Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीगोपालकृष्णाय नमः ॥
श्रीशेष उवाच
ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य। श्रीशेष ऋषिः ॥ अनुष्टुप् छंदः ॥ श्रीकृष्णोदेवता ॥ श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः ॥
ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः । वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ 1 ॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तचक्रासिगदा शंखाद्युदायुधः ॥ 2 ॥
देवकीनंदनः श्रीशो नंदगोपप्रियात्मजः । यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ 3 ॥
पूतनाजीवितहरः शकटासुरभंजनः । नंदव्रजजनानंदी सच्चिदानंदविग्रहः ॥ 4 ॥
नवनीतविलिप्तांगो नवनीतनटोऽनघः । नवनीतनवाहारो मुचुकुंदप्रसादकः ॥ 5 ॥
षोडशस्त्री सहस्रेश स्रिभंगि मधुराकृतिः । शुकवागमृताब्धींदुर्गोविंदो गोविदांपतिः ॥ 6 ॥ वत्सवाटचरोऽनंतो धेनुकासुरभंजनः । तृणीकृततृणावर्तो यमलार्जुनभंजनः ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
उत्तानतालभेत्ता च तमालश्यामलाकृतिः । गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः ॥ 8 ॥
इलापतिः परंज्योतिर्यादवेंद्रो यदूद्वहः । वनमाली पीतवासाः पारिजातापहारकः ॥ 9 ॥
गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः । अजो निरंजनः कामजनकः कंजलोचनः ॥ 10 ॥
मधुहा मथुरानाथो द्वारकानायको बली । वृंदावनांतसंचारी तुलसीदामभूषणः ॥ 11 ॥
श्यमंतकमणेर्हर्ता नरनारायणात्मकः । कुब्जाकृष्णांबरधरो मायी परमपूरुषः ॥ 12 ॥
मुष्टिकासुरचाणूरमहायुद्धविशारदः । संसारवैरी कंसारिर्मुरारिर्नरकांतकः ॥ 13 ॥
अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः । शिशुपालशिरश्छेत्ता दुर्योधनकुलांतकः ॥ 14 ॥
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः । सत्यवाक् सत्यसंकल्पः सत्यभामारतो जयी ॥ 15 ॥ सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः । जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥ 16 ॥
वृषभासुरविध्वंसी बाणासुरबलांतकः । युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥ 17 ॥
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः । कालीयफणिमाणिक्यरंजितश्रीपदांबुजः ॥ 18 ॥
दामोदरो यज्ञभोक्ता दानवेंद्रविनाशकः । नारायणः परंब्रह्म पन्नगाशनवाहनः ॥ 19 ॥
जलक्रीडासमासक्त गोपीवस्त्रापहारकः । पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥ 20 ॥
सर्वतीर्थात्मकः सर्वग्रहरुपी परात्परः । एवं श्रीकृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ॥ 21 ॥
कृष्णनामामृतं नाम परमानंदकारकम् । अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम् ॥ 22 ॥
॥ इति श्रीनारदपंचरात्रे ज्ञानामृतसारे चतुर्थरात्रे उमामहेश्वरसंवादे धरणीशेषसंवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥
Browse Related Categories: