Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
मुनींद्र–वृंद–वंदिते त्रिलोक–शोक–हारिणि प्रसन्न-वक्त्र-पण्कजे निकुंज-भू-विलासिनि व्रजेंद्र–भानु–नंदिनि व्रजेंद्र–सूनु–संगते कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥1॥
अशोक–वृक्ष–वल्लरी वितान–मंडप–स्थिते प्रवालबाल–पल्लव प्रभारुणांघ्रि–कोमले । वराभयस्फुरत्करे प्रभूतसंपदालये कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥2॥
अनंग-रण्ग मंगल-प्रसंग-भंगुर-भ्रुवां सविभ्रमं ससंभ्रमं दृगंत–बाणपातनैः । निरंतरं वशीकृतप्रतीतनंदनंदने कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥3॥
तडित्–सुवर्ण–चंपक –प्रदीप्त–गौर–विग्रहे मुख–प्रभा–परास्त–कोटि–शारदेंदुमंडले । विचित्र-चित्र संचरच्चकोर-शाव-लोचने कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥4॥
मदोन्मदाति–यौवने प्रमोद–मान–मंडिते प्रियानुराग–रंजिते कला–विलास – पंडिते । अनन्यधन्य–कुंजराज्य–कामकेलि–कोविदे कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥5॥
अशेष–हावभाव–धीरहीरहार–भूषिते प्रभूतशातकुंभ–कुंभकुंभि–कुंभसुस्तनि । प्रशस्तमंद–हास्यचूर्ण पूर्णसौख्य –सागरे कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥6॥
मृणाल-वाल-वल्लरी तरंग-रंग-दोर्लते लताग्र–लास्य–लोल–नील–लोचनावलोकने । ललल्लुलन्मिलन्मनोज्ञ–मुग्ध–मोहिनाश्रिते कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥7॥
सुवर्णमलिकांचित –त्रिरेख–कंबु–कंठगे त्रिसूत्र–मंगली-गुण–त्रिरत्न-दीप्ति–दीधिते । सलोल–नीलकुंतल–प्रसून–गुच्छ–गुंफिते कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
नितंब–बिंब–लंबमान–पुष्पमेखलागुणे प्रशस्तरत्न-किंकिणी-कलाप-मध्य मंजुले । करींद्र–शुंडदंडिका–वरोहसौभगोरुके कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥9॥
अनेक–मंत्रनाद–मंजु नूपुरारव–स्खलत् समाज–राजहंस–वंश–निक्वणाति–गौरवे । विलोलहेम–वल्लरी–विडंबिचारु–चंक्रमे कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥10॥
अनंत–कोटि–विष्णुलोक–नम्र–पद्मजार्चिते हिमाद्रिजा–पुलोमजा–विरिंचजा-वरप्रदे । अपार–सिद्धि–ऋद्धि–दिग्ध–सत्पदांगुली-नखे कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥11॥
मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि त्रिवेद–भारतीश्वरि प्रमाण–शासनेश्वरि । रमेश्वरि क्षमेश्वरि प्रमोद–काननेश्वरि व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोस्तुते ॥12॥
इती ममद्भुतं-स्तवं निशम्य भानुनंदिनी करोतु संततं जनं कृपाकटाक्ष-भाजनम् । भवेत्तदैव संचित त्रिरूप–कर्म नाशनं लभेत्तदा व्रजेंद्र–सूनु–मंडल–प्रवेशनम् ॥13॥
राकायां च सिताष्टम्यां दशम्यां च विशुद्धधीः । एकादश्यां त्रयोदश्यां यः पठेत्साधकः सुधीः ॥14॥
यं यं कामयते कामं तं तमाप्नोति साधकः । राधाकृपाकटाक्षेण भक्तिःस्यात् प्रेमलक्षणा ॥15॥
ऊरुदघ्ने नाभिदघ्ने हृद्दघ्ने कंठदघ्नके । राधाकुंडजले स्थिता यः पठेत् साधकः शतम् ॥16॥
तस्य सर्वार्थ सिद्धिः स्याद् वाक्सामर्थ्यं तथा लभेत् । ऐश्वर्यं च लभेत् साक्षाद्दृशा पश्यति राधिकाम् ॥17॥
तेन स तत्क्षणादेव तुष्टा दत्ते महावरम् । येन पश्यति नेत्राभ्यां तत् प्रियं श्यामसुंदरम् ॥18॥
नित्यलीला–प्रवेशं च ददाति श्री-व्रजाधिपः । अतः परतरं प्रार्थ्यं वैष्णवस्य न विद्यते ॥19॥
॥ इति श्रीमदूर्ध्वाम्नाये श्रीराधिकायाः कृपाकटाक्षस्तोत्रं संपूर्णम् ॥
Browse Related Categories: