Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अथ षष्ठोऽध्यायः ।
श्रीशुकः उवाच
अथ ब्रह्मा आत्मजैः देवैः प्रजेशैः आवृतः अभ्यगात् । भवः च भूतभव्यीशः ययौ भूतगणैः वृतः ॥ 1
इंद्रः मरुद्भिः भगवान् आदित्याः वसवः अश्विनौ । ऋभवः अंगिरसः रुद्राः विश्वे साध्याः च देवताः ॥ 2॥
गंधर्वाप्सरसः नागाः सिद्धचारणगुह्यकाः । ऋषयः पितरः च एव सविद्याधरकिन्नराः ॥ 3॥
द्वारकां उपसंजग्मुः सर्वे कृष्णादिदृक्षवः । वपुषा येन भगवान् नरलोकमनोरमः । यशः वितेने लोकेषु सर्वलोकमलापहम् ॥ 4॥
तस्यां विभ्राजमानायां समृद्धायां महर्धिभिः । व्यचक्षत अवितृप्ताक्षाः कृष्णं अद्भुतदर्शनम् ॥
5॥
स्वर्गौद्यानौअपगैः माल्यैः छादयंतः यदु उत्तमम् । गीर्भिः चित्रपदार्थाभिः तुष्टुवुः जगत् ईश्वरम् ॥6॥
देवाः ऊचुः । नताः स्म ते नाथ पदारविंदं बुद्धींद्रियप्राणमनोवचोभिः । यत् चिंत्यते अंतर्हृदि भावयुक्तैः मुमुक्षुभिः कर्ममय ऊरुपाशात् ॥ 7॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
त्वं मायया त्रिगुणया आत्मनि दुर्विभाव्यं व्यक्तं सृजसि अवसि लुंपसि तत् गुणस्थः । न एतैः भवान् अजित कर्मभिः अज्यते वै यत् स्वे सुखे अव्यवहिते अभिरतः अनवद्यः ॥ 8॥
शुद्धिः नृणां न तु तथा ईड्य दुराशयानां विद्याश्रुताध्ययनदानतपक्रियाभिः । सत्त्वात्मनां ऋषभ ते यशसि प्रवृद्ध सत् श्रद्धया श्रवणसंभृतया यथा स्यात् ॥ 9॥
स्यात् नः तव अंघ्रिः अशुभाशयधूमकेतुः क्षेमाय यः मुनिभिः आर्द्रहृदौह्यमानः । यः सात्वतैः समविभूतयः आत्मवद्भिः व्यूहे अर्चितः सवनशः स्वः अतिक्रमाय ॥ 10॥
यः चिंत्यते प्रयतपाणिभिः अध्वराग्नौ त्रय्या निरुक्तविधिना ईश हविः गृहीत्वा । अध्यात्मयोगः उत योगिभिः आत्ममायां जिज्ञासुभिः परमभागवतैः परीष्टः ॥ 11॥
पर्युष्टया तव विभो वनमालया इयं संस्पर्धिनी भगवती प्रतिपत्निवत् श्रीः । यः सुप्रणीतं अमुयार्हणं आदत् अन्नः भूयात् सदा अंघ्रिः अशुभाशयधूमकेतुः ॥ 12॥
केतुः त्रिविक्रमयुतः त्रिपत् पताकः यः ते भयाभयकरः असुरदेवचम्वोः । स्वर्गाय साधुषु खलु एषु इतराय भूमन् पादः पुनातु भगवन् भजतां अधं नः ॥ 13॥
नस्योतगावः इव यस्य वशे भवंति ब्रह्मादयः अनुभृतः मिथुरर्द्यमानाः । कालस्य ते प्रकृतिपूरुषयोः परस्य शं नः तनोतु चरणः पुरुषोत्तमस्य ॥ 14॥
अस्य असि हेतुः उदयस्थितिसंयमानां अव्यक्तजीवमहतां अपि कालं आहुः । सः अयं त्रिणाभिः अखिल अपचये प्रवृत्तः कालः गभीररयः उत्तमपूरुषः त्वम् ॥ 15॥
त्वत्तः पुमान् समधिगम्य यया स्ववीर्य धत्ते महांतं इव गर्भं अमोघवीर्यः । सः अयं तया अनुगतः आत्मनः आंडकोशं हैमं ससर्ज बहिः आवरणैः उपेतम् ॥ 16॥
तत्तस्थुषः च जगतः च भवान् अधीशः यत् मायया उत्थगुणविक्रियया उपनीतान् । अर्थान् जुषन् अपि हृषीकपते न लिप्तः ये अन्ये स्वतः परिहृतात् अपि बिभ्यति स्म ॥ 17॥
स्माया अवलोकलवदर्शितभावहारि भ्रूमंडलप्रहितसौरतमंत्रशौंडैः । पत्न्यः तु षोडशसहस्रं अनंगबाणैः यस्य इंद्रियं विमथितुं करणैः विभ्व्यः ॥ 18॥
विभ्व्यः तव अमृतकथा उदवहाः त्रिलोक्याः पादौ अनेजसरितः शमलानि हंतुम् । आनुश्रवं श्रुतिभिः अंघ्रिजं अंगसंगैः तीर्थद्वयं शुचिषदस्तः उपस्पृशंति ॥ 19॥
बादरायणिः उवाच
इति अभिष्टूय विबुधैः सेशः शतधृतिः हरिम् । अभ्यभाषत गोविंदं प्रणम्य अंबरं आश्रितः ॥ 20
ब्रह्म उवाच
भूमेः भार अवताराय पुरा विज्ञापितः प्रभो । त्वं अस्माभिः अशेषात्मन् तत् तथा एव उपपादितम् ॥ 21
धर्मः च स्थापितः सत्सु सत्यसंधेषु वै त्वया । कीर्तिः च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥ 22॥
अवतीर्य यदोः वंशे बिभ्रत् रूपं अनुत्तमम् । कर्माणि उद्दामवृत्तानि हिताय जगतः अकृथाः ॥ 23॥
यानि ते चरितानि ईश मनुष्याः साधवः कलौ । शऋण्वंतः कीर्तयंतः च तरिष्यंति अंजसा तमः ॥ 24॥
यदुवंशे अवतीर्णस्य भवतः पुरुषोत्तम । शरत् शतं व्यतीयाय पंचविंश अधिकं प्रभोः ॥ 25॥
न अधुना ते अखिल आधार देवकार्य अवशेषितम् । कुलं च विप्रशापेन नष्टप्रायं अभूत् इदम् ॥ 26॥
ततः स्वधाम परमं विशस्व यदि मन्यसे । सलोकान् लोकपालान् नः पाहि वैकुंठकिंकरान् ॥ 27॥
श्री भगवान् उवाच
अवधारितं एतत् मे यदात्थ विबुधेश्वर । कृतं वः कार्यं अखिलं भूमेः भारः अवतारितः ॥ 28
तत् इदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् । लोकं जिघृक्षत् रुद्धं मे वेलया इव महार्णवः ॥ 29॥
यदि असंहृत्य दृप्तानां यदुनां विपुलं कुलम् । गंतास्मि अनेन लोकः अयं उद्वेलेन विनंक्ष्यति ॥ 30॥
इदानीं नाशः आरब्धः कुलस्य द्विजशापतः । यास्यामि भवनं ब्रह्मन् न एतत् अंते तव आनघ ॥ 31॥
श्री शुकः उवाच
इति उक्तः लोकनाथेन स्वयंभूः प्रणिपत्य तम् । सह देवगणैः देवः स्वधाम समपद्यत ॥ 32
अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् । विलोक्य भगवान् आह यदुवृद्धान् समागतान् ॥ 33॥
श्री भगवान् उवाच
एते वै सुमहोत्पाताः व्युत्तिष्ठंति इह सर्वतः । शापः च नः कुलस्य आसीत् ब्राह्मणेभ्यः दुरत्ययः ॥ 34
न वस्तव्यं इह अस्माभिः जिजीविषुभिः आर्यकाः । प्रभासं सुमहत् पुण्यं यास्यामः अद्य एव मा चिरम् ॥ 35॥
यत्र स्नात्वा दक्षशापात् गृहीतः यक्ष्मणौडुराट् । विमुक्तः किल्बिषात् सद्यः भेजे भूयः कलोदयम् ॥ 36॥
वयं च तस्मिन् आप्लुत्य तर्पयित्वा पितॄन्सुरान् । भोजयित्वा उशिजः विप्रान् नानागुणवता अंधसा ॥ 37॥
तेषु दानानि पात्रेषु श्रद्धया उप्त्वा महांति वै । वृजिनानि तरिष्यामः दानैः नौभिः इव अर्णवम् ॥ 38॥
श्री शुकः उवाच
एवं भगवता आदिष्टाः यादवाः कुलनंदन । गंतुं कृतधियः तीर्थं स्यंदनान् समयूयुजन् ॥ 39
तत् निरीक्ष्य उद्धवः राजन् श्रुत्वा भगवता उदितम् । दृष्ट्वा अरिष्टानि घोराणि नित्यं कृष्णं अनुव्रतः ॥ 40॥
विविक्तः उपसंगम्य जगतां ईश्वरेश्वरम् । प्रणम्य शिरसा पादौ प्रांजलिः तं अभाषत ॥ 41॥
उद्धवः उवाच
देवदेवेश योगेश पुण्यश्रवणकीर्तन । संहृत्य एतत् कुलं नूनं लोकं संत्यक्ष्यते भवान् । विप्रशापं समर्थः अपि प्रत्यहन् न यदि ईश्वरः ॥ 42
न अहं तव अंघ्रिकमलं क्षणार्धं अपि केशव । त्यक्तुं समुत्सहे नाथ स्वधाम नय मां अपि ॥ 43॥
तव विक्रीडितं कृष्ण नृणां परममंगलम् । कर्णपीयूषं आस्वाद्य त्यजति अन्यस्पृहां जनः ॥ 44॥
शय्यासनाटनस्थानस्नानक्रीडाशनादिषु । कथं त्वां प्रियं आत्मानं वयं भक्ताः त्यजेमहि ॥ 45॥
त्वया उपभुक्तस्रक्गंधवासः अलंकारचर्चिताः । उच्छिष्टभोजिनः दासाः तव मायां जयेमहि ॥ 46॥
वाताशनाः यः ऋषयः श्रमणा ऊर्ध्वमंथिनः । ब्रह्माख्यं धाम ते यांति शांताः संन्यासिनः अमलाः ॥
47॥
वयं तु इह महायोगिन् भ्रमंतः कर्मवर्त्मसु । त्वत् वार्तया तरिष्यामः तावकैः दुस्तरं तमः ॥ 48॥
स्मरंतः कीर्तयंतः ते कृतानि गदितानि च । गतिउत्स्मितीक्षणक्ष्वेलि यत् नृलोकविडंबनम् ॥ 49॥
श्री शुकः उवाच
एवं विज्ञापितः राजन् भगवान् देवकीसुतः । एकांतिनं प्रियं भृत्यं उद्धवं समभाषत ॥ 50
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे देवस्तुत्युद्ध्वविज्ञापनं नाम षष्ठोऽध्यायः ॥
Browse Related Categories: