Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ सप्तमः सर्गः ॥ ॥ नागरनारायणः ॥
अत्रांतरे च कुलटाकुलवर्त्मपात-संजातपातक इव स्फुटलांछनश्रीः । वृंदावनांतरमदीपयदंशुजालै-र्दिक्सुंदरीवदनचंदनबिंदुरिंदुः ॥ 40 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
प्रसरति शशधरबिंबे विहितविलंबे च माधवे विधुरा । विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ 41 ॥
॥ गीतं 13 ॥
कथितसमयेऽपि हरिरहह न ययौ वनम् । मम विफलमिदममलरूपमपि यौवनम् ॥ यामि हे कमिह शरणं सखीजनवचनवंचिता ॥ 1 ॥
यदनुगमनाय निशि गहनमपि शीलितम् । तेन मम हृदयमिदमसमशरकीलितम् ॥ 2 ॥
मम मरणमेव वरमतिवितथकेतना । किमिह विषहामि विरहानलचेतना ॥ 3 ॥
मामहह विधुरयति मधुरमधुयामिनी । कापि हरिमनुभवति कृतसुकृतकामिनी ॥ 4 ॥
अहह कलयामि वलयादिमणीभूषणम् । हरिविरहदहनवहनेन बहुदूषणम् ॥ 5 ॥
कुसुमसुकुमारतनुमतनुशरलीलया । स्रगपि हृदि हंति मामतिविषमशीलया ॥ 6 ॥
अहमिह निवसामि नगणितवनवेतसा । स्मरति मधुसूदनो मामपि न चेतसा ॥ 7 ॥
हरिचरणशरणजयदेवकविभारती । वसतु हृदि युवतिरिव कोमलकलावती ॥ 8 ॥
तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-र्बद्धो बंधुभिरंधकारिणि वनोपांते किमु भ्राम्यति । कांतः क्लांतमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमंजुवंजुललताकुंजेऽपि यन्नागतः ॥ 42 ॥
अथागतां माधवमंतरेण सखीमियं वीक्ष्य विषादमूकाम् । विशंक्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ 43 ॥
॥ गीतं 14 ॥
स्मरसमरोचितविरचितवेशा । गलितकुसुमदरविलुलितकेशा ॥ कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ 1 ॥
हरिपरिरंभणवलितविकारा । कुचकलशोपरि तरलितहारा ॥ 2 ॥
विचलदलकललिताननचंद्रा । तदधरपानरभसकृततंद्रा ॥ 3 ॥
चंचलकुंडलदलितकपोला । मुखरितरसनजघनगलितलोला ॥ 4 ॥
दयितविलोकितलज्जितहसिता । बहुविधकूजितरतिरसरसिता ॥ 5 ॥
विपुलपुलकपृथुवेपथुभंगा । श्वसितनिमीलितविकसदनंगा ॥ 6 ॥
श्रमजलकणभरसुभगशरीरा । परिपतितोरसि रतिरणधीरा ॥ 7 ॥
श्रीजयदेवभणितहरिरमितम् । कलिकलुषं जनयतु परिशमितम् ॥ 8 ॥
विरहपांडुमुरारिमुखांबुज-द्युतिरियं तिरयन्नपि चेतनाम् । विधुरतीव तनोति मनोभुवः सहृदये हृदये मदनव्यथाम् ॥ 44 ॥
॥ गीतं 15 ॥
समुदितमदने रमणीवदने चुंबनवलिताधरे । मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥ रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ 1 ॥
घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने । कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ 2 ॥
घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते । मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ 3 ॥
जितबिसशकले मृदुभुजयुगले करतलनलिनीदले । मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ 4 ॥
रतिगृहजघने विपुलापघने मनसिजकनकासने । मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ 5 ॥
चरणकिसलये कमलानिलये नखमणिगणपूजिते । बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ 6 ॥
रमयति सदृशं कामपि सुभृशं खलहलधरसोदरे । किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ 7 ॥
इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके । कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ 8 ॥
नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छंदं बहुवल्लभः स रमते किं तत्र ते दूषणम् । पश्याद्य प्रियसम्गमाय दयितस्याकृष्यमाणं गणै-रुत्कंठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ 45 ॥
॥ गीतं 16 ॥
अनिलतरलकुवलयनयनेन । तपति न सा किसलयशयनेन ॥ सखि या रमिता वनमालिना ॥ 1 ॥
विकसितसरसिजललितमुखेन । स्फुटति न सा मनसिजविशिखेन ॥ 2 ॥
अमृतमधुरमृदुतरवचनेन । ज्वलति न सा मलयजपवनेन ॥ 3 ॥
स्थलजलरुहरुचिकरचरणेन । लुठति न सा हिमकरकिरणेन ॥ 4 ॥
सजलजलदसमुदयरुचिरेण । दलति न सा हृदि चिरविरहेण ॥ 5 ॥
कनकनिकषरुचिशुचिवसनेन । श्वसति न सा परिजनहसनेन ॥ 6 ॥
सकलभुवनजनवरतरुणेन । वहति न सा रुजमतिकरुणेन ॥ 7 ॥
श्रीजयदेवभणितवचनेन । प्रविशतु हरिरपि हृदयमनेन ॥ 8 ॥
मनोभवानंदन चंदनानिल प्रसीद रे दक्षिण मुंच वामताम् । क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ 46 ॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिंदुनोति मनोगते । हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरंकुशः ॥ 47 ॥
बाधां विधेहि मलयानिल पंचबाण प्राणान्गृहाण न गृहं पुनराश्रयिष्ये । किं ते कृतांतभगिनि क्षमया तरंगै-रंगानि सिंच मम शाम्यतु देहदाहः ॥ 48 ॥
प्रातर्नीलनिचोलमच्युतमुरस्संवीतपीतांबरम् रधायाश्कितं विलोक्य हसति स्वैरं सखीमंडले । व्रीडाचंचलमंचलं नयनयोराधाय राधानने स्वादुस्मेरमुखोऽयमस्तु जगदानंदाय नंदात्मजः॥ (कस्मिंश्चन पाठांतरे इदं पद्यं विद्यते)
॥ इति गीतगोविंदे विप्रलब्धावर्णने नागनारायणो नाम सप्तमः सर्गः ॥
Browse Related Categories: