Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
मतिरिह गुणसक्ता बंधकृत्तेष्वसक्ता त्वमृतकृदुपरुंधे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥1॥
प्रकृतिमहदहंकाराश्च मात्राश्च भूता- न्यपि हृदपि दशाक्षी पूरुषः पंचविंशः । इति विदितविभागो मुच्यतेऽसौ प्रकृत्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥2॥
प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं यदि तु सजति तस्यां तत् गुणास्तं भजेरन् । मदनुभजनतत्त्वालोचनैः साऽप्यपेयात् कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥3॥
विमलमतिरुपात्तैरासनाद्यैर्मदंगं गरुडसमधिरूढं दिव्यभूषायुधांकम् । रुचितुलिततमालं शीलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥4॥
मम गुणगणलीलाकर्णनैः कीर्तनाद्यै- र्मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः । भवति परमभक्तिः सा हि मृत्योर्विजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥5॥
अहह बहुलहिंसासंचितार्थैः कुटुंबं प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली । विशति हि गृहसक्तो यातनां मय्यभक्तः कपिलतनुरितित्वं देवहूत्यै न्यगादीः ॥6॥
युवतिजठरखिन्नो जातबोधोऽप्यकांडे प्रसवगलितबोधः पीडयोल्लंघ्य बाल्यम् । पुनरपि बत मुह्यत्येव तारुण्यकाले कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥7॥
पितृसुरगणयाजी धार्मिको यो गृहस्थः स च निपतति काले दक्षिणाध्वोपगामी । मयि निहितमकामं कर्म तूदक्पथार्थं कपिल्तनुरिति त्वं देवहूत्यै न्यगादीः ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
इति सुविदितवेद्यां देव हे देवहूतिं कृतनुतिमनुगृह्य त्वं गतो योगिसंघैः । विमलमतिरथाऽसौ भक्तियोगेन मुक्ता त्वमपि जनहितार्थं वर्तसे प्रागुदीच्याम् ॥9॥
परम किमु बहूक्त्या त्वत्पदांभोजभक्तिं सकलभयविनेत्रीं सर्वकामोपनेत्रीम् । वदसि खलु दृढं त्वं तद्विधूयामयान् मे गुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥10॥
Browse Related Categories: