Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ एकादशः सर्गः ॥ ॥ सानंददामोदरः ॥
सुचिरमनुनयने प्रीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुंजशय्याम् । रचितरुचिरभूषां दृष्टिमोषे प्रदोषे स्फुरति निरवसादां कापि राधां जगाद ॥ 59 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
॥ गीतं 20 ॥
विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् । संप्रति मंजुलवंजुलसीमनि केलिशयनमनुयातम् ॥ मुग्धे मधुमथनमनुगतमनुसर राधिके ॥ 1 ॥
घनजघनस्तनभारभरे दरमंथरचरणविहारम् । मुखरितमणीमंजीरमुपैहि विधेहि मरालविकारम् ॥ 2 ॥
शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् । कुसुमशरासनशासनबंदिनि पिकनिकरे भज भावम् ॥ 3 ॥
अनिलतरलकिसलयनिकरेण करेण लतानिकुरंबम् । प्रेरणमिव करभोरु करोति गतिं प्रतिमुंच विलंबम् ॥ 4 ॥
स्फुरितमनंगतरंगवशादिव सूचितहरिपरिरंभम् । पृच्छ मनोहरहारविमलजलधारममुं कुचकुंभम् ॥ 5 ॥
अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् । चंडि रसितरशनारवडिंडिममभिसर सरसमलज्जम् ॥ 6 ॥
स्मरशरसुभगनखेन करेण सखीमवलंब्य सलीलम् । चल वलयक्वणीतैरवबोधय हरमपि निजगतिशीलम् ॥ 7 ॥
श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् । हरिविनिहितमनसामधितिष्ठतु कंठतटीमविरामम् ॥ 8 ॥
सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यंगमालिंगनैः प्रीतिं यास्यति रम्यते सखि समागत्येति चिंताकुलः । स त्वां पश्यति वेपते पुलकयत्यानंदति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुंजे निकुंजे प्रियः ॥ 60 ॥
अक्ष्णोर्निक्षिपदंजनं श्रवणयोस्तापिच्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापात्रकम् । धूर्तानामभिसारसत्वरहृदां विष्वङ्निकुंजे सखि ध्वांतं नीलनिचोलचारु सदृशां प्रत्यंगमालिंगति ॥ 61 ॥
काश्मीरगौरवपुषामभिसारिकाणां आबद्धरेखमभितो रुचिमंजरीभिः । एतत्तमालदलनीलतमं तमिश्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ 62 ॥
हारावलीतरलकांचनकांचिदाम-केयूरकंकणमणिद्युतिदीपितस्य । द्वारे निकुंजनिलयस्यहरिं निरीक्ष्य व्रीडावतीमथ सखी निजगाह राधाम् ॥ 63 ॥
॥ गीतं 21 ॥
मंजुतरकुंजतलकेलिसदने । विलस रतिरभसहसितवदने ॥ प्रविश राधे माधवसमीपमिह ॥ 1 ॥
नवभवदशोकदलशयनसारे । विलस कुचकलशतरलहारे ॥ 2 ॥
कुसुमचयरचितशुचिवासगेहे । विलस कुसुमसुकुमारदेहे ॥ 3 ॥
चलमलयवनपवनसुरभिशीते । विलस रसवलितललितगीते ॥ 4 ॥
मधुमुदितमधुपकुलकलितरावे । विलस मदनरससरसभावे ॥ 5 ॥
मधुतरलपिकनिकरनिनदमुखरे । विलस दशनरुचिरुचिरशिखरे ॥ 6 ॥
वितत बहुवल्लिनवपल्लवघने । विलस चिरमलसपीनजघने ॥ 7 ॥
विहितपद्मावतीसुखसमाजे । भणति जयदेवकविराजे ॥ 8 ॥
त्वां चित्तेन चिरं वहन्नयमतिश्रांतो भृशं तापितः कंदर्पेण तु पातुमिच्छति सुधासंबाधबिंबाधरम् । अस्यांगं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव-क्रीते दास इवोपसेवितपदांभोजे कुतः संभ्रमः ॥ 64 ॥
सा ससाध्वससानंदं गोविंदे लोललोचना । सिंजानमंजुमंजीरं प्रविवेश निवेशनम् ॥ 65 ॥
॥ गीतं 22 ॥
राधावदनविलोकनविकसितविविधविकारविभंगम् । जलनिधिमिव विधुमंडलदर्शनतरलिततुंगतरंगम् ॥ हरिमेकरसं चिरमभिलषितविलासं सा ददार्श गुरुहर्षवशंवदवदनमनंगनिवासम् ॥ 1 ॥
हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् । स्फुटतरफेनकदंबकरंबितमिव यमुनाजलपूरम् ॥ 2 ॥
श्यामलमृदुलकलेवरमंडलमधिगतगौरदुकूलम् । नीलनलिनमिव पीतपरागपतलभरवलयितमूलम् ॥ 3 ॥
तरलदृगंचलचलनमनोहरवदनजनितरतिरागम् । स्फुटकमलोदरखेलितखंजनयुगमिव शरदि तडागम् ॥ 4 ॥
वदनकमलपरिशीलनमिलितमिहिरसमकुंडलशोभम् । स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ 5 ॥
शशिकिरणच्छुरितोदरजलधरसुंदरसकुसुमकेशम् । तिमिरोदितविधुमण्दलनिर्मलमलयजतिलकनिवेशम् ॥ 6 ॥
विपुलपुलकभरदंतुरितं रतिकेलिकलाभिरधीरम् । मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ 7 ॥
श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् । प्रणमत हृदि सुचिरं विनिधाय हरिं सुकृतोदयसारम् ॥ 8 ॥
अतिक्रम्यापांगं श्रवणपथपर्यंतगमन-प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः । इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदांबुप्रसर इव हर्षाश्रुनिकरः ॥ 66 ॥
भवंत्यास्तल्पांतं कृतकपटकंडूतिपिहित-स्मितं याते गेहाद्बहिरवहितालीपरिजने । प्रियास्यं पश्यंत्याः स्मरशरसमाकूलसुभगं सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ 67 ॥
॥ इति श्रीगीतगोविंदे राधिकामिलने सानंददामोदरो नामैकादशः सर्गः ॥
Browse Related Categories: