Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अथ द्वितीयोऽध्यायः ।
श्रीशुकः उवाच
गोविंदभुजगुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीत् नारदः अभीक्ष्णं कृष्णौपासनलालसः ॥ 1
को नु राजन् इंद्रियवान् मुकुंदचरणांबुजम् । न भजेत् सर्वतः मृत्युः उपास्यं अमरौत्तमैः ॥ 2॥
तं एकदा देवर्षिं वसुदेवः गृह आगतम् । अर्चितं सुखं आसीनं अभिवाद्य इदं अब्रवीत् ॥ 3॥
वसुदेवः उवाच
भगवन् भवतः यात्रा स्वस्तये सर्वदेहिनाम् । कृपणानां यथा पित्रोः उत्तमश्लोकवर्त्मनाम् ॥ 4
भूतानां देवचरितं दुःखाय च सुखाय च । सुखाय एव हि साधूनां त्वादृशां अच्युत आत्मनाम् ॥ 5॥
भजंति ये यथा देवान् देवाः अपि तथा एव तान् । छाया इव कर्मसचिवाः साधवः दीनवत्सलाः ॥ 6॥
ब्रह्मन् तथा अपि पृच्छामः धर्मान् भागवतान् तव । यान् श्रुत्वा श्रद्धया मर्त्यः मुच्यते सर्वतः भयात् ॥ 7॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अहं किल पुरा अनंतं प्रजार्थः भुवि मुक्तिदम् । अपूजयं न मोक्षाय मोहितः देवमायया ॥ 8॥
यया विचित्रव्यसनात् भवद्भिः विश्वतः भयात् । मुच्येम हि अंजसा एव अद्धा तथा नः शाधि सुव्रत ॥ 9॥
श्रीशुकः उवाच
राजन् एवं कृतप्रश्नः वसुदेवेन धीमता । प्रीतः तं आह देवर्षिः हरेः संस्मारितः गुणैः ॥ 10
नारदः उवाच
सम्यक् एतत् व्यवसितं भवता सात्वतर्षभ । यत् पृच्छसे भागवतान् धर्मान् त्वं विश्वभावनान्
11॥
श्रुतः अनुपठितः ध्यातः आदृतः वा अनुमोदितः । सद्यः पुनाति सद्धर्मः देवविश्वद्रुहः अपि ॥ 12॥
त्वया परमकल्याणः पुण्यश्रवणकीर्तनः । स्मारितः भगवान् अद्य देवः नारायणः मम ॥ 13॥
अत्र अपि उदाहरंति इमं इतिहासं पुरातनम् । आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ 14॥
प्रियव्रतः नाम सुतः मनोः स्वायंभुवस्य यः । तस्य अग्नीध्रः ततः नाभिः ऋषभः तत् सुतः स्मृतः ॥ 15॥
तं आहुः वासुदेवांशं मोक्षधर्मविवक्षया । अवतीर्णं सुतशतं तस्य आसीत् वेदपारगम् ॥ 16॥
तेषां वै भरतः ज्येष्ठः नारायणपरायणः । विख्यातं वर्षं एतत् यत् नाम्ना भारतं अद्भुतम् ॥ 17॥
सः भुक्तभोगां त्यक्त्वा इमां निर्गतः तपसा हरिम् । उपासीनः तत् पदवीं लेभे वै जन्मभिः त्रिभिः ॥ 18॥
तेषां नव नवद्वीपपतयः अस्य समंततः । कर्मतंत्रप्रणेतारः एकाशीतिः द्विजातयः ॥ 19॥
नव अभवन् महाभागाः मुनयः हि अर्थशंसिनः । श्रमणाः वातः अशनाः आत्मविद्याविशारदाः ॥ 20॥
कविः हरिः अंतरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः ॥ 21॥
एते वै भगवद्रूपं विश्वं सदसद् आत्मकम् । आत्मनः अव्यतिरेकेण पश्यंतः व्यचरत् महीम् ॥ 22॥
अव्याहत इष्टगतयाः सुरसिद्धसिद्धसाध्य गंधर्वयक्षनरकिन्नरनागलोकान् । मुक्ताः चरंति मुनिचारणभूतनाथ विद्याधरद्विजगवां भुवनानि कामम् ॥ 23॥
तः एकदा निमेः सत्रं उपजग्मुः यत् ऋच्छया । वितायमानं ऋषिभिः अजनाभे महात्मनः ॥ 24॥
तान् दृष्ट्वा सूर्यसंकाशान् महाभगवतान् नृपः । यजमानः अग्नयः विप्राः सर्वः एव उपतस्थिरे ॥ 25॥
विदेहः तान् अभिप्रेत्य नारायणपरायणान् । प्रीतः संपूजयान् चक्रे आसनस्थान् यथा अर्हतः ॥ 26॥
तान् रोचमानान् स्वरुचा ब्रह्मपुत्रौपमान् नव । पप्रच्छ परमप्रीतः प्रश्रय अवनतः नृपः ॥ 27॥
विदेहः उवाच
मन्ये भगवतः साक्षात् पार्षदान् वः मधुद्विषः । विष्णोः भूतानि लोकानां पावनाय चरंति हि ॥ 28
दुर्लभः मानुषः देहः देहिनां क्षणभंगुरः । तत्र अपि दुर्लभं मन्ये वैकुंठप्रियदर्शनम् ॥ 29॥
अतः आत्यंतिकं कहेमं पृच्छामः भवतः अनघाः । संसारे अस्मिन् क्षणार्धः अपि सत्संगः शेवधिः नृणाम् ॥
30॥
धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् । यैः प्रसन्नः प्रपन्नाय दास्यति आत्मानं अपि अजः ॥ 31॥
श्रीनारदः उवाच
एवं ते निमिना पृष्टा वसुदेव महत्तमाः । प्रतिपूज्य अब्रुवन् प्रीत्या ससदसि ऋत्विजं नृपम् ॥ 32
कविः उवाच
मन्ये अकुतश्चित् भयं अच्युतस्य पादांबुजौपासनं अत्र नित्यम् । उद्विग्नबुद्धेः असत् आत्मभावात् विश्वात्मना यत्र निवर्तते भीः ॥ 33
ये वै भगवता प्रोक्ताः उपायाः हि आत्मलब्धये । अंजः पुंसां अविदुषां विद्धि भागवतान् हि तान् ॥ 34॥
यान् आस्थाय नरः राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन पतेत् इह ॥ 35॥
कायेन वाचा मनसा इंद्रियैः वा बुद्ध्या आत्मना वा अनुसृतस्वभावात् । करोति यत् यत् सकलं परस्मै नारायणाय इति समर्पयेत् तत् ॥ 36॥
भयं द्वितीयाभिनिवेशतः स्यात् ईशात् अपेतस्य विपर्ययः अस्मृतिः । तत् मायया अतः बुधः आभजेत् तं भक्त्या एक ईशं गुरुदेवतात्मा ॥ 37। अविद्यमानः अपि अवभाति हि द्वयोः ध्यातुः धिया स्वप्नमनोरथौ यथा । तत् कर्मसंकल्पविकल्पकं मनः बुधः निरुंध्यात् अभयं ततः स्यात् ॥ 38॥
श्रुण्वन् सुभद्राणि रथांगपाणेः जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तत् अर्थकानि गायन् विलज्जः विचरेत् असंगः ॥ 39॥
एवं व्रतः स्वप्रियनामकीर्त्या जातानुरागः द्रुतचित्तः उच्चैः । हसति अथः रोदिति रौति गायति उन्मादवत् नृत्यति लोकबाह्यः ॥ 40॥
खं वायुं अग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशः द्रुमादीन् । सरित् समुद्रान् च हरेः शरीरं यत्किंच भूतं प्रणमेत् अनन्यः ॥ 41॥
भक्तिः परेश अनुभवः विरक्तिः अन्यत्र एष त्रिकः एककालः । प्रपद्यमानस्य यथा अश्नतः स्युः तुष्टिः पुष्टिः क्षुत् अपायः अनुघासम् ॥ 42॥
इति अच्युत अंघ्रिं भजतः अनुवृत्त्या भक्तिः विरक्तिः भगवत् प्रबोधः । भवंति वै भागवतस्य राजन् ततः परां शांतिं उपैति साक्षात् ॥ 43॥
राजा उवाच
अथ भागवतं ब्रूत यत् धर्मः यादृशः नृणाम् । यथा चरति यत् ब्रूते यैः लिंगैः भगवत् प्रियः ॥ 44
हरिः उवाच
सर्वभूतेषु यः पश्येत् भगवत् भाव आत्मनः । भूतानि भागवति आत्मनि एष भागवतौत्तमः ॥ 45
ईश्वरे तत् अधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपाउपेक्षा यः करोति स मध्यमः ॥ 46॥
अर्चायां एव हरये पूजां यः श्रद्धया ईहते । न तत् भक्तेषु च अन्येषु सः भक्तः प्राकृतः स्मृतः ॥
47॥
गृहीत्वा अपि इंद्रियैः अर्थान्यः न द्वेष्टि न हृष्यति । विष्णोः मायां इदं पश्यन् सः वै भागवत उत्तमः ॥ 48॥
देहैंद्रियप्राणमनःधियां यः जन्मापिअयक्षुत् भयतर्षकृच्छ्रैः । संसारधर्मैः अविमुह्यमानः स्मृत्या हरेः भागवतप्रधानः ॥ 49॥
न कामकर्मबीजानां यस्य चेतसि संभवः । वासुदेवेकनिलयः सः वै भागवत उत्तमः ॥ 50॥
न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः । सज्जते अस्मिन् अहंभावः देहे वै सः हरेः प्रियः ॥ 51॥
न यस्य स्वः परः इति वित्तेषु आत्मनि वा भिदा । सर्वभूतसमः शांतः सः वौ भागवत उत्तमः ॥ 52॥
त्रिभुवनविभवहेतवे अपि अकुंठस्मृतिः अजितात्मसुरादिभिः विमृग्यात् । न चलति भगवत् पद अरविंदात् लवनिमिष अर्धं अपि यः सः वैष्णव अग्र्यः ॥ 53॥
भगवतः उरुविक्रम अंघ्रिशाखा नखमणिचंद्रिकया निरस्ततापे । हृदि कथं उपसीदतां पुनः सः प्रभवति चंद्रः इव उदिते अर्कतापः ॥ 54॥
विसृजति हृदयं न यस्य साक्षात् हरिः अवश अभिहितः अपि अघौघनाशः । प्रणयः अशनया धृत अंघ्रिपद्मः सः भवति भागवतप्रधानः उक्तः ॥ 55॥
इति श्रीमत् भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कंधे निमिजायंतसंवादे द्वितीयः अध्यायः ॥
Browse Related Categories: