्रमः ॥ 11 ॥
वेदत्रयप्रपूज्यश्च भगवान्परमेश्वरः । श्रीवत्सांकः श्रीनिवासो जगद्व्यापी जगन्मयः ॥ 12 ॥
जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् । परमात्मा परंज्योतिर्निर्गुणश्च नृकेसरी ॥ 13 ॥
परतत्त्वः परंधाम सच्चिदानंदविग्रहः । लक्ष्मीनृसिंहस्सर्वात्मा धीरः प्रह्लादपालकः ॥ 14 ॥
इदं श्रीमन्नृसिंहस्य नाम्नामष्टोत्तरं शतम् । त्रिसंध्यं यः पठेद्भक्त्या सर्वाभीष्टमवाप्नुयात् ॥ 15 ॥
इति श्रीनृसिंहपूजाकल्पे श्री लक्ष्मीनृसिंहाष्टोत्तरशतनाम स्तोत्रम् ।
Browse Related Categories: