Ashtottara Sata Namavali · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः ॥ 1 ॥
स गंगा स गया सेतुः स काशी स च पुष्करम् । जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च । यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ 3 ॥
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् ॥ 4 ॥
गवां कोटिसहस्राणि हेमकन्यासहस्रकम् । दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ 5 ॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः । अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ 6 ॥
अश्वमेधैर्महायज्ञैर्नरमेधैस्तथैव च । इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ 7 ॥
प्राणः प्रयाण पाथेयं संसारव्याधिनाशनम् । दुःखात्यंत परित्राणं हरिरित्यक्षरद्वयम् ॥ 8 ॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति । सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ॥ 9 ॥
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् । आयुष्यं बलमारोग्यं यशो वृद्धिः श्रियावहम् ॥ 10 ॥
प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम् । यः पठेत्स नरो याति तद्विष्णोः परमं पदम् ॥ 11 ॥
इति प्रह्लादकृत श्री हर्यष्टकम् ।
Browse Related Categories: