Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
रमाजाने जाने यदिह तव भक्तेषु विभवो न सद्यस्संपद्यस्तदिह मदकृत्त्वादशमिनाम् । प्रशांतिं कृत्वैव प्रदिशसि ततः काममखिलं प्रशांतेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥1॥
सद्यः प्रसादरुषितान् विधिशंकरादीन् केचिद्विभो निजगुणानुगुणं भजंतः । भ्रष्टा भवंति बत कष्टमदीर्घदृष्ट्या स्पष्टं वृकासुर उदाहरणं किलास्मिन् ॥2॥
शकुनिजः स तु नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् । स च दिदेश गिरीशमुपासितुं न तु भवंतमबंधुमसाधुषु ॥3॥
तपस्तप्त्वा घोरं स खलु कुपितः सप्तमदिने शिरः छित्वा सद्यः पुरहरमुपस्थाप्य पुरतः । अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधीः ॥4॥
मोक्तारं बंधमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं दैत्यात् भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः । तूष्णीके सर्वलोके तव पदमधिरोक्ष्यंतमुद्वीक्ष्य शर्वं दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥5॥
भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा संदेहश्चेन्मदुक्तौ तव किमु न करोष्यंगुलीमंगमौलौ । इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥6॥
भृगुं किल सरस्वतीनिकटवासिनस्तापसा- स्त्रिमूर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् । अयं पुनरनादरादुदितरुद्धरोषे विधौ हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥7॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
सुप्तं रमांकभुवि पंकजलोचनं त्वां विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् । सर्वं क्षमस्व मुनिवर्य भवेत् सदा मे त्वत्पादचिन्हमिह भूषणमित्यवादीः ॥8॥
निश्चित्य ते च सुदृढं त्वयि बद्धभावाः सारस्वता मुनिवरा दधिरे विमोक्षम् । त्वामेवमच्युत पुनश्च्युतिदोषहीनं सत्त्वोच्चयैकतनुमेव वयं भजामः ॥9॥
जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वंदिभिरिव स्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् । परात्मानं भूमन् पशुपवनिताभाग्यनिवहं परितापश्रांत्यै पवनपुरवासिन् परिभजे ॥10॥
Browse Related Categories: