Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सर्ववेदांतसिद्धांतगोचरं तमगोचरम् । गोविंदं परमानंदं सद्गुरुं प्रणतोऽस्म्यहम् ॥ 1॥
जंतूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् । आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥ 2॥ (पाठभेदः - शतकोटिजन्मसु कृतैः)
दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् । मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥ 3॥
लब्ध्वा कथंचिन्नरजन्म दुर्लभं (पाठभेदः - कथंचिन्) तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् । यस्त्वात्ममुक्तौ न यतेत मूढधीः स ह्यात्महा स्वं विनिहंत्यसद्ग्रहात् ॥ 4॥ (पाठभेदः - आत्महा स्वं)
इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति । दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥ 5॥
वदंतु शास्त्राणि यजंतु देवान् (पाठभेदः - पठंतु) कुर्वंतु कर्माणि भजंतु देवताः । आत्मैक्यबोधेन विनापि मुक्ति- (पाठभेदः - विना विमुक्तिः न) र्न सिध्यति ब्रह्मशतांतरेऽपि ॥ 6॥
अमृतत्त्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः । ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥ 7॥
अतो विमुक्त्यै प्रयतेत विद्वान् सन्न्यस्तबाह्यार्थसुखस्पृहः सन् । संतं महांतं समुपेत्य देशिकं तेनोपदिष्टार्थसमाहितात्मा ॥ 8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
उद्धरेदात्मनाऽऽत्मानं मग्नं संसारवारिधौ । योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥ 9॥
सन्न्यस्य सर्वकर्माणि भवबंधविमुक्तये । यत्यतां पंडितैर्धीरैरात्माभ्यास उपस्थितैः ॥ 10॥
चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये । वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिभिः ॥ 11॥
सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा । भ्रांतोदितमहासर्पभयदुःखविनाशिनी ॥ 12॥ (पाठभेदः - भ्रांत्यो) अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः । न स्नानेन न दानेन प्राणायामशतेन वा ॥ 13॥
अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः । उपाया देशकालाद्याः संत्यस्मिन्सहकारिणः ॥ 14॥ (पाठभेदः - संत्यस्यां) अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः ॥
समासाद्य दयासिंधुं गुरुं ब्रह्मविदुत्तमम् ॥ 15॥
मेधावी पुरुषो विद्वानूहापोहविचक्षणः । अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः ॥ 16॥
विवेकिनो विरक्तस्य शमादिगुणशालिनः । मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥ 17॥
साधनान्यत्र चत्वारि कथितानि मनीषिभिः । येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति ॥ 18॥
आदौ नित्यानित्यवस्तुविवेकः परिगण्यते । इहामुत्रफलभोगविरागस्तदनंतरम् । शमादिषट्कसंपत्तिर्मुमुक्षुत्वमिति स्फुटम् ॥ 19॥
ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः । सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥ 20॥
तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः । (पाठभेदः - जुगुप्सा या) देहादिब्रह्मपर्यंते ह्यनित्ये भोगवस्तुनि ॥ 21॥ (पाठभेदः - भोग्यवस्तुनि) विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः । स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ॥ 22॥
विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके । उभयेषामिंद्रियाणां स दमः परिकीर्तितः । बाह्यानालंबनं वृत्तेरेषोपरतिरुत्तमा ॥ 23॥
सहनं सर्वदुःखानामप्रतीकारपूर्वकम् । चिंताविलापरहितं सा तितिक्षा निगद्यते ॥ 24॥
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् । (पाठभेदः - सत्यबुद्ध्यावधारणा) सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥ 25॥
सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा । (पाठभेदः - सम्यगास्थापनं) तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥ 26॥
अहंकारादिदेहांतान् बंधानज्ञानकल्पितान् । स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥ 27॥
मंदमध्यमरूपापि वैराग्येण शमादिना । प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥ 28॥
वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते । तस्मिन्नेवार्थवंतः स्युः फलवंतः शमादयः ॥ 29॥
एतयोर्मंदता यत्र विरक्तत्वमुमुक्षयोः । मरौ सलिलवत्तत्र शमादेर्भानमात्रता ॥ 30॥
मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी । स्वस्वरूपानुसंधानं भक्तिरित्यभिधीयते ॥ 31॥
स्वात्मतत्त्वानुसंधानं भक्तिरित्यपरे जगुः । उक्तसाधनसंपन्नस्तत्त्वजिज्ञासुरात्मनः । उपसीदेद्गुरुं प्राज्ञं यस्माद्बंधविमोक्षणम् ॥ 32॥
श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः । ब्रह्मण्युपरतः शांतो निरिंधन इवानलः । अहेतुकदयासिंधुर्बंधुरानमतां सताम् ॥ 33॥
तमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः । (पाठभेदः - प्रह्वः) प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥ 34॥
स्वामिन्नमस्ते नतलोकबंधो कारुण्यसिंधो पतितं भवाब्धौ । मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥ 35॥
दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः । भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यद्यदहं न जाने ॥ 36॥ (पाठभेदः - अन्यं)
शांता महांतो निवसंति संतो वसंतवल्लोकहितं चरंतः । तीर्णाः स्वयं भीमभवार्णवं जना- नहेतुनान्यानपि तारयंतः ॥ 37॥
अयं स्वभावः स्वत एव यत्पर- श्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेष स्वयमर्ककर्कश- प्रभाभितप्तामवति क्षितिं किल ॥ 38॥
ब्रह्मानंदरसानुभूतिकलितैः पूतैः सुशीतैर्युतै- (पाठभेदः - सुशीतैः सितैः) र्युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय । संतप्तं भवतापदावदहनज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ॥ 39॥
कथं तरेयं भवसिंधुमेतं का वा गतिर्मे कतमोऽस्त्युपायः । जाने न किंचित्कृपयाऽव मां प्रभो संसारदुःखक्षतिमातनुष्व ॥ 40॥
तथा वदंतं शरणागतं स्वं संसारदावानलतापतप्तम् । निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा ॥ 41॥
विद्वान् स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु यथोक्तकारिणे । प्रशांतचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् ॥ 42॥
मा भैष्ट विद्वंस्तव नास्त्यपायः संसारसिंधोस्तरणेऽस्त्युपायः । येनैव याता यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि ॥ 43॥
अस्त्युपायो महान्कश्चित्संसारभयनाशनः । तेन तीर्त्वा भवांभोधिं परमानंदमाप्स्यसि ॥ 44॥
वेदांतार्थविचारेण जायते ज्ञानमुत्तमम् । तेनात्यंतिकसंसारदुःखनाशो भवत्यनु ॥ 45॥
श्रद्धाभक्तिध्यानयोगान्मुमुक्षोः मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः । यो वा एतेष्वेव तिष्ठत्यमुष्य मोक्षोऽविद्याकल्पिताद्देहबंधात् ॥ 46॥
अज्ञानयोगात्परमात्मनस्तव ह्यनात्मबंधस्तत एव संसृतिः । तयोर्विवेकोदितबोधवह्निः अज्ञानकार्यं प्रदहेत्समूलम् ॥ 47॥
शिष्य उवाच
कृपया श्रूयतां स्वामिन्प्रश्नोऽयं क्रियते मया । यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥ 48
को नाम बंधः कथमेष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः । कोऽसावनात्मा परमः क आत्मा तयोर्विवेकः कथमेतदुच्यताम् ॥ 49॥
श्रीगुरुवाच
धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया । (पाठभेदः - पावितं) यदविद्याबंधमुक्त्या ब्रह्मीभवितुमिच्छसि ॥ 50
ऋणमोचनकर्तारः पितुः संति सुतादयः । बंधमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥ 51॥
मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते । क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥ 52॥
पथ्यमौषधसेवा च क्रियते येन रोगिणा । आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा ॥ 53॥
वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं न तु पंडितेन । चंद्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ॥ 54॥
अविद्याकामकर्मादिपाशबंधं विमोचितुम् । कः शक्नुयाद्विनाऽऽत्मानं कल्पकोटिशतैरपि ॥ 55॥
न योगेन न सांख्येन कर्मणा नो न विद्यया । ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा ॥ 56॥
वीणाया रूपसौंदर्यं तंत्रीवादनसौष्ठवम् । प्रजारंजनमात्रं तन्न साम्राज्याय कल्पते ॥ 57॥
वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ॥ 58॥
अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला । विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥ 59॥
शब्दजालं महारण्यं चित्तभ्रमणकारणम् । अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वमात्मनः ॥ 60॥ तत्त्वज्ञात्तत्त्व अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना । किमु वेदैश्च शास्त्रैश्च किमु मंत्रैः किमौषधैः ॥ 61॥
न गच्छति विना पानं व्याधिरौषधशब्दतः । विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥ 62॥
अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः । ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥ 63॥ (पाठभेदः - बाह्यशब्दैः)
अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् । राजाहमिति शब्दान्नो राजा भवितुमर्हति ॥ 64॥
आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं (पाठभेदः - परिशिलापाकर्षणं) निक्षेपः समपेक्षते न हि बहिःशब्दैस्तु निर्गच्छति । तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥ 65॥
तस्मात्सर्वप्रयत्नेन भवबंधविमुक्तये । स्वैरेव यत्नः कर्तव्यो रोगादाविव पंडितैः ॥ 66॥ (पाठभेदः - रोगादेरिव)
यस्त्वयाद्य कृतः प्रश्नो वरीयांछास्त्रविन्मतः । (पाठभेदः - सम्मतः) सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥ 67॥
शऋणुष्वावहितो विद्वन्यन्मया समुदीर्यते । तदेतच्छ्रवणात्सद्यो भवबंधाद्विमोक्ष्यसे ॥ 68॥
मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यंतमनित्यवस्तुषु । ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥ 69॥
ततः श्रुतिस्तन्मननं सतत्त्व- ध्यानं चिरं नित्यनिरंतरं मुनेः । ततोऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति ॥ 70॥
यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् । तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय ॥ 71॥
मज्जास्थिमेदःपलरक्तचर्म- त्वगाह्वयैर्धातुभिरेभिरन्वितम् । पादोरुवक्षोभुजपृष्ठमस्तकैः अंगैरुपांगैरुपयुक्तमेतत् ॥ 72॥
अहम्ममेति प्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधैः । नभोनभस्वद्दहनांबुभूमयः सूक्ष्माणि भूतानि भवंति तानि ॥ 73॥
परस्परांशैर्मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः । मात्रास्तदीया विषया भवंति शब्दादयः पंच सुखाय भोक्तुः ॥ 74॥
य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन । आयांति निर्यांत्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः ॥ 75॥
शब्दादिभिः पंचभिरेव पंच पंचत्वमापुः स्वगुणेन बद्धाः । कुरंगमातंगपतंगमीन- भृंगा नरः पंचभिरंचितः किम् ॥ 76॥
दोषेण तीव्रो विषयः कृष्णसर्पविषादपि । विषं निहंति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥ 77॥
विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् । स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि ॥ 78॥
आपातवैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतियातुमुद्यतान् । आशाग्रहो मज्जयतेऽंतराले निगृह्य कंठे विनिवर्त्य वेगात् ॥ 79॥
विषयाख्यग्रहो येन सुविरक्त्यसिना हतः । स गच्छति भवांभोधेः पारं प्रत्यूहवर्जितः ॥ 80॥
विषमविषयमार्गैर्गच्छतोऽनच्छबुद्धेः (पाठभेदः - विषयमार्गे गच्छतो) प्रतिपदमभियातो मृत्युरप्येष विद्धि । (पाठभेदः - प्रतिपदमभिघातो मृत्युरप्येष सिद्धः) हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥ 81॥
मोक्षस्य कांक्षा यदि वै तवास्ति त्यजातिदूराद्विषयान्विषं यथा । पीयूषवत्तोषदयाक्षमार्जव- प्रशांतिदांतीर्भज नित्यमादरात् ॥ 82॥
अनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबंधमोक्षणम् । देहः परार्थोऽयममुष्य पोषणे यः सज्जते स स्वमनेन हंति ॥ 83॥
शरीरपोषणार्थी सन् य आत्मानं दिदृक्षति । (पाठभेदः - दिदृक्षते) ग्राहं दारुधिया धृत्वा नदीं तर्तुं स गच्छति ॥ 84॥ (पाठभेदः - स इच्छति)
मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु । मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥ 85॥
मोहं जहि महामृत्युं देहदारसुतादिषु । यं जित्वा मुनयो यांति तद्विष्णोः परमं पदम् ॥ 86॥
त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम् । पूर्णं मूत्रपुरीषाभ्यां स्थूलं निंद्यमिदं वपुः ॥ 87॥
पंचीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा । समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः । अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥ 88॥
बाह्येंद्रियैः स्थूलपदार्थसेवां स्रक्चंदनस्त्र्यादिविचित्ररूपाम् । करोति जीवः स्वयमेतदात्मना तस्मात्प्रशस्तिर्वपुषोऽस्य जागरे ॥ 89॥
सर्वोऽपि बाह्यसंसारः पुरुषस्य यदाश्रयः । विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥ 90॥
स्थूलस्य संभवजरामरणानि धर्माः स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः । वर्णाश्रमादिनियमा बहुधाऽऽमयाः स्युः पूजावमानबहुमानमुखा विशेषाः ॥ 91॥
बुद्धींद्रियाणि श्रवणं त्वगक्षि घ्राणं च जिह्वा विषयावबोधनात् । वाक्पाणिपादा गुदमप्युपस्थः (पाठभेदः - उपस्थं) कर्मेंद्रियाणि प्रवणेन कर्मसु ॥ 92॥ (पाठभेदः - प्रवणानि) निगद्यतेऽंतःकरणं मनोधीः अहंकृतिश्चित्तमिति स्ववृत्तिभिः । मनस्तु संकल्पविकल्पनादिभिः बुद्धिः पदार्थाध्यवसायधर्मतः ॥ 93॥
अत्राभिमानादहमित्यहंकृतिः । स्वार्थानुसंधानगुणेन चित्तम् ॥ 94॥
प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः । स्वयमेव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत् ॥ 95॥ (पाठभेदः - विकृतेर्भेदात्सुवर्णसलिलमिव)
वागादि पंच श्रवणादि पंच प्राणादि पंचाभ्रमुखानि पंच । बुद्ध्याद्यविद्यापि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरमाहुः ॥ 96॥
इदं शरीरं शऋणु सूक्ष्मसंज्ञितं लिंगं त्वपंचीकृतभूतसंभवम् । सवासनं कर्मफलानुभावकं स्वाज्ञानतोऽनादिरुपाधिरात्मनः ॥ 97॥
स्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र । स्वप्ने तु बुद्धिः स्वयमेव जाग्रत् कालीननानाविधवासनाभिः ॥ 98॥
कर्त्रादिभावं प्रतिपद्य राजते यत्र स्वयं भाति ह्ययं परात्मा । (पाठभेदः - स्वयंज्योतिरयं) धीमात्रकोपाधिरशेषसाक्षी न लिप्यते तत्कृतकर्मलेशैः । कर्मलेपैः यस्मादसंगस्तत एव कर्मभिः न लिप्यते किंचिदुपाधिना कृतैः ॥ 99॥
सर्वव्यापृतिकरणं लिंगमिदं स्याच्चिदात्मनः पुंसः । वास्यादिकमिव तक्ष्णस्तेनैवात्मा भवत्यसंगोऽयम् ॥ 100॥
अंधत्वमंदत्वपटुत्वधर्माः सौगुण्यवैगुण्यवशाद्धि चक्षुषः । बाधिर्यमूकत्वमुखास्तथैव श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ॥ 101॥
उच्छ्वासनिःश्वासविजृंभणक्षु- त्प्रस्यंदनाद्युत्क्रमणादिकाः क्रियाः । (पाठभेदः - प्रस्पंदनाद्य्) प्राणादिकर्माणि वदंति तज्ञाः (पाठभेदः - तज्ज्ञाः) प्राणस्य धर्मावशनापिपासे ॥ 102॥
अंतःकरणमेतेषु चक्षुरादिषु वर्ष्मणि । अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥ 103॥
अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् । सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते ॥ 104॥ (पाठभेदः - योगेनावस्थात्रितयम्श्नुते)
विषयाणामानुकूल्ये सुखी दुःखी विपर्यये । सुखं दुःखं च तद्धर्मः सदानंदस्य नात्मनः ॥ 105॥
आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः । स्वत एव हि सर्वेषामात्मा प्रियतमो यतः । तत आत्मा सदानंदो नास्य दुःखं कदाचन ॥ 106॥
यत्सुषुप्तौ निर्विषय आत्मानंदोऽनुभूयते । श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ॥ 107॥
अव्यक्तनाम्नी परमेशशक्तिः अनाद्यविद्या त्रिगुणात्मिका परा । कार्यानुमेया सुधियैव माया यया जगत्सर्वमिदं प्रसूयते ॥ 108॥
सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयात्मिका नो । सांगाप्यनंगा ह्युभयात्मिका नो (पाठभेदः - अनंगाप्युभयात्मिका) महाद्भुताऽनिर्वचनीयरूपा ॥ 109॥
शुद्धाद्वयब्रह्मविबोधनाश्या सर्पभ्रमो रज्जुविवेकतो यथा । रजस्तमःसत्त्वमिति प्रसिद्धा गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥ 110॥
विक्षेपशक्ती रजसः क्रियात्मिका यतः प्रवृत्तिः प्रसृता पुराणी । रागादयोऽस्याः प्रभवंति नित्यं दुःखादयो ये मनसो विकाराः ॥ 111॥
कामः क्रोधो लोभदंभाद्यसूया (पाठभेदः - लोभदंभाभ्यसूया) अहंकारेर्ष्यामत्सराद्यास्तु घोराः । धर्मा एते राजसाः पुंप्रवृत्ति- र्यस्मादेषा तद्रजो बंधहेतुः ॥ 112॥ (पाठभेदः - यस्मादेतत्तद्रजो)
एषाऽऽवृतिर्नाम तमोगुणस्य शक्तिर्मया वस्त्ववभासतेऽन्यथा । शक्तिर्यया सैषा निदानं पुरुषस्य संसृतेः विक्षेपशक्तेः प्रवणस्य हेतुः ॥ 113॥ (पाठभेदः - प्रसरस्य)
प्रज्ञावानपि पंडितोऽपि चतुरोऽप्यत्यंतसूक्ष्मात्मदृग्- (पाठभेदः - सूक्ष्मार्थदृग्) व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम् । भ्रांत्यारोपितमेव साधु कलयत्यालंबते तद्गुणान् हंतासौ प्रबला दुरंततमसः शक्तिर्महत्यावृतिः ॥ 114॥
अभावना वा विपरीतभावनाऽ- (पाठभेदः - विपरीतभावना) संभावना विप्रतिपत्तिरस्याः । संसर्गयुक्तं न विमुंचति ध्रुवं विक्षेपशक्तिः क्षपयत्यजस्रम् ॥ 115॥
अज्ञानमालस्यजडत्वनिद्रा- प्रमादमूढत्वमुखास्तमोगुणाः । एतैः प्रयुक्तो न हि वेत्ति किंचित् निद्रालुवत्स्तंभवदेव तिष्ठति ॥ 116॥
सत्त्वं विशुद्धं जलवत्तथापि ताभ्यां मिलित्वा सरणाय कल्पते । यत्रात्मबिंबः प्रतिबिंबितः सन् प्रकाशयत्यर्क इवाखिलं जडम् ॥ 117॥
मिश्रस्य सत्त्वस्य भवंति धर्माः त्वमानिताद्या नियमा यमाद्याः । श्रद्धा च भक्तिश्च मुमुक्षुता च दैवी च संपत्तिरसन्निवृत्तिः ॥ 118॥
विशुद्धसत्त्वस्य गुणाः प्रसादः स्वात्मानुभूतिः परमा प्रशांतिः । तृप्तिः प्रहर्षः परमात्मनिष्ठा यया सदानंदरसं समृच्छति ॥ 119॥
अव्यक्तमेतत्त्रिगुणैर्निरुक्तं तत्कारणं नाम शरीरमात्मनः । सुषुप्तिरेतस्य विभक्त्यवस्था प्रलीनसर्वेंद्रियबुद्धिवृत्तिः ॥ 120॥
सर्वप्रकारप्रमितिप्रशांतिः बीजात्मनावस्थितिरेव बुद्धेः । सुषुप्तिरेतस्य किल प्रतीतिः (पाठभेदः - सुषुप्तिरत्रास्य) किंचिन्न वेद्मीति जगत्प्रसिद्धेः ॥ 121॥
देहेंद्रियप्राणमनोऽहमादयः सर्वे विकारा विषयाः सुखादयः । व्योमादिभूतान्यखिलं च विश्वं अव्यक्तपर्यंतमिदं ह्यनात्मा ॥ 122॥
माया मायाकार्यं सर्वं महदादिदेहपर्यंतम् । असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् ॥ 123॥
अथ ते संप्रवक्ष्यामि स्वरूपं परमात्मनः । यद्विज्ञाय नरो बंधान्मुक्तः कैवल्यमश्नुते ॥ 124॥
अस्ति कश्चित्स्वयं नित्यमहंप्रत्ययलंबनः । अवस्थात्रयसाक्षी सन्पंचकोशविलक्षणः ॥ 125॥
यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु । बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् ॥ 126॥
यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन । (पाठभेदः - किंचन) यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ॥ 127॥
येन विश्वमिदं व्याप्तं यं न व्याप्नोति किंचन । आभारूपमिदं सर्वं यं भांतमनुभात्ययम् ॥ 128॥
यस्य सन्निधिमात्रेण देहेंद्रियमनोधियः । विषयेषु स्वकीयेषु वर्तंते प्रेरिता इव ॥ 129॥
अहंकारादिदेहांता विषयाश्च सुखादयः । वेद्यंते घटवद्येन नित्यबोधस्वरूपिणा ॥ 130॥
एषोऽंतरात्मा पुरुषः पुराणो निरंतराखंडसुखानुभूतिः । सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरंति ॥ 131॥
अत्रैव सत्त्वात्मनि धीगुहायां अव्याकृताकाश उशत्प्रकाशः । (पाठभेदः - उरुप्रकाशः) आकाश उच्चै रविवत्प्रकाशते स्वतेजसा विश्वमिदं प्रकाशयन् ॥ 132॥
ज्ञाता मनोऽहंकृतिविक्रियाणां देहेंद्रियप्राणकृतक्रियाणाम् । अयोऽग्निवत्ताननुवर्तमानो न चेष्टते नो विकरोति किंचन ॥ 133॥
न जायते नो म्रियते न वर्धते न क्षीयते नो विकरोति नित्यः । विलीयमानेऽपि वपुष्यमुष्मि- न्न लीयते कुंभ इवांबरं स्वयम् ॥ 134॥
प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः सदसदिदमशेषं भासयन्निर्विशेषः । विलसति परमात्मा जाग्रदादिष्ववस्था- स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः ॥ 135॥
नियमितमनसामुं त्वं स्वमात्मानमात्म- न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् । जनिमरणतरंगापारसंसारसिंधुं प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥ 136॥
अत्रानात्मन्यहमिति मतिर्बंध एषोऽस्य पुंसः प्राप्तोऽज्ञानाज्जननमरणक्लेशसंपातहेतुः । येनैवायं वपुरिदमसत्सत्यमित्यात्मबुद्ध्या पुष्यत्युक्षत्यवति विषयैस्तंतुभिः कोशकृद्वत् ॥ 137॥
अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा । ततोऽनर्थव्रातो निपतति समादातुरधिकः ततो योऽसद्ग्राहः स हि भवति बंधः शऋणु सखे ॥ 138॥
अखंडनित्याद्वयबोधशक्त्या स्फुरंतमात्मानमनंतवैभवम् । समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवार्कबिंबम् ॥ 139॥
तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान् अनात्मानं मोहादहमिति शरीरं कलयति । ततः कामक्रोधप्रभृतिभिरमुं बंधनगुणैः (पाठभेदः - बंधकगुणैः) परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ॥ 140॥
महामोहग्राहग्रसनगलितात्मावगमनो धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया । (पाठभेदः - नानावस्थाः) अपारे संसारे विषयविषपूरे जलनिधौ निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः ॥ 141॥
भानुप्रभासंजनिताभ्रपंक्तिः भानुं तिरोधाय विजृंभते यथा । आत्मोदिताहंकृतिरात्मतत्त्वं तथा तिरोधाय विजृंभते स्वयम् ॥ 142॥
कवलितदिननाथे दुर्दिने सांद्रमेघैः व्यथयति हिमझंझावायुरुग्रो यथैतान् । अविरततमसाऽऽत्मन्यावृते मूढबुद्धिं क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ॥ 143॥
एताभ्यामेव शक्तिभ्यां बंधः पुंसः समागतः । याभ्यां विमोहितो देहं मत्वाऽऽत्मानं भ्रमत्ययम् ॥ 144॥
बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरंकुरो रागः पल्लवमंबु कर्म तु वपुः स्कंधोऽसवः शाखिकाः । अग्राणींद्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः ॥ 145॥
अज्ञानमूलोऽयमनात्मबंधो नैसर्गिकोऽनादिरनंत ईरितः । जन्माप्ययव्याधिजरादिदुःख- प्रवाहपातं जनयत्यमुष्य ॥ 146॥
नास्त्रैर्न शस्त्रैरनिलेन वह्निना छेत्तुं न शक्यो न च कर्मकोटिभिः । विवेकविज्ञानमहासिना विना धातुः प्रसादेन शितेन मंजुना ॥ 147॥
श्रुतिप्रमाणैकमतेः स्वधर्म निष्ठा तयैवात्मविशुद्धिरस्य । विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसारसमूलनाशः ॥ 148॥
कोशैरन्नमयाद्यैः पंचभिरात्मा न संवृतो भाति । निजशक्तिसमुत्पन्नैः शैवालपटलैरिवांबु वापीस्थम् ॥ 149॥
तच्छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् । तृष्णासंतापहरं सद्यः सौख्यप्रदं परं पुंसः ॥ 150॥
पंचानामपि कोशानामपवादे विभात्ययं शुद्धः । नित्यानंदैकरसः प्रत्यग्रूपः परः स्वयंज्योतिः ॥ 151॥
आत्मानात्मविवेकः कर्तव्यो बंधमुक्तये विदुषा । तेनैवानंदी भवति स्वं विज्ञाय सच्चिदानंदम् ॥ 152॥
मुंजादिषीकामिव दृश्यवर्गात् प्रत्यंचमात्मानमसंगमक्रियम् । विविच्य तत्र प्रविलाप्य सर्वं तदात्मना तिष्ठति यः स मुक्तः ॥ 153॥
देहोऽयमन्नभवनोऽन्नमयस्तु कोश- (पाठभेदः - कोशो) श्चान्नेन जीवति विनश्यति तद्विहीनः । (पाठभेदः - ह्यन्नेन) त्वक्चर्ममांसरुधिरास्थिपुरीषराशि- र्नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥ 154॥
पूर्वं जनेरधिमृतेरपि नायमस्ति (पाठभेदः - जनेरपिमृतेरथ) जातक्षणः क्षणगुणोऽनियतस्वभावः । नैको जडश्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति भावविकारवेत्ता ॥ 155॥
पाणिपादादिमांदेहो नात्मा व्यंगेऽपि जीवनात् । तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ॥ 156॥
देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः । सत एव स्वतःसिद्धं तद्वैलक्षण्यमात्मनः ॥ 157॥
शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकश्मलः । कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ॥ 158॥
त्वङ्मांसमेदोऽस्थिपुरीषराशा- वहम्मतिं मूढजनः करोति । विलक्षणं वेत्ति विचारशीलो निजस्वरूपं परमार्थभूतम् ॥ 159॥
देहोऽहमित्येव जडस्य बुद्धिः देहे च जीवे विदुषस्त्वहंधीः । विवेकविज्ञानवतो महात्मनो ब्रह्माहमित्येव मतिः सदात्मनि ॥ 160॥
अत्रात्मबुद्धिं त्यज मूढबुद्धे त्वङ्मांसमेदोऽस्थिपुरीषराशौ । सर्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शांतिं परमां भजस्व ॥ 161॥
देहेंद्रियादावसति भ्रमोदितां विद्वानहंतां न जहाति यावत् । तावन्न तस्यास्ति विमुक्तिवार्ता- प्यस्त्वेष वेदांतनयांतदर्शी ॥ 162॥
छायाशरीरे प्रतिबिंबगात्रे यत्स्वप्नदेहे हृदि कल्पितांगे । यथात्मबुद्धिस्तव नास्ति काचि- ज्जीवच्छरीरे च तथैव माऽस्तु ॥ 163॥
देहात्मधीरेव नृणामसद्धियां जन्मादिदुःखप्रभवस्य बीजम् । यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्ते तु चित्ते न पुनर्भवाशा ॥ 164॥
कर्मेंद्रियैः पंचभिरंचितोऽयं प्राणो भवेत्प्राणमयस्तु कोशः ॥
येनात्मवानन्नमयोऽनुपूर्णः प्रवर्ततेऽसौ सकलक्रियासु ॥ 165॥
नैवात्मापि प्राणमयो वायुविकारो (पाठभेदः - नैवात्मायं) गंताऽऽगंता वायुवदंतर्बहिरेषः । यस्मात्किंचित्क्वापि न वेत्तीष्टमनिष्टं स्वं वान्यं वा किंचन नित्यं परतंत्रः ॥ 166॥
ज्ञानेंद्रियाणि च मनश्च मनोमयः स्यात् कोशो ममाहमिति वस्तुविकल्पहेतुः । संज्ञादिभेदकलनाकलितो बलीयां- स्तत्पूर्वकोशमभिपूर्य विजृंभते यः ॥ 167॥ (पाठभेदः - अनुपूर्य) पंचेंद्रियैः पंचभिरेव होतृभिः प्रचीयमानो विषयाज्यधारया । जाज्वल्यमानो बहुवासनेंधनैः मनोमयाग्निर्दहति प्रपंचम् ॥ 168॥ (पाठभेदः - मनोमयोऽग्निर्दहति)
न ह्यस्त्यविद्या मनसोऽतिरिक्ता मनो ह्यविद्या भवबंधहेतुः । तस्मिन्विनष्टे सकलं विनष्टं विजृंभितेऽस्मिन्सकलं विजृंभते ॥ 169॥
स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या भोक्त्रादिविश्वं मन एव सर्वम् । तथैव जाग्रत्यपि नो विशेषः तत्सर्वमेतन्मनसो विजृंभणम् ॥ 170॥
सुषुप्तिकाले मनसि प्रलीने नैवास्ति किंचित्सकलप्रसिद्धेः । अतो मनःकल्पित एव पुंसः संसार एतस्य न वस्तुतोऽस्ति ॥ 171॥
वायुनाऽऽनीयते मेघः पुनस्तेनैव नीयते । (पाठभेदः - वायुना नीयते मेघः पुनस्तेनैव लीयते) मनसा कल्प्यते बंधो मोक्षस्तेनैव कल्प्यते ॥ 172॥
देहादिसर्वविषये परिकल्प्य रागं बध्नाति तेन पुरुषं पशुवद्गुणेन । वैरस्यमत्र विषवत् सुविधाय पश्चाद् एनं विमोचयति तन्मन एव बंधात् ॥ 173॥
तस्मान्मनः कारणमस्य जंतोः बंधस्य मोक्षस्य च वा विधाने । बंधस्य हेतुर्मलिनं रजोगुणैः मोक्षस्य शुद्धं विरजस्तमस्कम् ॥ 174॥
विवेकवैराग्यगुणातिरेका- च्छुद्धत्वमासाद्य मनो विमुक्त्यै । भवत्यतो बुद्धिमतो मुमुक्षो- स्ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥ 175॥
मनो नाम महाव्याघ्रो विषयारण्यभूमिषु । चरत्यत्र न गच्छंतु साधवो ये मुमुक्षवः ॥ 176॥
मनः प्रसूते विषयानशेषान् स्थूलात्मना सूक्ष्मतया च भोक्तुः । शरीरवर्णाश्रमजातिभेदान् गुणक्रियाहेतुफलानि नित्यम् ॥ 177॥
असंगचिद्रूपममुं विमोह्य देहेंद्रियप्राणगुणैर्निबद्ध्य । अहम्ममेति भ्रमयत्यजस्रं मनः स्वकृत्येषु फलोपभुक्तिषु ॥ 178॥
अध्यासदोषात्पुरुषस्य संसृतिः (पाठभेदः - अध्यासयोगात्) अध्यासबंधस्त्वमुनैव कल्पितः । रजस्तमोदोषवतोऽविवेकिनो जन्मादिदुःखस्य निदानमेतत् ॥ 179॥
अतः प्राहुर्मनोऽविद्यां पंडितास्तत्त्वदर्शिनः । येनैव भ्राम्यते विश्वं वायुनेवाभ्रमंडलम् ॥ 180॥
तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा । विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते ॥ 181॥
मोक्षैकसक्त्या विषयेषु रागं निर्मूल्य सन्न्यस्य च सर्वकर्म । सच्छ्रद्धया यः श्रवणादिनिष्ठो रजःस्वभावं स धुनोति बुद्धेः ॥ 182॥
मनोमयो नापि भवेत्परात्मा ह्याद्यंतवत्त्वात्परिणामिभावात् । दुःखात्मकत्वाद्विषयत्वहेतोः द्रष्टा हि दृश्यात्मतया न दृष्टः ॥ 183॥
बुद्धिर्बुद्धींद्रियैः सार्धं सवृत्तिः कर्तृलक्षणः । विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् ॥ 184॥
अनुव्रजच्चित्प्रतिबिंबशक्तिः विज्ञानसंज्ञः प्रकृतेर्विकारः । ज्ञानक्रियावानहमित्यजस्रं देहेंद्रियादिष्वभिमन्यते भृशम् ॥ 185॥
अनादिकालोऽयमहंस्वभावो जीवः समस्तव्यवहारवोढा । करोति कर्माण्यपि पूर्ववासनः (पाठभेदः - कर्माण्यनु) पुण्यान्यपुण्यानि च तत्फलानि ॥ 186॥
भुंक्ते विचित्रास्वपि योनिषु व्रज- न्नायाति निर्यात्यध ऊर्ध्वमेषः । अस्यैव विज्ञानमयस्य जाग्रत्- स्वप्नाद्यवस्थाः सुखदुःखभोगः ॥ 187॥
देहादिनिष्ठाश्रमधर्मकर्म- गुणाभिमानः सततं ममेति । विज्ञानकोशोऽयमतिप्रकाशः प्रकृष्टसान्निध्यवशात्परात्मनः । अतो भवत्येष उपाधिरस्य यदात्मधीः संसरति भ्रमेण ॥ 188॥
योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः । (पाठभेदः - स्फुरत्स्वयंज्योतिः) कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥ 189॥
स्वयं परिच्छेदमुपेत्य बुद्धेः तादात्म्यदोषेण परं मृषात्मनः । सर्वात्मकः सन्नपि वीक्षते स्वयं स्वतः पृथक्त्वेन मृदो घटानिव ॥ 190॥
उपाधिसंबंधवशात्परात्मा ह्युपाधिधर्माननुभाति तद्गुणः । (पाठभेदः - ऽप्युपाधि) अयोविकारानविकारिवह्निवत् सदैकरूपोऽपि परः स्वभावात् ॥ 191॥
शिष्य उवाच
भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः । तदुपाधेरनादित्वान्नानादेर्नाश इष्यते ॥ 192
अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः । न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ॥ 193॥
श्रीगुरुरुवाच
सम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु । प्रामाणिकी न भवति भ्रांत्या मोहितकल्पना ॥ 194
भ्रांतिं विना त्वसंगस्य निष्क्रियस्य निराकृतेः । न घटेतार्थसंबंधो नभसो नीलतादिवत् ॥ 195॥
स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य प्रत्यग्बोधानंदरूपस्य बुद्धेः । भ्रांत्या प्राप्तो जीवभावो न सत्यो मोहापाये नास्त्यवस्तुस्वभावात् ॥ 196॥
यावद्भ्रांतिस्तावदेवास्य सत्ता मिथ्याज्ञानोज्जृंभितस्य प्रमादात् । रज्ज्वां सर्पो भ्रांतिकालीन एव भ्रांतेर्नाशे नैव सर्पोऽपि तद्वत् ॥ 197॥ (पाठभेदः - सर्पोऽस्ति)
अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते । उत्पन्नायां तु विद्यायामाविद्यकमनाद्यपि ॥ 198॥
प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति । अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् ॥ 199॥
अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः । यद्बुद्ध्युपाधिसंबंधात्परिकल्पितमात्मनि ॥ 200॥
जीवत्वं न ततोऽन्यस्तु स्वरूपेण विलक्षणः । (पाठभेदः - ततोऽन्यत्तु) संबंधस्त्वात्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः ॥ 201॥ (पाठभेदः - संबंधः स्वात्मनो)
विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा । ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ॥ 202॥
तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति । ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः ॥ 203॥ (पाठभेदः - प्रत्यगात्मासदात्मनोः)
जलं पंकवदत्यंतं पंकापाये जलं स्फुटम् । (पाठभेदः - पंकवदस्पष्टं) यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ॥ 204॥
असन्निवृत्तौ तु सदात्मना स्फुटं प्रतीतिरेतस्य भवेत्प्रतीचः । ततो निरासः करणीय एव सदात्मनः साध्वहमादिवस्तुनः ॥ 205॥ (पाठभेदः - असदात्मनः)
अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् । विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः । दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते ॥ 206॥
आनंदप्रतिबिंबचुंबिततनुर्वृत्तिस्तमोजृंभिता स्यादानंदमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः । पुण्यस्यानुभवे विभाति कृतिनामानंदरूपः स्वयं सर्वो नंदति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥ 207॥ (पाठभेदः - भूत्वा नंदति)
आनंदमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा । स्वप्नजागरयोरीषदिष्टसंदर्शनादिना ॥ 208॥
नैवायमानंदमयः परात्मा सोपाधिकत्वात्प्रकृतेर्विकारात् । कार्यत्वहेतोः सुकृतक्रियाया विकारसंघातसमाहितत्वात् ॥ 209॥
पंचानामपि कोशानां निषेधे युक्तितः श्रुतेः । (पाठभेदः - युक्तितः कृते) तन्निषेधावधि साक्षी बोधरूपोऽवशिष्यते ॥ 210॥ (पाठभेदः - तन्निषेधावधिः)
योऽयमात्मा स्वयंज्योतिः पंचकोशविलक्षणः । अवस्थात्रयसाक्षी सन्निर्विकारो निरंजनः । सदानंदः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ 211॥
शिष्य उवाच
मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पंचसु । सर्वाभावं विना किंचिन्न पश्याम्यत्र हे गुरो । विज्ञेयं किमु वस्त्वस्ति स्वात्मनाऽऽत्मविपश्चिता ॥ 212॥ (पाठभेदः - स्वात्मनात्र विपश्चिता)
श्रीगुरुरुवाच
सत्यमुक्तं त्वया विद्वन्निपुणोऽसि विचारणे । अहमादिविकारास्ते तदभावोऽयमप्यनु ॥ 213॥ (पाठभेदः - ऽयमप्यथ)
सर्वे येनानुभूयंते यः स्वयं नानुभूयते । तमात्मानं वेदितारं विद्धि बुद्ध्या सुसूक्ष्मया ॥ 214॥
तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते । कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते ॥ 215॥ (पाठभेदः - नोपपद्यते)
असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते । अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः ॥ 216॥
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृंभते प्रत्यग्रूपतया सदाहमहमित्यंतः स्फुरन्नैकधा । (पाठभेदः - स्फुरन्नेकधा) नानाकारविकारभागिन इमान् पश्यन्नहंधीमुखान् (पाठभेदः - भाजिन) नित्यानंदचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥ 217॥
घटोदके बिंबितमर्कबिंब- मालोक्य मूढो रविमेव मन्यते । तथा चिदाभासमुपाधिसंस्थं भ्रांत्याहमित्येव जडोऽभिमन्यते ॥ 218॥
घटं जलं तद्गतमर्कबिंबं विहाय सर्वं विनिरीक्ष्यतेऽर्कः । (पाठभेदः - दिवि वीक्ष्यतेऽर्कः) तटस्थ एतत्त्रितयावभासकः (पाठभेदः - तटस्थितः तत्त्रि) स्वयंप्रकाशो विदुषा यथा तथा ॥ 219॥
देहं धियं चित्प्रतिबिंबमेवं (पाठभेदः - चित्प्रतिबिंबमेतं) विसृज्य बुद्धौ निहितं गुहायाम् । द्रष्टारमात्मानमखंडबोधं सर्वप्रकाशं सदसद्विलक्षणम् ॥ 220॥
नित्यं विभुं सर्वगतं सुसूक्ष्मं अंतर्बहिःशून्यमनन्यमात्मनः । विज्ञाय सम्यङ्निजरूपमेतत् पुमान् विपाप्मा विरजो विमृत्युः ॥ 221॥
विशोक आनंदघनो विपश्चित् स्वयं कुतश्चिन्न बिभेति कश्चित् । नान्योऽस्ति पंथा भवबंधमुक्तेः विना स्वतत्त्वावगमं मुमुक्षोः ॥ 222॥
ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् । येनाद्वितीयमानंदं ब्रह्म संपद्यते बुधैः ॥ 223॥ (पाठभेदः - संपद्यते बुधः)
ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः । विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वमात्मनः ॥ 224॥
सत्यं ज्ञानमनंतं ब्रह्म विशुद्धं परं स्वतःसिद्धम् । नित्यानंदैकरसं प्रत्यगभिन्नं निरंतरं जयति ॥ 225॥
सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् । न ह्यन्यदस्ति किंचित् सम्यक् परमार्थतत्त्वबोधदशायाम् ॥ 226॥ (पाठभेदः - परतत्त्वबोधसुदशायाम्)
यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् । तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥ 227॥
मृत्कार्यभूतोऽपि मृदो न भिन्नः कुंभोऽस्ति सर्वत्र तु मृत्स्वरूपात् । न कुंभरूपं पृथगस्ति कुंभः कुतो मृषा कल्पितनाममात्रः ॥ 228॥
केनापि मृद्भिन्नतया स्वरूपं घटस्य संदर्शयितुं न शक्यते । अतो घटः कल्पित एव मोहा- न्मृदेव सत्यं परमार्थभूतम् ॥ 229॥
सद्ब्रह्मकार्यं सकलं सदेवं (पाठभेदः - सदैव) तन्मात्रमेतन्न ततोऽन्यदस्ति । (पाठभेदः - सन्मात्रमेतन्न) अस्तीति यो वक्ति न तस्य मोहो विनिर्गतो निद्रितवत्प्रजल्पः ॥ 230॥
ब्रह्मैवेदं विश्वमित्येव वाणी श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा । तस्मादेतद्ब्रह्ममात्रं हि विश्वं नाधिष्ठानाद्भिन्नताऽऽरोपितस्य ॥ 231॥
सत्यं यदि स्याज्जगदेतदात्मनोऽ नंतत्त्वहानिर्निगमाप्रमाणता । असत्यवादित्वमपीशितुः स्या- न्नैतत्त्रयं साधु हितं महात्मनाम् ॥ 232॥
ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानीत्येवमेव व्यचीक्लृपत् ॥ 233॥ (पाठभेदः - व्यचीकथत्)
यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् । यन्नोपलभ्यते किंचिदतोऽसत्स्वप्नवन्मृषा ॥ 234॥
अतः पृथङ्नास्ति जगत्परात्मनः पृथक्प्रतीतिस्तु मृषा गुणादिवत् । गुणाहिवत् आरोपितस्यास्ति किमर्थवत्ताऽ- धिष्ठानमाभाति तथा भ्रमेण ॥ 235॥
भ्रांतस्य यद्यद्भ्रमतः प्रतीतं ब्रह्मैव तत्तद्रजतं हि शुक्तिः । इदंतया ब्रह्म सदैव रूप्यते (पाठभेदः - सदेव) त्वारोपितं ब्रह्मणि नाममात्रम् ॥ 236॥
अतः परं ब्रह्म सदद्वितीयं विशुद्धविज्ञानघनं निरंजनम् । प्रशांतमाद्यंतविहीनमक्रियं निरंतरानंदरसस्वरूपम् ॥ 237॥
निरस्तमायाकृतसर्वभेदं नित्यं सुखं निष्कलमप्रमेयम् । (पाठभेदः - नित्यं ध्रुवं) अरूपमव्यक्तमनाख्यमव्ययं ज्योतिः स्वयं किंचिदिदं चकास्ति ॥ 238॥
ज्ञातृज्ञेयज्ञानशून्यमनंतं निर्विकल्पकम् । केवलाखंडचिन्मात्रं परं तत्त्वं विदुर्बुधाः ॥ 239॥
अहेयमनुपादेयं मनोवाचामगोचरम् । अप्रमेयमनाद्यंतं ब्रह्म पूर्णमहं महः ॥ 240॥ (पाठभेदः - पूर्णं महन्महः)
तत्त्वंपदाभ्यामभिधीयमानयोः ब्रह्मात्मनोः शोधितयोर्यदीत्थम् । (पाठभेदः - शोधितयोर्यदित्थम्) श्रुत्या तयोस्तत्त्वमसीति सम्यग् एकत्वमेव प्रतिपाद्यते मुहुः ॥ 241-
एक्यं तयोर्लक्षितयोर्न वाच्ययोः निगद्यतेऽन्योन्यविरुद्धधर्मिणोः । खद्योतभान्वोरिव राजभृत्ययोः कूपांबुराश्योः परमाणुमेर्वोः ॥ 242॥
तयोर्विरोधोऽयमुपाधिकल्पितो न वास्तवः कश्चिदुपाधिरेषः । ईशस्य माया महदादिकारणं जीवस्य कार्यं शऋणु पंचकोशम् ॥ 243॥ (पाठभेदः - पंचकोशाः)
एतावुपाधी परजीवयोस्तयोः सम्यङ्निरासे न परो न जीवः । राज्यं नरेंद्रस्य भटस्य खेटक्- स्तयोरपोहे न भटो न राजा ॥ 244॥
अथात आदेश इति श्रुतिः स्वयं निषेधति ब्रह्मणि कल्पितं द्वयम् । श्रुतिप्रमाणानुगृहीतबोधा- (पाठभेदः - प्रमाणानुगृहीतयुक्त्या) त्तयोर्निरासः करणीय एव ॥ 245॥
नेदं नेदं कल्पितत्वान्न सत्यं रज्जुदृष्टव्यालवत्स्वप्नवच्च । (पाठभेदः - रज्जौ) इत्थं दृश्यं साधुयुक्त्या व्यपोह्य ज्ञेयः पश्चादेकभावस्तयोर्यः ॥ 246॥
ततस्तु तौ लक्षणया सुलक्ष्यौ तयोरखंडैकरसत्वसिद्धये । नालं जहत्या न तथाऽजहत्या किंतूभयार्थात्मिकयैव भाव्यम् ॥ 247॥ (पाठभेदः - भयार्थैकतयैव)
स देवदत्तोऽयमितीह चैकता विरुद्धधर्मांशमपास्य कथ्यते । यथा तथा तत्त्वमसीतिवाक्ये विरुद्धधर्मानुभयत्र हित्वा ॥ 248॥
संलक्ष्य चिन्मात्रतया सदात्मनोः अखंडभावः परिचीयते बुधैः । एवं महावाक्यशतेन कथ्यते ब्रह्मात्मनोरैक्यमखंडभावः ॥ 249॥
अस्थूलमित्येतदसन्निरस्य सिद्धं स्वतो व्योमवदप्रतर्क्यम् । अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् । ब्रह्माहमित्येव विशुद्धबुद्ध्या विद्धि स्वमात्मानमखंडबोधम् ॥ 250॥
मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं (पाठभेदः - मृन्मात्रमेवाभितः) तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् । यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं तस्मात्तत्त्वमसि प्रशांतममलं ब्रह्माद्वयं यत्परम् ॥ 251॥
निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः । यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत् तस्मात्तत्त्वमसि प्रशांतममलं ब्रह्माद्वयं यत्परम् ॥ 252॥
यत्र भ्रांत्या कल्पितं तद्विवेके (पाठभेदः - यद्विवेके) तत्तन्मात्रं नैव तस्माद्विभिन्नम् । स्वप्ने नष्टं स्वप्नविश्वं विचित्रं स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे ॥ 253॥
जातिनीतिकुलगोत्रदूरगं नामरूपगुणदोषवर्जितम् । देशकालविषयातिवर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ 254॥
यत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः । शुद्धचिद्घनमनादि वस्तु यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ 255॥
षड्भिरूर्मिभिरयोगि योगिहृद्- भावितं न करणैर्विभावितम् । बुद्ध्यवेद्यमनवद्यमस्ति यद् (पाठभेदः - भूति यद्) ब्रह्म तत्त्वमसि भावयात्मनि ॥ 256॥
भ्रांतिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् । निष्कलं निरुपमानवद्धि यद् (पाठभेदः - निरुपमानमृद्धिमत्) ब्रह्म तत्त्वमसि भावयात्मनि ॥ 257॥
जन्मवृद्धिपरिणत्यपक्षय- व्याधिनाशनविहीनमव्ययम् । विश्वसृष्ट्यवविघातकारणं (पाठभेदः - वनघातकारणं) ब्रह्म तत्त्वमसि भावयात्मनि ॥ 258॥
अस्तभेदमनपास्तलक्षणं निस्तरंगजलराशिनिश्चलम् । नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ 259॥
एकमेव सदनेककारणं कारणांतरनिरास्यकारणम् । (पाठभेदः - सकारणम्) कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ॥ 260॥
निर्विकल्पकमनल्पमक्षरं यत्क्षराक्षरविलक्षणं परम् । नित्यमव्ययसुखं निरंजनं ब्रह्म तत्त्वमसि भावयात्मनि ॥ 261॥
यद्विभाति सदनेकधा भ्रमा- न्नामरूपगुणविक्रियात्मना । हेमवत्स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥ 262॥
यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम् । सत्यचित्सुखमनंतमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि ॥ 263॥
उक्तमर्थमिममात्मनि स्वयं भावयेत्प्रथितयुक्तिभिर्धिया । (पाठभेदः - भावय प्रथित) संशयादिरहितं करांबुवत् तेन तत्त्वनिगमो भविष्यति ॥ 264॥
संबोधमात्रं परिशुद्धतत्त्वं (पाठभेदः - स्वं बोधमात्रं) विज्ञाय संघे नृपवच्च सैन्ये । तदाश्रयः स्वात्मनि सर्वदा स्थितो (पाठभेदः - तदात्मनैवात्मनि) विलापय ब्रह्मणि विश्वजातम् ॥ 265॥ (पाठभेदः - दृश्यजातम्)
बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् । तदात्मना योऽत्र वसेद्गुहायां पुनर्न तस्यांगगुहाप्रवेशः ॥ 266॥
ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः । प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्ना- न्मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥ 267॥
अहं ममेति यो भावो देहाक्षादावनात्मनि । अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥ 268॥
ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् । सोऽहमित्येव सद्वृत्त्याऽनात्मन्यात्ममतिं जहि ॥ 269॥
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ 270॥
लोकवासनया जंतोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥ 271
संसारकारागृहमोक्षमिच्छो- रयोमयं पादनिबंधशऋंखलम् । (पाठभेदः - निबद्ध) वदंति तज्ज्ञाः पटु वासनात्रयं योऽस्माद्विमुक्तः समुपैति मुक्तिम् ॥ 272॥
जलादिसंसर्गवशात्प्रभूत- (पाठभेदः - जलादिसंपर्कवशात्) दुर्गंधधूताऽगरुदिव्यवासना । संघर्षणेनैव विभाति सम्य- ग्विधूयमाने सति बाह्यगंधे ॥ 273॥
अंतःश्रितानंतदुरंतवासना- धूलीविलिप्ता परमात्मवासना । प्रज्ञातिसंघर्षणतो विशुद्धा प्रतीयते चंदनगंधवत् स्फुटम् ॥ 274॥ (पाठभेदः - स्फुटा)
अनात्मवासनाजालैस्तिरोभूतात्मवासना । नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम् ॥ 275॥ (पाठभेदः - स्फुटा)
यथा यथा प्रत्यगवस्थितं मनः तथा तथा मुंचति बाह्यवासनाम् । (पाठभेदः - बाह्यवासनाः) निःशेषमोक्षे सति वासनानां आत्मानुभूतिः प्रतिबंधशून्या ॥ 276॥
स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः । (पाठभेदः - स्थित्या) वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥ 277॥
तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति । तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ॥ 278॥
प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः । धैर्यमालंब्य यत्नेन स्वाध्यासापनयं कुरु ॥ 279॥
नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् । वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥ 280॥
श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः । क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ॥ 281॥
अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः । (पाठभेदः - अन्नादानविसर्गा) तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥ 282॥
तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः । ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥ 283॥
अहंभावस्य देहेऽस्मिन्निःशेषविलयावधि । सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥ 284॥
प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता । तावन्निरंतरं विद्वन्स्वाध्यासापनयं कुरु ॥ 285॥
निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः । क्वचिन्नावसरं दत्त्वा चिंतयात्मानमात्मनि ॥ 286॥
मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः । त्यक्त्वा चांडालवद्दूरं ब्रह्मीभूय कृती भव ॥ 287॥
घटाकाशं महाकाश इवात्मानं परात्मनि । विलाप्याखंडभावेन तूष्णी भव सदा मुने ॥ 288॥ (पाठभेदः - तूष्णीं)
स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना । ब्रह्मांडमपि पिंडांडं त्यज्यतां मलभांडवत् ॥ 289॥
चिदात्मनि सदानंदे देहारूढामहंधियम् । निवेश्य लिंगमुत्सृज्य केवलो भव सर्वदा ॥ 290॥
यत्रैष जगदाभासो दर्पणांतः पुरं यथा । तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ 291॥
यत्सत्यभूतं निजरूपमाद्यं चिदद्वयानंदमरूपमक्रियम् । तदेत्य मिथ्यावपुरुत्सृजेत (पाठभेदः - सृजैत) शैलूषवद्वेषमुपात्तमात्मनः ॥ 292॥
सर्वात्मना दृश्यमिदं मृषैव नैवाहमर्थः क्षणिकत्वदर्शनात् । जानाम्यहं सर्वमिति प्रतीतिः कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥ 293॥
अहंपदार्थस्त्वहमादिसाक्षी नित्यं सुषुप्तावपि भावदर्शनात् । ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं तत्प्रत्यगात्मा सदसद्विलक्षणः ॥ 294॥
विकारिणां सर्वविकारवेत्ता नित्याविकारो भवितुं समर्हति । (पाठभेदः - नित्योऽविकारो) मनोरथस्वप्नसुषुप्तिषु स्फुटं पुनः पुनर्दृष्टमसत्त्वमेतयोः ॥ 295॥
अतोऽभिमानं त्यज मांसपिंडे पिंडाभिमानिन्यपि बुद्धिकल्पिते । कालत्रयाबाध्यमखंडबोधं ज्ञात्वा स्वमात्मानमुपैहि शांतिम् ॥ 296॥
त्यजाभिमानं कुलगोत्रनाम- रूपाश्रमेष्वार्द्रशवाश्रितेषु । लिंगस्य धर्मानपि कर्तृतादीं- स्त्यक्त्वा भवाखंडसुखस्वरूपः ॥ 297॥
संत्यन्ये प्रतिबंधाः पुंसः संसारहेतवो दृष्टाः । तेषामेवं मूलं प्रथमविकारो भवत्यहंकारः ॥ 298॥ (पाठभेदः - तेषामेषां)
यावत्स्यात्स्वस्य संबंधोऽहंकारेण दुरात्मना । तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥ 299॥
अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते । चंद्रवद्विमलः पूर्णः सदानंदः स्वयंप्रभः ॥ 300॥
यो वा पुरे सोऽहमिति प्रतीतो (पाठभेदः - पुरैषोऽहमिति) बुद्ध्या प्रक्लृप्तस्तमसाऽतिमूढया । (पाठभेदः - बुद्ध्याऽविविक्तस्तमसा) तस्यैव निःशेषतया विनाशे ब्रह्मात्मभावः प्रतिबंधशून्यः ॥ 301॥
ब्रह्मानंदनिधिर्महाबलवताऽहंकारघोराहिना संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चंडेस्त्रिभिर्मस्तकैः (पाठभेदः - चंडै) विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं (पाठभेदः - द्युतिमता) निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुंक्षमः ॥ 302॥
यावद्वा यत्किंचिद्विषदोषस्फूर्तिरस्ति चेद्देहे । कथमारोग्याय भवेत्तद्वदहंतापि योगिनो मुक्त्यै ॥ 303॥
अहमोऽत्यंतनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या । प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विंदते तत्त्वम् ॥ 304॥ (पाठभेदः - विवेकादयम्)
अहंकारे कर्तर्यहमिति मतिं मुंच सहसा (पाठभेदः - अहंकर्तर्यस्मिन्नहमिति) विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि । यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् ॥ 305॥
सदैकरूपस्य चिदात्मनो विभो- रानंदमूर्तेरनवद्यकीर्तेः । नैवान्यथा क्वाप्यविकारिणस्ते विनाहमध्यासममुष्य संसृतिः ॥ 306॥
तस्मादहंकारमिमं स्वशत्रुं भोक्तुर्गले कंटकवत्प्रतीतम् । विच्छिद्य विज्ञानमहासिना स्फुटं भुंक्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥ 307॥
ततोऽहमादेर्विनिवर्त्य वृत्तिं संत्यक्तरागः परमार्थलाभात् । तूष्णीं समास्स्वात्मसुखानुभूत्या पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥ 308॥
समूलकृत्तोऽपि महानहं पुनः व्युल्लेखितः स्याद्यदि चेतसा क्षणम् । संजीव्य विक्षेपशतं करोति नभस्वता प्रावृषि वारिदो यथा ॥ 309॥
निगृह्य शत्रोरहमोऽवकाशः क्वचिन्न देयो विषयानुचिंतया । स एव संजीवनहेतुरस्य प्रक्षीणजंबीरतरोरिवांबु ॥ 310॥
देहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात् । अतोऽर्थसंधानपरत्वमेव भेदप्रसक्त्या भवबंधहेतुः ॥ 311॥
कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते । कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् ॥ 312॥
वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना । वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥ 313॥
संसारबंधविच्छित्त्यै तद् द्वयं प्रदहेद्यतिः । वासनावृद्धिरेताभ्यां चिंतया क्रियया बहिः ॥ 314॥ (पाठभेदः - वासना प्रेर्यते ह्यंतः)
ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः । त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा ॥ 315॥
सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः । (पाठभेदः - मात्रावलोकनम्) सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते ॥ 316॥
क्रियानाशे भवेच्चिंतानाशोऽस्माद्वासनाक्षयः । वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥ 317॥ (पाठभेदः - स)
सद्वासनास्फूर्तिविजृंभणे सति ह्यसौ विलीनाप्यहमादिवासना । (पाठभेदः - विलीना त्वहमादिवासना) अतिप्रकृष्टाप्यरुणप्रभायां विलीयते साधु यथा तमिस्रा ॥ 318॥
तमस्तमःकार्यमनर्थजालं न दृश्यते सत्युदिते दिनेशे । तथाऽद्वयानंदरसानुभूतौ नैवास्ति बंधो न च दुःखगंधः ॥ 319॥
दृश्यं प्रतीतं प्रविलापयन्सन् (पाठभेदः - प्रविलापयन्स्वयं) सन्मात्रमानंदघनं विभावयन् । समाहितः सन्बहिरंतरं वा कालं नयेथाः सति कर्मबंधे ॥ 320॥
प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन । प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः ॥ 321॥
न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः । ततो मोहस्ततोऽहंधीस्ततो बंधस्ततो व्यथा ॥ 322॥
विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः । विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् ॥ 323॥
यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥ 324॥
लक्ष्यच्युतं चेद्यदि चित्तमीषद् बहिर्मुखं सन्निपतेत्ततस्ततः । प्रमादतः प्रच्युतकेलिकंदुकः सोपानपंक्तौ पतितो यथा तथा ॥ 325॥
विषयेष्वाविशच्चेतः संकल्पयति तद्गुणान् । सम्यक्संकल्पनात्कामः कामात्पुंसः प्रवर्तनम् ॥ 326॥
अतः प्रमादान्न परोऽस्ति मृत्युः विवेकिनो ब्रह्मविदः समाधौ । समाहितः सिद्धिमुपैति सम्यक् समाहितात्मा भव सावधानः ॥ 327॥
ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः । पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते ॥ 328॥
संकल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् । अपथ्यानि हि वस्तूनि व्याधिग्रस्तो यथोत्सृजे । जीवतो यस्य कैवल्यं विदेहे स च केवलः । यत्किंचित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः ॥ 329॥
यदा कदा वापि विपश्चिदेष ब्रह्मण्यनंतेऽप्यणुमात्रभेदम् । पश्यत्यथामुष्य भयं तदैव यद्वीक्षितं भिन्नतया प्रमादात् ॥ 330॥ (पाठभेदः - यदीक्षितं)
श्रुतिस्मृतिन्यायशतैर्निषिद्धे दृश्येऽत्र यः स्वात्ममतिं करोति । उपैति दुःखोपरि दुःखजातं निषिद्धकर्ता स मलिम्लुचो यथा ॥ 331॥
सत्याभिसंधानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् । मिथ्याभिसंधानरतस्तु नश्येद् दृष्टं तदेतद्यदचौरचौरयोः ॥ 332॥ (पाठभेदः - चोरचोरयोः)
यतिरसदनुसंधिं बंधहेतुं विहाय स्वयमयमहमस्मीत्यात्मदृष्ट्यैव तिष्ठेत् सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या हरति परमविद्याकार्यदुःखं प्रतीतम् ॥ 333॥
बाह्यानुसंधिः परिवर्धयेत्फलं (पाठभेदः - बाह्याभिसंधिः) दुर्वासनामेव ततस्ततोऽधिकाम् । ज्ञात्वा विवेकैः परिहृत्य बाह्यं स्वात्मानुसंधिं विदधीत नित्यम् ॥ 334॥
बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् । तस्मिन्सुदृष्टे भवबंधनाशो बहिर्निरोधः पदवी विमुक्तेः ॥ 335॥
कः पंडितः सन्सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी । जानन्हि कुर्यादसतोऽवलंबं स्वपातहेतोः शिशुवन्मुमुक्षुः ॥ 336॥
देहादिसंसक्तिमतो न मुक्तिः मुक्तस्य देहाद्यभिमत्यभावः । सुप्तस्य नो जागरणं न जाग्रतः स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् ॥ 337॥
अंतर्बहिः स्वं स्थिरजंगमेषु ज्ञात्वाऽऽत्मनाधारतया विलोक्य । (पाठभेदः - ज्ञानात्मन्) त्यक्ताखिलोपाधिरखंडरूपः पूर्णात्मना यः स्थित एष मुक्तः ॥ 338॥
सर्वात्मना बंधविमुक्तिहेतुः सर्वात्मभावान्न परोऽस्ति कश्चित् । दृश्याग्रहे सत्युपपद्यतेऽसौ सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥ 339॥
दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः । सन्न्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः तत्त्वज्ञैः करणीयमात्मनि सदानंदेच्छुभिर्यत्नतः ॥ 340॥
सर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः । (पाठभेदः - सार्वात्म्य) समाधिं विदधात्येषा शांतो दांत इति श्रुतिः ॥ 341॥
आरूढशक्तेरहमो विनाशः कर्तुन्न शक्य सहसापि पंडितैः । (पाठभेदः - कर्तुं न) ये निर्विकल्पाख्यसमाधिनिश्चलाः तानंतराऽनंतभवा हि वासनाः ॥ 342॥
अहंबुद्ध्यैव मोहिन्या योजयित्वाऽऽवृतेर्बलात् । विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥ 343॥
विक्षेपशक्तिविजयो विषमो विधातुं निःशेषमावरणशक्तिनिवृत्त्यभावे । दृग्दृश्ययोः स्फुटपयोजलवद्विभागे नश्येत्तदावरणमात्मनि च स्वभावात् । निःसंशयेन भवति प्रतिबंधशून्यो विक्षेपणं न हि तदा यदि चेन्मृषार्थे ॥ 344॥ (पाठभेदः - निक्षेपणं)
सम्यग्विवेकः स्फुटबोधजन्यो विभज्य दृग्दृश्यपदार्थतत्त्वम् । छिनत्ति मायाकृतमोहबंधं यस्माद्विमुक्तस्तु पुनर्न संसृतिः ॥ 345॥ (पाठभेदः - विमुक्तस्य)
परावरैकत्वविवेकवह्निः दहत्यविद्यागहनं ह्यशेषम् । किं स्यात्पुनः संसरणस्य बीजं अद्वैतभावं समुपेयुषोऽस्य ॥ 346॥
आवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः । मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः ॥ 347॥
एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् । तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बंधमुक्तये विदुषा ॥ 348॥
अयोऽग्नियोगादिव सत्समन्वयान् मात्रादिरूपेण विजृंभते धीः । तत्कार्यमेतद्द्वितयं यतो मृषा (पाठभेदः - तत्कार्यमेव त्रितयं) दृष्टं भ्रमस्वप्नमनोरथेषु ॥ 349॥
ततो विकाराः प्रकृतेरहम्मुखा देहावसाना विषयाश्च सर्वे । क्षणेऽन्यथाभावितया ह्यमीषा- (पाठभेदः - भाविन एष आत्मा) मसत्त्वमात्मा तु कदापि नान्यथा ॥ 350॥ (पाठभेदः - मसत्त्वमात्मा तु कदापि)
नित्याद्वयाखंडचिदेकरूपो बुद्ध्यादिसाक्षी सदसद्विलक्षणः । अहंपदप्रत्ययलक्षितार्थः प्रत्यक् सदानंदघनः परात्मा ॥ 351॥
इत्थं विपश्चित्सदसद्विभज्य निश्चित्य तत्त्वं निजबोधदृष्ट्या । ज्ञात्वा स्वमात्मानमखंडबोधं तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥ 352॥
अज्ञानहृदयग्रंथेर्निःशेषविलयस्तदा । समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम् ॥ 353॥
त्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्यद्वये निर्विशेषे । प्रविलसति समाधावस्य सर्वो विकल्पो विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या ॥ 354॥
शांतो दांतः परमुपरतः क्षांतियुक्तः समाधिं कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् । तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान् ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥ 355॥
समाहिता ये प्रविलाप्य बाह्यं श्रोत्रादि चेतः स्वमहं चिदात्मनि । त एव मुक्ता भवपाशबंधैः नान्ये तु पारोक्ष्यकथाभिधायिनः ॥ 356॥
उपाधिभेदात्स्वयमेव भिद्यते (पाठभेदः - योगात्स्वयमेव) चोपाध्यपोहे स्वयमेव केवलः । तस्मादुपाधेर्विलयाय विद्वान् वसेत्सदाऽकल्पसमाधिनिष्ठया ॥ 357॥
सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया । कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ॥ 358॥
क्रियांतरासक्तिमपास्य कीटको ध्यायन्नलित्वं ह्यलिभावमृच्छति । (पाठभेदः - ध्यायन्यथालिं) तथैव योगी परमात्मतत्त्वं ध्यात्वा समायाति तदेकनिष्ठया ॥ 359॥
अतीव सूक्ष्मं परमात्मतत्त्वं न स्थूलदृष्ट्या प्रतिपत्तुमर्हति । समाधिनात्यंतसुसूक्ष्मवृत्त्या ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः ॥ 360॥
यथा सुवर्णं पुटपाकशोधितं त्यक्त्वा मलं स्वात्मगुणं समृच्छति । तथा मनः सत्त्वरजस्तमोमलं ध्यानेन संत्यज्य समेति तत्त्वम् ॥ 361॥
निरंतराभ्यासवशात्तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा । तदा समाधिः सविकल्पवर्जितः (पाठभेदः - स विकल्पवर्जितः) स्वतोऽद्वयानंदरसानुभावकः ॥ 362॥
समाधिनाऽनेन समस्तवासना- ग्रंथेर्विनाशोऽखिलकर्मनाशः । अंतर्बहिः सर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात् ॥ 363॥
श्रुतेः शतगुणं विद्यान्मननं मननादपि । निदिध्यासं लक्षगुणमनंतं निर्विकल्पकम् ॥ 364॥
निर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययांतरविमिश्रितं भवेत् ॥ 365॥
अतः समाधत्स्व यतेंद्रियः सन् निरंतरं शांतमनाः प्रतीचि । विध्वंसय ध्वांतमनाद्यविद्यया कृतं सदेकत्वविलोकनेन ॥ 366॥
योगस्य प्रथमद्वारं वाङ्निरोधोऽपरिग्रहः । (पाठभेदः - प्रथमं द्वारं) निराशा च निरीहा च नित्यमेकांतशीलता ॥ 367॥
एकांतस्थितिरिंद्रियोपरमणे हेतुर्दमश्चेतसः संरोधे करणं शमेन विलयं यायादहंवासना । तेनानंदरसानुभूतिरचला ब्राह्मी सदा योगिनः तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः ॥ 368॥ प्रयत्नान्मुनेः वाचं नियच्छात्मनि तं नियच्छ बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि । तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शांतिं परमां भजस्व ॥ 369॥
देहप्राणेंद्रियमनोबुद्ध्यादिभिरुपाधिभिः । यैर्यैर्वृत्तेःसमायोगस्तत्तद्भावोऽस्य योगिनः ॥ 370॥
तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् । संदृश्यते सदानंदरसानुभवविप्लवः ॥ 371॥
अंतस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते । त्यजत्यंतर्बहिःसंगं विरक्तस्तु मुमुक्षया ॥ 372॥
बहिस्तु विषयैः संगं तथांतरहमादिभिः । (पाठभेदः - संगः) विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ॥ 373॥
वैराग्यबोधौ पुरुषस्य पक्षिवत् पक्षौ विजानीहि विचक्षण त्वम् । विमुक्तिसौधाग्रलताधिरोहणं ताभ्यां विना नान्यतरेण सिध्यति ॥ 374॥
अत्यंतवैराग्यवतः समाधिः समाहितस्यैव दृढप्रबोधः । प्रबुद्धतत्त्वस्य हि बंधमुक्तिः मुक्तात्मनो नित्यसुखानुभूतिः ॥ 375॥
वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् । एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ॥ 376॥
आशां छिंद्धि विषोपमेषु विषयेष्वेषैव मृत्योः कृति- (पाठभेदः - मृत्योः सृति) स्त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुंचातिदूरात्क्रियाः । देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि त्वं द्रष्टास्यमनोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः ॥ 377॥ (पाठभेदः - द्रष्टास्यमलो)
लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येंद्रियं स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् । ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखंडवृत्त्याऽनिशं ब्रह्मानंदरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भृशम् ॥ 378॥ (पाठभेदः - किमन्यैर्भ्रमैः)
अनात्मचिंतनं त्यक्त्वा कश्मलं दुःखकारणम् । चिंतयात्मानमानंदरूपं यन्मुक्तिकारणम् ॥ 379॥
एष स्वयंज्योतिरशेषसाक्षी विज्ञानकोशो विलसत्यजस्रम् । विज्ञानकोशे लक्ष्यं विधायैनमसद्विलक्षण- मखंडवृत्त्याऽऽत्मतयाऽनुभावय ॥ 380॥
एतमच्छिन्नया वृत्त्या प्रत्ययांतरशून्यया । उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् ॥ 381॥
अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् । उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत् ॥ 382॥ (पाठभेदः - तिष्ठेद्घटपटादिवत्)
विशुद्धमंतःकरणं स्वरूपे निवेश्य साक्षिण्यवबोधमात्रे । शनैः शनैर्निश्चलतामुपानयन् पूर्णं स्वमेवानुविलोकयेत्ततः ॥ 383॥ (पाठभेदः - पूर्णत्वमेवानु)
देहेंद्रियप्राणमनोऽहमादिभिः स्वाज्ञानक्लृप्तैरखिलैरुपाधिभिः । विमुक्तमात्मानमखंडरूपं पूर्णं महाकाशमिवावलोकयेत् ॥ 384॥
घटकलशकुसूलसूचिमुख्यैः गगनमुपाधिशतैर्विमुक्तमेकम् । भवति न विविधं तथैव शुद्धं परमहमादिविमुक्तमेकमेव ॥ 385॥
ब्रह्मादिस्तंबपर्यंता मृषामात्रा उपाधयः । (पाठभेदः - ब्रह्माद्याः स्तंब) ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥ 386॥
यत्र भ्रांत्या कल्पितं तद्विवेके (पाठभेदः - यद्विवेके) तत्तन्मात्रं नैव तस्माद्विभिन्नम् । भ्रांतेर्नाशे भाति दृष्टाहितत्त्वं (पाठभेदः - भ्रांतिदृष्टा) रज्जुस्तद्वद्विश्वमात्मस्वरूपम् ॥ 387॥
स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिंद्रः स्वयं शिवः । स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किंचन ॥ 388॥
अंतः स्वयं चापि बहिः स्वयं च स्वयं पुरस्तात् स्वयमेव पश्चात् । स्वयं ह्यावाच्यां स्वयमप्युदीच्यां (पाठभेदः - ह्यवाच्यां) तथोपरिष्टात्स्वयमप्यधस्तात् ॥ 389॥
तरंगफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जलं यथा तथा । चिदेव देहाद्यहमंतमेतत् सर्वं चिदेवैकरसं विशुद्धम् ॥ 390॥
सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः । पृथक् किं मृत्स्नायाः कलशघटकुंभाद्यवगतं वदत्येष भ्रांतस्त्वमहमिति मायामदिरया ॥ 391॥
क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः । ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ॥ 392॥
आकाशवन्निर्मलनिर्विकल्पं (पाठभेदः - निर्विकल्प) निःसीमनिःस्पंदननिर्विकारम् । अंतर्बहिःशून्यमनन्यमद्वयं स्वयं परं ब्रह्म किमस्ति बोध्यम् ॥ 393॥
वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः । (पाठभेदः - जगदापराणु सकलं) ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं ब्रह्मीभूय वसंति संततचिदानंदात्मनैतद्ध्रुवम् ॥ 394॥ (पाठभेदः - आनंदात्मनैव ध्रुवम्)
जहि मलमयकोशेऽहंधियोत्थापिताशां प्रसभमनिलकल्पे लिंगदेहेऽपि पश्चात् । निगमगदितकीर्तिं नित्यमानंदमूर्तिं स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥ 395॥
शवाकारं यावद्भजति मनुजस्तावदशुचिः परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः । (पाठभेदः - व्याधिनिरयाः) यदात्मानं शुद्धं कलयति शिवाकारमचलम् तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥ 396॥
स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥ 397॥
समाहितायां सति चित्तवृत्तौ परात्मनि ब्रह्मणि निर्विकल्पे । न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते यतः ॥ 398॥ (पाठभेदः - ततः)
असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ 399॥
द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि । (पाठभेदः - द्रष्टृदर्शन) निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ 400॥
कल्पार्णव इवात्यंतपरिपूर्णैकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ 401॥
तेजसीव तमो यत्र प्रलीनं भ्रांतिकारणम् । (पाठभेदः - यत्र विलीनं) अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥ 402॥
एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् । (पाठभेदः - कथं भवेत्) सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥ 403॥
न ह्यस्ति विश्वं परतत्त्वबोधात् सदात्मनि ब्रह्मणि निर्विकल्पे । कालत्रये नाप्यहिरीक्षितो गुणे न ह्यंबुबिंदुर्मृगतृष्णिकायाम् ॥ 404॥
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः । इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते ॥ 405॥
अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् । पंडितै रज्जुसर्पादौ विकल्पो भ्रांतिजीवनः ॥ 406॥
चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन । अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ 407॥
किमपि सततबोधं केवलानंदरूपं निरुपममतिवेलं नित्यमुक्तं निरीहम् । निरवधिगगनाभं निष्कलं निर्विकल्पं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥ 408॥
प्रकृतिविकृतिशून्यं भावनातीतभावं समरसमसमानं मानसंबंधदूरम् । निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥ 409॥
अजरममरमस्ताभाववस्तुस्वरूपं (पाठभेदः - भासवस्तु) स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् । शमितगुणविकारं शाश्वतं शांतमेकं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥ 410॥
समाहितांतःकरणः स्वरूपे विलोकयात्मानमखंडवैभवम् । विच्छिंद्धि बंधं भवगंधगंधितं (पाठभेदः - गंधगंधिलं) यत्नेन पुंस्त्वं सफलीकुरुष्व ॥ 411-
सर्वोपाधिविनिर्मुक्तं सच्चिदानंदमद्वयम् । भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥ 412॥
छायेव पुंसः परिदृश्यमान- माभासरूपेण फलानुभूत्या । शरीरमाराच्छववन्निरस्तं पुनर्न संधत्त इदं महात्मा ॥ 413॥
सततविमलबोधानंदरूपं समेत्य (पाठभेदः - स्वमेत्य) त्यज जडमलरूपोपाधिमेतं सुदूरे । अथ पुनरपि नैष स्मर्यतां वांतवस्तु (पाठभेदः - पुनरपि नैव) स्मरणविषयभूतं कल्पते कुत्सनाय ॥ 414॥
समूलमेतत्परिदाह्य वह्नौ (पाठभेदः - परिदह्य) सदात्मनि ब्रह्मणि निर्विकल्पे । ततः स्वयं नित्यविशुद्धबोधा- नंदात्मना तिष्ठति विद्वरिष्ठः ॥ 415॥
प्रारब्धसूत्रग्रथितं शरीरं प्रयातु वा तिष्ठतु गोरिव स्रक् । न तत्पुनः पश्यति तत्त्ववेत्ता- ऽऽनंदात्मनि ब्रह्मणि लीनवृत्तिः ॥ 416॥
अखंडानंदमात्मानं विज्ञाय स्वस्वरूपतः । किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् ॥ 417॥
संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः । बहिरंतः सदानंदरसास्वादनमात्मनि ॥ 418॥
वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् । स्वानंदानुभवाच्छांतिरेषैवोपरतेः फलम् ॥ 419॥
यद्युत्तरोत्तराभावः पूर्वपूर्वंतु निष्फलम् । निवृत्तिः परमा तृप्तिरानंदोऽनुपमः स्वतः ॥ 420॥
दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् । यत्कृतं भ्रांतिवेलायां नाना कर्म जुगुप्सितम् । पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ॥ 421॥
विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तदीक्षितम् । तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ नोचेद्विदां दृष्टफलं किमस्मात् ॥ 422॥ (पाठभेदः - नोचेद्विदो)
अज्ञानहृदयग्रंथेर्विनाशो यद्यशेषतः । अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः ॥ 423॥ (पाठभेदः - विदुषः किं)
वासनानुदयो भोग्ये वैराग्यस्य तदावधिः । अहंभावोदयाभावो बोधस्य परमावधिः । लीनवृत्तैरनुत्पत्तिर्मर्यादोपरतेस्तु सा ॥ 424॥ (पाठभेदः - वृत्तेर)
ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधी- रन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् । स्वप्नालोकितलोकवज्जगदिदं पश्यन्क्वचिल्लब्धधी- रास्ते कश्चिदनंतपुण्यफलभुग्धन्यः स मान्यो भुवि ॥ 425॥
स्थितप्रज्ञो यतिरयं यः सदानंदमश्नुते । ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥ 426॥
ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते । सुस्थिताऽसौ भवेद्यस्य स्थितप्रज्ञः स उच्यते ॥ 427॥
यस्य स्थिता भवेत्प्रज्ञा यस्यानंदो निरंतरः । प्रपंचो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥ 428॥
लीनधीरपि जागर्ति जाग्रद्धर्मविवर्जितः । बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥ 429॥
शांतसंसारकलनः कलावानपि निष्कलः । यस्य चित्तं विनिश्चिंतं स जीवन्मुक्त इष्यते ॥ 430॥ (पाठभेदः - यः सचित्तोऽपि निश्चित्तः)
वर्तमानेऽपि देहेऽस्मिंछायावदनुवर्तिनि । अहंताममताऽभावो जीवन्मुक्तस्य लक्षणम् ॥ 431॥
अतीताननुसंधानं भविष्यदविचारणम् । औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य लक्षणम् ॥ 432॥ (पाठभेदः - प्राप्ते)
गुणदोषविशिष्टेऽस्मिन्स्वभावेन विलक्षणे । सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥ 433॥
इष्टानिष्टार्थसंप्राप्तौ समदर्शितयाऽऽत्मनि । उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥ 434॥
ब्रह्मानंदरसास्वादासक्तचित्ततया यतेः । अंतर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ 435॥
देहेंद्रियादौ कर्तव्ये ममाहंभाववर्जितः । औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्तलक्षणः ॥ 436॥ (पाठभेदः - स जीवन्मुक्त इष्यते)
विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् । भवबंधविनिर्मुक्तः स जीवन्मुक्तलक्षणः ॥ 437॥ (पाठभेदः - स जीवन्मुक्त इष्यते)
देहेंद्रियेष्वहंभाव इदंभावस्तदन्यके । यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥ 438॥
जीवेशोभयसंसाररूपदुर्वासनोज्झिता । सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥
न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानिति स जीवन्मुक्तलक्षणः ॥ 439॥ (पाठभेदः - स जीवन्मुक्त इष्यते) साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः । समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः ॥ 440॥ (पाठभेदः - स जीवन्मुक्त इष्यते)
यत्र प्रविष्टा विषयाः परेरिता नदीप्रवाहा इव वारिराशौ । लिनंति सन्मात्रतया न विक्रियां उत्पादयंत्येष यतिर्विमुक्तः ॥ 441॥
विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः । अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥ 442॥
प्राचीनवासनावेगादसौ संसरतीति चेत् । न सदेकत्वविज्ञानान्मंदी भवति वासना ॥ 443॥
अत्यंतकामुकस्यापि वृत्तिः कुंठति मातरि । तथैव ब्रह्मणि ज्ञाते पूर्णानंदे मनीषिणः ॥ 444॥
निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते । ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥ 445॥
सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते । फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ॥ 446॥
अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् । संचितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥ 447॥
यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् । सुप्तोत्थितस्य किंतत्स्यात्स्वर्गाय नरकाय वा ॥ 448॥
स्वमसंगमुदासीनं परिज्ञाय नभो यथा । न श्लिष्यति च यत्किंचित्कदाचिद्भाविकर्मभिः ॥ 449॥ (पाठभेदः - श्लिष्यते यतिः किंचित्)
न नभो घटयोगेन सुरागंधेन लिप्यते । तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते ॥ 450॥
ज्ञानोदयात्पुरारब्धं कर्मज्ञानान्न नश्यति । अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥ 451॥
व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ । न तिष्ठति छिनत्येव लक्ष्यं वेगेन निर्भरम् ॥ 452॥
प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्संचितागामिनाम् । ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥ 453॥
उपाधितादात्म्यविहीनकेवल- ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः । प्रारब्धसद्भावकथा न युक्ता स्वप्नार्थसंबंधकथेव जाग्रतः ॥ 454॥
न हि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्यपि च प्रपंचे । करोत्यहंतां ममतामिदंतां किंतु स्वयं तिष्ठति जागरेण ॥ 455॥
न तस्य मिथ्यार्थसमर्थनेच्छा न संग्रहस्तज्जगतोऽपि दृष्टः । तत्रानुवृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्रुवम् ॥ 456॥
तद्वत्परे ब्रह्मणि वर्तमानः सदात्मना तिष्ठति नान्यदीक्षते । स्मृतिर्यथा स्वप्नविलोकितार्थे तथा विदः प्राशनमोचनादौ ॥ 457॥
कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् । नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥ 458॥
अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक् । (पाठभेदः - अजो नित्य इति ब्रूते श्रुतिरेषा त्वमोघवाक्) तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥ 459॥
प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः । देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥ 460॥
शरीरस्यापि प्रारब्धकल्पना भ्रांतिरेव हि । अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः । (पाठभेदः - सत्त्वमसत्त्वस्य) अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥ 461॥
ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि । तिष्ठत्ययं कथं देह इति शंकावतो जडान् ॥ 462॥
समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः । न तु देहादिसत्यत्वबोधनाय विपश्चिताम् । यतः श्रुतेरभिप्रायः परमार्थैकगोचरः ॥ 463॥
परिपूर्णमनाद्यंतमप्रमेयमविक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 464॥
सद्घनं चिद्घनं नित्यमानंदघनमक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 465॥
प्रत्यगेकरसं पूर्णमनंतं सर्वतोमुखम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 466॥
अहेयमनुपादेयमनादेयमनाश्रयम् । मनाधेयमना एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 467॥
निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरंजनम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 468॥
अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 469॥
सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ 470॥
निरस्तरागा विनिरस्तभोगाः (पाठभेदः - निरपास्तभोगाः) शांताः सुदांता यतयो महांतः । विज्ञाय तत्त्वं परमेतदंते प्राप्ताः परां निर्वृतिमात्मयोगात् ॥ 471॥
भवानपीदं परतत्त्वमात्मनः स्वरूपमानंदघनं विचार्य । (पाठभेदः - निचाय्य) विधूय मोहं स्वमनःप्रकल्पितं मुक्तः कृतार्थो भवतु प्रबुद्धः ॥ 472॥
समाधिना साधुविनिश्चलात्मना (पाठभेदः - सुनिश्चलात्मना) पश्यात्मतत्त्वं स्फुटबोधचक्षुषा । निःसंशयं सम्यगवेक्षितश्चे- च्छ्रुतः पदार्थो न पुनर्विकल्प्यते ॥ 473॥ (पाठभेदः - पुनर्विकल्पते)
स्वस्याविद्याबंधसंबंधमोक्षा- त्सत्यज्ञानानंदरूपात्मलब्धौ । शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं चांतःसिद्धा स्वानुभूतिः प्रमाणम् ॥ 474॥
बंधो मोक्षश्च तृप्तिश्च चिंताऽऽरोग्यक्षुधादयः । स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ॥ 475॥
तटस्थिता बोधयंति गुरवः श्रुतयो यथा । प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया ॥ 476॥
स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखंडितम् । संसिद्धः सम्मुखं तिष्ठेन्निर्विकल्पात्मनाऽऽत्मनि ॥ 477॥ (पाठभेदः - सुसुखं तिष्ठेन्) वेदांतसिद्धांतनिरुक्तिरेषा ब्रह्मैव जीवः सकलं जगच्च । अखंडरूपस्थितिरेव मोक्षो ब्रह्माद्वितीये श्रुतयः प्रमाणम् ॥ 478॥ (पाठभेदः - ब्रह्माद्वितीयं)
इति गुरुवचनाच्छ्रुतिप्रमाणात् परमवगम्य सतत्त्वमात्मयुक्त्या । प्रशमितकरणः समाहितात्मा क्वचिदचलाकृतिरात्मनिष्ठतोऽभूत् ॥ 479॥ (पाठभेदः - आत्मनिष्ठितो)
किंचित्कालं समाधाय परे ब्रह्मणि मानसम् । (पाठभेदः - कंचित्कालं) उत्थाय परमानंदादिदं वचनमब्रवीत् ॥ 480॥ (पाठभेदः - व्युत्थाय)
बुद्धिर्विनष्टा गलिता प्रवृत्तिः ब्रह्मात्मनोरेकतयाऽधिगत्या । इदं न जानेऽप्यनिदं न जाने किं वा कियद्वा सुखमस्त्यपारम् ॥ 481॥ (पाठभेदः - सुखमस्य पारम्)
वाचा वक्तुमशक्यमेव मनसा मंतुं न वा शक्यते स्वानंदामृतपूरपूरितपरब्रह्मांबुधेर्वैभवम् । अंभोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो यस्यांशांशलवे विलीनमधुनाऽऽनंदात्मना निर्वृतम् ॥ 482॥
क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् । अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥ 483॥
किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् । अखंडानंदपीयूषपूर्णे ब्रह्ममहार्णवे ॥ 484॥
न किंचिदत्र पश्यामि न शऋणोमि न वेद्म्यहम् । स्वात्मनैव सदानंदरूपेणास्मि विलक्षणः ॥ 485॥
नमो नमस्ते गुरवे महात्मने विमुक्तसंगाय सदुत्तमाय । नित्याद्वयानंदरसस्वरूपिणे भूम्ने सदाऽपारदयांबुधाम्ने ॥ 486॥
यत्कटाक्षशशिसांद्रचंद्रिका- पातधूतभवतापजश्रमः । प्राप्तवानहमखंडवैभवा- नंदमात्मपदमक्षयं क्षणात् ॥ 487॥
धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् । नित्यानंदस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात् ॥ 488॥
असंगोऽहमनंगोऽहमलिंगोऽहमभंगुरः । प्रशांतोऽहमनंतोऽहममलोऽहं चिरंतनः ॥ 489॥ (पाठभेदः - ऽहमतांतोऽहं)
अकर्ताहमभोक्ताहमविकारोऽहमक्रियः । शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥ 490॥
द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् । नित्यनिरंतरनिष्क्रियनिःसीमासंगपूर्णबोधात्मा ॥ 491॥
नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् । बाह्याभ्यंतरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् ॥ 492॥
निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् । नित्यानंदैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ॥ 493॥
नारायणोऽहं नरकांतकोऽहं पुरांतकोऽहं पुरुषोऽहमीशः । अखंडबोधोऽहमशेषसाक्षी निरीश्वरोऽहं निरहं च निर्ममः ॥ 494॥
सर्वेषु भूतेष्वहमेव संस्थितो ज्ञानात्मनाऽंतर्बहिराश्रयः सन् । भोक्ता च भोग्यं स्वयमेव सर्वं यद्यत्पृथग्दृष्टमिदंतया पुरा ॥ 495॥
मय्यखंडसुखांभोधौ बहुधा विश्ववीचयः । उत्पद्यंते विलीयंते मायामारुतविभ्रमात् ॥ 496॥
स्थुलादिभावा मयि कल्पिता भ्रमा- दारोपितानुस्फुरणेन लोकैः । काले यथा कल्पकवत्सराय- णर्त्वादयो निष्कलनिर्विकल्पे ॥ 497॥
आरोपितं नाश्रयदूषकं भवेत् कदापि मूढैरतिदोषदूषितैः । मूढैर्मति नार्द्रीकरोत्यूषरभूमिभागं मरीचिकावारि महाप्रवाहः ॥ 498॥
आकाशवल्लेपविदूरगोऽहं (पाठभेदः - आकाशवत् कल्पवि) आदित्यवद्भास्यविलक्षणोऽहम् । अहार्यवन्नित्यविनिश्चलोऽहं अंभोधिवत्पारविवर्जितोऽहम् ॥ 499॥
न मे देहेन संबंधो मेघेनेव विहायसः । अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तयः ॥ 500॥
उपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुंक्ते । स एव जीर्यन् म्रियते सदाहं (पाठभेदः - एव जीवन्) कुलाद्रिवन्निश्चल एव संस्थितः ॥ 501॥
न मे प्रवृत्तिर्न च मे निवृत्तिः सदैकरूपस्य निरंशकस्य । एकात्मको यो निविडो निरंतरो (पाठभेदः - निबिडो) व्योमेव पूर्णः स कथं नु चेष्टते ॥ 502॥
पुण्यानि पापानि निरिंद्रियस्य निश्चेतसो निर्विकृतेर्निराकृतेः । कुतो ममाखंडसुखानुभूतेः ब्रूते ह्यनन्वागतमित्यपि श्रुतिः ॥ 503॥
छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा । न स्पृशत्येव यत्किंचित्पुरुषं तद्विलक्षणम् ॥ 504॥
न साक्षिणं साक्ष्यधर्माः संस्पृशंति विलक्षणम् । अविकारमुदासीनं गृहधर्माः प्रदीपवत् । देहेंद्रियमनोधर्मा नैवात्मानं स्पृशंत्यहो ॥ 505॥ एक्ष्त्र
रवेर्यथा कर्मणि साक्षिभावो वह्नेर्यथा दाहनियामकत्वम् । (पाठभेदः - वाऽयसि दाहकत्वम्) रज्जोर्यथाऽऽरोपितवस्तुसंगः तथैव कूटस्थचिदात्मनो मे ॥ 506॥
कर्तापि वा कारयितापि नाहं भोक्तापि वा भोजयितापि नाहम् । द्रष्टापि वा दर्शयितापि नाहं सोऽहं स्वयंज्योतिरनीदृगात्मा ॥ 507॥
चलत्युपाधौ प्रतिबिंबलौल्य- मौपाधिकं मूढधियो नयंति । स्वबिंबभूतं रविवद्विनिष्क्रियं कर्तास्मि भोक्तास्मि हतोऽस्मि हेति ॥ 508॥
जले वापि स्थले वापि लुठत्वेष जडात्मकः । नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा ॥ 509॥
कर्तृत्वभोक्तृत्वखलत्वमत्तता- जडत्वबद्धत्वविमुक्ततादयः । बुद्धेर्विकल्पा न तु संति वस्तुतः स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ॥ 510॥
संतु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि । किं मेऽसंगचितस्तैर्न घनः क्वचिदंबरं स्पृशति ॥ 511॥ (पाठभेदः - तैः किं मेऽसंगचितेर्न ह्यंबुदडंबरोऽंबरं)
अव्यक्तादिस्थूलपर्यंतमेतत् विश्वं यत्राभासमात्रं प्रतीतम् । व्योमप्रख्यं सूक्ष्ममाद्यंतहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ 512॥
सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वशून्यम् । नित्यं शुद्धं निश्चलं निर्विकल्पं (पाठभेदः - निष्कलं) ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ 513॥
यत्प्रत्यस्ताशेषमायाविशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम् । सत्यज्ञानानंतमानंदरूपं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ 514॥
निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः । निर्विकल्पोऽस्मि नित्योऽस्मि निरालंबोऽस्मि निर्द्वयः ॥ 515॥
सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः । केवलाखंडबोधोऽहमानंदोऽहं निरंतरः ॥ 516॥
स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् । प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥ 517॥
महास्वप्ने मायाकृतजनिजरामृत्युगहने भ्रमंतं क्लिश्यंतं बहुलतरतापैरनुदिनम् । (पाठभेदः - रनुकलम्) अहंकारव्याघ्रव्यथितमिममत्यंतकृपया प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो ॥ 518॥
नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः । (पाठभेदः - सदेकस्मै नमश्चिन्महसे मुहुः) यदेतद्विश्वरूपेण राजते गुरुराज ते ॥ 519॥
इति नतमवलोक्य शिष्यवर्यं समधिगतात्मसुखं प्रबुद्धतत्त्वम् । प्रमुदितहृदयं स देशिकेंद्रः (पाठभेदः - हृदयः) पुनरिदमाह वचः परं महात्मा ॥ 520॥
ब्रह्मप्रत्ययसंततिर्जगदतो ब्रह्मैव तत्सर्वतः (पाठभेदः - सत्सर्वतः) पश्याध्यात्मदृशा प्रशांतमनसा सर्वास्ववस्थास्वपि । रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते (पाठभेदः - विद्यते) तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम् ॥ 521॥
कस्तां परानंदरसानुभूति- मृत्सृज्य शून्येषु रमेत विद्वान् । (पाठभेदः - मुत्सृज्य चंद्रे महाह्लादिनि दीप्यमाने) चित्रेंदुमालोकयितुं क इच्छेत् ॥ 522॥
असत्पदार्थानुभवेन किंचिन् न ह्यस्ति तृप्तिर्न च दुःखहानिः । तदद्वयानंदरसानुभूत्या तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥ 523॥
स्वमेव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् । (पाठभेदः - सर्वतः) स्वानंदमनुभुंजानः कालं नय महामते ॥ 524॥
अखंडबोधात्मनि निर्विकल्पे विकल्पनं व्योम्नि पुरप्रकल्पनम् । तदद्वयानंदमयात्मना सदा शांतिं परामेत्य भजस्व मौनम् ॥ 525॥
तूष्णीमवस्था परमोपशांतिः बुद्धेरसत्कल्पविकल्पहेतोः । ब्रह्मात्मनो ब्रह्मविदो महात्मनो यत्राद्वयानंदसुखं निरंतरम् ॥ 526॥
नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् । विज्ञातात्मस्वरूपस्य स्वानंदरसपायिनः ॥ 527॥
गच्छंस्तिष्ठन्नुपविशंछयानो वाऽन्यथापि वा । यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ॥ 528॥
न देशकालासनदिग्यमादि- लक्ष्याद्यपेक्षाऽप्रतिबद्धवृत्तेः । (पाठभेदः - प्रतिबद्ध संसिद्धतत्त्वस्य महात्मनोऽस्ति) स्ववेदने का नियमाद्यवस्था ॥ 529॥
घटोऽयमिति विज्ञातुं नियमः कोऽन्ववेक्षते । (पाठभेदः - अपेक्ष्यते) विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः ॥ 530॥
अयमात्मा नित्यसिद्धः प्रमाणे सति भासते । न देशं नापि वा कालं न शुद्धिं वाप्यपेक्षते ॥ 531॥
देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् । तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ॥ 532॥
भानुनेव जगत्सर्वं भासते यस्य तेजसा । अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ॥ 533॥
वेदशास्त्रपुराणानि भूतानि सकलान्यपि । येनार्थवंति तं किन्नु विज्ञातारं प्रकाशयेत् ॥ 534॥
एष स्वयंज्योतिरनंतशक्तिः आत्माऽप्रमेयः सकलानुभूतिः । यमेव विज्ञाय विमुक्तबंधो जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥ 535॥
न खिद्यते नो विषयैः प्रमोदते न सज्जते नापि विरज्यते च । स्वस्मिन्सदा क्रीडति नंदति स्वयं निरंतरानंदरसेन तृप्तः ॥ 536॥
क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः । (पाठभेदः - वस्तुनि) तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥ 537॥
चिंताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु स्वातंत्र्येण निरंकुशा स्थितिरभीर्निद्रा श्मशाने वने । वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही संचारो निगमांतवीथिषु विदां क्रीडा परे ब्रह्मणि ॥ 538॥
विमानमालंब्य शरीरमेतद् भुनक्त्यशेषान्विषयानुपस्थितान् । परेच्छया बालवदात्मवेत्ता योऽव्यक्तलिंगोऽननुषक्तबाह्यः ॥ 539॥
दिगंबरो वापि च सांबरो वा त्वगंबरो वापि चिदंबरस्थः । उन्मत्तवद्वापि च बालवद्वा पिशाचवद्वापि चरत्यवन्याम् ॥ 540॥
कामान्निष्कामरूपी संश्चरत्येकचरो मुनिः । (पाठभेदः - कामान्नी कामरूपी) स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ॥ 541॥
क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः क्वचिद्भ्रांतः सौम्यः क्वचिदजगराचारकलितः । क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः चरत्येवं प्राज्ञः सततपरमानंदसुखितः ॥ 542॥
निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः । नित्यतृप्तोऽप्यभुंजानोऽप्यसमः समदर्शनः ॥ 543॥
अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि । शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः ॥ 544॥
अशरीरं सदा संतमिमं ब्रह्मविदं क्वचित् । प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ॥ 545॥
स्थूलादिसंबंधवतोऽभिमानिनः सुखं च दुःखं च शुभाशुभे च । विध्वस्तबंधस्य सदात्मनो मुनेः कुतः शुभं वाऽप्यशुभं फलं वा ॥ 546॥
तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः । ग्रस्त इत्युच्यते भ्रांत्यां ह्यज्ञात्वा वस्तुलक्षणम् ॥ 547॥ (पाठभेदः - भ्रांत्या) तद्वद्देहादिबंधेभ्यो विमुक्तं ब्रह्मवित्तमम् । पश्यंति देहिवन्मूढाः शरीराभासदर्शनात् ॥ 548॥
अहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति । (पाठभेदः - अहिनि) इतस्ततश्चाल्यमानो यत्किंचित्प्राणवायुना ॥ 549॥
स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् । दैवेन नीयते देहो यथाकालोपभुक्तिषु ॥ 550॥
प्रारब्धकर्मपरिकल्पितवासनाभिः संसारिवच्चरति भुक्तिषु मुक्तदेहः । सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं चक्रस्य मूलमिव कल्पविकल्पशून्यः ॥ 551॥
नैवेंद्रियाणि विषयेषु नियुंक्त एष नैवापयुंक्त उपदर्शनलक्षणस्थः । नैव क्रियाफलमपीषदवेक्षते स (पाठभेदः - अपीषदपेक्षते सः) स्वानंदसांद्ररसपानसुमत्तचित्तः ॥ 552॥
लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना । शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ 553॥
जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः । उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम् ॥ 554॥
शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् । तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः ॥ 555॥
यत्र क्वापि विशीर्णं सत्पर्णमिव तरोर्वपुः पततात् । (पाठभेदः - विशीर्णं पर्णमिव) ब्रह्मीभूतस्य यतेः प्रागेव तच्चिदग्निना दग्धम् ॥ 556॥
सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाऽद्वयानंदमयात्मना सदा । न देशकालाद्युचितप्रतीक्षा त्वङ्मांसविट्पिंडविसर्जनाय ॥ 557॥
देहस्य मोक्षो नो मोक्षो न दंडस्य कमंडलोः । अविद्याहृदयग्रंथिमोक्षो मोक्षो यतस्ततः ॥ 558॥
कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे । पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥ 559॥
पत्रस्य पुष्पस्य फलस्य नाशवद्- देहेंद्रियप्राणधियां विनाशः । नैवात्मनः स्वस्य सदात्मकस्या- नंदाकृतेर्वृक्षवदस्ति चैषः ॥ 560॥ (पाठभेदः - वदास्त एषः)
प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् । अनूद्यौपाधिकस्यैव कथयंति विनाशनम् ॥ 561॥
अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः । प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥ 562॥
पाषाणवृक्षतृणधान्यकडंकराद्या (पाठभेदः - कटांबराद्या) दग्धा भवंति हि मृदेव यथा तथैव । देहेंद्रियासुमन आदि समस्तदृश्यं ज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥ 563॥
विलक्षणं यथा ध्वांतं लीयते भानुतेजसि । तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥ 564॥
घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् । तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ॥ 565॥
क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले । संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः ॥ 566॥
एवं विदेहकैवल्यं सन्मात्रत्वमखंडितम् । ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ॥ 567॥
सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः । अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः ॥ 568॥
मायाक्लृप्तौ बंधमोक्षौ न स्तः स्वात्मनि वस्तुतः । यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ॥ 569॥
आवृतेः सदसत्त्वाभ्यां वक्तव्ये बंधमोक्षणे । नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् । यद्यस्त्यद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः ॥ 570॥
बंधंच मोक्षंच मृषैव मूढा बुद्धेर्गुणं वस्तुनि कल्पयंति । दृगावृतिं मेघकृतां यथा रवौ यतोऽद्वयाऽसंगचिदेतदक्षरम् ॥ 571॥ (पाठभेदः - चिदेकमक्षरम्)
अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि । बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः ॥ 572॥
अतस्तौ मायया क्लृप्तौ बंधमोक्षौ न चात्मनि । निष्कले निष्क्रिये शांते निरवद्ये निरंजने । अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥ 573॥
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ 574॥
सकलनिगमचूडास्वांतसिद्धांतरूपं परमिदमतिगुह्यं दर्शितं ते मयाद्य । अपगतकलिदोषं कामनिर्मुक्तबुद्धिं (पाठभेदः - बुद्धिः) स्वसुतवदसकृत्त्वां भावयित्वा मुमुक्षुम् ॥ 575॥
इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः । स तेन समनुज्ञातो ययौ निर्मुक्तबंधनः ॥ 576॥
गुरुरेव सदानंदसिंधौ निर्मग्नमानसः । (पाठभेदः - गुरुरेष) पावयन्वसुधां सर्वां विचचार निरंतरः ॥ 577॥
इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् । निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥ 578॥
हितमिदमुपदेशमाद्रियंतां विहितनिरस्तसमस्तचित्तदोषाः । भवसुखविरताः प्रशांतचित्ताः (पाठभेदः - सुखविमुखाः) श्रुतिरसिका यतयो मुमुक्षवो ये ॥ 579॥
संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा- खिन्नानां जलकांक्षया मरुभुवि भ्रांत्या परिभ्राम्यताम् । अत्यासन्नसुधांबुधिं सुखकरं ब्रह्माद्वयं दर्शय- त्येषा शंकरभारती विजयते निर्वाणसंदायिनी ॥ 580॥
॥ इति शंकराचार्यविरचितं विवेकचूडामणिः ॥
॥ ॐ तत्सत् ॥
Browse Related Categories: