Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः । दृढव्रतो दृढफलः श्रुतिजालप्रबोधकः ॥ 1 ॥
सत्यवासः सत्यवचाः श्रेयसां पतिरव्ययः । सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥ 2 ॥
वेदविद्वेदतत्त्वज्ञो वेदांतज्ञानभास्वरः । विद्याविचक्षण विभुर्विद्वत्प्रीतिकरो ऋजः ॥ 3 ॥
विश्वानुकूलसंचारो विशेषविनयान्वितः । विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥ 4 ॥
त्रिवर्गफलदोऽनंतः त्रिदशाधिपपूजितः । बुद्धिमान् बहुशास्त्रज्ञो बली बंधविमोचकः ॥ 5 ॥
वक्रातिवक्रगमनो वासवो वसुधाधिपः । प्रसन्नवदनो वंद्यो वरेण्यो वाग्विलक्षणः ॥ 6 ॥
सत्यवान् सत्यसंकल्पः सत्यबंधुः सदादरः । सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ 7 ॥
वाणिज्यनिपुणो वश्यो वातांगो वातरोगहृत् । स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ 8 ॥
अप्रकाशः प्रकाशात्मा घनो गगनभूषणः । विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
चारुशीलः स्वप्रकाशः चपलश्च जितेंद्रियः । उदङ्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ 10 ॥
सौम्यवत्सरसंजातः सोमप्रियकरः सुखी । सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवंकरः ॥ 11 ॥
पीतांबरो पीतवपुः पीतच्छत्रध्वजांकितः । खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ 12 ॥
आत्रेयगोत्रजोऽत्यंतविनयो विश्वपावनः । चांपेयपुष्पसंकाशः चारणः चारुभूषणः ॥ 13 ॥
वीतरागो वीतभयो विशुद्धकनकप्रभः । बंधुप्रियो बंधमुक्तो बाणमंडलसंश्रितः ॥ 14 ॥
अर्केशानप्रदेशस्थः तर्कशास्त्रविशारदः । प्रशांतः प्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः ॥ 15 ॥
मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः । कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ 16 ॥
बुधस्यैवं प्रकारेण नाम्नामष्टोत्तरं शतम् । संपूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥ 17 ॥
इति श्री बुध अष्टोत्तरशतनाम स्तोत्रम् ।
Browse Related Categories: