Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥
कोटि कन्या महादानं तिलपर्वत कोटयः । कांचनं शैलदानेन एकबिल्वं शिवार्पणम् ॥
काशीक्षेत्र निवासं च कालभैरव दर्शनम् । प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥
इंदुवारे व्रतं स्थित्वा निराहारो महेश्वराः । नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥
रामलिंग प्रतिष्ठा च वैवाहिक कृतं तथा । तटाकानिच संधानं एकबिल्वं शिवार्पणम् ॥
अखंड बिल्वपत्रं च आयुतं शिवपूजनम् । कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥
उमया सहदेवेश नंदि वाहनमेव च । भस्मलेपन सर्वांगं एकबिल्वं शिवार्पणम् ॥
सालग्रामेषु विप्राणां तटाकं दशकूपयोः । यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
दंति कोटि सहस्रेषु अश्वमेधशतक्रतौ । [अश्वमेध शतानि च / वाजपेय शतानि च] कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनम् । अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥
सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते । अनेकव्रत कोटीनां एकबिल्वं शिवार्पणम् ॥
अन्नदान सहस्रेषु सहस्रोपनयनं तधा । अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥
बिल्वाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ । शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥
----------------
विकल्प संकर्पण
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितम् ॥ 1 ॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तवपूजां करिष्यामि एकबिल्वं शिवार्पितम् ॥ 2 ॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पितम् ॥ 3 ॥
सालग्रामेषु विप्रेषु तटाके वनकूपयोः । यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितम् ॥ 4 ॥
दंतिकोटि सहस्रेषु अश्वमेध शतानि च । कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितम् ॥ 5 ॥
एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् । महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितम् ॥ 6 ॥
काशीक्षेत्रे निवासं च कालभैरव दर्शनम् । गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितम् ॥ 7 ॥
उमया सह देवेशं वाहनं नंदिशंकरम् । मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितम् ॥ 8 ॥
इति श्री बिल्वाष्टकम् ॥
Browse Related Categories: