Chanakya Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सानंदं सदनं सुतास्तु सुधियः कांता प्रियालापिनी इच्छापूर्तिधनं स्वयोषिति रतिः स्वाज्ञापराः सेवकाः । आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे साधोः संगमुपासते च सततं धन्यो गृहस्थाश्रमः ॥ 01 ॥
आर्तेषु विप्रेषु दयान्वितश्च यच्छ्रद्धया स्वल्पमुपैति दानम् । अनंतपारमुपैति राजन् यद्दीयते तन्न लभेद्द्विजेभ्यः ॥ 02 ॥
दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने स्मयः खलजने विद्वज्जने चार्जवम् । शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता इत्थं ये पुरुषा कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ 03 ॥
हस्तौ दानविवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणौ नेत्रे साधुविलोकनेन रहिते पादौ न तीर्थं गतौ । अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुंगं शिरो रे रे जंबुक मुंच मुंच सहसा नीचं सुनिंद्यं वपुः ॥ 04 ॥
येषां श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणां येषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा । येषां श्रीकृष्णलीलाललितरसकथासादरौ नैव कर्णौ धिक् तान् धिक् तान् धिगेतान् कथयति सततं कीर्तनस्थो मृदंगः ॥ 05 ॥
पत्रं नैव यदा करीलविटपे दोषो वसंतस्य किं नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । वर्षा नैव पतंति चातकमुखे मेघस्य किं दूषणं यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥ 06 ॥
सत्संगाद्भवति हि साधुना खलानां साधूनां न हि खलसंगतः खलत्वम् । आमोदं कुसुमभवं मृदेव धत्ते मृद्गंधं नहि कुसुमानि धारयंति ॥ 07 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥ 08 ॥
विप्रास्मिन्नगरे महान्कथय कस्तालद्रुमाणां गणः को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि । को दक्षः परवित्तदारहरणे सर्वोऽपि दक्षो जनः कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥ 09 ॥
न विप्रपादोदककर्दमाणि न वेदशास्त्रध्वनिगर्जितानि । स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ॥ 10 ॥
सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा । शांतिः पत्नी क्षमा पुत्रः षडेते मम बांधवाः ॥ 11 ॥
अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥ 12 ॥
निमंत्रोत्सवा विप्रा गावो नवतृणोत्सवाः । पत्युत्साहयुता भार्या अहं कृष्णचरणोत्सवः ॥ 13 ॥
मातृवत्परदारेषु परद्रव्येषु लोष्ट्रवत् । आत्मवत्सर्वभूतेषु यः पश्यति स पंडितः ॥ 14 ॥
धर्मे तत्परता मुखे मधुरता दाने समुत्साहता मित्रेऽवंचकता गुरौ विनयता चित्तेऽतिमभीरता । आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञानता रूपे सुंदरता शिवे भजनता त्वय्यस्ति भो राघव ॥ 15 ॥
काष्ठं कल्पतरुः सुमेरुचलश्चिंतामणिः प्रस्तरः सूर्यास्तीव्रकरः शशी क्षयकरः क्षारो हि वारां निधिः । कामो नष्टतनुर्वलिर्दितिसुतो नित्यं पशुः कामगौ- र्नैतांस्ते तुलयामि भो रघुपते कस्योपमा दीयते ॥ 16 ॥
विद्या मित्रं प्रवासे च भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥ 17 ॥
विनयं राजपुत्रेभ्यः पंडितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥ 18 ॥
अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः । आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥ 19 ॥
नाहारं चिंतयेत्प्राज्ञो धर्ममेकं हि चिंतयेत् । आहारो हि मनुष्याणां जन्मना सह जायते ॥ 20 ॥
धनधान्यप्रयोगेषु विद्यासंग्रहणे तथा । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥ 21 ॥
जलबिंदुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ 22 ॥
वयसः परिणामेऽपि यः खलः खल एव सः । संपक्वमपि माधुर्यं नोपयातींद्रवारुणम् ॥ 23 ॥
Browse Related Categories: