Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अस्य श्रीरंगनाथाष्टोत्तरशतनामस्तोत्रमहामंत्रस्य वेदव्यासो भगवानृषिः अनुष्टुप्छंदः भगवान् श्रीमहाविष्णुर्देवता, श्रीरंगशायीति बीजं श्रीकांत इति शक्तिः श्रीप्रद इति कीलकं मम समस्तपापनाशार्थे श्रीरंगराजप्रसाद सिद्ध्यर्थे जपे विनियोगः ।
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
धौम्य उवाच
श्रीरंगशायी श्रीकांतः श्रीप्रदः श्रितवत्सलः । अनंतो माधवो जेता जगन्नाथो जगद्गुरुः ॥ 1
सुरवर्यः सुराराध्यः सुरराजानुजः प्रभुः । हरिर्हतारिर्विश्वेशः शाश्वतः शंभुरव्ययः ॥ 2 ॥
भक्तार्तिभंजनो वाग्मी वीरो विख्यातकीर्तिमान् । भास्करः शास्त्रतत्त्वज्ञो दैत्यशास्ताऽमरेश्वरः ॥ 3 ॥
नारायणो नरहरिर्नीरजाक्षो नरप्रियः । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्मांगो ब्रह्मपूजितः ॥ 4 ॥
कृष्णः कृतज्ञो गोविंदो हृषीकेशोऽघनाशनः । विष्णुर्जिष्णुर्जितारातिः सज्जनप्रिय ईश्वरः ॥ 5 ॥
त्रिविक्रमस्त्रिलोकेशः त्रय्यर्थस्त्रिगुणात्मकः । काकुत्स्थः कमलाकांतः कालीयोरगमर्दनः ॥ 6 ॥
कालांबुदश्यामलांगः केशवः क्लेशनाशनः । केशिप्रभंजनः कांतो नंदसूनुररिंदमः ॥ 7 ॥
रुक्मिणीवल्लभः शौरिर्बलभद्रो बलानुजः । दामोदरो हृषीकेशो वामनो मधुसूदनः ॥ 8 ॥
पूतः पुण्यजनध्वंसी पुण्यश्लोकशिखामणिः । आदिमूर्तिर्दयामूर्तिः शांतमूर्तिरमूर्तिमान् ॥ 9 ॥
परंब्रह्म परंधाम पावनः पवनो विभुः । चंद्रश्छंदोमयो रामः संसारांबुधितारकः ॥ 10 ॥
आदितेयोऽच्युतो भानुः शंकरश्शिव ऊर्जितः । महेश्वरो महायोगी महाशक्तिर्महत्प्रियः ॥ 11 ॥
दुर्जनध्वंसकोऽशेषसज्जनोपास्तसत्फलम् । पक्षींद्रवाहनोऽक्षोभ्यः क्षीराब्धिशयनो विधुः ॥ 12 ॥
जनार्दनो जगद्धेतुर्जितमन्मथविग्रहः । चक्रपाणिः शंखधारी शारंगी खड्गी गदाधरः ॥ 13 ॥
एवं विष्णोश्शतं नाम्नामष्टोत्तरमिहेरितम् । स्तोत्राणामुत्तमं गुह्यं नामरत्नस्तवाभिधम् ॥ 14 ॥
सर्वदा सर्वरोगघ्नं चिंतितार्थफलप्रदम् । त्वं तु शीघ्रं महाराज गच्छ रंगस्थलं शुभम् ॥ 15 ॥
स्नात्वा तुलार्के कावेर्यां माहात्म्य श्रवणं कुरु । गवाश्ववस्त्रधान्यान्नभूमिकन्याप्रदो भव ॥ 16 ॥
द्वादश्यां पायसान्नेन सहस्रं दश भोजय । नामरत्नस्तवाख्येन विष्णोरष्टशतेन च । स्तुत्वा श्रीरंगनाथं त्वमभीष्टफलमाप्नुहि ॥ 17 ॥
इति तुलाकावेरीमाहात्म्ये शंतनुं प्रति धौम्योपदिष्ट श्रीरंगनाथाष्टोत्तरशतनाम स्तोत्रम् ।
Browse Related Categories: