Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
उत्तानपादनृपतेर्मनुनंदनस्य जाया बभूव सुरुचिर्नितरामभीष्टा । अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगतिः शरणं गताऽभूत् ॥1॥
अंके पितुः सुरुचिपुत्रकमुत्तमं तं दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् । आचिक्षिपे किल शिशुः सुतरां सुरुच्या दुस्संत्यजा खलु भवद्विमुखैरसूया ॥2॥
त्वन्मोहिते पितरि पश्यति दारवश्ये दूरं दुरुक्तिनिहतः स गतो निजांबाम् । साऽपि स्वकर्मगतिसंतरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंस ॥3॥
आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा मानी निरेत्य नगरात् किल पंचवर्षः । संदृष्टनारदनिवेदितमंत्रमार्ग- स्त्वामारराध तपसा मधुकाननांते ॥4॥
ताते विषण्णहृदये नगरीं गतेन श्रीनारदेन परिसांत्वितचित्तवृत्तौ । बालस्त्वदर्पितमनाः क्रमवर्धितेन निन्ये कठोरतपसा किल पंचमासान् ॥5॥
तावत्तपोबलनिरुच्छ्-वसिते दिगंते देवार्थितस्त्वमुदयत्करुणार्द्रचेताः । त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता- दाविर्बभूविथ विभो गरुडाधिरूढः ॥6॥
त्वद्दर्शनप्रमदभारतरंगितं तं दृग्भ्यां निमग्नमिव रूपरसायने ते । तुष्टूषमाणमवगम्य कपोलदेशे संस्पृष्टवानसि दरेण तथाऽऽदरेण ॥7॥
तावद्विबोधविमलं प्रणुवंतमेन- माभाषथास्त्वमवगम्य तदीयभावम् । राज्यं चिरं समनुभूय भजस्व भूयः सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
इत्यूचिषि त्वयि गते नृपनंदनोऽसा- वानंदिताखिलजनो नगरीमुपेतः । रेमे चिरं भवदनुग्रहपूर्णकाम- स्ताते गते च वनमादृतराज्यभारः ॥9॥
यक्षेण देव निहते पुनरुत्तमेऽस्मिन् यक्षैः स युद्धनिरतो विरतो मनूक्त्या । शांत्या प्रसन्नहृदयाद्धनदादुपेता- त्त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥10॥
अंते भवत्पुरुषनीतविमानयातो मात्रा समं ध्रुवपदे मुदितोऽयमास्ते । एवं स्वभृत्यजनपालनलोलधीस्त्वं वातालयाधिप निरुंधि ममामयौघान् ॥11॥
Browse Related Categories: