Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
कदाचन व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् । समावृतो बहुतरवत्समंडलैः सतेमनैर्निरगमदीश जेमनैः ॥1॥
विनिर्यतस्तव चरणांबुजद्वया- दुदंचितं त्रिभुवनपावनं रजः । महर्षयः पुलकधरैः कलेबरै- रुदूहिरे धृतभवदीक्षणोत्सवाः ॥2॥
प्रचारयत्यविरलशाद्वले तले पशून् विभो भवति समं कुमारकैः । अघासुरो न्यरुणदघाय वर्तनी भयानकः सपदि शयानकाकृतिः ॥3॥
महाचलप्रतिमतनोर्गुहानिभ- प्रसारितप्रथितमुखस्य कानने । मुखोदरं विहरणकौतुकाद्गताः कुमारकाः किमपि विदूरगे त्वयि ॥4॥
प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके । विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् ॥5॥
गलोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते । द्रुतं भवान् विदलितकंठमंडलो विमोचयन् पशुपपशून् विनिर्ययौ ॥6॥
क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् । विनिर्गते त्वयि तु निलीनमंजसा नभःस्थले ननृतुरथो जगुः सुराः ॥7॥
सविस्मयैः कमलभवादिभिः सुरै- रनुद्रुतस्तदनु गतः कुमारकैः । दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
विषाणिकामपि मुरलीं नितंबके निवेशयन् कबलधरः करांबुजे । प्रहासयन् कलवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥9॥
सुखाशनं त्विह तव गोपमंडले मखाशनात् प्रियमिव देवमंडले । इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात् प्रपाहि माम् ॥10॥
Browse Related Categories: