Subrahmanya Swamy · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीं सौं शरवणभवः शरच्चंद्रायुतप्रभः । शशांकशेखरसुतः शचीमांगल्यरक्षकः ॥ 1 ॥
शतायुष्यप्रदाता च शतकोटिरविप्रभः । शचीवल्लभसुप्रीतः शचीनायकपूजितः ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
शचीनाथचतुर्वक्त्रदेवदैत्याभिवंदितः । शचीशार्तिहरश्चैव शंभुः शंभूपदेशकः ॥ 3 ॥
शंकरः शंकरप्रीतः शम्याककुसुमप्रियः । शंकुकर्णमहाकर्णप्रमुखाद्यभिवंदितः ॥ 4 ॥
शचीनाथसुताप्राणनायकः शक्तिपाणिमान् । शंखपाणिप्रियः शंखोपमषड्गलसुप्रभः ॥ 5 ॥
शंखघोषप्रियः शंखचक्रशूलादिकायुधः । शंखधाराभिषेकादिप्रियः शंकरवल्लभः ॥ 6 ॥
शब्दब्रह्ममयश्चैव शब्दमूलांतरात्मकः । शब्दप्रियः शब्दरूपः शब्दानंदः शचीस्तुतः ॥ 7 ॥
शतकोटिप्रविस्तारयोजनायतमंदिरः । शतकोटिरविप्रख्यरत्नसिंहासनान्वितः ॥ 8 ॥
शतकोटिमहर्षींद्रसेवितोभयपार्श्वभूः । शतकोटिसुरस्त्रीणां नृत्तसंगीतकौतुकः ॥ 9 ॥
शतकोटींद्रदिक्पालहस्तचामरसेवितः । शतकोट्यखिलांडादिमहाब्रह्मांडनायकः ॥ 10 ॥
शंखपाणिविधिभ्यां च पार्श्वयोरुपसेवितः । शंखपद्मनिधीनां च कोटिभिः परिसेवितः ॥ 11 ॥
शशांकादित्यकोटीभिः सव्यदक्षिणसेवितः । शंखपालाद्यष्टनागकोटीभिः परिसेवितः ॥ 12 ॥
शशांकारपतंगादिग्रहनक्षत्रसेवितः । शशिभास्करभौमादिग्रहदोषार्तिभंजनः ॥ 13 ॥
शतपत्रद्वयकरः शतपत्रार्चनप्रियः । शतपत्रसमासीनः शतपत्रासनस्तुतः ॥ 14 ॥
शारीरब्रह्ममूलादिषडाधारनिवासकः । शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनः ॥ 15 ॥
शशांकार्धजटाजूटः शरणागतवत्सलः । रकाररूपो रमणो राजीवाक्षो रहोगतः ॥ 16 ॥
रतीशकोटिसौंदर्यो रविकोट्युदयप्रभः । रागस्वरूपो रागघ्नो रक्ताब्जप्रिय एव च ॥ 17 ॥
राजराजेश्वरीपुत्रो राजेंद्रविभवप्रदः । रत्नप्रभाकिरीटाग्रो रविचंद्राग्निलोचनः ॥ 18 ॥
रत्नांगदमहाबाहू रत्नताटंकभूषणः । रत्नकेयूरभूषाढ्यो रत्नहारविराजितः ॥ 19 ॥
रत्नकिंकिणिकांच्यादिबद्धसत्कटिशोभितः । रवसंयुक्तरत्नाभनूपुरांघ्रिसरोरुहः ॥ 20 ॥
रत्नकंकणचूल्यादिसर्वाभरणभूषितः । रत्नसिंहासनासीनो रत्नशोभितमंदिरः ॥ 21 ॥
राकेंदुमुखषट्कश्च रमावाण्यादिपूजितः । राक्षसामरगंधर्वकोटिकोट्यभिवंदितः ॥ 22 ॥
रणरंगे महादैत्यसंग्रामजयकौतुकः । राक्षसानीकसंहारकोपाविष्टायुधान्वितः ॥ 23 ॥
राक्षसांगसमुत्पन्नरक्तपानप्रियायुधः । रवयुक्तधनुर्हस्तो रत्नकुक्कुटधारणः ॥ 24 ॥
रणरंगजयो रामास्तोत्रश्रवणकौतुकः । रंभाघृताचीविश्वाचीमेनकाद्यभिवंदितः ॥ 25 ॥
रक्तपीतांबरधरो रक्तगंधानुलेपनः । रक्तद्वादशपद्माक्षो रक्तमाल्यविभूषितः ॥ 26 ॥
रविप्रियो रावणेशस्तोत्रसाममनोहरः । राज्यप्रदो रंध्रगुह्यो रतिवल्लभसुप्रियः ॥ 27 ॥
रणानुबंधनिर्मुक्तो राक्षसानीकनाशकः । राजीवसंभवद्वेषी राजीवासनपूजितः ॥ 28 ॥
रमणीयमहाचित्रमयूरारूढसुंदरः । रमानाथस्तुतो रामो रकाराकर्षणक्रियः ॥ 29 ॥
वकाररूपो वरदो वज्रशक्त्यभयान्वितः । वामदेवादिसंपूज्यो वज्रपाणिमनोहरः ॥ 30 ॥
वाणीस्तुतो वासवेशो वल्लीकल्याणसुंदरः । वल्लीवदनपद्मार्को वल्लीनेत्रोत्पलोडुपः ॥ 31 ॥
वल्लीद्विनयनानंदो वल्लीचित्ततटामृतम् । वल्लीकल्पलतावृक्षो वल्लीप्रियमनोहरः ॥ 32 ॥
वल्लीकुमुदहास्येंदुः वल्लीभाषितसुप्रियः । वल्लीमनोहृत्सौंदर्यो वल्लीविद्युल्लताघनः ॥ 33 ॥
वल्लीमंगलवेषाढ्यो वल्लीमुखवशंकरः । वल्लीकुचगिरिद्वंद्वकुंकुमांकितवक्षकः ॥ 34 ॥
वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः । वक्रतुंडानुजो वत्सो वत्सलो वत्सरक्षकः ॥ 35 ॥
वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः । वारणाननदैत्यघ्नो वातापिघ्नोपदेशकः ॥ 36 ॥
वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः । वर्णस्थो वारणारूढो वज्रशक्त्यायुधप्रियः ॥ 37 ॥
वामांगो वामनयनो वचद्भूर्वामनप्रियः । वरवेषधरो वामो वाचस्पतिसमर्चितः ॥ 38 ॥
वसिष्ठादिमुनिश्रेष्ठवंदितो वंदनप्रियः । वकारनृपदेवस्त्रीचोरभूतारिमोहनः ॥ 39 ॥
णकाररूपो नादांतो नारदादिमुनिस्तुतः । णकारपीठमध्यस्थो नगभेदी नगेश्वरः ॥ 40 ॥
णकारनादसंतुष्टो नागाशनरथस्थितः । णकारजपसुप्रीतो नानावेषो नगप्रियः ॥ 41 ॥
णकारबिंदुनिलयो नवग्रहसुरूपकः । णकारपठनानंदो नंदिकेश्वरवंदितः ॥ 42 ॥
णकारघंटानिनदो नारायणमनोहरः । णकारनादश्रवणो नलिनोद्भवशिक्षकः ॥ 43 ॥
णकारपंकजादित्यो नववीराधिनायकः । णकारपुष्पभ्रमरो नवरत्नविभूषणः ॥ 44 ॥
णकारानर्घशयनो नवशक्तिसमावृतः । णकारवृक्षकुसुमो नाट्यसंगीतसुप्रियः ॥ 45 ॥
णकारबिंदुनादज्ञो नयज्ञो नयनोद्भवः । णकारपर्वतेंद्राग्रसमुत्पन्नसुधारणिः ॥ 46 ॥
णकारपेटकमणिर्नागपर्वतमंदिरः । णकारकरुणानंदो नादात्मा नागभूषणः ॥ 47 ॥
णकारकिंकिणीभूषो नयनादृश्यदर्शनः । णकारवृषभावासो नामपारायणप्रियः ॥ 48 ॥
णकारकमलारूढो नामानंतसमन्वितः । णकारतुरगारूढो नवरत्नादिदायकः ॥ 49 ॥
णकारमकुटज्वालामणिर्नवनिधिप्रदः । णकारमूलमंत्रार्थो नवसिद्धादिपूजितः ॥ 50 ॥
णकारमूलनादांतो णकारस्तंभनक्रियः । भकाररूपो भक्तार्थो भवो भर्गो भयापहः ॥ 51 ॥
भक्तप्रियो भक्तवंद्यो भगवान्भक्तवत्सलः । भक्तार्तिभंजनो भद्रो भक्तसौभाग्यदायकः ॥ 52 ॥
भक्तमंगलदाता च भक्तकल्याणदर्शनः । भक्तदर्शनसंतुष्टो भक्तसंघसुपूजितः ॥ 53 ॥
भक्तस्तोत्रप्रियानंदो भक्ताभीष्टप्रदायकः । भक्तसंपूर्णफलदो भक्तसाम्राज्यभोगदः ॥ 54 ॥
भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः । भवौषधिर्भवघ्नश्च भवारण्यदवानलः ॥ 55 ॥
भवांधकारमार्तांडो भववैद्यो भवायुधम् । भवशैलमहावज्रो भवसागरनाविकः ॥ 56 ॥
भवमृत्युभयध्वंसी भावनातीतविग्रहः । भवभूतपिशाचघ्नो भास्वरो भारतीप्रियः ॥ 57 ॥ [भय]
भाषितध्वनिमूलांतो भावाभावविवर्जितः । भानुकोपपितृध्वंसी भारतीशोपदेशकः ॥ 58 ॥
भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः । भारक्रौंचासुरद्वेषो भार्गवीनाथवल्लभः ॥ 59 ॥
भटवीरनमस्कृत्यो भटवीरसमावृतः । भटतारागणोड्वीशो भटवीरगणस्तुतः ॥ 60 ॥
भागीरथेयो भाषार्थो भावनाशबरीप्रियः । भकारे कलिचोरारिभूताद्युच्चाटनोद्यतः ॥ 61 ॥
वकारसुकलासंस्थो वरिष्ठो वसुदायकः । वकारकुमुदेंदुश्च वकाराब्धिसुधामयः ॥ 62 ॥
वकारामृतमाधुर्यो वकारामृतदायकः । दक्षे वज्राभीतियुतो वामे शक्तिवरान्वितः ॥ 63 ॥
वकारोदधिपूर्णेंदुः वकारोदधिमौक्तिकम् । वकारमेघसलिलो वासवात्मजरक्षकः ॥ 64 ॥
वकारफलसारज्ञो वकारकलशामृतम् । वकारपंकजरसो वसुर्वंशविवर्धनः ॥ 65 ॥
वकारदिव्यकमलभ्रमरो वायुवंदितः । वकारशशिसंकाशो वज्रपाणिसुताप्रियः ॥ 66 ॥
वकारपुष्पसद्गंधो वकारतटपंकजम् । वकारभ्रमरध्वानो वयस्तेजोबलप्रदः ॥ 67 ॥
वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः । वकारफलसत्कारो वकाराज्यहुताशनः ॥ 68 ॥
वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः । वकारवटमूलस्थो वकारजलधेस्तटः ॥ 69 ॥
वकारगंगावेगाब्धिः वज्रमाणिक्यभूषणः । वातरोगहरो वाणीगीतश्रवणकौतुकः ॥ 70 ॥
वकारमकरारूढो वकारजलधेः पतिः । वकारामलमंत्रार्थो वकारगृहमंगलम् ॥ 71 ॥
वकारस्वर्गमाहेंद्रो वकारारण्यवारणः । वकारपंजरशुको वलारितनयास्तुतः ॥ 72 ॥
वकारमंत्रमलयसानुमन्मंदमारुतः । वाद्यंतभांत षट्क्रम्य जपांते शत्रुभंजनः ॥ 73 ॥
वज्रहस्तसुतावल्लीवामदक्षिणसेवितः । वकुलोत्पलकादंबपुष्पदामस्वलंकृतः ॥ 74 ॥
वज्रशक्त्यादिसंपन्नद्विषट्पाणिसरोरुहः । वासनागंधलिप्तांगो वषट्कारो वशीकरः ॥ 75 ॥
वासनायुक्ततांबूलपूरिताननसुंदरः । वल्लभानाथसुप्रीतो वरपूर्णामृतोदधिः ॥ 76 ॥
इति श्री सुब्रह्मण्य त्रिशती स्तोत्रम् ।
Browse Related Categories: