Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अगस्तिरुवाच
आजानुबाहुमरविंददलायताक्ष- -माजन्मशुद्धरसहासमुखप्रसादम् । श्यामं गृहीत शरचापमुदाररूपं रामं सराममभिराममनुस्मरामि ॥ 1
अस्य श्रीरामकवचस्य अगस्त्य ऋषिः अनुष्टुप् छंदः सीतालक्ष्मणोपेतः श्रीरामचंद्रो देवता श्रीरामचंद्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।
अथ ध्यानं नीलजीमूतसंकाशं विद्युद्वर्णांबरावृतम् । कोमलांगं विशालाक्षं युवानमतिसुंदरम् ॥ 1 ॥
सीतासौमित्रिसहितं जटामुकुटधारिणम् । सासितूणधनुर्बाणपाणिं दानवमर्दनम् ॥ 2 ॥
यदा चोरभये राजभये शत्रुभये तथा । ध्यात्वा रघुपतिं क्रुद्धं कालानलसमप्रभम् ॥ 3 ॥
चीरकृष्णाजिनधरं भस्मोद्धूलितविग्रहम् । आकर्णाकृष्टविशिखकोदंडभुजमंडितम् ॥ 4 ॥
रणे रिपून् रावणादींस्तीक्ष्णमार्गणवृष्टिभिः । संहरंतं महावीरमुग्रमैंद्ररथस्थितम् ॥ 5 ॥
लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः । सुग्रीवाद्यैर्माहावीरैः शैलवृक्षकरोद्यतैः ॥ 6 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
वेगात्करालहुंकारैर्भुभुक्कारमहारवैः । नदद्भिः परिवादद्भिः समरे रावणं प्रति ॥ 7 ॥
श्रीराम शत्रुसंघान्मे हन मर्दय खादय । भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ॥ 8 ॥
एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् । सुतीक्ष्ण वज्रकवचं शृणु वक्ष्याम्यनुत्तमम् ॥ 9 ॥
अथ कवचम् श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः । दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ॥ 10 ॥
उत्तरे मे रघुपतिर्भालं दशरथात्मजः । भ्रुवोर्दूर्वादलश्यामस्तयोर्मध्ये जनार्दनः ॥ 11 ॥
श्रोत्रं मे पातु राजेंद्रो दृशौ राजीवलोचनः । घ्राणं मे पातु राजर्षिर्गंडौ मे जानकीपतिः ॥ 12 ॥
कर्णमूले खरध्वंसी भालं मे रघुवल्लभः । जिह्वां मे वाक्पतिः पातु दंतपंक्ती रघूत्तमः ॥ 13 ॥
ओष्ठौ श्रीरामचंद्रो मे मुखं पातु परात्परः । कंठं पातु जगद्वंद्यः स्कंधौ मे रावणांतकः ॥ 14 ॥
धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः । सर्वाण्यंगुलिपर्वाणि हस्तौ मे राक्षसांतकः ॥ 15 ॥
वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः । स्तनौ सीतापतिः पातु पार्श्वं मे जगदीश्वरः ॥ 16 ॥
मध्यं मे पातु लक्ष्मीशो नाभिं मे रघुनायकः । कौसल्येयः कटी पातु पृष्ठं दुर्गतिनाशनः ॥ 17 ॥
गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः । ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ॥ 18 ॥
जंघे पातु जगद्व्यापी पादौ मे ताटकांतकः । सर्वांगं पातु मे विष्णुः सर्वसंधीननामयः ॥ 19 ॥
ज्ञानेंद्रियाणि प्राणादीन् पातु मे मधुसूदनः । पातु श्रीरामभद्रो मे शब्दादीन्विषयानपि ॥ 20 ॥
द्विपदादीनि भूतानि मत्संबंधीनि यानि च । जामदग्न्यमहादर्पदलनः पातु तानि मे ॥ 21 ॥
सौमित्रिपूर्वजः पातु वागादीनींद्रियाणि च । रोमांकुराण्यशेषाणि पातु सुग्रीवराज्यदः ॥ 22 ॥
वाङ्मनोबुद्ध्यहंकारैर्ज्ञानाज्ञानकृतानि च । जन्मांतरकृतानीह पापानि विविधानि च ॥ 23 ॥
तानि सर्वाणि दग्ध्वाशु हरकोदंडखंडनः । पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ॥ 24 ॥
इति श्रीरामचंद्रस्य कवचं वज्रसम्मितम् । गुह्याद्गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ॥ 25 ॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः । स याति परमं स्थानं रामचंद्रप्रसादतः ॥ 26 ॥
महापातकयुक्तो वा गोघ्नो वा भ्रूणहा तथा । श्रीरामचंद्रकवचपठनाच्छुद्धिमाप्नुयात् ॥ 27 ॥
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः । भो सुतीक्ष्ण यथा पृष्टं त्वया मम पुराः शुभम् । तथा श्रीरामकवचं मया ते विनिवेदितम् ॥ 28 ॥
इति श्रीमदानंदरामायणे मनोहरकांडे सुतीक्ष्णागस्त्यसंवादे श्रीरामकवचम् ॥
Browse Related Categories: