Nitya Parayana · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
prabhāta ślōkaḥ
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले स्थिता गौरी प्रभाते करदर्शनम् ॥ [पाठभेदः - करमूले तु गोविंदः प्रभाते करदर्शनम् ॥]
prabhāta bhūmi ślōkaḥ
समुद्र वसने देवी पर्वत स्तन मंडले । विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ॥
sūryōdaya ślōkaḥ
ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् । साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ॥
snāna ślōkaḥ
गंगे च यमुने चैव गोदावरी सरस्वती नर्मदे सिंधु कावेरी जलेस्मिन् सन्निधिं कुरु ॥
namaskāra ślōkaḥ
त्वमेव माता च पिता त्वमेव, त्वमेव बंधुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ॥
bhasma dhāraṇa ślōkaḥ
श्रीकरं च पवित्रं च शोक निवारणम् । लोके वशीकरं पुंसां भस्मं त्र्यैलोक्य पावनम् ॥
bhōjana pūrva ślōkāḥ
Offered for worship and study, not as prediction. Non-commercial.
ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् । ब्रह्मैव तेन गंतव्यं ब्रह्म कर्म समाधिनः ॥
अहं-वैँश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ॥
अन्नपूर्णे सदा पूर्णे शंकरप्राणवल्लभे । ज्ञानवैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वति ॥
त्वदीयं-वँस्तु गोविंद तुभ्यमेव समर्पये । गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ॥
bhōjanānantara ślōkaḥ
अगस्त्यं-वैँनतेयं च शमीं च बडबालनम् । आहार परिणामार्थं स्मरामि च वृकोदरम् ॥
sandhyā dīpa darśana ślōkaḥ
दीपज्योतिः परं ब्रह्म दीपज्योतिर्जनार्दनः । दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ॥
शुभं करोति कल्याणं आरोग्यं धनसंपदः । शत्रु-बुद्धि-विनाशाय दीपज्योतिर्नमोऽस्तुते ॥
nidrā/śayana ślōkaḥ
रामं स्कंदं हनुमंतं-वैँनतेयं-वृँकोदरम् । शयने यः स्मरेन्नित्यं दुस्वप्न-स्तस्यनश्यति ॥
aparādha kṣamāpaṇa stōtraṃ
अपराध सहस्राणि, क्रियंतेऽहर्निशं मया । दासोऽयमिति मां मत्वा, क्षमस्व परमेश्वर ॥
करचरण कृतं-वाँ कर्म वाक्कायजं-वाँ श्रवण नयनजं-वाँ मानसं-वाँपराधम् । विहित मविहितं-वाँ सर्वमेतत् क्षमस्व शिव शिव करुणाब्धे श्री महादेव शंभो ॥
कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥
kārya prārambha stōtrāḥ
शुक्लां बरधरं-विँष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ॥
यस्यद्विरद वक्त्राद्याः पारिषद्याः परश्शतम् । विघ्नं निघ्नंतु सततं-विँष्वक्सेनं तमाश्रये ॥
gaṇēśa stōtraṃ
वक्रतुंड महाकाय सूर्यकोटि समप्रभः । निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
अगजानन पद्मार्कं गजानन महर्निशम् । अनेकदं-तं भक्तानाम्-एकदंत-मुपास्महे ॥
viṣṇu stōtraṃ
शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगन सदृशं मेघवर्णं शुभांगम् । लक्ष्मीकांतं कमलनयनं-योँगिहृद्ध्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
gāyatri mantraṃ
ॐ भूर्भुव॒स्सुवः॒ । तथ्स॑वि॒तुर्वरे᳚ण्यं॒ । भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥
śiva stōtraṃ
त्र्यं॑बकं-यँजामहे सुगं॒धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्-मृत्यो॑र्-मुक्षीय॒ माऽमृता᳚त् ॥
वंदे शंभुमुमापतिं सुरगुरुं-वंँदे जगत्कारणं वंदे पन्नगभूषणं शशिधरं-वंँदे पशूनां पतिम् । वंदे सूर्यशशांक वह्निनयनं-वंँदे मुकुंदप्रियं वंदे भक्तजनाश्रयं च वरदं-वंँदे शिवं शंकरम् ॥
subrahmaṇya stōtraṃ
शक्तिहस्तं-विँरूपाक्षं शिखिवाहं षडाननं दारुणं रिपुरोगघ्नं भावये कुक्कुट ध्वजम् । स्कंदं षण्मुखं देवं शिवतेजं चतुर्भुजं कुमारं स्वामिनाधं तं कार्तिकेयं नमाम्यहम् ॥
guru ślōkaḥ
गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥
hanuma stōtrāḥ
मनोजवं मारुत तुल्यवेगं जितेंद्रियं बुद्धिमतां-वँरिष्टम् । वातात्मजं-वाँनरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ॥
बुद्धिर्बलं-यँशोधैर्यं निर्भयत्वमरोगता । अजाड्यं-वाँक्पटुत्वं च हनुमस्स्मरणाद्-भवेत् ॥
जयत्यति बलो रामो लक्ष्मणस्य महाबलः । राजा जयति सुग्रीवो राघवेणाभि पालितः ॥
दासोऽहं कोसलेंद्रस्य रामस्याक्लिष्ट कर्मणः । हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ॥
śrīrāma stōtrāṃ
श्री राम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने
श्री रामचंद्रः श्रितपारिजातः समस्त कल्याण गुणाभिरामः । सीतामुखांभोरुहा-चंचरीको निरंतरं मंगलमातनोतु ॥
śrīkṛṣṇa stōtraṃ
मंदारमूले मदनाभिरामं बिंबाधरापूरित वेणुनादम् । गोगोप गोपीजन मध्यसंस्थं गोपं भजे गोकुल पूर्णचंद्रम् ॥
garuḍa svāmi stōtraṃ
कुंकुमांकितवर्णाय कुंदेंदु धवलाय च । विष्णु वाह नमस्तुभ्यं पक्षिराजाय ते नमः ॥
dakṣiṇāmūrti stōtraṃ
गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्व विद्यानां श्री दक्षिणामूर्तये नम ॥
sarasvatī ślōkaḥ
सरस्वती नमस्तुभ्यं-वँरदे कामरूपिणी । विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥
या कुंदेंदु तुषार हार धवला, या शुभ्र वस्त्रावृता [वस्त्रान्विता] । या वीणा वरदंड मंडित करा, या श्वेत पद्मासना । या ब्रह्माच्युत शंकर प्रभृतिभिर्-देवैः सदा पूजिता । सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥
lakṣmī ślōkaḥ
लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरंग धामेश्वरीम् । दासीभूत समस्त देव वनितां-लोँकैक दीपांकुराम् । श्रीमन्मंध कटाक्ष लब्ध विभव ब्रह्मेंद्र गंगाधराम् । त्वां त्रैलोक्यकुटुंबिनीं सरसिजां-वंँदे मुकुंदप्रियाम् ॥
durgā dēvī stōtraṃ
सर्व स्वरूपे सर्वेशे सर्व शक्ति समन्विते । भयेभ्यस्त्राहि नो देवि दुर्गेदेवि नमोस्तुते ॥
tripurasundarī stōtraṃ
ॐकार पंजर शुकीं उपनिषदुद्यान केलि कलकंठीम् । आगम विपिन मयूरीं आर्यां अंतर्विभावयेद्गौरीम् ॥
dēvī ślōkaḥ
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते ॥
vēṅkaṭēśvara ślōkaḥ
श्रियः कांताय कल्याणनिधये निधयेऽर्थिनाम् । श्री वेंकट निवासाय श्रीनिवासाय मंगलम् ॥
bauddha prārthana
बुद्धं शरणं गच्छामि धर्मं शरणं गच्छामि संघं शरणं गच्छामि
śānti mantraṃ
असतोमा सद्गमया । तमसोमा ज्योतिर्गमया । मृत्योर्मा अमृतंगमया । ॐ शांतिः शांतिः शांतिः
सर्वे भवंतु सुखिनः सर्वे संतु निरामयाः । सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःख भाग्भवेत् ॥ ॐ शांतिः शांतिः शांतिः
ॐ सर्वेषां स्वस्तिर्भवतु, सर्वेषां शांतिर्भवतु । सर्वेषां पूर्णं भवतु, सर्वेषां मंगलं भवतु । ॐ शांतिः शांतिः शांतिः
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
svasti mantrāḥ
स्वस्ति प्रजाभ्यः परिपालयंतां न्यायेन मार्गेण महीं महीशाः । गोब्राह्मणेभ्य-श्शुभमस्तु नित्यं लोका-स्समस्ता-स्सुखिनो भवंतु ॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी । देशोयं क्षोभरहितो ब्राह्मणास्संतु निर्भयाः ॥
viśēṣa mantrāḥ
पंचाक्षरी मंत्रं - ॐ नमश्शिवाय अष्टाक्षरी मंत्रं - ॐ नमो नारायणाय द्वादशाक्षरी मंत्रं - ॐ नमो भगवते वासुदेवाय