Hanuma · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ अस्य श्री आपदुद्धारक हनुमत् स्तोत्र महामंत्र कवचस्य, विभीषण ऋषिः, हनुमान् देवता, सर्वापदुद्धारक श्रीहनुमत्प्रसादेन मम सर्वापन्निवृत्त्यर्थे, सर्वकार्यानुकूल्य सिद्ध्यर्थे जपे विनियोगः ।
ध्यानम् । वामे करे वैरिभिदं वहंतं शैलं परे शृंखलहारिटंकम् । दधानमच्छच्छवियज्ञसूत्रं भजे ज्वलत्कुंडलमांजनेयम् ॥ 1 ॥
संवीतकौपीन मुदंचितांगुलिं समुज्ज्वलन्मौंजिमथोपवीतिनम् । सकुंडलं लंबिशिखासमावृतं तमांजनेयं शरणं प्रपद्ये ॥ 2 ॥
आपन्नाखिललोकार्तिहारिणे श्रीहनूमते । अकस्मादागतोत्पात नाशनाय नमो नमः ॥ 3 ॥
सीतावियुक्तश्रीरामशोकदुःखभयापह । तापत्रितयसंहारिन् आंजनेय नमोऽस्तु ते ॥ 4 ॥
आधिव्याधि महामारी ग्रहपीडापहारिणे । प्राणापहर्त्रेदैत्यानां रामप्राणात्मने नमः ॥ 5 ॥
संसारसागरावर्त कर्तव्यभ्रांतचेतसाम् । शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ 6 ॥
वज्रदेहाय कालाग्निरुद्रायाऽमिततेजसे । ब्रह्मास्त्रस्तंभनायास्मै नमः श्रीरुद्रमूर्तये ॥ 7 ॥
रामेष्टं करुणापूर्णं हनूमंतं भयापहम् । शत्रुनाशकरं भीमं सर्वाभीष्टप्रदायकम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
कारागृहे प्रयाणे वा संग्रामे शत्रुसंकटे । जले स्थले तथाऽऽकाशे वाहनेषु चतुष्पथे ॥ 9 ॥
गजसिंह महाव्याघ्र चोर भीषण कानने । ये स्मरंति हनूमंतं तेषां नास्ति विपत् क्वचित् ॥ 10 ॥
सर्ववानरमुख्यानां प्राणभूतात्मने नमः । शरण्याय वरेण्याय वायुपुत्राय ते नमः ॥ 11 ॥
प्रदोषे वा प्रभाते वा ये स्मरंत्यंजनासुतम् । अर्थसिद्धिं जयं कीर्तिं प्राप्नुवंति न संशयः ॥ 12 ॥
जप्त्वा स्तोत्रमिदं मंत्रं प्रतिवारं पठेन्नरः । राजस्थाने सभास्थाने प्राप्ते वादे लभेज्जयम् ॥ 13 ॥
विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः । सर्वापद्भ्यो विमुच्येत नाऽत्र कार्या विचारणा ॥ 14 ॥
मंत्रः । मर्कटेश महोत्साह सर्वशोकनिवारक । शत्रून् संहर मां रक्ष श्रियं दापय भो हरे ॥ 15
इति विभीषणकृतं सर्वापदुद्धारक श्रीहनुमत् स्तोत्रम् ॥
Browse Related Categories: