Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
वैकुंठ वर्धितबलोऽथ भवत्प्रसादा- दंभोजयोनिरसृजत् किल जीवदेहान् । स्थास्नूनि भूरुहमयानि तथा तिरश्चां जातिं मनुष्यनिवहानपि देवभेदान् ॥1॥
मिथ्याग्रहास्मिमतिरागविकोपभीति- रज्ञानवृत्तिमिति पंचविधां स सृष्ट्वा । उद्दामतामसपदार्थविधानदून - स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥2॥
तावत् ससर्ज मनसा सनकं सनंदं भूयः सनातनमुनिं च सनत्कुमारम् । ते सृष्टिकर्मणि तु तेन नियुज्यमाना- स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥3॥
तावत् प्रकोपमुदितं प्रतिरुंधतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेशः । नामानि मे कुरु पदानि च हा विरिंचे- त्यादौ रुरोद किल तेन स रुद्रनामा ॥4॥
एकादशाह्वयतया च विभिन्नरूपं रुद्रं विधाय दयिता वनिताश्च दत्वा । तावंत्यदत्त च पदानि भवत्प्रणुन्नः प्राह प्रजाविरचनाय च सादरं तम् ॥5॥
रुद्राभिसृष्टभयदाकृतिरुद्रसंघ- संपूर्यमाणभुवनत्रयभीतचेताः । मा मा प्रजाः सृज तपश्चर मंगलाये- त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥6॥
तस्याथ सर्गरसिकस्य मरीचिरत्रि- स्तत्राङिगराः क्रतुमुनिः पुलहः पुलस्त्यः । अंगादजायत भृगुश्च वसिष्ठदक्षौ श्रीनारदश्च भगवन् भवदंघ्रिदासः ॥7॥
धर्मादिकानभिसृजन्नथ कर्दमं च वाणीं विधाय विधिरंगजसंकुलोऽभूत् । त्वद्बोधितैस्सनकदक्षमुखैस्तनूजै- रुद्बोधितश्च विरराम तमो विमुंचन् ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
वेदान् पुराणनिवहानपि सर्वविद्याः कुर्वन् निजाननगणाच्चतुराननोऽसौ । पुत्रेषु तेषु विनिधाय स सर्गवृद्धि- मप्राप्नुवंस्तव पदांबुजमाश्रितोभूत् ॥9॥
जानन्नुपायमथ देहमजो विभज्य स्रीपुंसभावमभजन्मनुतद्वधूभ्याम् । ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं गोविंद मारुतपुरेश निरुंधि रोगान् ॥10॥
Browse Related Categories: