Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
समनुस्मृततावकांघ्रियुग्मः स मनुः पंकजसंभवांगजन्मा । निजमंतरमंतरायहीनं चरितं ते कथयन् सुखं निनाय ॥1॥
समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥2॥
गरुडोपरि कालमेघक्रमं विलसत्केलिसरोजपाणिपद्मम् । हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥3॥
स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः । कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥4॥
स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या । भवदीरितनारदोपदिष्टः समगात् कर्दममागतिप्रतीक्षम् ॥5॥
मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ । भवदर्चननिवृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥6॥
स पुनस्त्वदुपासनप्रभावा- द्दयिताकामकृते कृते विमाने । वनिताकुलसंकुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥7॥
शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः । वनयानसमुद्यतोऽपि कांता- हितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
निजभर्तृगिरा भवन्निषेवा- निरतायामथ देव देवहूत्याम् । कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥9॥
वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशन् जनन्यै । कपिलात्मक वायुमंदिरेश त्वरितं त्वं परिपाहि मां गदौघात् ॥10॥
Browse Related Categories: