Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
नमस्ते शरण्ये शिवे सानुकंपे नमस्ते जगद्व्यापिके विश्वरूपे । नमस्ते जगद्वंद्यपादारविंदे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 1 ॥
नमस्ते जगच्चिंत्यमानस्वरूपे नमस्ते महायोगिविज्ञानरूपे । नमस्ते नमस्ते सदानंदरूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 2 ॥
अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जंतोः । त्वमेका गतिर्देवि निस्तारकर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 3 ॥
अरण्ये रणे दारुणे शत्रुमध्ये- ऽनले सागरे प्रांतरे राजगेहे । त्वमेका गतिर्देवि निस्तारनौका नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 4 ॥
अपारे महादुस्तरेऽत्यंतघोरे विपत्सागरे मज्जतां देहभाजाम् । त्वमेका गतिर्देवि निस्तारहेतु- र्नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 5 ॥
नमश्चंडिके चंडदुर्दंडलीला- समुत्खंडिता खंडिताऽशेषशत्रोः । त्वमेका गतिर्देवि निस्तारबीजं नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 6 ॥
त्वमेका सदाराधिता सत्यवादि- न्यनेकाखिला क्रोधना क्रोधनिष्ठा । इडा पिंगला त्वं सुषुम्ना च नाडी नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 7 ॥
नमो देवि दुर्गे शिवे भीमनादे सदासर्वसिद्धिप्रदातृस्वरूपे । विभूतिः शची कालरात्रिः सती त्वं नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
शरणमसि सुराणां सिद्धविद्याधराणां मुनिमनुजपशूनां दस्युभिस्त्रासितानां नृपतिगृहगतानां व्याधिभिः पीडितानाम् । त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥ 9 ॥
इदं स्तोत्रं मया प्रोक्तमापदुद्धारहेतुकम् । त्रिसंध्यमेकसंध्यं वा पठनाद्घोरसंकटात् ॥ 10 ॥
मुच्यते नात्र संदेहो भुवि स्वर्गे रसातले । सर्वं वा श्लोकमेकं वा यः पठेद्भक्तिमान्सदा ॥ 11 ॥
स सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम् । पठनादस्य देवेशि किं न सिद्ध्यति भूतले । स्तवराजमिदं देवि संक्षेपात्कथितं मया ॥ 12
इति श्री सिद्धेश्वरीतंत्रे परमशिवोक्त श्री दुर्गा आपदुद्धार स्तोत्रम् ।
Browse Related Categories: