Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ गीतगोविंदम् ॥ ॥ अष्टपदी ॥
॥ श्री गोपालक ध्यानम् ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
यद्गोपीवदनेंदुमंडनमभूत्कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुंभ कलशे व्यागोचमिंदीवरम् । यन्निर्वाणविधानसाधनविधौ सिद्धांजनं योगिनां तन्नश्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥ 1 ॥
॥ श्री जयदेव ध्यानम् ॥
राधामनोरमरमावररासलील-गानामृतैकभणितं कविराजराजम् । श्रीमाधवार्च्चनविधवनुरागसद्म-पद्मावतीप्रियतमं प्रणतोस्मि नित्यम् ॥ 2 ॥
श्रीगोपलविलासिनी वलयसद्रत्नादिमुग्धाकृति श्रीराधापतिपादपद्मभजनानंदाब्धिमग्नोऽनिशम् ॥ लोके सत्कविराजराज इति यः ख्यातो दयांभोनिधिः तं वंदे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥ 3 ॥
॥ प्रथमः सर्गः ॥ ॥ सामोददामोदरः ॥
मेघैर्मेदुरमंबरं वनभुवः श्यामास्तमालद्रुमै-र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थं नंदनिदेशितश्चलितयोः प्रत्यध्वकुंजद्रुमं राधामाधवयोर्जयंति यमुनाकूले रहःकेलयः ॥ 1 ॥
वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती । श्रीवासुदेवरतिकेलिकथासमेतं एतं करोति जयदेवकविः प्रबंधम् ॥ 2 ॥
यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् । मधुरकोमलकांतपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ 3 ॥
वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते । शृंगारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ 4 ॥
॥ गीतं 1 ॥
प्रलयपयोधिजले धृतवानसि वेदम् । विहितवहित्रचरित्रमखेदम् ॥ केशव धृतमीनशरीर जय जगदीश हरे ॥ 1 ॥
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे । धरणिधरणकिणचक्रगरिष्ठे ॥ केशव धृतकच्छपरूप जय जगदीश हरे ॥ 2 ॥
वसति दशनशिखरे धरणी तव लग्ना । शशिनि कलंककलेव निमग्ना ॥ केशव धृतसूकररूप जय जगदीश हरे ॥ 3 ॥
तव करकमलवरे नखमद्भुतशृंगम् । दलितहिरण्यकशिपुतनुभृंगम् ॥ केशव धृतनरहरिरूप जय जगदीश हरे ॥ 4 ॥
छलयसि विक्रमणे बलिमद्भुतवामन । पदनखनीरजनितजनपावन ॥ केशव धृतवामनरूप जय जगदीश हरे ॥ 5 ॥
क्षत्रियरुधिरमये जगदपगतपापम् । स्नपयसि पयसि शमितभवतापम् ॥ केशव धृतभृघुपतिरूप जय जगदीश हरे ॥ 6 ॥
वितरसि दिक्षु रणे दिक्पतिकमनीयम् । दशमुखमौलिबलिं रमणीयम् ॥ केशव धृतरामशरीर जय जगदीश हरे ॥ 7 ॥
वहसि वपुषि विशदे वसनं जलदाभम् । हलहतिभीतिमिलितयमुनाभम् ॥ केशव धृतहलधररूप जय जगदीश हरे ॥ 8 ॥
निंदसि यज्ञविधेरहह श्रुतिजातम् । सदयहृदयदर्शितपशुघातम् ॥ केशव धृतबुद्धशरीर जय जगदीश हरे ॥ 9 ॥
म्लेच्छनिवहनिधने कलयसि करवालम् । धूमकेतुमिव किमपि करालम् ॥ केशव धृतकल्किशरीर जय जगदीश हरे ॥ 10 ॥
श्रीजयदेवकवेरिदमुदितमुदारम् । शृणु सुखदं शुभदं भवसारम् ॥ केशव धृतदशविधरूप जय जगदीश हरे ॥ 11 ॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ 5 ॥
॥ गीतं 2 ॥
श्रितकमलाकुचमंडल! धृतकुंडल! । कलितललितवनमाल! जय, जय, देव! हरे! ॥ 1 ॥
दिनमणीमंडलमंडन! भवखंडन! । मुनिजनमानसहंस! जय, जय, देव! हरे! ॥ 2 ॥
कालियविषधरगंजन! जनरंजन! । यदुकुलनलिनदिनेश! जय, जय, देव! हरे! ॥ 3 ॥
मधुमुरनरकविनाशन! गरुडासन! । सुरकुलकेलिनिदान! जय, जय, देव! हरे! ॥ 4 ॥
अमलकमलदललोचन! भवमोचन्! । त्रिभुवनभवननिधान! जय, जय, देव! हरे! ॥ 5 ॥
जनकसुताकृतभूषण! जितदूषण! । समरशमितदशकंठ! जय, जय, देव! हरे! ॥ 6 ॥
अभिनवजलधरसुंदर! धृतमंदर! । श्रीमुखचंद्रचकोर! जय, जय, देव! हरे! ॥ 7 ॥
श्रीजयदेवकवेरिदं कुरुते मुदम् । मंगलमुज्ज्वलगीतं; जय, जय, देव! हरे! ॥ 8 ॥
पद्मापयोधरतटीपरिरंभलग्न-काश्मीरमुद्रितमुरो मधुसूदनस्य । व्यक्तानुरागमिव खेलदनंगखेद-स्वेदांबुपूरमनुपूरयतु प्रियं वः ॥ 6 ॥
वसंते वासंतीकुसुमसुकुमारैरवयवै-र्भ्रमंतीं कांतारे बहुविहितकृष्णानुसरणाम् । अमंदं कंदर्पज्वरजनितचिंताकुलतया वलद्बाधां राधां सरसमिदमुचे सहचरी ॥ 7 ॥
॥ गीतं 3 ॥
ललितलवंगलतापरिशीलनकोमलमलयसमीरे । मधुकरनिकरकरंबितकोकिलकूजितकुंजकुटीरे ॥ विहरति हरिरिह सरसवसंते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरंते ॥ 1 ॥
उन्मदमदनमनोरथपथिकवधूजनजनितविलापे । अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥ 2 ॥
मृगमदसौरभरभसवशंवदनवदलमालतमाले । युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ 3 ॥
मदनमहीपतिकनकदंडरुचिकेशरकुसुमविकासे । मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ 4 ॥
विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे । विरहिनिकृंतनकुंतमुखाकृतिकेतकदंतुरिताशे ॥ 5 ॥
माधविकापरिमलललिते नवमालिकजातिसुगंधौ । मुनिमनसामपि मोहनकारिणि तरुणाकारणबंधौ ॥ 6 ॥
स्फुरदतिमुक्तलतापरिरंभणमुकुलितपुलकितचूते । बृंदावनविपिने परिसरपरिगतयमुनाजलपूते ॥ 7 ॥
श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् । सरसवसंतसमयवनवर्णनमनुगतमदनविकारम् ॥ 8 ॥
दरविदलितमल्लीवल्लिचंचत्पराग-प्रकटितपटवासैर्वासयन् काननानि । इह हि दहति चेतः केतकीगंधबंधुः प्रसरदसमबाणप्राणवद्गंधवाहः ॥ 8 ॥
उन्मीलन्मधुगंधलुब्धमधुपव्याधूतचूतांकुर-क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः । नीयंते पथिकैः कथंकथमपि ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ 9 ॥
अनेकनारीपरिरंभसंभ्रम-स्फुरन्मनोहारिविलासलालसम् । मुरारिमारादुपदर्शयंत्यसौ सखी समक्षं पुनराह राधिकाम् ॥ 10 ॥
॥ गीतं 4 ॥
चंदनचर्चितनीलकलेबरपीतवसनवनमाली । केलिचलन्मणिकुंडलमंडितगंडयुगस्मितशाली ॥ हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥ 1 ॥
पीनपयोधरभारभरेण हरिं परिरम्य सरागम् । गोपवधूरनुगायति काचिदुदंचितपंचमरागम् ॥ 2 ॥
कापि विलासविलोलविलोचनखेलनजनितमनोजम् । ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ 3 ॥
कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले । चारु चुचुंब नितंबवती दयितं पुलकैरनुकूले ॥ 4 ॥
केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले । मंजुलवंजुलकुंजगतं विचकर्ष करेण दुकूले ॥ 5 ॥
करतलतालतरलवलयावलिकलितकलस्वनवंशे । रासरसे सहनृत्यपरा हरिणा युवतिः प्रशशंसे ॥ 6 ॥
श्लिष्यति कामपि चुंबति कामपि कामपि रमयति रामाम् । पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम् ॥ 7 ॥
श्रीजयदेवकवेरिदमद्भुतकेशवकेलिरहस्यम् । वृंदावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ 8 ॥
विश्वेषामनुरंजनेन जनयन्नानंदमिंदीवर-श्रेणीश्यामलकोमलैरुपनयन्नंगैरनंगोत्सवम् । स्वच्छंदं व्रजसुंदरीभिरभितः प्रत्यंगमालिंकितः शृंगारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ 11 ॥
अद्योत्संगवसद्भुजंगकवलक्लेशादिवेशाचलं प्रालेयप्लवनेच्छयानुसरति श्रीखंडशैलानिलः । किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया-दुन्मीलंति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः ॥ 12 ॥
रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवा-मभ्यर्णं परिरम्यनिर्भरमुरः प्रेमांधया राधया । साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-व्याजादुद्भटचुंबितस्मितमनोहरी हरिः पातु वः ॥ 13 ॥
॥ इति श्रीगीतगोविंदे सामोददामोदरो नाम प्रथमः सर्गः ॥
Browse Related Categories: