Sri Mooka Pancha Shati · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
बध्नीमो वयमंजलिं प्रतिदिनं बंधच्छिदे देहिनां कंदर्पागमतंत्रमूलगुरवे कल्याणकेलीभुवे । कामाक्ष्या घनसारपुंजरजसे कामद्रुहश्चक्षुषां मंदारस्तबकप्रभामदमुषे मंदस्मितज्योतिषे ॥1॥
सध्रीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे- राचार्याय मृणालकांडमहसां नैसर्गिकाय द्विषे । स्वर्धुन्या सह युध्वेन हिमरुचेरर्धासनाध्यासिने कामाक्ष्याः स्मितमंजरीधवलिमाद्वैताय तस्मै नमः ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
कर्पूरद्युतिचातुरीमतितरामल्पीयसीं कुर्वती दौर्भाग्योदयमेव संविदधती दौषाकरीणां त्विषाम् । क्षुल्लानेव मनोज्ञमल्लिनिकरान्फुल्लानपि व्यंजती कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसूरस्तु मे ॥3॥
या पीनस्तनमंडलोपरि लसत्कर्पूरलेपायते या नीलेक्षणरात्रिकांतिततिषु ज्योत्स्नाप्ररोहायते । या सौंदर्यधुनीतरंगततिषु व्यालोलहंसायते कामाक्ष्याः शिशिरीकरोतु हृदयं सा मे स्मितप्राचुरी ॥4॥
येषां गच्छति पूर्वपक्षसरणिं कौमुद्वतः श्वेतिमा येषां संततमारुरुक्षति तुलाकक्ष्यां शरच्चंद्रमाः । येषामिच्छति कंबुरप्यसुलभामंतेवसत्प्रक्रियां कामाक्ष्या ममतां हरंतु मम ते हासत्विषामंकुराः ॥5॥
आशासीमसु संततं विदधती नैशाकरीं व्याक्रियां काशानामभिमानभंगकलनाकौशल्यमाबिभ्रती । ईशानेन विलोकिता सकुतुकं कामाक्षि ते कल्मष- क्लेशापायकरी चकास्ति लहरी मंदस्मितज्योतिषाम् ॥6॥
आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं कंदर्पस्य विभोर्जगत्त्रयप्राकट्यमुद्रानिधेः । यस्याश्चामरचातुरीं कलयते रश्मिच्छटा चंचला सा मंदस्मितमंजरी भवतु नः कामाय कामाक्षि ते ॥7॥
शंभोर्या परिरंभसंभ्रमविधौ नैर्मल्यसीमानिधिः गैर्वाणीव तरंगिणी कृतमृदुस्यंदां कलिंदात्मजाम् । कल्माषीकुरुते कलंकसुषमां कंठस्थलीचुंबिनीं कामाक्ष्याः स्मितकंदली भवतु नः कल्याणसंदोहिनी ॥8॥
जेतुं हारलतामिव स्तनतटीं संजग्मुषी संततं गंतुं निर्मलतामिव द्विगुणितां मग्ना कृपास्त्रोतसि । लब्धुं विस्मयनीयतामिव हरं रागाकुलं कुर्वती मंजुस्ते स्मितमंजरी भवभयं मथ्नातु कामाक्षि मे ॥9॥
श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती शीतापि स्मरपावकं पशुपतेः संधुक्षयंती सदा । स्वाभाव्यादधराश्रितापि नमतामुच्चैर्दिशंती गतिं कामाक्षि स्फुटमंतरा स्फुरतु नस्त्वन्मंदहासप्रभा ॥10॥
वक्त्रश्रीसरसीजले तरलितभ्रूवल्लिकल्लोलिते कालिम्ना दधती कटाक्षजनुषा माधुव्रतीं व्यापृतिम् । निर्निद्रामलपुंडरीककुहनापांडित्यमाबिभ्रती कामाक्ष्याः स्मितचातुरी मम मनः कातर्यमुन्मूलयेत् ॥11॥
नित्यं बाधितबंधुजीवमधरं मैत्रीजुषं पल्लवैः शुद्धस्य द्विजमंडलस्य च तिरस्कर्तारमप्याश्रिता । या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां कामाक्ष्या हृदयं प्रसादयतु मे सा मंदहासप्रभा ॥12॥
द्रुह्यंती तमसे मुहुः कुमुदिनीसाहाय्यमाबिभ्रती यांती चंद्रकिशोरशेखरवपुःसौधांगणे प्रेंखणम् । ज्ञानांभोनिधिवीचिकां सुमनसां कूलंकषां कुर्वती कामाक्ष्याः स्मितकौमुदी हरतु मे संसारतापोदयम् ॥13॥
काश्मीरद्रवधातुकर्दमरुचा कल्माषतां बिभ्रती हंसौधैरिव कुर्वती परिचितिं हारीकृतैर्मौक्तिकैः । वक्षोजन्मतुषारशैलकटके संचारमातन्वती कामाक्ष्या मृदुलस्मितद्युतिमयी भागीरथी भासते ॥14॥
कंबोर्वंशपरंपरा इव कृपासंतानवल्लीभुवः संफुल्लस्तबका इव प्रसृमरा मूर्ताः प्रसादा इव । वाक्पीयूषकणा इव त्रिपथगापर्यायभेदा इव भ्राजंते तव मंदहासकिरणाः कांचीपुरीनायिके ॥15॥
वक्षोजे घनसारपत्ररचनाभंगीसपत्नायिता कंठे मौक्तिकहारयष्टिकिरणव्यापारमुद्रायिता । ओष्ठश्रीनिकुरुंबपल्लवपुटे प्रेंखत्प्रसूनायिता कामाक्षि स्फुरतां मदीयहृदये त्वन्मंदहासप्रभा ॥16॥
येषां बिंदुरिवोपरि प्रचलितो नासाग्रमुक्तामणिः येषां दीन इवाधिकंठमयते हारः करालंबनम् । येषां बंधुरिवोष्ठयोररुणिमा धत्ते स्वयं रंजनं कामाक्ष्याः प्रभवंतु ते मम शिवोल्लासाय हासांकुराः ॥17॥
या जाड्यांबुनिधिं क्षिणोति भजतां वैरायते कैरवैः नित्यं यां नियमेन या च यतते कर्तुं त्रिणेत्रोत्सवम् । बिंबं चांद्रमसं च वंचयति या गर्वेण सा तादृशी कामाक्षि स्मितमंजरी तव कथं ज्योत्स्नेत्यसौ कीर्त्यते ॥18॥
आरुढा रभसात्पुरः पुररिपोराश्लेषणोपक्रमे या ते मातरुपैति दिव्यतटिनीशंकाकरी तत्क्षणम् । ओष्ठौ वेपयति भ्रुवौ कुटिलयत्यानम्रयत्याननं तां वंदे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥19॥
वक्त्रेंदोस्तव चंद्रिका स्मितततिर्वल्गु स्फुरंती सतां स्याच्चेद्युक्तिमिदं चकोरमनसां कामाक्षि कौतूहलम् । एतच्चित्रमहर्निशं यदधिकामेषा रुचिं गाहते बिंबोष्ठद्युमणिप्रभास्वपि च यद्बिब्बोकमालंबते ॥20॥
सादृश्यं कलशांबुधेर्वहति यत्कामाक्षि मंदस्मितं शोभामोष्ठरुचांब विद्रुमभवामेताद्भिदां ब्रूमहे । एकस्मादुदितं पुरा किल पपौ शर्वः पुराणः पुमान् एतन्मध्यसमुद्भवं रसयते माधुर्यरूपं रसम् ॥21॥
उत्तुंगस्तनकुंभशैलकटके विस्तारिकस्तूरिका- पत्रश्रीजुषि चंचलाः स्मितरुचः कामाक्षि ते कोमलाः । संध्यादीधितिरंजिता इव मुहुः सांद्राधरज्योतिषा व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥22॥
क्षीरं दूरत एव तिष्ठतु कथं वैमल्यमात्रादिदं मातस्ते सहपाठवीथिमयतां मंदस्मितैर्मंजुलैः । किं चेयं तु भिदास्ति दोहनवशादेकं तु संजायते कामाक्षि स्वयमर्थितं प्रणमतामन्यत्तु दोदुह्यते ॥23॥
कर्पूरैरमृतैर्जगज्जननि ते कामाक्षि चंद्रातपैः मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् । श्रीकांचीपुरनायिके समतया संस्तूयते सज्जनैः तत्तादृङ्मम तापशांतिविधये किं देवि मंदायते ॥24॥
मध्येगर्भितमंजुवाक्यलहरीमाध्वीझरीशीतला मंदारस्तबकायते जननि ते मंदस्मितांशुच्छटा । यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो वल्गुर्वीक्षणविभ्रमव्यतिकरो वासंतमासायते ॥25॥
बिंबोष्ठद्युतिपुंजरंजितरुचिस्त्वन्मंदहासच्छटा । कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे । फुल्लन्मल्लिपिनद्धहल्लकमयी मालेव या पेशला श्रीकांचीश्वरि मारमर्दितुरुरोमध्ये मुहुर्लंबते ॥26॥
बिभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसो कामाक्षि स्मितमंजरी किरति ते कारुण्यधारारसम् । आश्चर्यं शिशिरीकरोति जगतीश्चालोक्य चैनामहो कामं खेलति नीलकंठहृदयं कौतूहलांदोलितम् ॥27॥
प्रेंखत्प्रौढकटाक्षकुंजकुहरेष्वत्यच्छगुच्छायितं वक्त्रेंदुच्छविसिंधुवीचिनिचये फेनप्रतानायितम् । नैरंतर्यविजृंभितस्तनतटे नैचोलपट्टायितं कालुष्यं कबलीकरोतु मम ते कामाक्षि मंदस्मितम् ॥28॥
पीयूषं तव मंथरस्मितमिति व्यर्थैव सापप्रथा कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे । मंदारस्य कथालवं न सहते मथ्नाति मंदाकिनी- मिंदुं निंदति कीर्तितेऽपि कलशीपाथोधिमीर्ष्यायते ॥29॥
विश्वेषां नयनोत्सवं वितनुतां विद्योततां चंद्रमा विख्यातो मदनांतकेन मुकुटीमध्ये च संमान्यताम् । आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते कालंकीमवलंबते खलु दशां कल्माषहीनोऽप्यसौ ॥30॥
चेतः शीतलयंतु नः पशुपतेरानंदजीवातवो नम्राणां नयनाध्वसीमसु शरच्चंद्रातपोपक्रमाः । संसाराख्यसरोरुहाकरखलीकारे तुषारोत्कराः कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मंदहासांकुराः ॥31॥
कर्मौघाख्यतमःकचाकचिकरान्कामाक्षि संचिंतये त्वन्मंदस्मितरोचिषां त्रिभुवनक्षेमंकरानंकुरान् । ये वक्त्रं शिशिरश्रियो विकसितं चंद्रातपांभोरुह- द्वेषोद्धेषोणचातुरीमिव तिरस्कर्तुं परिष्कुर्वते ॥32॥
कुर्युर्नः कुलशैलराजतनये कूलंकषं मंगलं कुंदस्पर्धनचुंचवस्तव शिवे मंदस्मितप्रक्रमाः । ये कामाक्षि समस्तसाक्षिनयनं संतोषयंतीश्वरं कर्पूरप्रकरा इव प्रसृमराः पुंसामसाधारणाः ॥33॥
कम्रेण स्नपयस्व कर्मकुहनाचोरेण मारागम- व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुषा । कामाक्षि स्मितकंदलेन कलुषस्फोटक्रियाचुंचुना कारुण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ॥34॥
त्वन्मंदस्मितकंदलस्य नियतं कामाक्षि शंकामहे बिंबः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः । किंच क्षीरपयोनिधिः प्रतिनिधिः स्वर्वाहिनीवीचिका- बिब्वोकोऽपि विडंब एव कुहना मल्लीमतल्लीरुचः ॥35॥
दुष्कर्मार्कनिसर्गकर्कशमहस्संपर्कतपतं मिल- त्पंकं शंकरवल्लभे मम मनः कांचीपुरालंक्रिये । अंब त्वन्मृदुलस्मितामृतरसे मंक्त्वा विधूय व्यथा- मानंदोदयसौधशृंगपदवीमारोढुमाकांक्षति ॥36॥
नम्राणां नगराजशेखरसुते नाकालयानां पुरः कामाक्षि त्वरया विपत्प्रशमेन कारुण्यधाराः किरन् । आगच्छंतमनुग्रहं प्रकटयन्नानंदबीजानि ते नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥37॥
कामाक्षि प्रथमानविभ्रमनिधिः कंदर्पदर्पप्रसूः मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्बिषम् । यं द्रष्टुं विहिते करग्रह उमे शंभुस्त्रपामीलितं स्वैरं कारयति स्म तांडवविनोदानंदिना तंडुना ॥38॥
क्षुण्णं केनचिदेव धीरमनसा कुत्रापि नानाजनैः कर्मग्रंथिनियंत्रितैरसुगमं कामाक्षि सामान्यतः । मुग्धैर्द्रुष्टुमशक्यमेव मनसा मूढसय मे मौक्तिकं मार्गं दर्शयतु प्रदीप इव ते मंदस्मितश्रीरियम् ॥39॥
ज्योत्स्नाकांतिभिरेव निर्मलतरं नैशाकरं मंडलं हंसैरेव शरद्विलाससमये व्याकोचमंभोरुहम् । स्वच्छैरेव विकस्वरैरुडुगुणैः कामाक्षि बिंबं दिवः पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम् ॥40॥
मानग्रंथिविधुंतुदेन रभसादास्वाद्यमाने नव- प्रेमाडंबरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् । आलोक्य स्मितचंद्रिकां पुनरिमामुन्मीलनं जग्मुषीं चेतः शीलयते चकोरचरितं चंद्रार्धचूडामणेः ॥41॥
कामाक्षि स्मितमंजरीं तव भजे यस्यास्त्विषामंकुरा- नापीनस्तनपानलालसतया निश्शंकमंकेशयः । ऊर्ध्वं वीक्ष्य विकर्षति प्रसृमरानुद्दामया शुंडया सूनुसुते बिसशंकयाशु कुहनादंतावलग्रामणीः ॥42॥
गाढाश्लेषविमर्दसंभ्रमवशादुद्दाममुक्तागुण- प्रालंबे कुचकुंभयोर्विगलिते दक्षद्विषो वक्षसि । या सख्येन पिनह्यति प्रचुरया भासा तदीयां दशां सा मे खेलतु कामकोटि हृदये सांद्रस्मितांशुच्छटा ॥43॥
मंदारे तव मंथरस्मितरुचां मात्सर्यमालोक्यते कामाक्षि स्मरशासने च नियतो रागोदयो लक्ष्यते । चांद्रीषु द्युतिमंजरीषु च महांद्वेषांकुरो दृश्यते शुद्धानां कथमीदृशी गिरिसुतेऽतिशुद्धा दशा कथ्यताम् ॥44॥
पीयूषं खलु पीयते सुरजनैर्दुग्धांबुधिर्मथ्यते माहेशैश्च जटाकलापनिगडैर्मंदाकिनी नह्यते । शीतांशुः परिभूयते च तमसा तस्मादनेतादृशी कामाक्षि स्मितमंजरी तव वचोवैदग्ध्यमुल्लंघते ॥45॥
आशंके तव मंदहासलहरीमन्यादृशीं चंद्रिका- मेकाम्रेशकुटुंबिनि प्रतिपदं यस्याः प्रभासंगमे । वक्षोजांबुरुहे न ते रचयतः कांचिद्दशां कौङ्मली- मास्यांभोरुहमंब किंच शनकैरालंबते फुल्लताम् ॥46॥
आस्तीर्णाधरकांतिपल्लवचये पातं मुहुर्जग्मुषी मारद्रोहिणि कंदलत्स्मरशरज्वालावलीर्व्यंजती । निंदंती घनसारहारवलयज्योत्स्नामृणालानि ते कामाक्षि स्मितचातुरी विरहिणीरीतिं जगाहेतराम् ॥47॥
सूर्यालोकविधौ विकासमधिकं यांती हरंती तम- स्संदोहं नमतां निजस्मरणतो दोषाकरद्वेषिणी । निर्यांती वदनारविंदकुहरान्निर्धूतजाड्या नृणां श्रीकामाक्षि तव स्मितद्युतिमयी चित्रीयते चंद्रिका ॥48॥
कुंठीकुर्युरमी कुबोधघटनामस्मन्मनोमाथिनीं श्रीकामाक्षि शिवंकरास्तव शिवे श्रीमंदहासांकुराः । ये तन्वंति निरंतरं तरुणिमस्तंबेरमग्रामणी- कुंभद्वंद्वविडंबिनि स्तनतटे मुक्ताकुथाडंबरम् ॥49॥
प्रेंखंतः शरदंबुदा इव शनैः प्रेमानिलैः प्रेरिता मज्जंतो मंदनारिकंठसुषमासिंधौ मुहुर्मंथरम् । श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो नीलांभोधरनैपुणीं तत इतो निर्निद्रयंत्यंजसा ॥50॥
व्यापारं चतुराननैकविहृतौ व्याकुर्वती कुर्वती रुद्राक्षग्रहणं महेशि सततं वागूर्मिकल्लोलिता । उत्फुल्लं धवलारविंदमधरीकृत्य स्फुरंती सदा श्रीकामाक्षि सरस्वती विजयते त्वन्मंदहासप्रभा ॥51॥
कर्पूरद्युतितस्करेण महसा कल्माषयत्याननं श्रीकांचीपुरनायिके पतिरिव श्रीमंदहासोऽपि ते । आलिंगत्यतिपीवरां स्तनतटीं बिंबाधरं चुंबति प्रौढं रागभरं व्यनक्ति मनसो धैर्यं धुनीतेतराम् ॥52॥
वैशद्येन च विश्वतापहरणक्रीडापटीयस्तया पांडित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादेन । कामाक्षि स्मितकंदलैस्तव तुलामारोढुमुद्योगिनी ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ॥53॥
लावण्यांबुजिनीमृणालवलयैः शृंगारगंधद्विप- ग्रामण्यः श्रुतिचामरैस्तरुणिमस्वाराज्यतेजोंकुरैः । आनंदामृतसिंधुवीचिपृषतैरास्याब्जहंसैस्तव श्रीकामाक्षि मथान मंदहसितैर्मत्कं मनःकल्मषम् ॥54॥
उत्तुंगस्तनमंडलीपरिचलन्माणिक्यहारच्छटा- चंचच्छोणिमपुंजमध्यसरणिं मातः परिष्कुर्वती । या वैदग्ध्यमुपैति शंकरजटाकांतारवाटीपत- त्स्वर्वापीपयसः स्मितद्युतिरसौ कामाक्षि ते मंजुला ॥55॥
सन्नामैकजुषा जनेन सुलभं संसूचयंती शनै- रुत्तुंगस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् । प्राथम्येन विकस्वरा कुसुमवत्प्रागल्भ्यमभ्येयुषी कामाक्षि स्मितचातुरी तव मम क्षेमंकरी कल्पताम् ॥56॥
धानुष्काग्रसरस्य लोलकुटिलभ्रूलेखया बिभ्रतो लीलालोकशिलीमुखं नववयस्साम्राज्यलक्ष्मीपुषः । जेतुं मन्मथमर्दिनं जननि ते कामाक्षि हासः स्वयं वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥57॥
यन्नाकंपत कालकूटकबलीकारे चुचुंबे न यद्- ग्लान्या चक्षुषि रूषितानलशिखे रुद्रस्य तत्तादृशम् । चेतो यत्प्रसभं स्मरज्वरशिखिज्वालेन लेलिह्यते तत्कामाक्षि तव स्मितांशुकलिकाहेलाभवं प्राभवम् ॥58॥
संभिन्नेव सुपर्वलोकतटिनी वीचीचयैर्यामुनैः संमिश्रेव शशांकदीप्तिलहरी नीलैर्महानीरदैः । कामाक्षि स्फुरिता तव स्मितरुचिः कालांजनस्पर्धिना कालिम्ना कचरोचिषां व्यतिकरे कांचिद्दशामश्नुते ॥59॥
जानीमो जगदीश्वरप्रणयिनि त्वन्मंदहासप्रभां श्रीकामाक्षि सरोजिनीमभिनवामेषा यतः सर्वदा । आस्येंदोरवलोकेन पशुपतेरभ्येति संफुल्लतां तंद्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥60॥
यांती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमैः भांती बालगभस्तिमालिकिरणैर्मेघावली शारदी । बिंबोष्ठद्युतिपुंजचुंबनकलाशोणायमानेन ते कामाक्षि स्मितरोचिषा समदशामारोढुमाकांक्षते ॥61॥
श्रीकामाक्षि मुखेंदुभूषणमिदं मंदस्मितं तावकं नेत्रानंदकरं तथा हिमकरो गच्छेद्यथा तिग्मताम् । शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पदं श्वेतं किंच तथा यथा मलिनतां धत्ते च मुक्तामणिः ॥62॥
त्वन्मंदस्मितमंजरीं प्रसृमरां कामाक्षि चंद्रातपं संतः संततमामनंत्यमलता तल्लक्षणं लक्ष्यते । अस्माकं न धुनोति तापकमधिकं धूनोति नाभ्यंतरं ध्वांतं तत्खलु दुःखिनो वयमिदं केनोति नो विद्महे ॥63॥
नम्रस्य प्रणयप्ररूढकलहच्छेदाय पादाब्जयोः मंदं चंद्रकिशोरशेखरमणेः कामाक्षि रागेण ते । बंधूकप्रसवश्रियं जितवतो बंहीयसीं तादृशीं बिंबोष्ठस्य रुचिं निरस्य हसितज्योत्स्ना वयस्यायते ॥64॥
मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी भूयो दूरत एव धूतमरुतस्तत्पालनं तन्वती । उद्भूतस्य जलांतरादविरतं तद्दूरतां जग्मुषी कामाक्षि स्मितमंजरी तव कथं कंबोस्तुलामश्नुते ॥65॥
श्रीकामाक्षि तव स्मितद्युतिझरीवैदग्ध्यलीलायितं पश्यंतोऽपि निरंतरं सुविमलंमन्या जगन्मंडले । लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते मंदाक्षं विरहय्य मंगलतरं मंदारचंद्रादयः ॥66॥
क्षीराब्धेरपि शैलराजतनये त्वन्मंदहासस्य च श्रीकामाक्षि वलक्षिमोदयनिधेः किंचिद्भिदां ब्रूमहे । एकस्मै पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम् ॥67॥
श्रीकांचीपुररत्नदीपकलिके तान्येव मेनात्मजे चाकोराणि कुलानि देवि सुतरां धन्यानि मन्यामहे । कंपातीरकुटुंबचंक्रमकलाचुंचूनि चंचूपुटैः नित्यं यानि तव स्मितेंदुमहसामास्वादमातन्वते ॥68॥
शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनयन् नैर्मल्यं परमं गतोऽपि गिरिशं रागाकुलं चारयन् । लीलालापपुरस्सरोऽपि सततं वाचंयमान्प्रीणयन् कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्यते ॥69॥
श्रोणीचंचलमेखलामुखरितं लीलागतं मंथरं भ्रूवल्लीचलनं कटाक्षवलनं मंदाक्षवीक्षाचणम् । यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयंत्यंजसा श्रीकामाक्षि तव स्मिताय सततं तस्मै नम्सकुर्महे ॥70॥
श्रीकामाक्षि मनोज्ञमंदहसितज्योतिष्प्ररोहे तव स्फीतश्वेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि । चंद्रोऽयं युवराजतां कलयते चेटीधुरं चंद्रिका शुद्धा सा च सुधाझरी सहचरीसाधर्म्यमालंबते ॥71॥
ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशांतिं विना त्वन्मंदस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना । संतापो विनिवार्यते नववयःप्राचुर्यमंकूर्यते सौंदर्यं परिपूर्यते जगति सा कीर्तिश्च संचार्यते ॥72॥
वैमल्यं कुमुदश्रियां हिमरुचः कांत्यैव संधुक्ष्यते ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव संपद्यते । स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते ॥73॥
प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मंदहासश्रियः श्रीकामाक्षि मम क्षिणोतु ममतावैचक्षणीमक्षयाम् । यद्भीत्येव निलीयते हिमकरो मेघोदरे शुक्तिका- गर्भे मौक्तिकमंडली च सरसीमध्ये मृणाली च सा ॥74॥
हेरंबे च गुहे हर्षभरितं वात्सल्यमंकूरयत् मारद्रोहिणि पूरुषे सहभुवं प्रेमांकुरं व्यंजयत् । आनम्रेषु जनेषु पूर्णकरुणावैदग्ध्यमुत्तालयत् कामाक्षि स्मितमंजसा तव कथंकारं मया कथ्यते ॥75॥
संक्रुद्धद्विजराजकोऽप्यविरतं कुर्वंद्विजैः संगमं वाणीपद्धतिदूरगोऽपि सततं तत्साहचर्यं वहन् । अश्रांतं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रतिं श्रीकामाक्षि तव स्मितामृतरसस्यंदो मयि स्पंदताम् ॥76॥
श्रीकामाक्षि महेश्वरे निरुपमप्रेमांकुरप्रक्रममं नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् । तत्तादृक्तव मंदहासमहिमा मातः कथं मानितां तन्मूर्ध्ना सुरनिम्नगां च कलिकामिंदोश्च तां निंदति ॥77॥
ये माधुर्यविहारमंटपभुवो ये शैत्यमुद्राकरा ये वैशद्यदशाविशेषसुभगास्ते मंदहासांकुराः । कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां वाणीगुंफनडंबरे च हृदये कीर्तिप्ररोहे च मे ॥78॥
कामाक्ष्या मृदुलस्मितांशुनिकरा दक्षांतके वीक्षणे मंदाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षांकुराः । दाक्ष्यं पक्ष्मलयंतु माक्षिकगुडद्राक्षाभवं वाक्षु मे सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥79॥
जात्या शीतशीतलानि मधुराण्येतानि पूतानि ते गांगानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम् । एनःपंकपरंपरामलिनितामेकाम्रनाथप्रिये प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयंतु क्षणात् ॥80॥
अश्रांतं परतंत्रितः पशुपतिस्त्वन्मंदहासांकुरैः श्रीकामाक्षि तदीयवर्णसमतासंगेन शंकामहे । इंदुं नाकधुनीं च शेखरयते मालां च धत्ते नवैः वैकुंठैरवकुंठनं च कुरुते धूलीचयैर्भास्मनैः ॥81॥
श्रीकांचीपुरदेवते मृदुवचस्सौरभ्यमुद्रास्पदं प्रौढप्रेमलतानवीनकुसुमं मंदस्मितं तावकम् । मंदं कंदलति प्रियस्य वदनालोके समाभाषणे श्लक्ष्णे कुङ्मलति प्ररूढपुलके चाश्लोषणे फुल्लति ॥82॥
किं त्रैस्रोतसमंबिके परिणतं स्रोतश्चतुर्थं नवं पीयूषस्य समस्ततापहरणं किंवा द्वितीयं वपुः । किंस्वित्त्वन्निकटं गतं मधुरिमाभ्यासाय गव्यं पयः श्रीकांचीपुरनायकप्रियतमे मंदस्मितं तावकम् ॥83॥
भूषा वक्त्रसरोरुहस्य सहजा वाचां सखी शाश्वती नीवी विभ्रमसंततेः पशुपतेः सौधी दृशां पारणा । जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता श्रीकामाक्षि गिरामभूमिमयते हासप्रभामंजरी ॥84॥
सूतिः श्वेतिमकंदलस्य वसतिः शृंगारसारश्रियः पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः । वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव श्रीकामाक्षि ममास्तु मंगलकरी हासप्रभाचातुरी ॥85॥
जंतूनां जनिदुःखमृत्युलहरीसंतापनं कृंततः प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः । श्रीकामाक्षि विसृत्वरा इव करा हासांकुरास्ते हठा- दालोकेन निहन्युरंधतमसस्तोमस्य मे संततिम् ॥86॥
उत्तुंगस्तनमंडलस्य विलसल्लावण्यलीलानटी- रंगस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी । श्रीकामाक्षि तव स्मितद्युतिततिर्बिंबोष्ठकांत्यंकुरैः चित्रां विद्रुममुद्रितां वितनुते मौक्तीं वितानश्रियम् ॥87॥
स्वाभाव्यात्तव वक्त्रमेव ललितं संतोषसंपादनं शंभोः किं पुनरंचितस्मितरुचः पांडित्यपात्रीकृतम् । अंभोजं स्वत एव सर्वजगतां चक्षुःप्रियंभावुकं कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भ्राजते ॥88॥
पुंभिर्निर्मलमानसौर्विदधते मैत्रीं दृढं निर्मलां लब्ध्वा कर्मलयं च निर्मलतरां कीर्तिं लभंतेतराम् । सूक्तिं पक्ष्मलयंति निर्मलतमां यत्तावकाः सेवकाः तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः ॥89॥
आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तंभय- न्निंदुं किंच विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन् । हिंसत्संसृतिडंबरं तव शिवे हासाह्वयो मांत्रिकः श्रीकामाक्षि मदीयमानसतमोविद्वेषणे चेष्टताम् ॥90॥
क्षेपीयः क्षपयंतु कल्मषभयान्यस्माकमल्पस्मित- ज्योतिर्मंडलचंक्रमास्तव शिवे कामाक्षि रोचिष्णवः । पीडाकर्मठकर्मघर्मसमयव्यापारतापानल- श्रीपाता नवहर्षवर्षणसुधास्रोतस्विनीशीकराः ॥91॥
श्रीकामाक्षि तव स्मितैंदवमहःपूरे परिंफूर्जति प्रौढां वारिधिचातुरीं कलयते भक्तात्मनां प्रातिभम् । दौर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाबिभ्रते सर्वं कैरवसाहचर्यपदवीरीतिं विधत्ते परम् ॥92॥
मंदारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां कादाचित्कतया विशंक्य बहुशो वैशद्यमुद्रागुणः । सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् ॥93॥
इंधाने भववीतिहोत्रनिवहे कर्मौघचंडानिल- प्रौढिम्ना बहुलीकृते निपतितं संतापचिंताकुलम् । मातर्मां परिषिंच किंचिदमलैः पीयूषवर्षैरिव श्रीकामाक्षि तव स्मितद्युतिकणैः शैशिर्यलीलाकरैः ॥94॥
भाषाया रसनाग्रखेलनजुषः शृंगारमुद्रासखी- लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मजे । श्रीकामाक्षि सुधामयीव शिशिरा स्रोतस्विनी तावकी गाढानंदतरंगिता विजयते हासप्रभाचातुरी ॥95॥
संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना मज्जंती मधुरस्मितामरधुनीकल्लोलजालेषु ते । नैरंतर्यमुपेत्य मन्मथमरुल्लोलेषु येषु स्फुटं प्रेमेंदुः प्रतिबिंबितो वितनुते कौतूहलं धूर्जटेः ॥96॥
चेतःक्षीरपयोधिमंथरचलद्रागाख्यमंथाचल- क्षोभव्यापृतिसंभवां जननि ते मंदस्मितश्रीसुधाम् । स्वादंस्वादमुदीतकौतुकरसा नेत्रत्रयी शांकरी श्रीकामाक्षि निरंतरं परिणमत्यानंदवीचीमयी ॥97॥
आलोके तव पंचसायकरिपोरुद्दामकौतूहल- प्रेंखन्मारुतघट्टनप्रचलितादानंददुग्धांबुधेः । काचिद्वीचिरुदंचति प्रतिनवा संवित्प्ररोहात्मिका तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ॥98॥
सूक्तिः शीलयते किमद्रितनये मंदस्मितात्ते मुहुः माधुर्यागमसंप्रदायमथवा सूक्तेर्नु मंदस्मितम् । इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमिं श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्तौ निधत्ते पदम् ॥99॥
क्रीडालोलकृपासरोरुहमुखीसौधांगणेभ्यः कवि- श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे । निर्वाणांकुरसार्वभौमपदवीसिंहासनेभ्यस्तव श्रीकामाक्षि मनोज्ञमंदहसितज्योतिष्कणेभ्यो नमः ॥100॥
आर्यामेव विभावयन्मनसि यः पादारविंदं पुरः पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् । कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विताम् आरोहत्यपवर्गसौधवलभीमानंदवीचीमयीम् ॥101॥
॥ इति मंदस्मितशतकं संपूर्णम् ॥
॥ इति श्री मूकपंचशती संपूर्णा ॥
॥औं तत् सत् ॥
Browse Related Categories: