Kanda 5 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) यो वै वै यो यो वै । 2) वा अय॑थादेवत॒ मय॑थादेवतं॒-वैँ वा अय॑थादेवतम् । 3) अय॑थादेवत म॒ग्नि म॒ग्नि मय॑थादेवत॒ मय॑थादेवत म॒ग्निम् । 3) अय॑थादेवत॒मित्यय॑था - दे॒व॒त॒म् । 4) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 5) चि॒नु॒त आ चि॑नु॒ते चि॑नु॒त आ । 6) आ दे॒वता᳚भ्यो दे॒वता᳚भ्य॒ आ दे॒वता᳚भ्यः । 7) दे॒वता᳚भ्यो वृश्च्यते वृश्च्यते दे॒वता᳚भ्यो दे॒वता᳚भ्यो वृश्च्यते । 8) वृ॒श्च्य॒ते॒ पापी॑या॒-न्पापी॑यान् वृश्च्यते वृश्च्यते॒ पापी॑यान् । 9) पापी॑या-न्भवति भवति॒ पापी॑या॒-न्पापी॑या-न्भवति । 10) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 11) यो य॑थादेव॒तं-यँ॑थादेव॒तं-योँ यो य॑थादेव॒तम् । 12) य॒था॒दे॒व॒त-न्न न य॑थादेव॒तं-यँ॑थादेव॒त-न्न । 12) य॒था॒दे॒व॒तमिति॑ यथा - दे॒व॒तम् । 13) न दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ न न दे॒वता᳚भ्यः । 14) दे॒वता᳚भ्य॒ आ दे॒वता᳚भ्यो दे॒वता᳚भ्य॒ आ । 15) आ वृ॑श्च्यते वृश्च्यत॒ आ वृ॑श्च्यते । 16) वृ॒श्च्य॒ते॒ वसी॑या॒न्॒. वसी॑यान् वृश्च्यते वृश्च्यते॒ वसी॑यान् । 17) वसी॑या-न्भवति भवति॒ वसी॑या॒न्॒. वसी॑या-न्भवति । 18) भ॒व॒ त्या॒ग्ने॒य्या ऽऽग्ने॒य्या भ॑वति भव त्याग्ने॒य्या । 19) आ॒ग्ने॒य्या गा॑यत्रि॒या गा॑यत्रि॒या ऽऽग्ने॒य्या ऽऽग्ने॒य्या गा॑यत्रि॒या । 20) गा॒य॒त्रि॒या प्र॑थ॒मा-म्प्र॑थ॒मा-ङ्गा॑यत्रि॒या गा॑यत्रि॒या प्र॑थ॒माम् । 21) प्र॒थ॒मा-ञ्चिति॒-ञ्चिति॑-म्प्रथ॒मा-म्प्र॑थ॒मा-ञ्चिति᳚म् । 22) चिति॑ म॒भ्य॑भि चिति॒-ञ्चिति॑ म॒भि । 23) अ॒भि मृ॑शे-न्मृशे द॒भ्य॑भि मृ॑शेत् । 24) मृ॒शे॒-त्त्रि॒ष्टुभा᳚ स्त्रि॒ष्टुभा॑ मृशे-न्मृशे-त्त्रि॒ष्टुभाः᳚ । 25) त्रि॒ष्टुभा᳚ द्वि॒तीया᳚-न्द्वि॒तीया᳚-न्त्रि॒ष्टुभा᳚ स्त्रि॒ष्टुभा᳚ द्वि॒तीया᳚म् । 26) द्वि॒तीया॒-ञ्जग॑त्या॒ जग॑त्या द्वि॒तीया᳚-न्द्वि॒तीया॒-ञ्जग॑त्या । 27) जग॑त्या तृ॒तीया᳚-न्तृ॒तीया॒-ञ्जग॑त्या॒ जग॑त्या तृ॒तीया᳚म् । 28) तृ॒तीया॑ मनु॒ष्टुभा॑ ऽनु॒ष्टुभा॑ तृ॒तीया᳚-न्तृ॒तीया॑ मनु॒ष्टुभा᳚ । 29) अ॒नु॒ष्टुभा॑ चतु॒र्थी-ञ्च॑तु॒र्थी म॑नु॒ष्टुभा॑ ऽनु॒ष्टुभा॑ चतु॒र्थीम् । 29) अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । 30) च॒तु॒र्थी-म्प॒ङ्क्त्या प॒ङ्क्त्या च॑तु॒र्थी-ञ्च॑तु॒र्थी-म्प॒ङ्क्त्या । 31) प॒ङ्क्त्या प॑ञ्च॒मी-म्प॑ञ्च॒मी-म्प॒ङ्क्त्या प॒ङ्क्त्या प॑ञ्च॒मीम् । 32) प॒ञ्च॒मीं-यँ॑थादेव॒तं-यँ॑थादेव॒त-म्प॑ञ्च॒मी-म्प॑ञ्च॒मीं-यँ॑थादेव॒तम् । 33) य॒था॒दे॒व॒त मे॒वैव य॑थादेव॒तं-यँ॑थादेव॒त मे॒व । 33) य॒था॒दे॒व॒तमिति॑ यथा - दे॒व॒तम् । 34) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् । 35) अ॒ग्नि-ञ्चि॑नुते चिनुते॒ ऽग्नि म॒ग्नि-ञ्चि॑नुते । 36) चि॒नु॒ते॒ न न चि॑नुते चिनुते॒ न । 37) न दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ न न दे॒वता᳚भ्यः । 38) दे॒वता᳚भ्य॒ आ दे॒वता᳚भ्यो दे॒वता᳚भ्य॒ आ । 39) आ वृ॑श्च्यते वृश्च्यत॒ आ वृ॑श्च्यते । 40) वृ॒श्च्य॒ते॒ वसी॑या॒न्॒. वसी॑यान् वृश्च्यते वृश्च्यते॒ वसी॑यान् । 41) वसी॑या-न्भवति भवति॒ वसी॑या॒न्॒. वसी॑या-न्भवति । 42) भ॒व॒ तीडा॑या॒ इडा॑यै भवति भव॒ तीडा॑यै । 43) इडा॑यै॒ वै वा इडा॑या॒ इडा॑यै॒ वै । 44) वा ए॒षैषा वै वा ए॒षा । 45) ए॒षा विभ॑क्ति॒-र्विभ॑क्ति रे॒षैषा विभ॑क्तिः । 46) विभ॑क्तिः प॒शवः॑ प॒शवो॒ विभ॑क्ति॒-र्विभ॑क्तिः प॒शवः॑ । 46) विभ॑क्ति॒रिति॒ वि - भ॒क्तिः॒ । 47) प॒शव॒ इडेडा॑ प॒शवः॑ प॒शव॒ इडा᳚ । 48) इडा॑ प॒शुभिः॑ प॒शुभि॒ रिडेडा॑ प॒शुभिः॑ । 49) प॒शुभि॑ रेन मेन-म्प॒शुभिः॑ प॒शुभि॑ रेनम् । 49) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 50) ए॒न॒-ञ्चि॒नु॒ते॒ चि॒नु॒त॒ ए॒न॒ मे॒न॒-ञ्चि॒नु॒ते॒ । ॥ 1 ॥ (50/56)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) चि॒नु॒ते॒ यो यश्चि॑नुते चिनुते॒ यः । 2) यो वै वै यो यो वै । 3) वै प्र॒जाप॑तये प्र॒जाप॑तये॒ वै वै प्र॒जाप॑तये । 4) प्र॒जाप॑तये प्रति॒प्रोच्य॑ प्रति॒प्रोच्य॑ प्र॒जाप॑तये प्र॒जाप॑तये प्रति॒प्रोच्य॑ । 4) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 5) प्र॒ति॒प्रो च्या॒ग्नि म॒ग्नि-म्प्र॑ति॒प्रोच्य॑ प्रति॒प्रो च्या॒ग्निम् । 5) प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । 6) अ॒ग्नि-ञ्चि॒नोति॑ चि॒नो त्य॒ग्नि म॒ग्नि-ञ्चि॒नोति॑ । 7) चि॒नोति॒ न न चि॒नोति॑ चि॒नोति॒ न । 8) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् । 9) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 10) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 11) ऋ॒च्छ॒ त्यश्वा॒ वश्वा॑ वृच्छ त्यृच्छ॒ त्यश्वौ᳚ । 12) अश्वा॑ व॒भितो॒ ऽभितो ऽश्वा॒ वश्वा॑ व॒भितः॑ । 13) अ॒भित॑ स्तिष्ठेता-न्तिष्ठेता म॒भितो॒ ऽभित॑ स्तिष्ठेताम् । 14) ति॒ष्ठे॒ता॒-ङ्कृ॒ष्णः कृ॒ष्ण स्ति॑ष्ठेता-न्तिष्ठेता-ङ्कृ॒ष्णः । 15) कृ॒ष्ण उ॑त्तर॒त उ॑त्तर॒तः कृ॒ष्णः कृ॒ष्ण उ॑त्तर॒तः । 16) उ॒त्त॒र॒त-श्श्वे॒त-श्श्वे॒त उ॑त्तर॒त उ॑त्तर॒त-श्श्वे॒तः । 16) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 17) श्वे॒तो दक्षि॑णो॒ दक्षि॑ण-श्श्वे॒त-श्श्वे॒तो दक्षि॑णः । 18) दक्षि॑ण॒ स्तौ तौ दक्षि॑णो॒ दक्षि॑ण॒ स्तौ । 19) ता वा॒लभ्या॒ लभ्य॒ तौ ता वा॒लभ्य॑ । 20) आ॒ल भ्येष्ट॑का॒ इष्ट॑का आ॒लभ्या॒ लभ्येष्ट॑काः । 20) आ॒लभ्येत्या᳚ - लभ्य॑ । 21) इष्ट॑का॒ उपो पेष्ट॑का॒ इष्ट॑का॒ उप॑ । 22) उप॑ दद्ध्या-द्दद्ध्या॒ दुपोप॑ दद्ध्यात् । 23) द॒द्ध्या॒ दे॒त दे॒त-द्द॑द्ध्या-द्दद्ध्या दे॒तत् । 24) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 25) वै प्र॒जाप॑तेः प्र॒जाप॑ते॒-र्वै वै प्र॒जाप॑तेः । 26) प्र॒जाप॑ते रू॒पग्ं रू॒प-म्प्र॒जाप॑तेः प्र॒जाप॑ते रू॒पम् । 26) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 27) रू॒प-म्प्रा॑जाप॒त्यः प्रा॑जाप॒त्यो रू॒पग्ं रू॒प-म्प्रा॑जाप॒त्यः । 28) प्रा॒जा॒प॒त्यो ऽश्वो ऽश्वः॑ प्राजाप॒त्यः प्रा॑जाप॒त्यो ऽश्वः॑ । 28) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । 29) अश्व॑-स्सा॒क्षा-थ्सा॒क्षा दश्वो ऽश्व॑-स्सा॒क्षात् । 30) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व । 30) सा॒क्षादिति॑ स - अ॒क्षात् । 31) ए॒व प्र॒जाप॑तये प्र॒जाप॑तय ए॒वैव प्र॒जाप॑तये । 32) प्र॒जाप॑तये प्रति॒प्रोच्य॑ प्रति॒प्रोच्य॑ प्र॒जाप॑तये प्र॒जाप॑तये प्रति॒प्रोच्य॑ । 32) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । 33) प्र॒ति॒प्रोच्या॒ग्नि म॒ग्नि-म्प्र॑ति॒प्रोच्य॑ प्रति॒प्रोच्या॒ग्निम् । 33) प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । 34) अ॒ग्नि-ञ्चि॑नोति चिनो त्य॒ग्नि म॒ग्नि-ञ्चि॑नोति । 35) चि॒नो॒ति॒ न न चि॑नोति चिनोति॒ न । 36) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् । 37) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 38) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 39) ऋ॒च्छ॒ त्ये॒त दे॒त दृ॑च्छ त्यृच्छ त्ये॒तत् । 40) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 41) वा अह्नो ऽह्नो॒ वै वा अह्नः॑ । 42) अह्नो॑ रू॒पग्ं रू॒प मह्नो ऽह्नो॑ रू॒पम् । 43) रू॒पं-यँ-द्य-द्रू॒पग्ं रू॒पं-यँत् । 44) यच्छ्वे॒त-श्श्वे॒तो य-द्यच्छ्वे॒तः । 45) श्वे॒तो ऽश्वो ऽश्व॑-श्श्वे॒त-श्श्वे॒तो ऽश्वः॑ । 46) अश्वो॒ रात्रि॑यै॒ रात्रि॑या॒ अश्वो ऽश्वो॒ रात्रि॑यै । 47) रात्रि॑यै कृ॒ष्णः कृ॒ष्णो रात्रि॑यै॒ रात्रि॑यै कृ॒ष्णः । 48) कृ॒ष्ण ए॒त दे॒त-त्कृ॒ष्णः कृ॒ष्ण ए॒तत् । 49) ए॒त दह्नो ऽह्न॑ ए॒त दे॒त दह्नः॑ । 50) अह्नो॑ रू॒पग्ं रू॒प मह्नो ऽह्नो॑ रू॒पम् । ॥ 2 ॥ (50/59)
1) रू॒पं-यँ-द्य-द्रू॒पग्ं रू॒पं-यँत् । 2) यदिष्ट॑का॒ इष्ट॑का॒ य-द्यदिष्ट॑काः । 3) इष्ट॑का॒ रात्रि॑यै॒ रात्रि॑या॒ इष्ट॑का॒ इष्ट॑का॒ रात्रि॑यै । 4) रात्रि॑यै॒ पुरी॑ष॒-म्पुरी॑ष॒ग्ं॒ रात्रि॑यै॒ रात्रि॑यै॒ पुरी॑षम् । 5) पुरी॑ष॒ मिष्ट॑का॒ इष्ट॑काः॒ पुरी॑ष॒-म्पुरी॑ष॒ मिष्ट॑काः । 6) इष्ट॑का उपधा॒स्य-न्नु॑पधा॒स्य-न्निष्ट॑का॒ इष्ट॑का उपधा॒स्यन्न् । 7) उ॒प॒धा॒स्य-ञ्छ्वे॒तग्ग् श्वे॒त मु॑पधा॒स्य-न्नु॑पधा॒स्य-ञ्छ्वे॒तम् । 7) उ॒प॒धा॒स्यन्नित्यु॑प - धा॒स्यन्न् । 8) श्वे॒त मश्व॒ मश्वग्ग्॑ श्वे॒तग्ग् श्वे॒त मश्व᳚म् । 9) अश्व॑ म॒भ्य॑ भ्यश्व॒ मश्व॑ म॒भि । 10) अ॒भि मृ॑शे-न्मृशे द॒भ्य॑भि मृ॑शेत् । 11) मृ॒शे॒-त्पुरी॑ष॒-म्पुरी॑ष-म्मृशे-न्मृशे॒-त्पुरी॑षम् । 12) पुरी॑ष मुपधा॒स्य-न्नु॑पधा॒स्य-न्पुरी॑ष॒-म्पुरी॑ष मुपधा॒स्यन्न् । 13) उ॒प॒धा॒स्यन् कृ॒ष्ण-ङ्कृ॒ष्ण मु॑पधा॒स्य-न्नु॑पधा॒स्यन् कृ॒ष्णम् । 13) उ॒प॒धा॒स्यन्नित्यु॑प - धा॒स्यन्न् । 14) कृ॒ष्ण म॑होरा॒त्राभ्या॑ महोरा॒त्राभ्या᳚-ङ्कृ॒ष्ण-ङ्कृ॒ष्ण म॑होरा॒त्राभ्या᳚म् । 15) अ॒हो॒रा॒त्राभ्या॑ मे॒वै वाहो॑रा॒त्राभ्या॑ महोरा॒त्राभ्या॑ मे॒व । 15) अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । 16) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 17) ए॒न॒-ञ्चि॒नु॒ते॒ चि॒नु॒त॒ ए॒न॒ मे॒न॒-ञ्चि॒नु॒ते॒ । 18) चि॒नु॒ते॒ हि॒र॒ण्य॒पा॒त्रग्ं हि॑रण्यपा॒त्र-ञ्चि॑नुते चिनुते हिरण्यपा॒त्रम् । 19) हि॒र॒ण्य॒पा॒त्र-म्मधो॒-र्मधोर्॑. हिरण्यपा॒त्रग्ं हि॑रण्यपा॒त्र-म्मधोः᳚ । 19) हि॒र॒ण्य॒पा॒त्रमिति॑ हिरण्य - पा॒त्रम् । 20) मधोः᳚ पू॒र्ण-म्पू॒र्ण-म्मधो॒-र्मधोः᳚ पू॒र्णम् । 21) पू॒र्ण-न्द॑दाति ददाति पू॒र्ण-म्पू॒र्ण-न्द॑दाति । 22) द॒दा॒ति॒ म॒ध॒व्यो॑ मध॒व्यो॑ ददाति ददाति मध॒व्यः॑ । 23) म॒ध॒व्यो॑ ऽसा न्यसानि मध॒व्यो॑ मध॒व्यो॑ ऽसानि । 24) अ॒सा॒नी तीत्य॑ सा न्य सा॒नीति॑ । 25) इति॑ सौ॒र्या सौ॒र्ये तीति॑ सौ॒र्या । 26) सौ॒र्या चि॒त्रव॑त्या चि॒त्रव॑त्या सौ॒र्या सौ॒र्या चि॒त्रव॑त्या । 27) चि॒त्रव॒त्या ऽवाव॑ चि॒त्रव॑त्या चि॒त्रव॒त्या ऽव॑ । 27) चि॒त्रव॒त्येति॑ चि॒त्र - व॒त्या॒ । 28) अवे᳚क्षत ईक्ष॒ते ऽवावे᳚ क्षते । 29) ई॒क्ष॒ते॒ चि॒त्र-ञ्चि॒त्र मी᳚क्षत ईक्षते चि॒त्रम् । 30) चि॒त्र मे॒वैव चि॒त्र-ञ्चि॒त्र मे॒व । 31) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 32) भ॒व॒ति॒ म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने भवति भवति म॒द्ध्यन्दि॑ने । 33) म॒द्ध्यन्दि॒ने ऽश्व॒ मश्व॑-म्म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॒ने ऽश्व᳚म् । 34) अश्व॒ मवा वाश्व॒ मश्व॒ मव॑ । 35) अव॑ घ्रापयति घ्रापय॒ त्यवाव॑ घ्रापयति । 36) घ्रा॒प॒य॒ त्य॒सा व॒सौ घ्रा॑पयति घ्रापय त्य॒सौ । 37) अ॒सौ वै वा अ॒सा व॒सौ वै । 38) वा आ॑दि॒त्य आ॑दि॒त्यो वै वा आ॑दि॒त्यः । 39) आ॒दि॒त्य इन्द्र॒ इन्द्र॑ आदि॒त्य आ॑दि॒त्य इन्द्रः॑ । 40) इन्द्र॑ ए॒ष ए॒ष इन्द्र॒ इन्द्र॑ ए॒षः । 41) ए॒ष प्र॒जाप॑तिः प्र॒जाप॑ति रे॒ष ए॒ष प्र॒जाप॑तिः । 42) प्र॒जाप॑तिः प्राजाप॒त्यः प्रा॑जाप॒त्यः प्र॒जाप॑तिः प्र॒जाप॑तिः प्राजाप॒त्यः । 42) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 43) प्रा॒जा॒प॒त्यो ऽश्वो ऽश्वः॑ प्राजाप॒त्यः प्रा॑जाप॒त्यो ऽश्वः॑ । 43) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । 44) अश्व॒ स्त-न्त मश्वो ऽश्व॒ स्तम् । 45) त मे॒वैव त-न्त मे॒व । 46) ए॒व सा॒क्षा-थ्सा॒क्षा दे॒वैव सा॒क्षात् । 47) सा॒क्षा दृ॑द्ध्नो त्यृद्ध्नोति सा॒क्षा-थ्सा॒क्षा दृ॑द्ध्नोति । 47) सा॒क्षादिति॑ स - अ॒क्षात् । 48) ऋ॒द्ध्नो॒तीत्यृ॑द्ध्नोति । ॥ 3 ॥ (48/56) ॥ अ. 1 ॥
1) त्वा म॑ग्ने ऽग्ने॒ त्वा-न्त्वा म॑ग्ने । 2) अ॒ग्ने॒ वृ॒ष॒भं-वृँ॑ष॒भ म॑ग्ने ऽग्ने वृष॒भम् । 3) वृ॒ष॒भ-ञ्चेकि॑तान॒-ञ्चेकि॑तानं-वृँष॒भं-वृँ॑ष॒भ-ञ्चेकि॑तानम् । 4) चेकि॑तान॒-म्पुनः॒ पुन॒ श्चेकि॑तान॒-ञ्चेकि॑तान॒-म्पुनः॑ । 5) पुन॒-र्युवा॑नं॒-युँवा॑न॒-म्पुनः॒ पुन॒-र्युवा॑नम् । 6) युवा॑न-ञ्ज॒नय॑न् ज॒नय॒न्॒. युवा॑नं॒-युँवा॑न-ञ्ज॒नयन्न्॑ । 7) ज॒नय॑-न्नु॒पागा॑ मु॒पागा᳚-ञ्ज॒नय॑न् ज॒नय॑-न्नु॒पागा᳚म् । 8) उ॒पागा॒मित्यु॑प - आगा᳚म् । 9) अ॒स्थू॒रि नो॑ नो ऽस्थू॒र्य॑स्थू॒रि नः॑ । 10) नो॒ गार्ह॑पत्यानि॒ गार्ह॑पत्यानि नो नो॒ गार्ह॑पत्यानि । 11) गार्ह॑पत्यानि सन्तु सन्तु॒ गार्ह॑पत्यानि॒ गार्ह॑पत्यानि सन्तु । 11) गार्ह॑पत्या॒नीति॒ गार्ह॑ - प॒त्या॒नि॒ । 12) स॒न्तु॒ ति॒ग्मेन॑ ति॒ग्मेन॑ सन्तु सन्तु ति॒ग्मेन॑ । 13) ति॒ग्मेन॑ नो न स्ति॒ग्मेन॑ ति॒ग्मेन॑ नः । 14) नो॒ ब्रह्म॑णा॒ ब्रह्म॑णा नो नो॒ ब्रह्म॑णा । 15) ब्रह्म॑णा॒ सग्ं स-म्ब्रह्म॑णा॒ ब्रह्म॑णा॒ सम् । 16) सग्ं शि॑शाधि शिशाधि॒ सग्ं सग्ं शि॑शाधि । 17) शि॒शा॒धीति॑ शिशाधि । 18) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 19) वा ए॒त ए॒ते वै वा ए॒ते । 20) ए॒ते य-द्यदे॒त ए॒ते यत् । 21) यदिष्ट॑का॒ इष्ट॑का॒ य-द्यदिष्ट॑काः । 22) इष्ट॑का॒ श्चित्या᳚ञ्चित्या॒-ञ्चित्या᳚ञ्चित्या॒ मिष्ट॑का॒ इष्ट॑का॒ श्चित्या᳚ञ्चित्याम् । 23) चित्या᳚ञ्चित्या मृष॒भ मृ॑ष॒भ-ञ्चित्या᳚ञ्चित्या॒-ञ्चित्या᳚ञ्चित्या मृष॒भम् । 23) चित्या᳚ञ्चित्या॒मिति॒ चित्यां᳚ - चि॒त्या॒म् । 24) ऋ॒ष॒भ मुपोपा॑. र्ष॒भ मृ॑ष॒भ मुप॑ । 25) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 26) द॒धा॒ति॒ मि॒थु॒न-म्मि॑थु॒न-न्द॑धाति दधाति मिथु॒नम् । 27) मि॒थु॒न मे॒वैव मि॑थु॒न-म्मि॑थु॒न मे॒व । 28) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 29) अ॒स्य॒ त-त्तद॑ स्यास्य॒ तत् । 30) त-द्य॒ज्ञे य॒ज्ञे त-त्त-द्य॒ज्ञे । 31) य॒ज्ञे क॑रोति करोति य॒ज्ञे य॒ज्ञे क॑रोति । 32) क॒रो॒ति॒ प्र॒जन॑नाय प्र॒जन॑नाय करोति करोति प्र॒जन॑नाय । 33) प्र॒जन॑नाय॒ तस्मा॒-त्तस्मा᳚-त्प्र॒जन॑नाय प्र॒जन॑नाय॒ तस्मा᳚त् । 33) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । 34) तस्मा᳚-द्यू॒थेयू॑थे यू॒थेयू॑थे॒ तस्मा॒-त्तस्मा᳚-द्यू॒थेयू॑थे । 35) यू॒थेयू॑थ ऋष॒भ ऋ॑ष॒भो यू॒थेयू॑थे यू॒थेयू॑थ ऋष॒भः । 35) यू॒थेयू॑थ॒ इति॑ यू॒थे - यू॒थे॒ । 36) ऋ॒ष॒भ इत्यृ॑ष॒भः । 37) सं॒वँ॒थ्स॒रस्य॑ प्रति॒मा-म्प्र॑ति॒माग्ं सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्य॑ प्रति॒माम् । 37) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 38) प्र॒ति॒मां-यांँ या-म्प्र॑ति॒मा-म्प्र॑ति॒मां-याँम् । 38) प्र॒ति॒मामिति॑ प्रति - माम् । 39) या-न्त्वा᳚ त्वा॒ यां-याँ-न्त्वा᳚ । 40) त्वा॒ रा॒त्रि॒ रा॒त्रि॒ त्वा॒ त्वा॒ रा॒त्रि॒ । 41) रा॒त्र्यु॒पास॑त उ॒पास॑ते रात्रि रात्र्यु॒पास॑ते । 42) उ॒पास॑त॒ इत्यु॑प - आस॑ते । 43) प्र॒जाग्ं सु॒वीराग्ं॑ सु॒वीरा᳚-म्प्र॒जा-म्प्र॒जाग्ं सु॒वीरा᳚म् । 43) प्र॒जामिति॑ प्र - जाम् । 44) सु॒वीरा᳚-ङ्कृ॒त्वा कृ॒त्वा सु॒वीराग्ं॑ सु॒वीरा᳚-ङ्कृ॒त्वा । 44) सु॒वीरा॒मिति॑ सु - वीरा᳚म् । 45) कृ॒त्वा विश्वं॒-विँश्व॑-ङ्कृ॒त्वा कृ॒त्वा विश्व᳚म् । 46) विश्व॒ मायु॒ रायु॒-र्विश्वं॒-विँश्व॒ मायुः॑ । 47) आयु॒-र्वि व्यायु॒ रायु॒-र्वि । 48) व्य॑श्ञव दश्ञव॒-द्वि व्य॑श्ञवत् । 49) अ॒श्न॒व॒दित्य॑श्नवत् । 50) प्रा॒जा॒प॒त्या मे॒ता मे॒ता-म्प्रा॑जाप॒त्या-म्प्रा॑जाप॒त्या मे॒ताम् । 50) प्रा॒जा॒प॒त्यामिति॑ प्राजा - प॒त्याम् । ॥ 4 ॥ (50/59)
1) ए॒ता मुपो पै॒ता मे॒ता मुप॑ । 2) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 3) द॒धा॒ ती॒य मि॒य-न्द॑धाति दधा ती॒यम् । 4) इ॒यं-वाँव वावे य मि॒यं-वाँव । 5) वावैषैषा वाव वावैषा । 6) ए॒षै का᳚ष्ट॒ कैका᳚ष्ट॒ कैषैषै का᳚ष्ट॒का । 7) ए॒का॒ष्ट॒का य-द्यदे॑काष्ट॒ कैका᳚ष्ट॒का यत् । 7) ए॒का॒ष्ट॒केत्ये॑क - अ॒ष्ट॒का । 8) यदे॒ वैव य-द्यदे॒व । 9) ए॒व इका᳚ष्ट॒काया॑ मेकाष्ट॒काया॑ मे॒वैवै का᳚ष्ट॒काया᳚म् । 10) ए॒का॒ष्ट॒काया॒ मन्न॒ मन्न॑ मेकाष्ट॒काया॑ मेकाष्ट॒काया॒ मन्न᳚म् । 10) ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् । 11) अन्न॑-ङ्क्रि॒यते᳚ क्रि॒यते ऽन्न॒ मन्न॑-ङ्क्रि॒यते᳚ । 12) क्रि॒यते॒ त-त्त-त्क्रि॒यते᳚ क्रि॒यते॒ तत् । 13) तदे॒ वैव त-त्तदे॒व । 14) ए॒वै तयै॒ तयै॒ वैवै तया᳚ । 15) ए॒तया ऽवावै॒ तयै॒ तया ऽव॑ । 16) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 17) रु॒न्ध॒ ए॒षैषा रु॑न्धे रुन्ध ए॒षा । 18) ए॒षा वै वा ए॒षैषा वै । 19) वै प्र॒जाप॑तेः प्र॒जाप॑ते॒-र्वै वै प्र॒जाप॑तेः । 20) प्र॒जाप॑तेः काम॒दुघा॑ काम॒दुघा᳚ प्र॒जाप॑तेः प्र॒जाप॑तेः काम॒दुघा᳚ । 20) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 21) का॒म॒दुघा॒ तया॒ तया॑ काम॒दुघा॑ काम॒दुघा॒ तया᳚ । 21) का॒म॒दुघेति॑ काम - दुघा᳚ । 22) तयै॒ वैव तया॒ तयै॒व । 23) ए॒व यज॑मानो॒ यज॑मान ए॒वैव यज॑मानः । 24) यज॑मानो॒ ऽमुष्मि॑-न्न॒मुष्मि॒न्॒. यज॑मानो॒ यज॑मानो॒ ऽमुष्मिन्न्॑ । 25) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 26) लो॒के᳚ ऽग्नि म॒ग्निम् ँलो॒के लो॒के᳚ ऽग्निम् । 27) अ॒ग्नि-न्दु॑हे दुहे॒ ऽग्नि म॒ग्नि-न्दु॑हे । 28) दु॒हे॒ येन॒ येन॑ दुहे दुहे॒ येन॑ । 29) येन॑ दे॒वा दे॒वा येन॒ येन॑ दे॒वाः । 30) दे॒वा ज्योति॑षा॒ ज्योति॑षा दे॒वा दे॒वा ज्योति॑षा । 31) ज्योति॑ षो॒र्ध्वा ऊ॒र्ध्वा ज्योति॑षा॒ ज्योति॑ षो॒र्ध्वाः । 32) ऊ॒र्ध्वा उ॒दाय॑-न्नु॒दाय॑-न्नू॒र्ध्वा ऊ॒र्ध्वा उ॒दायन्न्॑ । 33) उ॒दाय॒न्॒. येन॒ येनो॒दाय॑-न्नु॒दाय॒न्॒. येन॑ । 33) उ॒दाय॒न्नित्यु॑त् - आयन्न्॑ । 34) येना॑दि॒त्या आ॑दि॒त्या येन॒ येना॑दि॒त्याः । 35) आ॒दि॒त्या वस॑वो॒ वस॑व आदि॒त्या आ॑दि॒त्या वस॑वः । 36) वस॑वो॒ येन॒ येन॒ वस॑वो॒ वस॑वो॒ येन॑ । 37) येन॑ रु॒द्रा रु॒द्रा येन॒ येन॑ रु॒द्राः । 38) रु॒द्रा इति॑ रु॒द्राः । 39) येनाङ्गि॑र॒सो ऽङ्गि॑रसो॒ येन॒ येनाङ्गि॑रसः । 40) अङ्गि॑रसो महि॒मान॑-म्महि॒मान॒ मङ्गि॑र॒सो ऽङ्गि॑रसो महि॒मान᳚म् । 41) म॒हि॒मान॑ मान॒शु रा॑न॒शु-र्म॑हि॒मान॑-म्महि॒मान॑ मान॒शुः । 42) आ॒न॒शु स्तेन॒ तेना॑ न॒शु रा॑न॒शु स्तेन॑ । 43) तेनै᳚ त्वेतु॒ तेन॒ तेनै॑तु । 44) ए॒तु॒ यज॑मानो॒ यज॑मान एत्वेतु॒ यज॑मानः । 45) यज॑मान-स्स्व॒स्ति स्व॒स्ति यज॑मानो॒ यज॑मान-स्स्व॒स्ति । 46) स्व॒स्तीति॑ स्व॒स्ति । 47) सु॒व॒र्गाय॒ वै वै सु॑व॒र्गाय॑ सुव॒र्गाय॒ वै । 47) सु॒व॒र्गायेति॑ सुवः - गाय॑ । 48) वा ए॒ष ए॒ष वै वा ए॒षः । 49) ए॒ष लो॒काय॑ लो॒कायै॒ष ए॒ष लो॒काय॑ । 50) लो॒काय॑ चीयते चीयते लो॒काय॑ लो॒काय॑ चीयते । ॥ 5 ॥ (50/56)
1) ची॒य॒ते॒ य-द्यच् ची॑यते चीयते॒ यत् । 2) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 3) अ॒ग्नि-र्येन॒ येना॒ग्नि र॒ग्नि-र्येन॑ । 4) येन॑ दे॒वा दे॒वा येन॒ येन॑ दे॒वाः । 5) दे॒वा ज्योति॑षा॒ ज्योति॑षा दे॒वा दे॒वा ज्योति॑षा । 6) ज्योति॑ षो॒र्ध्वा उ॒र्ध्वा ज्योति॑षा॒ ज्योति॑ षो॒र्ध्वाः । 7) उ॒र्ध्वा उ॒दाय॑-न्नु॒दाय॑-न्नु॒र्ध्वा उ॒र्ध्वा उ॒दायन्न्॑ । 8) उ॒दाय॒-न्निती त्यु॒दाय॑-न्नु॒दाय॒-न्निति॑ । 8) उ॒दाय॒न्नित्यु॑त् - आयन्न्॑ । 9) इत्युख्य॒ मुख्य॒ मिती त्युख्य᳚म् । 10) उख्य॒ग्ं॒ सग्ं स मुख्य॒ मुख्य॒ग्ं॒ सम् । 11) स मि॑न्ध इन्धे॒ सग्ं स मि॑न्धे । 12) इ॒न्ध॒ इष्ट॑का॒ इष्ट॑का इन्ध इन्ध॒ इष्ट॑काः । 13) इष्ट॑का ए॒वैवेष्ट॑का॒ इष्ट॑का ए॒व । 14) ए॒वैता ए॒ता ए॒वै वैताः । 15) ए॒ता उपोपै॒ता ए॒ता उप॑ । 16) उप॑ धत्ते धत्त॒ उपोप॑ धत्ते । 17) ध॒त्ते॒ वा॒न॒स्प॒त्या वा॑नस्प॒त्या ध॑त्ते धत्ते वानस्प॒त्याः । 18) वा॒न॒स्प॒त्या-स्सु॑व॒र्गस्य॑ सुव॒र्गस्य॑ वानस्प॒त्या वा॑नस्प॒त्या-स्सु॑व॒र्गस्य॑ । 19) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 19) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 20) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । 21) सम॑ष्ट्यै श॒तायु॑धाय श॒तायु॑धाय॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै श॒तायु॑धाय । 21) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । 22) श॒तायु॑धाय श॒तवी᳚र्याय श॒तवी᳚र्याय श॒तायु॑धाय श॒तायु॑धाय श॒तवी᳚र्याय । 22) श॒तायु॑धा॒येति॑ श॒त - आ॒यु॒धा॒य॒ । 23) श॒तवी᳚र्याय श॒तोत॑ये श॒तोत॑ये श॒तवी᳚र्याय श॒तवी᳚र्याय श॒तोत॑ये । 23) श॒तवी᳚र्या॒येति॑ श॒त - वी॒र्या॒य॒ । 24) श॒तोत॑ये ऽभिमाति॒षाहे॑ ऽभिमाति॒षाहे॑ श॒तोत॑ये श॒तोत॑ये ऽभिमाति॒षाहे᳚ । 24) श॒तोत॑य॒ इति॑ श॒त - ऊ॒त॒ये॒ । 25) अ॒भि॒मा॒ति॒षाह॒ इत्य॑भिमाति - साहे᳚ । 26) श॒तं-योँ य-श्श॒तग्ं श॒तं-यः ँ। 27) यो नो॑ नो॒ यो यो नः॑ । 28) न॒-श्श॒रद॑-श्श॒रदो॑ नो न-श्श॒रदः॑ । 29) श॒रदो॒ अजी॑ता॒ नजी॑ता-ञ्छ॒रद॑-श्श॒रदो॒ अजी॑तान् । 30) अजी॑ता॒ निन्द्र॒ इन्द्रो॒ अजी॑ता॒ नजी॑ता॒ निन्द्रः॑ । 31) इन्द्रो॑ नेष-न्नेष॒ दिन्द्र॒ इन्द्रो॑ नेषत् । 32) ने॒ष॒ दत्यति॑ नेष-न्नेष॒ दति॑ । 33) अति॑ दुरि॒तानि॑ दुरि॒ता न्यत्यति॑ दुरि॒तानि॑ । 34) दु॒रि॒तानि॒ विश्वा॒ विश्वा॑ दुरि॒तानि॑ दुरि॒तानि॒ विश्वा᳚ । 34) दु॒रि॒तानीति॑ दुः - इ॒तानि॑ । 35) विश्वेति॒ विश्वा᳚ । 36) ये च॒त्वार॑ श्च॒त्वारो॒ ये ये च॒त्वारः॑ । 37) च॒त्वारः॑ प॒थयः॑ प॒थय॑ श्च॒त्वार॑ श्च॒त्वारः॑ प॒थयः॑ । 38) प॒थयो॑ देव॒याना॑ देव॒यानाः᳚ प॒थयः॑ प॒थयो॑ देव॒यानाः᳚ । 39) दे॒व॒याना॑ अन्त॒रा ऽन्त॒रा दे॑व॒याना॑ देव॒याना॑ अन्त॒रा । 39) दे॒व॒याना॒ इति॑ देव - यानाः᳚ । 40) अ॒न्त॒रा द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॑न्त॒रा ऽन्त॒रा द्यावा॑पृथि॒वी । 41) द्यावा॑पृथि॒वी वि॒यन्ति॑ वि॒यन्ति॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी वि॒यन्ति॑ । 41) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 42) वि॒यन्तीति॑ वि - यन्ति॑ । 43) तेषां॒-योँ य स्तेषा॒-न्तेषां॒-यः ँ। 44) यो अज्या॑नि॒ मज्या॑निं॒-योँ यो अज्या॑निम् । 45) अज्या॑नि॒ मजी॑ति॒ मजी॑ति॒ मज्या॑नि॒ मज्या॑नि॒ मजी॑तिम् । 46) अजी॑ति मा॒वहा॑ दा॒वहा॒ दजी॑ति॒ मजी॑ति मा॒वहा᳚त् । 47) आ॒वहा॒-त्तस्मै॒ तस्मा॑ आ॒वहा॑ दा॒वहा॒-त्तस्मै᳚ । 47) आ॒वहा॒दित्या᳚ - वहा᳚त् । 48) तस्मै॑ नो न॒ स्तस्मै॒ तस्मै॑ नः । 49) नो॒ दे॒वा॒ दे॒वा॒ नो॒ नो॒ दे॒वाः॒ । 50) दे॒वाः॒ परि॒ परि॑ देवा देवाः॒ परि॑ । ॥ 6 ॥ (50/60)
1) परि॑ दत्त दत्त॒ परि॒ परि॑ दत्त । 2) द॒त्ते॒ हेह द॑त्त दत्ते॒ह । 3) इ॒ह सर्वे॒ सर्व॑ इ॒हे ह सर्वे᳚ । 4) सर्व॒ इति॒ सर्वे᳚ । 5) ग्री॒ष्मो हे॑म॒न्तो हे॑म॒न्तो ग्री॒ष्मो ग्री॒ष्मो हे॑म॒न्तः । 6) हे॒म॒न्त उ॒तोत हे॑म॒न्तो हे॑म॒न्त उ॒त । 7) उ॒त नो॑ न उ॒तोत नः॑ । 8) नो॒ व॒स॒न्तो व॑स॒न्तो नो॑ नो वस॒न्तः । 9) व॒स॒न्त-श्श॒रच् छ॒र-द्व॑स॒न्तो व॑स॒न्त-श्श॒रत् । 10) श॒र-द्व॒र्॒षा व॒र्॒षा-श्श॒रच् छ॒र-द्व॒र्॒षाः । 11) व॒र्॒षा-स्सु॑वि॒तग्ं सु॑वि॒तं-वँ॒र्॒षा व॒र्॒षा-स्सु॑वि॒तम् । 12) सु॒वि॒त-न्नो॑ न-स्सुवि॒तग्ं सु॑वि॒त-न्नः॑ । 13) नो॒ अ॒स्त्व॒स्तु॒ नो॒ नो॒ अ॒स्तु॒ । 14) अ॒स्त्वित्य॑स्तु । 15) तेषा॑ मृतू॒ना मृ॑तू॒ना-न्तेषा॒-न्तेषा॑ मृतू॒नाम् । 16) ऋ॒तू॒नाग्ं श॒तशा॑रदानाग्ं श॒तशा॑रदाना मृतू॒ना मृ॑तू॒नाग्ं श॒तशा॑रदानाम् । 17) श॒तशा॑रदाना-न्निवा॒ते नि॑वा॒ते श॒तशा॑रदानाग्ं श॒तशा॑रदाना-न्निवा॒ते । 17) श॒तशा॑रदाना॒मिति॑ श॒त - शा॒र॒दा॒ना॒म् । 18) नि॒वा॒त ए॑षा मेषा-न्निवा॒ते नि॑वा॒त ए॑षाम् । 18) नि॒वा॒त इति॑ नि - वा॒ते । 19) ए॒षा॒ मभ॒ये ऽभ॑य एषा मेषा॒ मभ॑ये । 20) अभ॑ये स्याम स्या॒मा भ॒ये ऽभ॑ये स्याम । 21) स्या॒मेति॑ स्याम । 22) इ॒दु॒व॒थ्स॒राय॑ परिवथ्स॒राय॑ परिवथ्स॒राये॑ दुवथ्स॒राये॑ दुवथ्स॒राय॑ परिवथ्स॒राय॑ । 22) इ॒दु॒व॒थ्स॒रायेती॑दु - व॒थ्स॒राय॑ । 23) प॒रि॒व॒थ्स॒राय॑ संवँथ्स॒राय॑ संवँथ्स॒राय॑ परिवथ्स॒राय॑ परिवथ्स॒राय॑ संवँथ्स॒राय॑ । 23) प॒रि॒व॒थ्स॒रायेति॑ परि - व॒थ्स॒राय॑ । 24) सं॒वँ॒थ्स॒राय॑ कृणुत कृणुत संवँथ्स॒राय॑ संवँथ्स॒राय॑ कृणुत । 24) सं॒वँ॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ । 25) कृ॒णु॒ता॒ बृ॒ह-द्बृ॒ह-त्कृ॑णुत कृणुता बृ॒हत् । 26) बृ॒ह-न्नमो॒ नमो॑ बृ॒ह-द्बृ॒ह-न्नमः॑ । 27) नम॒ इति॒ नमः॑ । 28) तेषां᳚-वँ॒यं-वँ॒य-न्तेषा॒-न्तेषां᳚-वँ॒यम् । 29) व॒यग्ं सु॑म॒तौ सु॑म॒तौ व॒यं-वँ॒यग्ं सु॑म॒तौ । 30) सु॒म॒तौ य॒ज्ञिया॑नां-यँ॒ज्ञिया॑नाग्ं सुम॒तौ सु॑म॒तौ य॒ज्ञिया॑नाम् । 30) सु॒म॒ताविति॑ सु - म॒तौ । 31) य॒ज्ञिया॑ना॒-ञ्ज्योग् ज्योग् य॒ज्ञिया॑नां-यँ॒ज्ञिया॑ना॒-ञ्ज्योक् । 32) ज्योगजी॑ता॒ अजी॑ता॒ ज्योग् ज्योगजी॑ताः । 33) अजी॑ता॒ अह॑ता॒ अह॑ता॒ अजी॑ता॒ अजी॑ता॒ अह॑ताः । 34) अह॑ता-स्स्याम स्या॒मा ह॑ता॒ अह॑ता-स्स्याम । 35) स्या॒मेति॑ स्याम । 36) भ॒द्रा-न्नो॑ नो भ॒द्रा-द्भ॒द्रा-न्नः॑ । 37) न॒-श्श्रेय॒-श्श्रेयो॑ नो न॒-श्श्रेयः॑ । 38) श्रेय॒-स्सग्ं सग्ग् श्रेय॒-श्श्रेय॒-स्सम् । 39) स म॑नैष्टा नैष्ट॒ सग्ं स म॑नैष्ट । 40) अ॒नै॒ष्ट॒ दे॒वा॒ दे॒वा॒ अ॒नै॒ष्टा॒ नै॒ष्ट॒ दे॒वाः॒ । 41) दे॒वा॒ स्त्वया॒ त्वया॑ देवा देवा॒ स्त्वया᳚ । 42) त्वया॑ ऽव॒सेना॑ व॒सेन॒ त्वया॒ त्वया॑ ऽव॒सेन॑ । 43) अ॒व॒सेन॒ सग्ं स म॑व॒सेना॑ व॒सेन॒ सम् । 44) स म॑शीमह्य शीमहि॒ सग्ं स म॑शीमहि । 45) अ॒शी॒म॒हि॒ त्वा॒ त्वा॒ ऽशी॒म॒ह्य॒ शी॒म॒हि॒ त्वा॒ । 46) त्वेति॑ त्वा । 47) स नो॑ न॒-स्स स नः॑ । 48) नो॒ म॒यो॒भू-र्म॑यो॒भू-र्नो॑ नो मयो॒भूः । 49) म॒यो॒भूः पि॑तो पितो मयो॒भू-र्म॑यो॒भूः पि॑तो । 49) म॒यो॒भूरिति॑ मयः - भूः । 50) पि॒तो॒ आ पि॑तो पितो॒ आ । 50) पि॒तो॒ इति॑ पितो । ॥ 7 ॥ (50/58)
1) आ वि॑शस्व विश॒स्वा वि॑शस्व । 2) वि॒श॒स्व॒ शग्ं शं-विँ॑शस्व विशस्व॒ शम् । 3) श-न्तो॒काय॑ तो॒काय॒ शग्ं श-न्तो॒काय॑ । 4) तो॒काय॑ त॒नुवे॑ त॒नुवे॑ तो॒काय॑ तो॒काय॑ त॒नुवे᳚ । 5) त॒नुवे᳚ स्यो॒न-स्स्यो॒न स्त॒नुवे॑ त॒नुवे᳚ स्यो॒नः । 6) स्यो॒न इति॑ स्यो॒नः । 7) अज्या॑नी रे॒ता ए॒ता अज्या॑नी॒ रज्या॑नी रे॒ताः । 8) ए॒ता उपोपै॒ता ए॒ता उप॑ । 9) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 10) द॒धा॒ त्ये॒ता ए॒ता द॑धाति दधा त्ये॒ताः । 11) ए॒ता वै वा ए॒ता ए॒ता वै । 12) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ । 13) दे॒वता॒ अप॑राजिता॒ अप॑राजिता दे॒वता॑ दे॒वता॒ अप॑राजिताः । 14) अप॑राजिता॒ स्ता स्ता अप॑राजिता॒ अप॑राजिता॒ स्ताः । 14) अप॑राजिता॒ इत्यप॑रा - जि॒ताः॒ । 15) ता ए॒वैव ता स्ता ए॒व । 16) ए॒व प्र प्रैवैव प्र । 17) प्र वि॑शति विशति॒ प्र प्र वि॑शति । 18) वि॒श॒ति॒ न न वि॑शति विशति॒ न । 19) नैवैव न नैव । 20) ए॒व जी॑यते जीयत ए॒वैव जी॑यते । 21) जी॒य॒ते॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ जीयते जीयते ब्रह्मवा॒दिनः॑ । 22) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 22) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 23) व॒द॒न्ति॒ य-द्य-द्व॑दन्ति वदन्ति॒ यत् । 24) यद॑र्धमा॒सा अ॑र्धमा॒सा य-द्यद॑र्धमा॒साः । 25) अ॒र्ध॒मा॒सा मासा॒ मासा॑ अर्धमा॒सा अ॑र्धमा॒सा मासाः᳚ । 25) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः । 26) मासा॑ ऋ॒तव॑ ऋ॒तवो॒ मासा॒ मासा॑ ऋ॒तवः॑ । 27) ऋ॒तव॑-स्संवँथ्स॒र-स्सं॑वँथ्स॒र ऋ॒तव॑ ऋ॒तव॑-स्संवँथ्स॒रः । 28) सं॒वँ॒थ्स॒र ओष॑धी॒ रोष॑धी-स्संवँथ्स॒र-स्सं॑वँथ्स॒र ओष॑धीः । 28) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 29) ओष॑धीः॒ पच॑न्ति॒ पच॒-न्त्योष॑धी॒ रोष॑धीः॒ पच॑न्ति । 30) पच॒-न्त्यथाथ॒ पच॑न्ति॒ पच॒-न्त्यथ॑ । 31) अथ॒ कस्मा॒-त्कस्मा॒ दथाथ॒ कस्मा᳚त् । 32) कस्मा॑ द॒न्याभ्यो॒ ऽन्याभ्यः॒ कस्मा॒-त्कस्मा॑ द॒न्याभ्यः॑ । 33) अ॒न्याभ्यो॑ दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ ऽन्याभ्यो॒ ऽन्याभ्यो॑ दे॒वता᳚भ्यः । 34) दे॒वता᳚भ्य आग्रय॒ण मा᳚ग्रय॒ण-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य आग्रय॒णम् । 35) आ॒ग्र॒य॒ण-न्नि-र्णिरा᳚ग्रय॒ण मा᳚ग्रय॒ण-न्निः । 36) निरु॑प्यत उप्यते॒ नि-र्णिरु॑प्यते । 37) उ॒प्य॒त॒ इती त्यु॑प्यत उप्यत॒ इति॑ । 38) इत्ये॒ता ए॒ता इतीत्ये॒ताः । 39) ए॒ता हि ह्ये॑ता ए॒ता हि । 40) हि त-त्तद्धि हि तत् । 41) त-द्दे॒वता॑ दे॒वता॒ स्त-त्त-द्दे॒वताः᳚ । 42) दे॒वता॑ उ॒दज॑य-न्नु॒दज॑य-न्दे॒वता॑ दे॒वता॑ उ॒दज॑यन्न् । 43) उ॒दज॑य॒न्॒. य-द्यदु॒दज॑य-न्नु॒दज॑य॒न्॒. यत् । 43) उ॒दज॑य॒न्नित्यु॑त् - अज॑यन्न् । 44) यदृ॒तुभ्य॑ ऋ॒तुभ्यो॒ य-द्यदृ॒तुभ्यः॑ । 45) ऋ॒तुभ्यो॑ नि॒र्वपे᳚-न्नि॒र्वपे॑ दृ॒तुभ्य॑ ऋ॒तुभ्यो॑ नि॒र्वपे᳚त् । 45) ऋ॒तुभ्य॒ इत्यृ॒तु - भ्यः॒ । 46) नि॒र्वपे᳚-द्दे॒वता᳚भ्यो दे॒वता᳚भ्यो नि॒र्वपे᳚-न्नि॒र्वपे᳚-द्दे॒वता᳚भ्यः । 46) नि॒र्वपे॒दिति॑ निः - वपे᳚त् । 47) दे॒वता᳚भ्य-स्स॒मदग्ं॑ स॒मद॑-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य-स्स॒मद᳚म् । 48) स॒मद॑-न्दद्ध्या-द्दद्ध्या-थ्स॒मदग्ं॑ स॒मद॑-न्दद्ध्यात् । 48) स॒मद॒मिति॑ स - मद᳚म् । 49) द॒द्ध्या॒ दा॒ग्र॒य॒ण मा᳚ग्रय॒ण-न्द॑द्ध्या-द्दद्ध्या दाग्रय॒णम् । 50) आ॒ग्र॒य॒ण-न्नि॒रुप्य॑ नि॒रुप्या᳚ ग्रय॒ण मा᳚ग्रय॒ण-न्नि॒रुप्य॑ । 51) नि॒रुप्यै॒ता ए॒ता नि॒रुप्य॑ नि॒रुप्यै॒ताः । 51) नि॒रुप्येति॑ निः - उप्य॑ । 52) ए॒ता आहु॑ती॒ राहु॑ती रे॒ता ए॒ता आहु॑तीः । 53) आहु॑ती-र्जुहोति जुहो॒ त्याहु॑ती॒ राहु॑ती-र्जुहोति । 53) आहु॑ती॒रित्या - हु॒तीः॒ । 54) जु॒हो॒ त्य॒र्ध॒मा॒सा न॑र्धमा॒सानि जु॑होति जुहो त्यर्धमा॒सानि । 55) अ॒र्ध॒मा॒सा ने॑वैवा र्ध॑मा॒सा न॑र्धमा॒सा ने॑व । 55) अ॒र्ध॒मा॒सानित्य॑र्ध - मा॒सान् । 56) ए॒व मासा॒-न्मासा॑ ने॒वैव मासान्॑ । 57) मासा॑ नृ॒तू नृ॒तू-न्मासा॒-न्मासा॑ नृ॒तून् । 58) ऋ॒तू-न्थ्सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मृ॒तू नृ॒तू-न्थ्सं॑वँथ्स॒रम् । 59) सं॒वँ॒थ्स॒र-म्प्री॑णाति प्रीणाति संवँथ्स॒रग्ं सं॑वँथ्स॒र-म्प्री॑णाति । 59) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 60) प्री॒णा॒ति॒ न न प्री॑णाति प्रीणाति॒ न । 61) न दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ न न दे॒वता᳚भ्यः । 62) दे॒वता᳚भ्य-स्स॒मदग्ं॑ स॒मद॑-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य-स्स॒मद᳚म् । 63) स॒मद॑-न्दधाति दधाति स॒मदग्ं॑ स॒मद॑-न्दधाति । 63) स॒मद॒मिति॑ स - मद᳚म् । 64) द॒धा॒ति॒ भ॒द्रा-द्भ॒द्रा-द्द॑धाति दधाति भ॒द्रात् । 65) भ॒द्रा-न्नो॑ नो भ॒द्रा-द्भ॒द्रा-न्नः॑ । 66) न॒-श्श्रेय॒-श्श्रेयो॑ नो न॒-श्श्रेयः॑ । 67) श्रेय॒-स्सग्ं सग्ग् श्रेय॒-श्श्रेय॒-स्सम् । 68) स म॑नैष्टा नैष्ट॒ सग्ं स म॑नैष्ट । 69) अ॒नै॒ष्ट॒ दे॒वा॒ दे॒वा॒ अ॒नै॒ष्टा॒ नै॒ष्ट॒ दे॒वाः॒ । 70) दे॒वा॒ इतीति॑ देवा देवा॒ इति॑ । 71) इत्या॑हा॒हे तीत्या॑ह । 72) आ॒ह॒ हु॒ताद्या॑य हु॒ताद्या॑ याहाह हु॒ताद्या॑य । 73) हु॒ताद्या॑य॒ यज॑मानस्य॒ यज॑मानस्य हु॒ताद्या॑य हु॒ताद्या॑य॒ यज॑मानस्य । 73) हु॒ताद्या॒येति॑ हुत - अद्या॑य । 74) यज॑मान॒स्या प॑राभावा॒या प॑राभावाय॒ यज॑मानस्य॒ यज॑मान॒स्या प॑राभावाय । 75) अप॑राभावा॒येत्यप॑रा - भा॒वा॒य॒ । ॥ 8 ॥ (75/89) ॥ अ. 2 ॥
1) इन्द्र॑स्य॒ वज्रो॒ वज्र॒ इन्द्र॒ स्येन्द्र॑स्य॒ वज्रः॑ । 2) वज्रो᳚ ऽस्यसि॒ वज्रो॒ वज्रो॑ ऽसि । 3) अ॒सि॒ वार्त्र॑घ्नो॒ वार्त्र॑घ्नो ऽस्यसि॒ वार्त्र॑घ्नः । 4) वार्त्र॑घ्न स्तनू॒पा स्त॑नू॒पा वार्त्र॑घ्नो॒ वार्त्र॑घ्न स्तनू॒पाः । 4) वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ । 5) त॒नू॒पा नो॑ न स्तनू॒पा स्त॑नू॒पा नः॑ । 5) त॒नू॒पा इति॑ तनू - पाः । 6) नः॒ प्र॒ति॒स्प॒शः प्र॑तिस्प॒शो नो॑ नः प्रतिस्प॒शः । 7) प्र॒ति॒स्प॒श इति॑ प्रति - स्प॒शः । 8) यो नो॑ नो॒ यो यो नः॑ । 9) नः॒ पु॒रस्ता᳚-त्पु॒रस्ता᳚-न्नो नः पु॒रस्ता᳚त् । 10) पु॒रस्ता᳚-द्दक्षिण॒तो द॑क्षिण॒तः पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्दक्षिण॒तः । 11) द॒क्षि॒ण॒तः प॒श्चा-त्प॒श्चा-द्द॑क्षिण॒तो द॑क्षिण॒तः प॒श्चात् । 12) प॒श्चा दु॑त्तर॒त उ॑त्तर॒तः प॒श्चा-त्प॒श्चा दु॑त्तर॒तः । 13) उ॒त्त॒र॒तो॑ ऽघा॒यु र॑घा॒यु रु॑त्तर॒त उ॑त्तर॒तो॑ ऽघा॒युः । 13) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 14) अ॒घा॒यु र॑भि॒दास॑ त्यभि॒दास॑ त्यघा॒यु र॑घा॒यु र॑भि॒दास॑ति । 14) अ॒घा॒युरित्य॑घ - युः । 15) अ॒भि॒दास॑ त्ये॒त मे॒त म॑भि॒दास॑ त्यभि॒दास॑ त्ये॒तम् । 15) अ॒भि॒दास॒तीत्य॑भि - दास॑ति । 16) ए॒तग्ं स स ए॒त मे॒तग्ं सः । 17) सो ऽश्मा॑न॒ मश्मा॑न॒ग्ं॒ स सो ऽश्मा॑नम् । 18) अश्मा॑न मृच्छ त्वृच्छ॒ त्वश्मा॑न॒ मश्मा॑न मृच्छतु । 19) ऋ॒च्छ॒त्वित्यृ॑च्छतु । 20) दे॒वा॒सु॒रा-स्संयँ॑त्ता॒-स्संयँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्संयँ॑त्ताः । 20) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । 21) संयँ॑त्ता आस-न्नास॒-न्थ्संयँ॑त्ता॒-स्संयँ॑त्ता आसन्न् । 21) संयँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ । 22) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते । 23) ते ऽसु॑रा॒ असु॑रा॒ स्ते ते ऽसु॑राः । 24) असु॑रा दि॒ग्भ्यो दि॒ग्भ्यो ऽसु॑रा॒ असु॑रा दि॒ग्भ्यः । 25) दि॒ग्भ्य आ दि॒ग्भ्यो दि॒ग्भ्य आ । 25) दि॒ग्भ्य इति॑ दिक् - भ्यः । 26) आ ऽबा॑धन्ता बाध॒न्ता ऽबा॑धन्त । 27) अ॒बा॒ध॒न्त॒ ताग् स्ता न॑बाधन्ता बाधन्त॒ तान् । 28) ता-न्दे॒वा दे॒वा स्ताग् स्ता-न्दे॒वाः । 29) दे॒वा इष्वेष्वा॑ दे॒वा दे॒वा इष्वा᳚ । 30) इष्वा॑ च॒ चेष्वेष्वा॑ च । 31) च॒ वज्रे॑ण॒ वज्रे॑ण च च॒ वज्रे॑ण । 32) वज्रे॑ण च च॒ वज्रे॑ण॒ वज्रे॑ण च । 33) चापाप॑ च॒ चाप॑ । 34) अपा॑ नुदन्ता नुद॒न्ता पापा॑ नुदन्त । 35) अ॒नु॒द॒न्त॒ य-द्यद॑नुदन्ता नुदन्त॒ यत् । 36) य-द्व॒ज्रिणी᳚-र्व॒ज्रिणी॒-र्य-द्य-द्व॒ज्रिणीः᳚ । 37) व॒ज्रिणी॑ रुप॒दधा᳚ त्युप॒दधा॑ति व॒ज्रिणी᳚-र्व॒ज्रिणी॑ रुप॒दधा॑ति । 38) उ॒प॒दधा॒ तीष्वे ष्वो॑प॒दधा᳚ त्युप॒दधा॒ तीष्वा᳚ । 38) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 39) इष्वा॑ च॒ चेष्वेष्वा॑ च । 40) चै॒वैव च॑ चै॒व । 41) ए॒व त-त्तदे॒ वैव तत् । 42) त-द्वज्रे॑ण॒ वज्रे॑ण॒ त-त्त-द्वज्रे॑ण । 43) वज्रे॑ण च च॒ वज्रे॑ण॒ वज्रे॑ण च । 44) च॒ यज॑मानो॒ यज॑मानश्च च॒ यज॑मानः । 45) यज॑मानो॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒न्॒. यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यान् । 46) भ्रातृ॑व्या॒ नपाप॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒ नप॑ । 47) अप॑ नुदते नुद॒ते ऽपाप॑ नुदते । 48) नु॒द॒ते॒ दि॒क्षु दि॒क्षु नु॑दते नुदते दि॒क्षु । 49) दि॒क्षू पोप॑ दि॒क्षु दि॒क्षूप॑ । 50) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । ॥ 9 ॥ (50/59)
1) द॒धा॒ति॒ दे॒व॒पु॒रा दे॑वपु॒रा द॑धाति दधाति देवपु॒राः । 2) दे॒व॒पु॒रा ए॒वैव दे॑वपु॒रा दे॑वपु॒रा ए॒व । 2) दे॒व॒पु॒रा इति॑ देव - पु॒राः । 3) ए॒वैता ए॒ता ए॒वै वैताः । 4) ए॒ता स्त॑नू॒पानी᳚ स्तनू॒पानी॑ रे॒ता ए॒ता स्त॑नू॒पानीः᳚ । 5) त॒नू॒पानीः॒ परि॒ परि॑ तनू॒पानी᳚ स्तनू॒पानीः॒ परि॑ । 5) त॒नू॒पानी॒रिति॑ तनू - पानीः᳚ । 6) पर्यू॑हत ऊहते॒ परि॒ पर्यू॑हते । 7) ऊ॒ह॒ते ऽग्ना॑विष्णू॒ अग्ना॑विष्णू ऊहत ऊह॒ते ऽग्ना॑विष्णू । 8) अग्ना॑विष्णू स॒जोष॑सा स॒जोष॒सा ऽग्ना॑विष्णू॒ अग्ना॑विष्णू स॒जोष॑सा । 8) अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ । 9) स॒जोष॑ से॒मा इ॒मा-स्स॒जोष॑सा स॒जोष॑ से॒माः । 9) स॒जोष॒सेति॑ स - जोष॑सा । 10) इ॒मा व॑र्धन्तु वर्ध-न्त्वि॒मा इ॒मा व॑र्धन्तु । 11) व॒र्ध॒न्तु॒ वां॒-वाँं॒-वँ॒र्ध॒न्तु॒ व॒र्ध॒न्तु॒ वा॒म् । 12) वा॒-ङ्गिरो॒ गिरो॑ वां-वाँ॒-ङ्गिरः॑ । 13) गिर॒ इति॒ गिरः॑ । 14) द्यु॒म्नै-र्वाजे॑भि॒-र्वाजे॑भि-र्द्यु॒म्नै-र्द्यु॒म्नै-र्वाजे॑भिः । 15) वाजे॑भि॒रा वाजे॑भि॒-र्वाजे॑भि॒रा । 16) आ ग॑त-ङ्गत॒ मा ग॑तम् । 17) ग॒त॒मिति॑ गतम् । 18) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 18) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 19) व॒द॒न्ति॒ य-द्य-द्व॑दन्ति वदन्ति॒ यत् । 20) य-न्न न य-द्य-न्न । 21) न दे॒वता॑यै दे॒वता॑यै॒ न न दे॒वता॑यै । 22) दे॒वता॑यै॒ जुह्व॑ति॒ जुह्व॑ति दे॒वता॑यै दे॒वता॑यै॒ जुह्व॑ति । 23) जुह्व॒ त्यथाथ॒ जुह्व॑ति॒ जुह्व॒ त्यथ॑ । 24) अथ॑ किन्देव॒त्या॑ किन्देव॒त्या॑ ऽथाथ॑ किन्देव॒त्या᳚ । 25) कि॒न्दे॒व॒त्या॑ वसो॒-र्वसोः᳚ किन्देव॒त्या॑ किन्देव॒त्या॑ वसोः᳚ । 25) कि॒न्दे॒व॒त्येति॑ किं - दे॒व॒त्या᳚ । 26) वसो॒-र्धारा॒ धारा॒ वसो॒-र्वसो॒-र्धारा᳚ । 27) धारेतीति॒ धारा॒ धारेति॑ । 28) इत्य॒ग्नि र॒ग्नि रिती त्य॒ग्निः । 29) अ॒ग्नि-र्वसु॒-र्वसु॑ र॒ग्नि र॒ग्नि-र्वसुः॑ । 30) वसु॒ स्तस्य॒ तस्य॒ वसु॒-र्वसु॒ स्तस्य॑ । 31) तस्यै॒ षैषा तस्य॒ तस्यै॒षा । 32) ए॒षा धारा॒ धारै॒ षैषा धारा᳚ । 33) धारा॒ विष्णु॒-र्विष्णु॒-र्धारा॒ धारा॒ विष्णुः॑ । 34) विष्णु॒-र्वसु॒-र्वसु॒-र्विष्णु॒-र्विष्णु॒-र्वसुः॑ । 35) वसु॒ स्तस्य॒ तस्य॒ वसु॒-र्वसु॒ स्तस्य॑ । 36) तस्यै॒ षैषा तस्य॒ तस्यै॒षा । 37) ए॒षा धारा॒ धारै॒ षैषा धारा᳚ । 38) धारा᳚ ऽऽग्नावैष्ण॒व्या ऽऽग्ना॑वैष्ण॒व्या धारा॒ धारा᳚ ऽऽग्नावैष्ण॒व्या । 39) आ॒ग्ना॒वै॒ष्ण॒व्य र्चर्चा ऽऽग्ना॑वैष्ण॒व्या ऽऽग्ना॑वैष्ण॒व्य र्चा । 39) आ॒ग्ना॒वै॒ष्ण॒व्येत्या᳚ग्ना - वै॒ष्ण॒व्या । 40) ऋ॒चा वसो॒-र्वसोर्॑. ऋ॒च र्चा वसोः᳚ । 41) वसो॒-र्धारा॒-न्धारां॒-वँसो॒-र्वसो॒-र्धारा᳚म् । 42) धारा᳚-ञ्जुहोति जुहोति॒ धारा॒-न्धारा᳚-ञ्जुहोति । 43) जु॒हो॒ति॒ भा॒ग॒धेये॑न भाग॒धेये॑न जुहोति जुहोति भाग॒धेये॑न । 44) भा॒ग॒धेये॑ नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व । 44) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । 45) ए॒वैना॑ वेना वे॒वै वैनौ᳚ । 46) ए॒नौ॒ सग्ं स मे॑ना वेनौ॒ सम् । 47) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 48) अ॒र्ध॒य॒ त्यथो॒ अथो॑ अर्धय त्यर्धय॒ त्यथो᳚ । 49) अथो॑ ए॒ता मे॒ता मथो॒ अथो॑ ए॒ताम् । 49) अथो॒ इत्यथो᳚ । 50) ए॒ता मे॒वै वैता मे॒ता मे॒व । ॥ 10 ॥ (50/59)
1) ए॒वा हु॑ति॒ माहु॑ति मे॒वै वाहु॑तिम् । 2) आहु॑ति मा॒यत॑नवती मा॒यत॑नवती॒ माहु॑ति॒ माहु॑ति मा॒यत॑नवतीम् । 2) आहु॑ति॒मित्या - हु॒ति॒म् । 3) आ॒यत॑नवती-ङ्करोति करो त्या॒यत॑नवती मा॒यत॑नवती-ङ्करोति । 3) आ॒यत॑नवती॒मित्या॒यत॑न - व॒ती॒म् । 4) क॒रो॒ति॒ यत्का॑मो॒ यत्का॑मः करोति करोति॒ यत्का॑मः । 5) यत्का॑म एना मेनां॒-यँत्का॑मो॒ यत्का॑म एनाम् । 5) यत्का॑म॒ इति॒ यत् - का॒मः॒ । 6) ए॒ना॒-ञ्जु॒होति॑ जु॒हो त्ये॑ना मेना-ञ्जु॒होति॑ । 7) जु॒होति॒ त-त्तज् जु॒होति॑ जु॒होति॒ तत् । 8) तदे॒ वैव त-त्तदे॒व । 9) ए॒वावा वै॒वै वाव॑ । 10) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 11) रु॒न्धे॒ रु॒द्रो रु॒द्रो रु॑न्धे रुन्धे रु॒द्रः । 12) रु॒द्रो वै वै रु॒द्रो रु॒द्रो वै । 13) वा ए॒ष ए॒ष वै वा ए॒षः । 14) ए॒ष य-द्यदे॒ष ए॒ष यत् । 15) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 16) अ॒ग्नि स्तस्य॒ तस्या॒ग्नि र॒ग्नि स्तस्य॑ । 17) तस्यै॒ते ए॒ते तस्य॒ तस्यै॒ते । 18) ए॒ते त॒नुवौ॑ त॒नुवा॑ वे॒ते ए॒ते त॒नुवौ᳚ । 18) ए॒ते इत्ये॒ते । 19) त॒नुवौ॑ घो॒रा घो॒रा त॒नुवौ॑ त॒नुवौ॑ घो॒रा । 20) घो॒रा ऽन्या ऽन्या घो॒रा घो॒रा ऽन्या । 21) अ॒न्या शि॒वा शि॒वा ऽन्या ऽन्या शि॒वा । 22) शि॒वा ऽन्या ऽन्या शि॒वा शि॒वा ऽन्या । 23) अ॒न्या य-द्यद॒न्या ऽन्या यत् । 24) यच् छ॑तरु॒द्रीयग्ं॑ शतरु॒द्रीयं॒-यँ-द्यच् छ॑तरु॒द्रीय᳚म् । 25) श॒त॒रु॒द्रीय॑-ञ्जु॒होति॑ जु॒होति॑ शतरु॒द्रीयग्ं॑ शतरु॒द्रीय॑-ञ्जु॒होति॑ । 25) श॒त॒रु॒द्रीय॒मिति॑ शत - रु॒द्रीय᳚म् । 26) जु॒होति॒ या या जु॒होति॑ जु॒होति॒ या । 27) यैवैव या यैव । 28) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 29) अ॒स्य॒ घो॒रा घो॒रा ऽस्या᳚स्य घो॒रा । 30) घो॒रा त॒नू स्त॒नू-र्घो॒रा घो॒रा त॒नूः । 31) त॒नू स्ता-न्ता-न्त॒नू स्त॒नू स्ताम् । 32) ता-न्तेन॒ तेन॒ ता-न्ता-न्तेन॑ । 33) तेन॑ शमयति शमयति॒ तेन॒ तेन॑ शमयति । 34) श॒म॒य॒ति॒ य-द्यच् छ॑मयति शमयति॒ यत् । 35) य-द्वसो॒-र्वसो॒-र्य-द्य-द्वसोः᳚ । 36) वसो॒-र्धारा॒-न्धारां॒-वँसो॒-र्वसो॒-र्धारा᳚म् । 37) धारा᳚-ञ्जु॒होति॑ जु॒होति॒ धारा॒-न्धारा᳚-ञ्जु॒होति॑ । 38) जु॒होति॒ या या जु॒होति॑ जु॒होति॒ या । 39) यैवैव या यैव । 40) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 41) अ॒स्य॒ शि॒वा शि॒वा ऽस्या᳚स्य शि॒वा । 42) शि॒वा त॒नू स्त॒नू-श्शि॒वा शि॒वा त॒नूः । 43) त॒नू स्ता-न्ता-न्त॒नू स्त॒नू स्ताम् । 44) ता-न्तेन॒ तेन॒ ता-न्ता-न्तेन॑ । 45) तेन॑ प्रीणाति प्रीणाति॒ तेन॒ तेन॑ प्रीणाति । 46) प्री॒णा॒ति॒ यो यः प्री॑णाति प्रीणाति॒ यः । 47) यो वै वै यो यो वै । 48) वै वसो॒-र्वसो॒-र्वै वै वसोः᳚ । 49) वसो॒-र्धारा॑यै॒ धारा॑यै॒ वसो॒-र्वसो॒-र्धारा॑यै । 50) धारा॑यै प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-न्धारा॑यै॒ धारा॑यै प्रति॒ष्ठाम् । ॥ 11 ॥ (50/55)
1) प्र॒ति॒ष्ठां-वेँद॒ वेद॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठां-वेँद॑ । 1) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 2) वेद॒ प्रति॒ प्रति॒ वेद॒ वेद॒ प्रति॑ । 3) प्रत्ये॒ वैव प्रति॒ प्रत्ये॒व । 4) ए॒व ति॑ष्ठति तिष्ठत्ये॒ वैव ति॑ष्ठति । 5) ति॒ष्ठ॒ति॒ य-द्य-त्ति॑ष्ठति तिष्ठति॒ यत् । 6) यदाज्य॒ माज्यं॒-यँ-द्यदाज्य᳚म् । 7) आज्य॑ मु॒च्छिष्ये॑ तो॒च्छिष्ये॒ ताज्य॒ माज्य॑ मु॒च्छिष्ये॑त । 8) उ॒च्छिष्ये॑त॒ तस्मि॒ग्ग्॒ स्तस्मि॑-न्नु॒च्छिष्ये॑ तो॒च्छिष्ये॑त॒ तस्मिन्न्॑ । 8) उ॒च्छिष्ये॒तेत्यु॑त् - शिष्ये॑त । 9) तस्मि॑-न्ब्रह्मौद॒न-म्ब्र॑ह्मौद॒न-न्तस्मि॒ग्ग्॒ स्तस्मि॑-न्ब्रह्मौद॒नम् । 10) ब्र॒ह्मौ॒द॒न-म्प॑चे-त्पचे-द्ब्रह्मौद॒न-म्ब्र॑ह्मौद॒न-म्प॑चेत् । 10) ब्र॒ह्मौ॒द॒नमिति॑ ब्रह्म - ओ॒द॒नम् । 11) प॒चे॒-त्त-न्त-म्प॑चे-त्पचे॒-त्तम् । 12) त-म्ब्रा᳚ह्म॒णा ब्रा᳚ह्म॒णा स्त-न्त-म्ब्रा᳚ह्म॒णाः । 13) ब्रा॒ह्म॒णा श्च॒त्वार॑ श्च॒त्वारो᳚ ब्राह्म॒णा ब्रा᳚ह्म॒णा श्च॒त्वारः॑ । 14) च॒त्वारः॒ प्र प्र च॒त्वार॑ श्च॒त्वारः॒ प्र । 15) प्राश्ञी॑यु रश्ञीयुः॒ प्र प्राश्ञी॑युः । 16) अ॒श्ञी॒यु॒ रे॒ष ए॒षो᳚ ऽश्ञीयु रश्ञीयु रे॒षः । 17) ए॒ष वै वा ए॒ष ए॒ष वै । 18) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 19) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः । 20) वै॒श्वा॒न॒रो य-द्य-द्वै᳚श्वान॒रो वै᳚श्वान॒रो यत् । 21) य-द्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो य-द्य-द्ब्रा᳚ह्म॒णः । 22) ब्रा॒ह्म॒ण ए॒षैषा ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒ण ए॒षा । 23) ए॒षा खलु॒ खल्वे॒ षैषा खलु॑ । 24) खलु॒ वै वै खलु॒ खलु॒ वै । 25) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 26) अ॒ग्नेः प्रि॒या प्रि॒या ऽग्ने र॒ग्नेः प्रि॒या । 27) प्रि॒या त॒नू स्त॒नूः प्रि॒या प्रि॒या त॒नूः । 28) त॒नू-र्य-द्य-त्त॒नू स्त॒नू-र्यत् । 29) य-द्वै᳚श्वान॒रो वै᳚श्वान॒रो य-द्य-द्वै᳚श्वान॒रः । 30) वै॒श्वा॒न॒रः प्रि॒याया᳚-म्प्रि॒यायां᳚-वैँश्वान॒रो वै᳚श्वान॒रः प्रि॒याया᳚म् । 31) प्रि॒याया॑ मे॒वैव प्रि॒याया᳚-म्प्रि॒याया॑ मे॒व । 32) ए॒वैना॑ मेना मे॒वै वैना᳚म् । 33) ए॒ना॒-न्त॒नुवा᳚-न्त॒नुवा॑ मेना मेना-न्त॒नुवा᳚म् । 34) त॒नुवा॒-म्प्रति॒ प्रति॑ त॒नुवा᳚-न्त॒नुवा॒-म्प्रति॑ । 35) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति । 36) स्था॒प॒य॒ति॒ चत॑स्र॒ श्चत॑स्र-स्स्थापयति स्थापयति॒ चत॑स्रः । 37) चत॑स्रो धे॒नू-र्धे॒नू श्चत॑स्र॒ श्चत॑स्रो धे॒नूः । 38) धे॒नू-र्द॑द्या-द्दद्या-द्धे॒नू-र्धे॒नू-र्द॑द्यात् । 39) द॒द्या॒-त्ताभि॒ स्ताभि॑-र्दद्या-द्दद्या॒-त्ताभिः॑ । 40) ताभि॑ रे॒वैव ताभि॒ स्ताभि॑ रे॒व । 41) ए॒व यज॑मानो॒ यज॑मान ए॒वैव यज॑मानः । 42) यज॑मानो॒ ऽमुष्मि॑-न्न॒मुष्मि॒न्॒. यज॑मानो॒ यज॑मानो॒ ऽमुष्मिन्न्॑ । 43) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 44) लो॒के᳚ ऽग्नि म॒ग्निम् ँलो॒के लो॒के᳚ ऽग्निम् । 45) अ॒ग्नि-न्दु॑हे दुहे॒ ऽग्नि म॒ग्नि-न्दु॑हे । 46) दु॒ह॒ इति॑ दुहे । ॥ 12 ॥ (46/49) ॥ अ. 3 ॥
1) चित्ति॑-ञ्जुहोमि जुहोमि॒ चित्ति॒-ञ्चित्ति॑-ञ्जुहोमि । 2) जु॒हो॒मि॒ मन॑सा॒ मन॑सा जुहोमि जुहोमि॒ मन॑सा । 3) मन॑सा घृ॒तेन॑ घृ॒तेन॒ मन॑सा॒ मन॑सा घृ॒तेन॑ । 4) घृ॒तेनेतीति॑ घृ॒तेन॑ घृ॒तेनेति॑ । 5) इत्या॑ हा॒हे तीत्या॑ह । 6) आ॒हा दा॒भ्या ऽदा᳚भ्या ऽऽहा॒हा दा᳚भ्या । 7) अदा᳚भ्या॒ वै वा अदा॒भ्या ऽदा᳚भ्या॒ वै । 8) वै नाम॒ नाम॒ वै वै नाम॑ । 9) नामै॒ षैषा नाम॒ नामै॒षा । 10) ए॒षा ऽऽहु॑ति॒ राहु॑ति रे॒षैषा ऽऽहु॑तिः । 11) आहु॑ति-र्वैश्वकर्म॒णी वै᳚श्वकर्म॒ ण्याहु॑ति॒ राहु॑ति-र्वैश्वकर्म॒णी । 11) आहु॑ति॒रित्या - हु॒तिः॒ । 12) वै॒श्व॒क॒र्म॒णी न न वै᳚श्वकर्म॒णी वै᳚श्वकर्म॒णी न । 12) वै॒श्व॒क॒र्म॒णीति॑ वैश्व - क॒र्म॒णी । 13) नैन॑ मेन॒-न्न नैन᳚म् । 14) ए॒न॒-ञ्चि॒क्या॒न-ञ्चि॑क्या॒न मे॑न मेन-ञ्चिक्या॒नम् । 15) चि॒क्या॒न-म्भ्रातृ॑व्यो॒ भ्रातृ॑व्यश्चिक्या॒न-ञ्चि॑क्या॒न-म्भ्रातृ॑व्यः । 16) भ्रातृ॑व्यो दभ्नोति दभ्नोति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो दभ्नोति । 17) द॒भ्नो॒ त्यथो॒ अथो॑ दभ्नोति दभ्नो॒ त्यथो᳚ । 18) अथो॑ दे॒वता॑ दे॒वता॒ अथो॒ अथो॑ दे॒वताः᳚ । 18) अथो॒ इत्यथो᳚ । 19) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व । 20) ए॒वावा वै॒वै वाव॑ । 21) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 22) रु॒न्धे ऽग्ने ऽग्ने॑ रुन्धे रु॒न्धे ऽग्ने᳚ । 23) अग्ने॒ त-न्त मग्ने ऽग्ने॒ तम् । 24) त म॒द्याद्य त-न्त म॒द्य । 25) अ॒द्येती त्य॒द्याद्येति॑ । 26) इति॑ प॒ङ्क्त्या प॒ङ्क्त्ये तीति॑ प॒ङ्क्त्या । 27) प॒ङ्क्त्या जु॑होति जुहोति प॒ङ्क्त्या प॒ङ्क्त्या जु॑होति । 28) जु॒हो॒ति॒ प॒ङ्क्त्या प॒ङ्क्त्या जु॑होति जुहोति प॒ङ्क्त्या । 29) प॒ङ्क्त्या ऽऽहु॒त्या ऽऽहु॑त्या प॒ङ्क्त्या प॒ङ्क्त्या ऽऽहु॑त्या । 30) आहु॑त्या यज्ञमु॒खं-यँ॑ज्ञमु॒ख माहु॒त्या ऽऽहु॑त्या यज्ञमु॒खम् । 30) आहु॒त्येत्या - हु॒त्या॒ । 31) य॒ज्ञ॒मु॒ख मा य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख मा । 31) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 32) आ र॑भते रभत॒ आ र॑भते । 33) र॒भ॒ते॒ स॒प्त स॒प्त र॑भते रभते स॒प्त । 34) स॒प्त ते॑ ते स॒प्त स॒प्त ते᳚ । 35) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 36) अ॒ग्ने॒ स॒मिध॑-स्स॒मिधो᳚ ऽग्ने ऽग्ने स॒मिधः॑ । 37) स॒मिध॑-स्स॒प्त स॒प्त स॒मिध॑-स्स॒मिध॑-स्स॒प्त । 37) स॒मिध॒ इति॑ सं - इधः॑ । 38) स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वाः । 39) जि॒ह्वा इतीति॑ जि॒ह्वा जि॒ह्वा इति॑ । 40) इत्या॑ हा॒हे तीत्या॑ह । 41) आ॒ह॒ होत्रा॒ होत्रा॑ आहाह॒ होत्राः᳚ । 42) होत्रा॑ ए॒वैव होत्रा॒ होत्रा॑ ए॒व । 43) ए॒वावा वै॒वै वाव॑ । 44) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 45) रु॒न्धे॒ ऽग्नि र॒ग्नी रु॑न्धे रुन्धे॒ ऽग्निः । 46) अ॒ग्नि-र्दे॒वेभ्यो॑ दे॒वेभ्यो॒ ऽग्नि र॒ग्नि-र्दे॒वेभ्यः॑ । 47) दे॒वेभ्यो ऽपाप॑ दे॒वेभ्यो॑ दे॒वेभ्यो ऽप॑ । 48) अपा᳚ क्राम दक्राम॒ दपापा᳚ क्रामत् । 49) अ॒क्रा॒म॒-द्भा॒ग॒धेय॑-म्भाग॒धेय॑ मक्राम दक्राम-द्भाग॒धेय᳚म् । 50) भा॒ग॒धेय॑ मि॒च्छमा॑न इ॒च्छमा॑नो भाग॒धेय॑-म्भाग॒धेय॑ मि॒च्छमा॑नः । 50) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । ॥ 13 ॥ (50/57)
1) इ॒च्छमा॑न॒ स्तस्मै॒ तस्मा॑ इ॒च्छमा॑न इ॒च्छमा॑न॒ स्तस्मै᳚ । 2) तस्मा॑ ए॒त दे॒त-त्तस्मै॒ तस्मा॑ ए॒तत् । 3) ए॒त-द्भा॑ग॒धेय॑-म्भाग॒धेय॑ मे॒त दे॒त-द्भा॑ग॒धेय᳚म् । 4) भा॒ग॒धेय॒-म्प्र प्र भा॑ग॒धेय॑-म्भाग॒धेय॒-म्प्र । 4) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 5) प्राय॑च्छ-न्नयच्छ॒-न्प्र प्राय॑च्छन्न् । 6) अ॒य॒च्छ॒-न्ने॒त दे॒त द॑यच्छ-न्नयच्छ-न्ने॒तत् । 7) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 8) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 9) अ॒ग्ने र॑ग्निहो॒त्र म॑ग्निहो॒त्र म॒ग्ने र॒ग्ने र॑ग्निहो॒त्रम् । 10) अ॒ग्नि॒हो॒त्र मे॒तर्-ह्ये॒तर्-ह्य॑ग्निहो॒त्र म॑ग्निहो॒त्र मे॒तर्हि॑ । 10) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । 11) ए॒तर्हि॒ खलु॒ खल्वे॒तर्-ह्ये॒तर्हि॒ खलु॑ । 12) खलु॒ वै वै खलु॒ खलु॒ वै । 13) वा ए॒ष ए॒ष वै वा ए॒षः । 14) ए॒ष जा॒तो जा॒त ए॒ष ए॒ष जा॒तः । 15) जा॒तो यर्हि॒ यर्हि॑ जा॒तो जा॒तो यर्हि॑ । 16) यर्हि॒ सर्व॒-स्सर्वो॒ यर्हि॒ यर्हि॒ सर्वः॑ । 17) सर्व॑ श्चि॒त श्चि॒त-स्सर्व॒-स्सर्व॑ श्चि॒तः । 18) चि॒तो जा॒ताय॑ जा॒ताय॑ चि॒त श्चि॒तो जा॒ताय॑ । 19) जा॒तायै॒ वैव जा॒ताय॑ जा॒तायै॒व । 20) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 21) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् । 22) अन्न॒ मप्य प्यन्न॒ मन्न॒ मपि॑ । 23) अपि॑ दधाति दधा॒ त्यप्यपि॑ दधाति । 24) द॒धा॒ति॒ स स द॑धाति दधाति॒ सः । 25) स ए॑न मेन॒ग्ं॒ स स ए॑नम् । 26) ए॒न॒-म्प्री॒तः प्री॒त ए॑न मेन-म्प्री॒तः । 27) प्री॒तः प्री॑णाति प्रीणाति प्री॒तः प्री॒तः प्री॑णाति । 28) प्री॒णा॒ति॒ वसी॑या॒न्॒. वसी॑या-न्प्रीणाति प्रीणाति॒ वसी॑यान् । 29) वसी॑या-न्भवति भवति॒ वसी॑या॒न्॒. वसी॑या-न्भवति । 30) भ॒व॒ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ भवति भवति ब्रह्मवा॒दिनः॑ । 31) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 31) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 32) व॒द॒न्ति॒ य-द्य-द्व॑दन्ति वदन्ति॒ यत् । 33) यदे॒ष ए॒ष य-द्यदे॒षः । 34) ए॒ष गार्ह॑पत्यो॒ गार्ह॑पत्य ए॒ष ए॒ष गार्ह॑पत्यः । 35) गार्ह॑पत्य श्ची॒यते॑ ची॒यते॒ गार्ह॑पत्यो॒ गार्ह॑पत्य श्ची॒यते᳚ । 35) गार्ह॑पत्य॒ इति॒ गार्ह॑ - प॒त्यः॒ । 36) ची॒यते ऽथाथ॑ ची॒यते॑ ची॒यते ऽथ॑ । 37) अथ॒ क्व॑ क्वाथाथ॒ क्व॑ । 38) क्वा᳚स्यास्य॒ क्वा᳚(1॒) क्वा᳚स्य । 39) अ॒स्या॒ ह॒व॒नीय॑ आहव॒नीयो᳚ ऽस्यास्या हव॒नीयः॑ । 40) आ॒ह॒व॒नीय॒ इतीत्या॑ हव॒नीय॑ आहव॒नीय॒ इति॑ । 40) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । 41) इत्य॒सा व॒सा वितीत्य॒सौ । 42) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः । 43) आ॒दि॒त्य इती त्या॑दि॒त्य आ॑दि॒त्य इति॑ । 44) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् । 45) ब्रू॒या॒ दे॒तस्मि॑-न्ने॒तस्मि॑-न्ब्रूया-द्ब्रूया दे॒तस्मिन्न्॑ । 46) ए॒तस्मि॒न्॒. हि ह्ये॑तस्मि॑-न्ने॒तस्मि॒न्॒. हि । 47) हि सर्वा᳚भ्य॒-स्सर्वा᳚भ्यो॒ हि हि सर्वा᳚भ्यः । 48) सर्वा᳚भ्यो दे॒वता᳚भ्यो दे॒वता᳚भ्य॒-स्सर्वा᳚भ्य॒-स्सर्वा᳚भ्यो दे॒वता᳚भ्यः । 49) दे॒वता᳚भ्यो॒ जुह्व॑ति॒ जुह्व॑ति दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ जुह्व॑ति । 50) जुह्व॑ति॒ यो यो जुह्व॑ति॒ जुह्व॑ति॒ यः । ॥ 14 ॥ (50/55)
1) य ए॒व मे॒वं-योँ य ए॒वम् । 2) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 3) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् । 4) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 5) चि॒नु॒ते सा॒क्षा-थ्सा॒क्षाच् चि॑नु॒ते चि॑नु॒ते सा॒क्षात् । 6) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व । 6) सा॒क्षादिति॑ स - अ॒क्षात् । 7) ए॒व दे॒वता॑ दे॒वता॑ ए॒वैव दे॒वताः᳚ । 8) दे॒वता॑ ऋद्ध्नो त्यृद्ध्नोति दे॒वता॑ दे॒वता॑ ऋद्ध्नोति । 9) ऋ॒द्ध्नो॒ त्यग्ने ऽग्न॑ ऋद्ध्नो त्यृद्ध्नो॒ त्यग्ने᳚ । 10) अग्ने॑ यशस्विन्. यशस्वि॒-न्नग्ने ऽग्ने॑ यशस्विन्न् । 11) य॒श॒स्वि॒न्॒. यश॑सा॒ यश॑सा यशस्विन्. यशस्वि॒न्॒. यश॑सा । 12) यश॑से॒म मि॒मं-यँश॑सा॒ यश॑से॒मम् । 13) इ॒म म॑र्पया-र्पये॒ म मि॒म म॑र्पय । 14) अ॒र्प॒ येन्द्रा॑वती॒ मिन्द्रा॑वती मर्पया-र्प॒येन्द्रा॑वतीम् । 15) इन्द्रा॑वती॒ मप॑चिती॒ मप॑चिती॒ मिन्द्रा॑वती॒ मिन्द्रा॑वती॒ मप॑चितीम् । 15) इन्द्रा॑वती॒मितीन्द्र॑ - व॒ती॒म् । 16) अप॑चिती मि॒हे हाप॑चिती॒ मप॑चिती मि॒ह । 16) अप॑चिती॒मित्यप॑ - चि॒ती॒म् । 17) इ॒हेहे हा । 18) आ व॑ह व॒हा व॑ह । 19) व॒हेति॑ वह । 20) अ॒य-म्मू॒र्धा मू॒र्धा ऽय म॒य-म्मू॒र्धा । 21) मू॒र्धा प॑रमे॒ष्ठी प॑रमे॒ष्ठी मू॒र्धा मू॒र्धा प॑रमे॒ष्ठी । 22) प॒र॒मे॒ष्ठी सु॒वर्चा᳚-स्सु॒वर्चाः᳚ परमे॒ष्ठी प॑रमे॒ष्ठी सु॒वर्चाः᳚ । 23) सु॒वर्चा᳚-स्समा॒नानाग्ं॑ समा॒नानाग्ं॑ सु॒वर्चा᳚-स्सु॒वर्चा᳚-स्समा॒नाना᳚म् । 23) सु॒वर्चा॒ इति॑ सु - वर्चाः᳚ । 24) स॒मा॒नाना॑ मुत्त॒मश्लो॑क उत्त॒मश्लो॑क-स्समा॒नानाग्ं॑ समा॒नाना॑ मुत्त॒मश्लो॑कः । 25) उ॒त्त॒मश्लो॑को अस्त्व स्तूत्त॒मश्लो॑क उत्त॒मश्लो॑को अस्तु । 25) उ॒त्त॒मश्लो॑क॒ इत्यु॑त्त॒म - श्लो॒कः॒ । 26) अ॒स्त्वित्य॑स्तु । 27) भ॒द्र-म्पश्य॑न्तः॒ पश्य॑न्तो भ॒द्र-म्भ॒द्र-म्पश्य॑न्तः । 28) पश्य॑न्त॒ उपोप॒ पश्य॑न्तः॒ पश्य॑न्त॒ उप॑ । 29) उप॑ सेदु-स्सेदु॒ रुपोप॑ सेदुः । 30) से॒दु॒ रग्रे ऽग्रे॑ सेदु-स्सेदु॒ रग्रे᳚ । 31) अग्रे॒ तप॒ स्तपो ऽग्रे ऽग्रे॒ तपः॑ । 32) तपो॑ दी॒क्षा-न्दी॒क्षा-न्तप॒ स्तपो॑ दी॒क्षाम् । 33) दी॒क्षा मृष॑य॒ ऋष॑यो दी॒क्षा-न्दी॒क्षा मृष॑यः । 34) ऋष॑य-स्सुव॒र्विद॑-स्सुव॒र्विद॒ ऋष॑य॒ ऋष॑य-स्सुव॒र्विदः॑ । 35) सु॒व॒र्विद॒ इति॑ सुवः - विदः॑ । 36) ततः॑, क्ष॒त्र-ङ्क्ष॒त्र-न्तत॒ स्ततः॑, क्ष॒त्रम् । 37) क्ष॒त्र-म्बल॒-म्बल॑-ङ्क्ष॒त्र-ङ्क्ष॒त्र-म्बल᳚म् । 38) बल॒ मोज॒ ओजो॒ बल॒-म्बल॒ मोजः॑ । 39) ओज॑श्च॒ चौज॒ ओज॑श्च । 40) च॒ जा॒त-ञ्जा॒त-ञ्च॑ च जा॒तम् । 41) जा॒त-न्त-त्तज् जा॒त-ञ्जा॒त-न्तत् । 42) तद॒स्मा अ॒स्मै त-त्तद॒स्मै । 43) अ॒स्मै दे॒वा दे॒वा अ॒स्मा अ॒स्मै दे॒वाः । 44) दे॒वा अ॒भ्य॑भि दे॒वा दे॒वा अ॒भि । 45) अ॒भि सग्ं स म॒भ्य॑भि सम् । 46) स-न्न॑मन्तु नमन्तु॒ सग्ं स-न्न॑मन्तु । 47) न॒म॒न्त्विति॑ नमन्तु । 48) धा॒ता वि॑धा॒ता वि॑धा॒ता धा॒ता धा॒ता वि॑धा॒ता । 49) वि॒धा॒ता प॑र॒मा प॑र॒मा वि॑धा॒ता वि॑धा॒ता प॑र॒मा । 49) वि॒धा॒तेति॑ वि - धा॒ता । 50) प॒र॒मोतोत प॑र॒मा प॑र॒मोत । ॥ 15 ॥ (50/56)
1) उ॒त स॒न्दृ-ख्स॒न्दृ गु॒तोत स॒न्दृक् । 2) स॒न्दृ-क्प्र॒जाप॑तिः प्र॒जाप॑ति-स्स॒न्दृ-ख्स॒न्दृ-क्प्र॒जाप॑तिः । 2) स॒न्दृगिति॑ सं - दृक् । 3) प्र॒जाप॑तिः परमे॒ष्ठी प॑रमे॒ष्ठी प्र॒जाप॑तिः प्र॒जाप॑तिः परमे॒ष्ठी । 3) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 4) प॒र॒मे॒ष्ठी वि॒राजा॑ वि॒राजा॑ परमे॒ष्ठी प॑रमे॒ष्ठी वि॒राजा᳚ । 5) वि॒राजेति॑ वि - राजा᳚ । 6) स्तोमा॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ स्तोमा॒-स्स्तोमा॒ श्छन्दाग्ं॑सि । 7) छन्दाग्ं॑सि नि॒विदो॑ नि॒विद॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि नि॒विदः॑ । 8) नि॒विदो॑ मे मे नि॒विदो॑ नि॒विदो॑ मे । 8) नि॒विद॒ इति॑ नि - विदः॑ । 9) म॒ आ॒हु॒ रा॒हु॒-र्मे॒ म॒ आ॒हुः॒ । 10) आ॒हु॒ रे॒तस्मा॑ ए॒तस्मा॑ आहु राहु रे॒तस्मै᳚ । 11) ए॒तस्मै॑ रा॒ष्ट्रग्ं रा॒ष्ट्र मे॒तस्मा॑ ए॒तस्मै॑ रा॒ष्ट्रम् । 12) रा॒ष्ट्र म॒भ्य॑भि रा॒ष्ट्रग्ं रा॒ष्ट्र म॒भि । 13) अ॒भि सग्ं स म॒भ्य॑भि सम् । 14) स-न्न॑माम नमाम॒ सग्ं स-न्न॑माम । 15) न॒मा॒मेति॑ नमाम । 16) अ॒भ्याव॑र्तद्ध्व॒ मुपोपा॒ भ्याव॑र्तद्ध्व म॒भ्याव॑र्तद्ध्व॒ मुप॑ । 16) अ॒भ्याव॑र्तद्ध्व॒मित्य॑भि - आव॑र्तद्ध्वम् । 17) उप॑ मा॒ मोपोप॑ मा । 18) मा ऽऽमा॒ मा । 19) एते॒ तेत॑ । 20) इ॒त॒ सा॒कग्ं सा॒क मि॑तेत सा॒कम् । 21) सा॒क म॒य म॒यग्ं सा॒कग्ं सा॒क म॒यम् । 22) अ॒यग्ं शा॒स्ता शा॒स्ता ऽय म॒यग्ं शा॒स्ता । 23) शा॒स्ता ऽधि॑पति॒ रधि॑पति-श्शा॒स्ता शा॒स्ता ऽधि॑पतिः । 24) अधि॑पति-र्वो॒ वो ऽधि॑पति॒ रधि॑पति-र्वः । 24) अधि॑पति॒रित्यधि॑ - प॒तिः॒ । 25) वो॒ अ॒स्त्व॒स्तु॒ वो॒ वो॒ अ॒स्तु॒ । 26) अ॒स्त्वित्य॑स्तु । 27) अ॒स्य वि॒ज्ञानं॑-विँ॒ज्ञान॑ म॒स्यास्य वि॒ज्ञान᳚म् । 28) वि॒ज्ञान॒ मन्वनु॑ वि॒ज्ञानं॑-विँ॒ज्ञान॒ मनु॑ । 28) वि॒ज्ञान॒मिति॑ वि - ज्ञान᳚म् । 29) अनु॒ सग्ं स मन्वनु॒ सम् । 30) सग्ं र॑भद्ध्वग्ं रभद्ध्व॒ग्ं॒ सग्ं सग्ं र॑भद्ध्वम् । 31) र॒भ॒द्ध्व॒ मि॒म मि॒मग्ं र॑भद्ध्वग्ं रभद्ध्व मि॒मम् । 32) इ॒म-म्प॒श्चा-त्प॒श्चा दि॒म मि॒म-म्प॒श्चात् । 33) प॒श्चा दन्वनु॑ प॒श्चा-त्प॒श्चा दनु॑ । 34) अनु॑ जीवाथ जीवा॒थान् वनु॑ जीवाथ । 35) जी॒वा॒थ॒ सर्वे॒ सर्वे॑ जीवाथ जीवाथ॒ सर्वे᳚ । 36) सर्व॒ इति॒ सर्वे᳚ । 37) रा॒ष्ट्र॒भृत॑ ए॒ता ए॒ता रा᳚ष्ट्र॒भृतो॑ राष्ट्र॒भृत॑ ए॒ताः । 37) रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । 38) ए॒ता उपोपै॒ता ए॒ता उप॑ । 39) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 40) द॒धा॒ त्ये॒षैषा द॑धाति दधा त्ये॒षा । 41) ए॒षा वै वा ए॒षैषा वै । 42) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 43) अ॒ग्ने श्चिति॒ श्चिति॑ र॒ग्ने र॒ग्ने श्चितिः॑ । 44) चिती॑ राष्ट्र॒भृ-द्रा᳚ष्ट्र॒भृच् चिति॒ श्चिती॑ राष्ट्र॒भृत् । 45) रा॒ष्ट्र॒भृ-त्तया॒ तया॑ राष्ट्र॒भृ-द्रा᳚ष्ट्र॒भृ-त्तया᳚ । 45) रा॒ष्ट्र॒भृदिति॑ राष्ट्र - भृत् । 46) तयै॒ वैव तया॒ तयै॒व । 47) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । 48) अ॒स्मि॒-न्रा॒ष्ट्रग्ं रा॒ष्ट्र म॑स्मि-न्नस्मि-न्रा॒ष्ट्रम् । 49) रा॒ष्ट्र-न्द॑धाति दधाति रा॒ष्ट्रग्ं रा॒ष्ट्र-न्द॑धाति । 50) द॒धा॒ति॒ रा॒ष्ट्रग्ं रा॒ष्ट्र-न्द॑धाति दधाति रा॒ष्ट्रम् । 51) रा॒ष्ट्र मे॒वैव रा॒ष्ट्रग्ं रा॒ष्ट्र मे॒व । 52) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 53) भ॒व॒ति॒ न न भ॑वति भवति॒ न । 54) नास्मा॑ दस्मा॒-न्न नास्मा᳚त् । 55) अ॒स्मा॒-द्रा॒ष्ट्रग्ं रा॒ष्ट्र म॑स्मा दस्मा-द्रा॒ष्ट्रम् । 56) रा॒ष्ट्र-म्भ्रग्ं॑शते भ्रग्ंशते रा॒ष्ट्रग्ं रा॒ष्ट्र-म्भ्रग्ं॑शते । 57) भ्र॒ग्ं॒श॒त॒ इति॑ भ्रग्ंशते । ॥ 16 ॥ (57/65) ॥ अ. 4 ॥
1) यथा॒ वै वै यथा॒ यथा॒ वै । 2) वै पु॒त्रः पु॒त्रो वै वै पु॒त्रः । 3) पु॒त्रो जा॒तो जा॒तः पु॒त्रः पु॒त्रो जा॒तः । 4) जा॒तो म्रि॒यते᳚ म्रि॒यते॑ जा॒तो जा॒तो म्रि॒यते᳚ । 5) म्रि॒यत॑ ए॒व मे॒व-म्म्रि॒यते᳚ म्रि॒यत॑ ए॒वम् । 6) ए॒वं-वैँ वा ए॒व मे॒वं-वैँ । 7) वा ए॒ष ए॒ष वै वा ए॒षः । 8) ए॒ष म्रि॑यते म्रियत ए॒ष ए॒ष म्रि॑यते । 9) म्रि॒य॒ते॒ यस्य॒ यस्य॑ म्रियते म्रियते॒ यस्य॑ । 10) यस्या॒ग्नि र॒ग्नि-र्यस्य॒ यस्या॒ग्निः । 11) अ॒ग्नि रुख्य॒ उख्यो॒ ऽग्नि र॒ग्नि रुख्यः॑ । 12) उख्य॑ उ॒द्वाय॑ त्यु॒द्वाय॒ त्युख्य॒ उख्य॑ उ॒द्वाय॑ति । 13) उ॒द्वाय॑ति॒ य-द्यदु॒द्वाय॑ त्यु॒द्वाय॑ति॒ यत् । 13) उ॒द्वाय॒तीयु॑त् - वाय॑ति । 14) य-न्नि॑र्म॒न्थ्य॑-न्निर्म॒न्थ्यं॑-यँ-द्य-न्नि॑र्म॒न्थ्य᳚म् । 15) नि॒र्म॒न्थ्य॑-ङ्कु॒र्या-त्कु॒र्या-न्नि॑र्म॒न्थ्य॑-न्निर्म॒न्थ्य॑-ङ्कु॒र्यात् । 15) नि॒र्म॒न्थ्य॑मिति॑ निः - म॒न्थ्य᳚म् । 16) कु॒र्या-द्वि वि कु॒र्या-त्कु॒र्या-द्वि । 17) वि च्छि॑न्द्याच् छिन्द्या॒-द्वि वि च्छि॑न्द्यात् । 18) छि॒न्द्या॒-द्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-ञ्छिन्द्याच् छिन्द्या॒-द्भ्रातृ॑व्यम् । 19) भ्रातृ॑व्य मस्मा अस्मै॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मस्मै । 20) अ॒स्मै॒ ज॒न॒ये॒ज् ज॒न॒ये॒ द॒स्मा॒ अ॒स्मै॒ ज॒न॒ये॒त् । 21) ज॒न॒ये॒-थ्स स ज॑नयेज् जनये॒-थ्सः । 22) स ए॒वैव स स ए॒व । 23) ए॒व पुनः॒ पुन॑ रे॒वैव पुनः॑ । 24) पुनः॑ प॒रीद्ध्यः॑ प॒रीद्ध्यः॒ पुनः॒ पुनः॑ प॒रीद्ध्यः॑ । 25) प॒रीद्ध्य॒-स्स्वा-थ्स्वा-त्प॒रीद्ध्यः॑ प॒रीद्ध्य॒-स्स्वात् । 25) प॒रीद्ध्य॒ इति॑ परि - इद्ध्यः॑ । 26) स्वादे॒ वैव स्वा-थ्स्वादे॒व । 27) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 28) ए॒नं॒-योँने॒-र्योने॑ रेन मेनं॒-योँनेः᳚ । 29) योने᳚-र्जनयति जनयति॒ योने॒-र्योने᳚-र्जनयति । 30) ज॒न॒य॒ति॒ न न ज॑नयति जनयति॒ न । 31) नास्मा॑ अस्मै॒ न नास्मै᳚ । 32) अ॒स्मै॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मस्मा अस्मै॒ भ्रातृ॑व्यम् । 33) भ्रातृ॑व्य-ञ्जनयति जनयति॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-ञ्जनयति । 34) ज॒न॒य॒ति॒ तम॒ स्तमो॑ जनयति जनयति॒ तमः॑ । 35) तमो॒ वै वै तम॒ स्तमो॒ वै । 36) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 37) ए॒त-ङ्गृ॑ह्णाति गृह्णा त्ये॒त मे॒त-ङ्गृ॑ह्णाति । 38) गृ॒ह्णा॒ति॒ यस्य॒ यस्य॑ गृह्णाति गृह्णाति॒ यस्य॑ । 39) यस्या॒ग्नि र॒ग्नि-र्यस्य॒ यस्या॒ग्निः । 40) अ॒ग्नि रुख्य॒ उख्यो॒ ऽग्नि र॒ग्नि रुख्यः॑ । 41) उख्य॑ उ॒द्वाय॑ त्यु॒द्वाय॒ त्युख्य॒ उख्य॑ उ॒द्वाय॑ति । 42) उ॒द्वाय॑ति मृ॒त्यु-र्मृ॒त्यु रु॒द्वाय॑ त्यु॒द्वाय॑ति मृ॒त्युः । 42) उ॒द्वाय॒तीत्यु॑त् - वाय॑ति । 43) मृ॒त्यु स्तम॒ स्तमो॑ मृ॒त्यु-र्मृ॒त्यु स्तमः॑ । 44) तमः॑ कृ॒ष्ण-ङ्कृ॒ष्ण-न्तम॒ स्तमः॑ कृ॒ष्णम् । 45) कृ॒ष्णं-वाँसो॒ वासः॑ कृ॒ष्ण-ङ्कृ॒ष्णं-वाँसः॑ । 46) वासः॑ कृ॒ष्णा कृ॒ष्णा वासो॒ वासः॑ कृ॒ष्णा । 47) कृ॒ष्णा धे॒नु-र्धे॒नुः कृ॒ष्णा कृ॒ष्णा धे॒नुः । 48) धे॒नु-र्दक्षि॑णा॒ दक्षि॑णा धे॒नु-र्धे॒नु-र्दक्षि॑णा । 49) दक्षि॑णा॒ तम॑सा॒ तम॑सा॒ दक्षि॑णा॒ दक्षि॑णा॒ तम॑सा । 50) तम॑सै॒ वैव तम॑सा॒ तम॑सै॒व । ॥ 17 ॥ (50/54)
1) ए॒व तम॒ स्तम॑ ए॒वैव तमः॑ । 2) तमो॑ मृ॒त्यु-म्मृ॒त्यु-न्तम॒ स्तमो॑ मृ॒त्युम् । 3) मृ॒त्यु मपाप॑ मृ॒त्यु-म्मृ॒त्यु मप॑ । 4) अप॑ हते ह॒ते ऽपाप॑ हते । 5) ह॒ते॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यग्ं हते हते॒ हिर॑ण्यम् । 6) हिर॑ण्य-न्ददाति ददाति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य-न्ददाति । 7) द॒दा॒ति॒ ज्योति॒-र्ज्योति॑-र्ददाति ददाति॒ ज्योतिः॑ । 8) ज्योति॒-र्वै वै ज्योति॒-र्ज्योति॒-र्वै । 9) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-वैँ वै हिर॑ण्यम् । 10) हिर॑ण्य॒-ञ्ज्योति॑षा॒ ज्योति॑षा॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-ञ्ज्योति॑षा । 11) ज्योति॑ षै॒वैव ज्योति॑षा॒ ज्योति॑ षै॒व । 12) ए॒व तम॒ स्तम॑ ए॒वैव तमः॑ । 13) तमो ऽपाप॒ तम॒ स्तमो ऽप॑ । 14) अप॑ हते ह॒ते ऽपाप॑ हते । 15) ह॒ते ऽथो॒ अथो॑ हते ह॒ते ऽथो᳚ । 16) अथो॒ तेज॒ स्तेजो ऽथो॒ अथो॒ तेजः॑ । 16) अथो॒ इत्यथो᳚ । 17) तेजो॒ वै वै तेज॒ स्तेजो॒ वै । 18) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-वैँ वै हिर॑ण्यम् । 19) हिर॑ण्य॒-न्तेज॒ स्तेजो॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्तेजः॑ । 20) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व । 21) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् । 22) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 23) ध॒त्ते॒ सुव॒-स्सुव॑-र्धत्ते धत्ते॒ सुवः॑ । 24) सुव॒-र्न न सुव॒-स्सुव॒-र्न । 25) न घ॒र्मो घ॒र्मो न न घ॒र्मः । 26) घ॒र्म-स्स्वाहा॒ स्वाहा॑ घ॒र्मो घ॒र्म-स्स्वाहा᳚ । 27) स्वाहा॒ सुव॒-स्सुव॒-स्स्वाहा॒ स्वाहा॒ सुवः॑ । 28) सुव॒-र्न न सुव॒-स्सुव॒-र्न । 29) नार्को᳚ ऽर्को न नार्कः । 30) अ॒र्क-स्स्वाहा॒ स्वाहा॒ ऽर्को᳚ ऽर्क-स्स्वाहा᳚ । 31) स्वाहा॒ सुव॒-स्सुव॒-स्स्वाहा॒ स्वाहा॒ सुवः॑ । 32) सुव॒-र्न न सुव॒-स्सुव॒-र्न । 33) न शु॒क्र-श्शु॒क्रो न न शु॒क्रः । 34) शु॒क्र-स्स्वाहा॒ स्वाहा॑ शु॒क्र-श्शु॒क्र-स्स्वाहा᳚ । 35) स्वाहा॒ सुव॒-स्सुव॒-स्स्वाहा॒ स्वाहा॒ सुवः॑ । 36) सुव॒-र्न न सुव॒-स्सुव॒-र्न । 37) न ज्योति॒-र्ज्योति॒-र्न न ज्योतिः॑ । 38) ज्योति॒-स्स्वाहा॒ स्वाहा॒ ज्योति॒-र्ज्योति॒-स्स्वाहा᳚ । 39) स्वाहा॒ सुव॒-स्सुव॒-स्स्वाहा॒ स्वाहा॒ सुवः॑ । 40) सुव॒-र्न न सुव॒-स्सुव॒-र्न । 41) न सूर्य॒-स्सूर्यो॒ न न सूर्यः॑ । 42) सूर्य॒-स्स्वाहा॒ स्वाहा॒ सूर्य॒-स्सूर्य॒-स्स्वाहा᳚ । 43) स्वाहा॒ ऽर्को᳚ ऽर्क-स्स्वाहा॒ स्वाहा॒ ऽर्कः । 44) अ॒र्को वै वा अ॒र्को᳚ ऽर्को वै । 45) वा ए॒ष ए॒ष वै वा ए॒षः । 46) ए॒ष य-द्यदे॒ष ए॒ष यत् । 47) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 48) अ॒ग्नि र॒सा व॒सा व॒ग्नि र॒ग्नि र॒सौ । 49) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः । 50) आ॒दि॒त्यो᳚ ऽश्वमे॒धो᳚ ऽश्वमे॒ध आ॑दि॒त्य आ॑दि॒त्यो᳚ ऽश्वमे॒धः । ॥ 18 ॥ (50/51)
1) अ॒श्व॒मे॒धो य-द्यद॑श्वमे॒धो᳚ ऽश्वमे॒धो यत् । 1) अ॒श्व॒मे॒ध इत्य॑श्व - मे॒धः । 2) यदे॒ता ए॒ता य-द्यदे॒ताः । 3) ए॒ता आहु॑ती॒ राहु॑ती रे॒ता ए॒ता आहु॑तीः । 4) आहु॑ती-र्जु॒होति॑ जु॒हो त्याहु॑ती॒ राहु॑ती-र्जु॒होति॑ । 4) आहु॑ती॒रित्या - हु॒तीः॒ । 5) जु॒हो त्य॑र्काश्वमे॒धयो॑ रर्काश्वमे॒धयो᳚-र्जु॒होति॑ जु॒हो त्य॑र्काश्वमे॒धयोः᳚ । 6) अ॒र्का॒श्व॒मे॒धयो॑ रे॒वै वार्का᳚श्वमे॒धयो॑ रर्काश्वमे॒धयो॑ रे॒व । 6) अ॒र्का॒श्व॒मे॒धयो॒रित्य॑र्क - अ॒श्व॒मे॒धयोः᳚ । 7) ए॒व ज्योतीग्ं॑षि॒ ज्योतीग्॑ष्ये॒ वैव ज्योतीग्ं॑षि । 8) ज्योतीग्ं॑षि॒ सग्ं स-ञ्ज्योतीग्ं॑षि॒ ज्योतीग्ं॑षि॒ सम् । 9) स-न्द॑धाति दधाति॒ सग्ं स-न्द॑धाति । 10) द॒धा॒ त्ये॒ष ए॒ष द॑धाति दधा त्ये॒षः । 11) ए॒ष ह॑ है॒ष ए॒ष ह॑ । 12) ह॒ तु तु ह॑ ह॒ तु । 13) त्वै वै तु त्वै । 14) वा अ॑र्काश्वमे॒ ध्य॑र्काश्वमे॒धी वै वा अ॑र्काश्वमे॒धी । 15) अ॒र्का॒श्व॒मे॒धी यस्य॒ यस्या᳚र्काश्वमे॒ ध्य॑र्काश्वमे॒धी यस्य॑ । 15) अ॒र्का॒श्व॒मे॒धीत्य॑र्क - अ॒श्व॒मे॒धी । 16) यस्यै॒त दे॒त-द्यस्य॒ यस्यै॒तत् । 17) ए॒त द॒ग्ना व॒ग्ना वे॒त दे॒त द॒ग्नौ । 18) अ॒ग्नौ क्रि॒यते᳚ क्रि॒यते॒ ऽग्ना व॒ग्नौ क्रि॒यते᳚ । 19) क्रि॒यत॒ आप॒ आपः॑ क्रि॒यते᳚ क्रि॒यत॒ आपः॑ । 20) आपो॒ वै वा आप॒ आपो॒ वै । 21) वा इ॒द मि॒दं-वैँ वा इ॒दम् । 22) इ॒द मग्रे ऽग्र॑ इ॒द मि॒द मग्रे᳚ । 23) अग्रे॑ सलि॒लग्ं स॑लि॒ल मग्रे ऽग्रे॑ सलि॒लम् । 24) स॒लि॒ल मा॑सी दासी-थ्सलि॒लग्ं स॑लि॒ल मा॑सीत् । 25) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः । 26) स ए॒ता मे॒ताग्ं स स ए॒ताम् । 27) ए॒ता-म्प्र॒जाप॑तिः प्र॒जाप॑ति रे॒ता मे॒ता-म्प्र॒जाप॑तिः । 28) प्र॒जाप॑तिः प्रथ॒मा-म्प्र॑थ॒मा-म्प्र॒जाप॑तिः प्र॒जाप॑तिः प्रथ॒माम् । 28) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 29) प्र॒थ॒मा-ञ्चिति॒-ञ्चिति॑-म्प्रथ॒मा-म्प्र॑थ॒मा-ञ्चिति᳚म् । 30) चिति॑ मपश्य दपश्य॒च् चिति॒-ञ्चिति॑ मपश्यत् । 31) अ॒प॒श्य॒-त्ता-न्ता म॑पश्य दपश्य॒-त्ताम् । 32) ता मुपोप॒ ता-न्ता मुप॑ । 33) उपा॑ धत्ता ध॒त्तो पोपा॑ धत्त । 34) अ॒ध॒त्त॒ त-त्तद॑धत्ता धत्त॒ तत् । 35) तदि॒य मि॒य-न्त-त्तदि॒यम् । 36) इ॒य म॑भव दभव दि॒य मि॒य म॑भवत् । 37) अ॒भ॒व॒-त्त-न्त म॑भव दभव॒-त्तम् । 38) तं-विँ॒श्वक॑मा वि॒श्वक॑मा॒ त-न्तं-विँ॒श्वक॑मा । 39) वि॒श्वक॑मा ऽब्रवी दब्रवी-द्वि॒श्वक॑मा वि॒श्वक॑मा ऽब्रवीत् । 39) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । 40) अ॒ब्र॒वी॒ दुपोपा᳚ ब्रवी दब्रवी॒ दुप॑ । 41) उप॑ त्वा॒ त्वोपोप॑ त्वा । 42) त्वा ऽऽत्वा॒ त्वा । 43) आ ऽया᳚ न्यया॒ न्या ऽया॑नि । 44) अ॒या॒नीती त्य॑या न्यया॒नीति॑ । 45) इति॒ न ने तीति॒ न । 46) नेहे ह न नेह । 47) इ॒ह लो॒को लो॒क इ॒हेह लो॒कः । 48) लो॒को᳚ ऽस्त्यस्ति लो॒को लो॒को᳚ ऽस्ति । 49) अ॒स्तीती त्य॑स्त्य॒स्तीति॑ । 50) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । ॥ 19 ॥ (50/56)
1) अ॒ब्र॒वी॒-थ्स सो᳚ ऽब्रवी दब्रवी॒-थ्सः । 2) स ए॒ता मे॒ताग्ं स स ए॒ताम् । 3) ए॒ता-न्द्वि॒तीया᳚-न्द्वि॒तीया॑ मे॒ता मे॒ता-न्द्वि॒तीया᳚म् । 4) द्वि॒तीया॒-ञ्चिति॒-ञ्चिति॑-न्द्वि॒तीया᳚-न्द्वि॒तीया॒-ञ्चिति᳚म् । 5) चिति॑ मपश्य दपश्य॒च् चिति॒-ञ्चिति॑ मपश्यत् । 6) अ॒प॒श्य॒-त्ता-न्ता म॑पश्य दपश्य॒-त्ताम् । 7) ता मुपोप॒ ता-न्ता मुप॑ । 8) उपा॑ धत्ता ध॒त्तो पोपा॑ धत्त । 9) अ॒ध॒त्त॒ त-त्तद॑धत्ता धत्त॒ तत् । 10) तद॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-न्त-त्तद॒न्तरि॑क्षम् । 11) अ॒न्तरि॑क्ष मभव दभव द॒न्तरि॑क्ष म॒न्तरि॑क्ष मभवत् । 12) अ॒भ॒व॒-थ्स सो॑ ऽभव दभव॒-थ्सः । 13) स य॒ज्ञो य॒ज्ञ-स्स स य॒ज्ञः । 14) य॒ज्ञः प्र॒जाप॑ति-म्प्र॒जाप॑तिं-यँ॒ज्ञो य॒ज्ञः प्र॒जाप॑तिम् । 15) प्र॒जाप॑ति मब्रवी दब्रवी-त्प्र॒जाप॑ति-म्प्र॒जाप॑ति मब्रवीत् । 15) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 16) अ॒ब्र॒वी॒ दुपोपा᳚ ब्रवी दब्रवी॒ दुप॑ । 17) उप॑ त्वा॒ त्वोपोप॑ त्वा । 18) त्वा ऽऽत्वा॒ त्वा । 19) आ ऽया᳚ न्यया॒ न्या-ऽया॑नि । 20) अ॒या॒नीती त्य॑या न्यया॒नीति॑ । 21) इति॒ न ने तीति॒ न । 22) नेहेह न नेह । 23) इ॒ह लो॒को लो॒क इ॒हेह लो॒कः । 24) लो॒को᳚ ऽस्त्यस्ति लो॒को लो॒को᳚ ऽस्ति । 25) अ॒स्ती तीत्य॑ स्त्य॒ स्तीति॑ । 26) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 27) अ॒ब्र॒वी॒-थ्स सो᳚ ऽब्रवी दब्रवी॒-थ्सः । 28) स वि॒श्वक॑र्माणं-विँ॒श्वक॑र्माण॒ग्ं॒ स स वि॒श्वक॑र्माणम् । 29) वि॒श्वक॑र्माण मब्रवी दब्रवी-द्वि॒श्वक॑र्माणं-विँ॒श्वक॑र्माण मब्रवीत् । 29) वि॒श्वक॑र्माण॒मिति॑ वि॒श्व - क॒र्मा॒ण॒म् । 30) अ॒ब्र॒वी॒ दुपोपा᳚ ब्रवी दब्रवी॒ दुप॑ । 31) उप॑ त्वा॒ त्वोपोप॑ त्वा । 32) त्वा ऽऽत्वा॒ त्वा । 33) आ ऽया᳚ न्यया॒ न्या-ऽया॑नि । 34) अ॒या॒नीती त्य॑या न्यया॒नीति॑ । 35) इति॒ केन॒ केने तीति॒ केन॑ । 36) केन॑ मा मा॒ केन॒ केन॑ मा । 37) मो॒पैष्य॑ स्यु॒पैष्य॑सि मा मो॒पैष्य॑सि । 38) उ॒पैष्य॒ सीती त्यु॒पैष्य॑ स्यु॒पैष्य॒ सीति॑ । 38) उ॒पैष्य॒सीत्यु॑प - ऐष्य॑सि । 39) इति॒ दिश्या॑भि॒-र्दिश्या॑भि॒ रितीति॒ दिश्या॑भिः । 40) दिश्या॑भि॒ रितीति॒ दिश्या॑भि॒-र्दिश्या॑भि॒ रिति॑ । 41) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 42) अ॒ब्र॒वी॒-त्त-न्त म॑ब्रवी दब्रवी॒-त्तम् । 43) त-न्दिश्या॑भि॒-र्दिश्या॑भि॒ स्त-न्त-न्दिश्या॑भिः । 44) दिश्या॑भि रु॒पै दु॒पै-द्दिश्या॑भि॒-र्दिश्या॑भि रु॒पैत् । 45) उ॒पै-त्ता स्ता उ॒पै दु॒पै-त्ताः । 45) उ॒पैदित्यु॑प - ऐत् । 46) ता उपोप॒ ता स्ता उप॑ । 47) उपा॑धत्ता ध॒त्तो पोपा॑ धत्त । 48) अ॒ध॒त्त॒ ता स्ता अ॑धत्ता धत्त॒ ताः । 49) ता दिशो॒ दिश॒ स्ता स्ता दिशः॑ । 50) दिशो॑ ऽभव-न्नभव॒-न्दिशो॒ दिशो॑ ऽभवन्न् । ॥ 20 ॥ (50/54)
1) अ॒भ॒व॒-न्थ्स सो॑ ऽभव-न्नभव॒-न्थ्सः । 2) स प॑रमे॒ष्ठी प॑रमे॒ष्ठी स स प॑रमे॒ष्ठी । 3) प॒र॒मे॒ष्ठी प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्परमे॒ष्ठी प॑रमे॒ष्ठी प्र॒जाप॑तिम् । 4) प्र॒जाप॑ति मब्रवी दब्रवी-त्प्र॒जाप॑ति-म्प्र॒जाप॑ति मब्रवीत् । 4) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 5) अ॒ब्र॒वी॒ दुपोपा᳚ ब्रवी दब्रवी॒ दुप॑ । 6) उप॑ त्वा॒ त्वोपोप॑ त्वा । 7) त्वा ऽऽत्वा॒ त्वा । 8) आ ऽया᳚ न्यया॒ न्या-ऽया॑नि । 9) अ॒या॒नीती त्य॑या न्यया॒नीति॑ । 10) इति॒ न ने तीति॒ न । 11) नेहेह न नेह । 12) इ॒ह लो॒को लो॒क इ॒हेह लो॒कः । 13) लो॒को᳚ ऽस्त्यस्ति लो॒को लो॒को᳚ ऽस्ति । 14) अ॒स्तीती त्य॑स्त्य॒ स्तीति॑ । 15) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 16) अ॒ब्र॒वी॒-थ्स सो᳚ ऽब्रवी दब्रवी॒-थ्सः । 17) स वि॒श्वक॑र्माणं-विँ॒श्वक॑र्माण॒ग्ं॒ स स वि॒श्वक॑र्माणम् । 18) वि॒श्वक॑र्माण-ञ्च च वि॒श्वक॑र्माणं-विँ॒श्वक॑र्माण-ञ्च । 18) वि॒श्वक॑र्माण॒मिति॑ वि॒श्व - क॒र्मा॒ण॒म् । 19) च॒ य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ च य॒ज्ञम् । 20) य॒ज्ञ-ञ्च॑ च य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ । 21) चा॒ब्र॒वी॒ द॒ब्र॒वी॒च् च॒ चा॒ब्र॒वी॒त् । 22) अ॒ब्र॒वी॒ दुपोपा᳚ ब्रवी दब्रवी॒ दुप॑ । 23) उप॑ वां-वाँ॒ मुपोप॑ वाम् । 24) वा॒ मा वां᳚-वाँ॒ मा । 25) आ ऽया᳚ न्यया॒ न्या-ऽया॑नि । 26) अ॒या॒नी तीत्य॑या न्यया॒नीति॑ । 27) इति॒ न नेतीति॒ न । 28) नेहेह न नेह । 29) इ॒ह लो॒को लो॒क इ॒हेह लो॒कः । 30) लो॒को᳚ ऽस्त्यस्ति लो॒को लो॒को᳚ ऽस्ति । 31) अ॒स्ती तीत्य॑ स्त्य॒स्तीति॑ । 32) इत्य॑ब्रूता मब्रूता॒ मिती त्य॑ब्रूताम् । 33) अ॒ब्रू॒ता॒ग्ं॒ स सो᳚ ऽब्रूता मब्रूता॒ग्ं॒ सः । 34) स ए॒ता मे॒ताग्ं स स ए॒ताम् । 35) ए॒ता-न्तृ॒तीया᳚-न्तृ॒तीया॑ मे॒ता मे॒ता-न्तृ॒तीया᳚म् । 36) तृ॒तीया॒-ञ्चिति॒-ञ्चिति॑-न्तृ॒तीया᳚-न्तृ॒तीया॒-ञ्चिति᳚म् । 37) चिति॑ मपश्य दपश्य॒च् चिति॒-ञ्चिति॑ मपश्यत् । 38) अ॒प॒श्य॒-त्ता-न्ता म॑पश्य दपश्य॒-त्ताम् । 39) ता मुपोप॒ ता-न्ता मुप॑ । 40) उपा॑धत्ता ध॒त्तो पोपा॑ धत्त । 41) अ॒ध॒त्त॒ त-त्तद॑धत्ता धत्त॒ तत् । 42) तद॒सा व॒सौ त-त्तद॒सौ । 43) अ॒सा व॑भव दभव द॒सा व॒सा व॑भवत् । 44) अ॒भ॒व॒-थ्स सो॑ ऽभव दभव॒-थ्सः । 45) स आ॑दि॒त्य आ॑दि॒त्य-स्स स आ॑दि॒त्यः । 46) आ॒दि॒त्यः प्र॒जाप॑ति-म्प्र॒जाप॑ति मादि॒त्य आ॑दि॒त्यः प्र॒जाप॑तिम् । 47) प्र॒जाप॑ति मब्रवी दब्रवी-त्प्र॒जाप॑ति-म्प्र॒जाप॑ति मब्रवीत् । 47) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 48) अ॒ब्र॒वी॒ दुपोपा᳚ ब्रवी दब्रवी॒ दुप॑ । 49) उप॑ त्वा॒ त्वोपोप॑ त्वा । 50) त्वा ऽऽत्वा॒ त्वा । ॥ 21 ॥ (50/53)
1) आ ऽया᳚ न्यया॒ न्या-ऽया॑नि । 2) अ॒या॒नीती त्य॑या न्यया॒नीति॑ । 3) इति॒ न नेतीति॒ न । 4) नेहेह न नेह । 5) इ॒ह लो॒को लो॒क इ॒हेह लो॒कः । 6) लो॒को᳚ ऽस्त्यस्ति लो॒को लो॒को᳚ ऽस्ति । 7) अ॒स्ती तीत्य॑ स्त्य॒ स्तीति॑ । 8) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 9) अ॒ब्र॒वी॒-थ्स सो᳚ ऽब्रवी दब्रवी॒-थ्सः । 10) स वि॒श्वक॑र्माणं-विँ॒श्वक॑र्माण॒ग्ं॒ स स वि॒श्वक॑र्माणम् । 11) वि॒श्वक॑र्माण-ञ्च च वि॒श्वक॑र्माणं-विँ॒श्वक॑र्माण-ञ्च । 11) वि॒श्वक॑र्माण॒मिति॑ वि॒श्व - क॒र्मा॒ण॒म् । 12) च॒ य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ च य॒ज्ञम् । 13) य॒ज्ञ-ञ्च॑ च य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ । 14) चा॒ब्र॒वी॒ द॒ब्र॒वी॒च् च॒ चा॒ब्र॒वी॒त् । 15) अ॒ब्र॒वी॒ दुपोपा᳚ ब्रवी दब्रवी॒ दुप॑ । 16) उप॑ वां-वाँ॒ मुपोप॑ वाम् । 17) वा॒ मा वां᳚-वाँ॒ मा । 18) आ ऽया᳚ न्यया॒ न्या-ऽया॑नि । 19) अ॒या॒नीती त्य॑या न्यया॒नीति॑ । 20) इति॒ न नेतीति॒ न । 21) नेहेह न नेह । 22) इ॒ह लो॒को लो॒क इ॒हेह लो॒कः । 23) लो॒को᳚ ऽस्त्यस्ति लो॒को लो॒को᳚ ऽस्ति । 24) अ॒स्ती तीत्य॑ स्त्य॒स्तीति॑ । 25) इत्य॑ब्रूता मब्रूता॒ मिती त्य॑ब्रूताम् । 26) अ॒ब्रू॒ता॒ग्ं॒ स सो᳚ ऽब्रूता मब्रूता॒ग्ं॒ सः । 27) स प॑रमे॒ष्ठिन॑-म्परमे॒ष्ठिन॒ग्ं॒ स स प॑रमे॒ष्ठिन᳚म् । 28) प॒र॒मे॒ष्ठिन॑ मब्रवी दब्रवी-त्परमे॒ष्ठिन॑-म्परमे॒ष्ठिन॑ मब्रवीत् । 29) अ॒ब्र॒वी॒ दुपोपा᳚ ब्रवी दब्रवी॒ दुप॑ । 30) उप॑ त्वा॒ त्वोपोप॑ त्वा । 31) त्वा ऽऽत्वा॒ त्वा । 32) आ ऽया᳚ न्यया॒ न्या-ऽया॑नि । 33) अ॒या॒नीती त्य॑या न्यया॒नीति॑ । 34) इति॒ केन॒ केने तीति॒ केन॑ । 35) केन॑ मा मा॒ केन॒ केन॑ मा । 36) मो॒पैष्य॑ स्यु॒पैष्य॑सि मा मो॒पैष्य॑सि । 37) उ॒पैष्य॒ सीती त्यु॒पैष्य॑ स्यु॒पैष्य॒ सीति॑ । 37) उ॒पैष्य॒सीत्यु॑प - ऐष्य॑सि । 38) इति॑ लोकम्पृ॒णया॑ लोकम्पृ॒ण येतीति॑ लोकम्पृ॒णया᳚ । 39) लो॒क॒म्पृ॒ण येतीति॑ लोकम्पृ॒णया॑ लोकम्पृ॒ण येति॑ । 39) लो॒क॒म्पृ॒णयेति॑ लोकं - पृ॒णया᳚ । 40) इत्य॑ब्रवी दब्रवी॒ दिती त्य॑ब्रवीत् । 41) अ॒ब्र॒वी॒-त्त-न्त म॑ब्रवी दब्रवी॒-त्तम् । 42) तम् ँलो॑कम्पृ॒णया॑ लोकम्पृ॒णया॒ त-न्तम् ँलो॑कम्पृ॒णया᳚ । 43) लो॒क॒म्पृ॒ण यो॒पै दु॒पै ल्लो॑कम्पृ॒णया॑ लोकम्पृ॒ण यो॒पैत् । 43) लो॒क॒म्पृ॒णयेति॑ लोकं - पृ॒णया᳚ । 44) उ॒पै-त्तस्मा॒-त्तस्मा॑ दु॒पै दु॒पै-त्तस्मा᳚त् । 44) उ॒पैदित्यु॑प - ऐत् । 45) तस्मा॒ दया॑तया॒ म्न्यया॑तयाम्नी॒ तस्मा॒-त्तस्मा॒ दया॑तयाम्नी । 46) अया॑तयाम्नी लोकम्पृ॒णा लो॑कम्पृ॒णा ऽया॑तया॒ म्न्यया॑तयाम्नी लोकम्पृ॒णा । 46) अया॑तया॒म्नीत्यया॑त - या॒म्नी॒ । 47) लो॒क॒म्पृ॒णा ऽया॑तया॒मा ऽया॑तयामा लोकम्पृ॒णा लो॑कम्पृ॒णा ऽया॑तयामा । 47) लो॒क॒म्पृ॒णेति॑ लोकं - पृ॒णा । 48) अया॑तयामा॒ हि ह्यया॑तया॒मा ऽया॑तयामा॒ हि । 48) अया॑तया॒मेत्यया॑त - या॒मा॒ । 49) ह्य॑सा व॒सौ हि ह्य॑सौ । 50) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः । ॥ 22 ॥ (50/58)
1) आ॒दि॒त्य स्ताग् स्ता ना॑दि॒त्य आ॑दि॒त्य स्तान् । 2) तानृष॑य॒ ऋष॑य॒ स्ताग् स्ता नृष॑यः । 3) ऋष॑यो ऽब्रुव-न्नब्रुव॒-न्नृष॑य॒ ऋष॑यो ऽब्रुवन्न् । 4) अ॒ब्रु॒व॒-न्नुपोपा᳚ ब्रुव-न्नब्रुव॒-न्नुप॑ । 5) उप॑ वो व॒ उपोप॑ वः । 6) व॒ आ वो॑ व॒ आ । 7) आ ऽया॑मा या॒मा ऽया॑म । 8) अ॒या॒मे तीत्य॑यामा या॒मेति॑ । 9) इति॒ केन॒ केने तीति॒ केन॑ । 10) केन॑ नो नः॒ केन॒ केन॑ नः । 11) न॒ उ॒पैष्य॑ थो॒पैष्य॑थ नो न उ॒पैष्य॑थ । 12) उ॒पैष्य॒थेती त्यु॒पैष्य॑ थो॒पैष्य॒थेति॑ । 12) उ॒पैष्य॒थेत्यु॑प - ऐष्य॑थ । 13) इति॑ भू॒म्ना भू॒म्नेतीति॑ भू॒म्ना । 14) भू॒म्नेतीति॑ भू॒म्ना भू॒म्नेति॑ । 15) इत्य॑ब्रुव-न्नब्रुव॒-न्निती त्य॑ब्रुवन्न् । 16) अ॒ब्रु॒व॒-न्ताग् स्ता न॑ब्रुव-न्नब्रुव॒-न्तान् । 17) ता-न्द्वाभ्या॒-न्द्वाभ्या॒-न्ताग् स्ता-न्द्वाभ्या᳚म् । 18) द्वाभ्या॒-ञ्चिती᳚भ्या॒-ञ्चिती᳚भ्या॒-न्द्वाभ्या॒-न्द्वाभ्या॒-ञ्चिती᳚भ्याम् । 19) चिती᳚भ्या मु॒पाय॑-न्नु॒पाय॒ ञ्चिती᳚भ्या॒-ञ्चिती᳚भ्या मु॒पायन्न्॑ । 19) चिती᳚भ्या॒मिति॒ चिति॑ - भ्या॒म् । 20) उ॒पाय॒-न्थ्स स उ॒पाय॑-न्नु॒पाय॒-न्थ्सः । 20) उ॒पाय॒न्नित्यु॑प - आयन्न्॑ । 21) स पञ्च॑चितीकः॒ पञ्च॑चितीक॒-स्स स पञ्च॑चितीकः । 22) पञ्च॑चितीक॒-स्सग्ं स-म्पञ्च॑चितीकः॒ पञ्च॑चितीक॒-स्सम् । 22) पञ्च॑चितीक॒ इति॒ पञ्च॑ - चि॒ती॒कः॒ । 23) स म॑पद्यता पद्यत॒ सग्ं स म॑पद्यत । 24) अ॒प॒द्य॒त॒ यो यो॑ ऽपद्यता पद्यत॒ यः । 25) य ए॒व मे॒वं-योँ य ए॒वम् । 26) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 27) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् । 28) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 29) चि॒नु॒ते भूया॒-न्भूयाग्॑ श्चिनु॒ते चि॑नु॒ते भूयान्॑ । 30) भूया॑ ने॒वैव भूया॒-न्भूया॑ ने॒व । 31) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 32) भ॒व॒ त्य॒भ्य॑भि भ॑वति भव त्य॒भि । 33) अ॒भीमा नि॒मा न॒भ्य॑भीमान् । 34) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् । 35) लो॒कान् ज॑यति जयति लो॒कान् ँलो॒कान् ज॑यति । 36) ज॒य॒ति॒ वि॒दु-र्वि॒दु-र्ज॑यति जयति वि॒दुः । 37) वि॒दु रे॑न मेनं-विँ॒दु-र्वि॒दु रे॑नम् । 38) ए॒न॒-न्दे॒वा दे॒वा ए॑न मेन-न्दे॒वाः । 39) दे॒वा अथो॒ अथो॑ दे॒वा दे॒वा अथो᳚ । 40) अथो॑ ए॒तासा॑ मे॒तासा॒ मथो॒ अथो॑ ए॒तासा᳚म् । 40) अथो॒ इत्यथो᳚ । 41) ए॒तासा॑ मे॒वै वैतासा॑ मे॒तासा॑ मे॒व । 42) ए॒व दे॒वता॑ना-न्दे॒वता॑ना मे॒वैव दे॒वता॑नाम् । 43) दे॒वता॑ना॒ग्ं॒ सायु॑ज्य॒ग्ं॒ सायु॑ज्य-न्दे॒वता॑ना-न्दे॒वता॑ना॒ग्ं॒ सायु॑ज्यम् । 44) सायु॑ज्य-ङ्गच्छति गच्छति॒ सायु॑ज्य॒ग्ं॒ सायु॑ज्य-ङ्गच्छति । 45) ग॒च्छ॒तीति॑ गच्छति । ॥ 23 ॥ (45/50) ॥ अ. 5 ॥
1) वयो॒ वै वै वयो॒ वयो॒ वै । 2) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 3) अ॒ग्नि-र्य-द्यद॒ग्नि र॒ग्नि-र्यत् । 4) यद॑ग्नि॒चि द॑ग्नि॒चि-द्य-द्यद॑ग्नि॒चित् । 5) अ॒ग्नि॒चि-त्प॒क्षिणः॑ प॒क्षिणो᳚ ऽग्नि॒चि द॑ग्नि॒चि-त्प॒क्षिणः॑ । 5) अ॒ग्नि॒चिदित्य॑ग्नि - चित् । 6) प॒क्षिणो᳚ ऽश्ञी॒या द॑श्ञी॒या-त्प॒क्षिणः॑ प॒क्षिणो᳚ ऽश्ञी॒यात् । 7) अ॒श्ञी॒या-त्त-न्त म॑श्ञी॒या द॑श्ञी॒या-त्तम् । 8) त मे॒वैव त-न्त मे॒व । 9) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् । 10) अ॒ग्नि म॑द्या दद्या द॒ग्नि म॒ग्नि म॑द्यात् । 11) अ॒द्या॒ दार्ति॒ मार्ति॑ मद्या दद्या॒ दार्ति᳚म् । 12) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 13) आर्च्छे॑ दृच्छे॒ दार्च्छे᳚त् । 14) ऋ॒च्छे॒-थ्सं॒वँ॒थ्स॒रग्ं सं॑वँथ्स॒र मृ॑च्छे दृच्छे-थ्संवँथ्स॒रम् । 15) सं॒वँ॒थ्स॒रं-व्रँ॒तं-व्रँ॒तग्ं सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रं-व्रँ॒तम् । 15) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 16) व्र॒त-ञ्च॑रेच् चरे-द्व्र॒तं-व्रँ॒त-ञ्च॑रेत् । 17) च॒रे॒-थ्सं॒वँ॒थ्स॒रग्ं सं॑वँथ्स॒र-ञ्च॑रेच् चरे-थ्संवँथ्स॒रम् । 18) सं॒वँ॒थ्स॒रग्ं हि हि सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रग्ं हि । 18) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 19) हि व्र॒तं-व्रँ॒तग्ं हि हि व्र॒तम् । 20) व्र॒त-न्न न व्र॒तं-व्रँ॒त-न्न । 21) नात्यति॒ न नाति॑ । 22) अति॑ प॒शुः प॒शु रत्यति॑ प॒शुः । 23) प॒शु-र्वै वै प॒शुः प॒शु-र्वै । 24) वा ए॒ष ए॒ष वै वा ए॒षः । 25) ए॒ष य-द्यदे॒ष ए॒ष यत् । 26) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 27) अ॒ग्निर्-हि॒नस्ति॑ हि॒नस् त्य॒ग्नि र॒ग्निर्-हि॒नस्ति॑ । 28) हि॒नस्ति॒ खलु॒ खलु॑ हि॒नस्ति॑ हि॒नस्ति॒ खलु॑ । 29) खलु॒ वै वै खलु॒ खलु॒ वै । 30) वै त-न्तं-वैँ वै तम् । 31) त-म्प॒शुः प॒शु स्त-न्त-म्प॒शुः । 32) प॒शु-र्यो यः प॒शुः प॒शु-र्यः । 33) य ए॑न मेनं॒-योँ य ए॑नम् । 34) ए॒न॒-म्पु॒रस्ता᳚-त्पु॒रस्ता॑ देन मेन-म्पु॒रस्ता᳚त् । 35) पु॒रस्ता᳚-त्प्र॒त्यञ्च॑-म्प्र॒त्यञ्च॑-म्पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प्र॒त्यञ्च᳚म् । 36) प्र॒त्यञ्च॑ मुप॒चर॑ त्युप॒चर॑ति प्र॒त्यञ्च॑-म्प्र॒त्यञ्च॑ मुप॒चर॑ति । 37) उ॒प॒चर॑ति॒ तस्मा॒-त्तस्मा॑ दुप॒चर॑ त्युप॒चर॑ति॒ तस्मा᳚त् । 37) उ॒प॒चर॒तीत्यु॑प - चर॑ति । 38) तस्मा᳚-त्प॒श्चा-त्प॒श्चा-त्तस्मा॒-त्तस्मा᳚-त्प॒श्चात् । 39) प॒श्चा-त्प्रा-म्प्रा-म्प॒श्चा-त्प॒श्चा-त्प्राम् । 40) प्रां ंउ॑प॒चर्य॑ उप॒चर्यः॒ प्रा-म्प्रां ंउ॑प॒चर्यः॑ । 41) उ॒प॒चर्य॑ आ॒त्मन॑ आ॒त्मन॑ उप॒चर्य॑ उप॒चर्य॑ आ॒त्मनः॑ । 41) उ॒प॒चर्य॒ इत्यु॑प - चर्यः॑ । 42) आ॒त्मनो ऽहिग्ं॑साया॒ अहिग्ं॑साया आ॒त्मन॑ आ॒त्मनो ऽहिग्ं॑सायै । 43) अहिग्ं॑सायै॒ तेज॒ स्तेजो ऽहिग्ं॑साया॒ अहिग्ं॑सायै॒ तेजः॑ । 44) तेजो᳚ ऽस्यसि॒ तेज॒ स्तेजो॑ ऽसि । 45) अ॒सि॒ तेज॒ स्तेजो᳚ ऽस्यसि॒ तेजः॑ । 46) तेजो॑ मे मे॒ तेज॒ स्तेजो॑ मे । 47) मे॒ य॒च्छ॒ य॒च्छ॒ मे॒ मे॒ य॒च्छ॒ । 48) य॒च्छ॒ पृ॒थि॒वी-म्पृ॑थि॒वीं-यँ॑च्छ यच्छ पृथि॒वीम् । 49) पृ॒थि॒वीं-यँ॑च्छ यच्छ पृथि॒वी-म्पृ॑थि॒वीं-यँ॑च्छ । 50) य॒च्छ॒ पृ॒थि॒व्यै पृ॑थि॒व्यै य॑च्छ यच्छ पृथि॒व्यै । ॥ 24 ॥ (50/55)
1) पृ॒थि॒व्यै मा॑ मा पृथि॒व्यै पृ॑थि॒व्यै मा᳚ । 2) मा॒ पा॒हि॒ पा॒हि॒ मा॒ मा॒ पा॒हि॒ । 3) पा॒हि॒ ज्योति॒-र्ज्योतिः॑ पाहि पाहि॒ ज्योतिः॑ । 4) ज्योति॑ रस्यसि॒ ज्योति॒-र्ज्योति॑ रसि । 5) अ॒सि॒ ज्योति॒-र्ज्योति॑ रस्यसि॒ ज्योतिः॑ । 6) ज्योति॑-र्मे मे॒ ज्योति॒-र्ज्योति॑-र्मे । 7) मे॒ य॒च्छ॒ य॒च्छ॒ मे॒ मे॒ य॒च्छ॒ । 8) य॒च्छा॒न्तरि॑क्ष म॒न्तरि॑क्षं-यँच्छ यच्छा॒न्तरि॑क्षम् । 9) अ॒न्तरि॑क्षं-यँच्छ यच्छा॒न्तरि॑क्ष म॒न्तरि॑क्षं-यँच्छ । 10) य॒च्छा॒न्तरि॑क्षा द॒न्तरि॑क्षा-द्यच्छ यच्छा॒न्तरि॑क्षात् । 11) अ॒न्तरि॑क्षा-न्मा मा॒ ऽन्तरि॑क्षा द॒न्तरि॑क्षा-न्मा । 12) मा॒ पा॒हि॒ पा॒हि॒ मा॒ मा॒ पा॒हि॒ । 13) पा॒हि॒ सुव॒-स्सुवः॑ पाहि पाहि॒ सुवः॑ । 14) सुव॑ रस्यसि॒ सुव॒-स्सुव॑ रसि । 15) अ॒सि॒ सुव॒-स्सुव॑ रस्यसि॒ सुवः॑ । 16) सुव॑-र्मे मे॒ सुव॒-स्सुव॑-र्मे । 17) मे॒ य॒च्छ॒ य॒च्छ॒ मे॒ मे॒ य॒च्छ॒ । 18) य॒च्छ॒ दिव॒-न्दिवं॑-यँच्छ यच्छ॒ दिव᳚म् । 19) दिवं॑-यँच्छ यच्छ॒ दिव॒-न्दिवं॑-यँच्छ । 20) य॒च्छ॒ दि॒वो दि॒वो य॑च्छ यच्छ दि॒वः । 21) दि॒वो मा॑ मा दि॒वो दि॒वो मा᳚ । 22) मा॒ पा॒हि॒ पा॒हि॒ मा॒ मा॒ पा॒हि॒ । 23) पा॒हीतीति॑ पाहि पा॒हीति॑ । 24) इत्या॑हा॒हे तीत्या॑ह । 25) आ॒है॒ताभि॑ रे॒ताभि॑ राहा है॒ताभिः॑ । 26) ए॒ताभि॒-र्वै वा ए॒ताभि॑ रे॒ताभि॒-र्वै । 27) वा इ॒म इ॒मे वै वा इ॒मे । 28) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 29) लो॒का विधृ॑ता॒ विधृ॑ता लो॒का लो॒का विधृ॑ताः । 30) विधृ॑ता॒ य-द्य-द्विधृ॑ता॒ विधृ॑ता॒ यत् । 30) विधृ॑ता॒ इति॒ वि - धृ॒ताः॒ । 31) यदे॒ता ए॒ता य-द्यदे॒ताः । 32) ए॒ता उ॑प॒दधा᳚ त्युप॒दधा᳚ त्ये॒ता ए॒ता उ॑प॒दधा॑ति । 33) उ॒प॒दधा᳚ त्ये॒षा मे॒षा मु॑प॒दधा᳚ त्युप॒दधा᳚ त्ये॒षाम् । 33) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 34) ए॒षाम् ँलो॒काना᳚म् ँलो॒काना॑ मे॒षा मे॒षाम् ँलो॒काना᳚म् । 35) लो॒कानां॒-विँधृ॑त्यै॒ विधृ॑त्यै लो॒काना᳚म् ँलो॒कानां॒-विँधृ॑त्यै । 36) विधृ॑त्यै स्वयमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा विधृ॑त्यै॒ विधृ॑त्यै स्वयमातृ॒ण्णाः । 36) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । 37) स्व॒य॒मा॒तृ॒ण्णा उ॑प॒धायो॑ प॒धाय॑ स्वयमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ । 37) स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं - आ॒तृ॒ण्णाः । 38) उ॒प॒धाय॑ हिरण्येष्ट॒का हि॑रण्येष्ट॒का उ॑प॒धायो॑ प॒धाय॑ हिरण्येष्ट॒काः । 38) उ॒प॒धायेत्यु॑प - धाय॑ । 39) हि॒र॒ण्ये॒ष्ट॒का उपोप॑ हिरण्येष्ट॒का हि॑रण्येष्ट॒का उप॑ । 39) हि॒र॒ण्ये॒ष्ट॒का इति॑ हिरण्य - इ॒ष्ट॒काः । 40) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 41) द॒धा॒ ती॒म इ॒मे द॑धाति दधा ती॒मे । 42) इ॒मे वै वा इ॒म इ॒मे वै । 43) वै लो॒का लो॒का वै वै लो॒काः । 44) लो॒का-स्स्व॑यमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा लो॒का लो॒का-स्स्व॑यमातृ॒ण्णाः । 45) स्व॒य॒मा॒तृ॒ण्णा ज्योति॒-र्ज्योति॑-स्स्वयमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा ज्योतिः॑ । 45) स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं - आ॒तृ॒ण्णाः । 46) ज्योति॒र्॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-ञ्ज्योति॒-र्ज्योति॒र्॒ हिर॑ण्यम् । 47) हिर॑ण्यं॒-यँ-द्यद्धिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-यँत् । 48) य-थ्स्व॑यमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा य-द्य-थ्स्व॑यमातृ॒ण्णाः । 49) स्व॒य॒मा॒तृ॒ण्णा उ॑प॒धायो॑ प॒धाय॑ स्वयमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ । 49) स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं - आ॒तृ॒ण्णाः । 50) उ॒प॒धाय॑ हिरण्येष्ट॒का हि॑रण्येष्ट॒का उ॑प॒धायो॑ प॒धाय॑ हिरण्येष्ट॒काः । 50) उ॒प॒धायेत्यु॑प - धाय॑ । ॥ 25 ॥ (50/59)
1) हि॒र॒ण्ये॒ष्ट॒का उ॑प॒दधा᳚ त्युप॒दधा॑ति हिरण्येष्ट॒का हि॑रण्येष्ट॒का उ॑प॒दधा॑ति । 1) हि॒र॒ण्ये॒ष्ट॒का इति॑ हिरण्य - इ॒ष्ट॒काः । 2) उ॒प॒दधा॑ ती॒मा नि॒मा नु॑प॒दधा᳚ त्युप॒दधा॑ ती॒मान् । 2) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 3) इ॒मा ने॒वैवे मा नि॒मा ने॒व । 4) ए॒वै ताभि॑ रे॒ताभि॑ रे॒वै वैताभिः॑ । 5) ए॒ताभि॑-र्लो॒कान् ँलो॒का ने॒ताभि॑ रे॒ताभि॑-र्लो॒कान् । 6) लो॒कान् ज्योति॑ष्मतो॒ ज्योति॑ष्मतो लो॒कान् ँलो॒कान् ज्योति॑ष्मतः । 7) ज्योति॑ष्मतः कुरुते कुरुते॒ ज्योति॑ष्मतो॒ ज्योति॑ष्मतः कुरुते । 8) कु॒रु॒ते ऽथो॒ अथो॑ कुरुते कुरु॒ते ऽथो᳚ । 9) अथो॑ ए॒ताभि॑ रे॒ताभि॒ रथो॒ अथो॑ ए॒ताभिः॑ । 9) अथो॒ इत्यथो᳚ । 10) ए॒ताभि॑ रे॒वै वैताभि॑ रे॒ताभि॑ रे॒व । 11) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 12) अ॒स्मा॒ इ॒म इ॒मे᳚ ऽस्मा अस्मा इ॒मे । 13) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 14) लो॒काः प्र प्र लो॒का लो॒काः प्र । 15) प्र भा᳚न्ति भान्ति॒ प्र प्र भा᳚न्ति । 16) भा॒न्ति॒ या या भा᳚न्ति भान्ति॒ याः । 17) या स्ते॑ ते॒ या या स्ते᳚ । 18) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 19) अ॒ग्ने॒ सूर्ये॒ सूर्ये॑ अग्ने अग्ने॒ सूर्ये᳚ । 20) सूर्ये॒ रुचो॒ रुच॒-स्सूर्ये॒ सूर्ये॒ रुचः॑ । 21) रुच॑ उद्य॒त उ॑द्य॒तो रुचो॒ रुच॑ उद्य॒तः । 22) उ॒द्य॒तो दिव॒-न्दिव॑ मुद्य॒त उ॑द्य॒तो दिव᳚म् । 22) उ॒द्य॒त इत्यु॑त् - य॒तः । 23) दिव॑ मात॒न्व-न्त्या॑त॒न्वन्ति॒ दिव॒-न्दिव॑ मात॒न्वन्ति॑ । 24) आ॒त॒न्वन्ति॑ र॒श्मिभी॑ र॒श्मिभि॑ रात॒न्व-न्त्या॑त॒न्वन्ति॑ र॒श्मिभिः॑ । 24) आ॒त॒न्वन्तीत्या᳚ - त॒न्वन्ति॑ । 25) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ । 26) ताभि॒-स्सर्वा॑भि॒-स्सर्वा॑भि॒ स्ताभि॒ स्ताभि॒-स्सर्वा॑भिः । 27) सर्वा॑भी रु॒चे रु॒चे सर्वा॑भि॒-स्सर्वा॑भी रु॒चे । 28) रु॒चे जना॑य॒ जना॑य रु॒चे रु॒चे जना॑य । 29) जना॑य नो नो॒ जना॑य॒ जना॑य नः । 30) न॒ स्कृ॒धि॒ कृ॒धि॒ नो॒ न॒ स्कृ॒धि॒ । 31) कृ॒धीति॑ कृधि । 32) या वो॑ वो॒ या या वः॑ । 33) वो॒ दे॒वा॒ दे॒वा॒ वो॒ वो॒ दे॒वाः॒ । 34) दे॒वा॒-स्सूर्ये॒ सूर्ये॑ देवा देवा॒-स्सूर्ये᳚ । 35) सूर्ये॒ रुचो॒ रुच॒-स्सूर्ये॒ सूर्ये॒ रुचः॑ । 36) रुचो॒ गोषु॒ गोषु॒ रुचो॒ रुचो॒ गोषु॑ । 37) गोष्वश्वे॒ ष्वश्वे॑षु॒ गोषु॒ गोष्वश्वे॑षु । 38) अश्वे॑षु॒ या या अश्वे॒ ष्वश्वे॑षु॒ याः । 39) या रुचो॒ रुचो॒ या या रुचः॑ । 40) रुच॒ इति॒ रुचः॑ । 41) इन्द्रा᳚ग्नी॒ ताभि॒ स्ताभि॒ रिन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी॒ ताभिः॑ । 41) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । 42) ताभि॒-स्सर्वा॑भि॒-स्सर्वा॑भि॒ स्ताभि॒ स्ताभि॒-स्सर्वा॑भिः । 43) सर्वा॑भी॒ रुच॒ग्ं॒ रुच॒ग्ं॒ सर्वा॑भि॒-स्सर्वा॑भी॒ रुच᳚म् । 44) रुच॑-न्नो नो॒ रुच॒ग्ं॒ रुच॑-न्नः । 45) नो॒ ध॒त्त॒ ध॒त्त॒ नो॒ नो॒ ध॒त्त॒ । 46) ध॒त्त॒ बृ॒ह॒स्प॒ते॒ बृ॒ह॒स्प॒ते॒ ध॒त्त॒ ध॒त्त॒ बृ॒ह॒स्प॒ते॒ । 47) बृ॒ह॒स्प॒त॒ इति॑ बृहस्पते । 48) रुच॑-न्नो नो॒ रुच॒ग्ं॒ रुच॑-न्नः । 49) नो॒ धे॒हि॒ धे॒हि॒ नो॒ नो॒ धे॒हि॒ । 50) धे॒हि॒ ब्रा॒ह्म॒णेषु॑ ब्राह्म॒णेषु॑ धेहि धेहि ब्राह्म॒णेषु॑ । ॥ 26 ॥ (50/56)
1) ब्रा॒ह्म॒णेषु॒ रुच॒ग्ं॒ रुच॑-म्ब्राह्म॒णेषु॑ ब्राह्म॒णेषु॒ रुच᳚म् । 2) रुच॒ग्ं॒ राज॑सु॒ राज॑सु॒ रुच॒ग्ं॒ रुच॒ग्ं॒ राज॑सु । 3) राज॑सु नो नो॒ राज॑सु॒ राज॑सु नः । 3) राज॒स्विति॒ राज॑ - सु॒ । 4) न॒ स्कृ॒धि॒ कृ॒धि॒ नो॒ न॒ स्कृ॒धि॒ । 5) कृ॒धीति॑ कृधि । 6) रुचं॑-विँ॒श्ये॑षु वि॒श्ये॑षु॒ रुच॒ग्ं॒ रुचं॑-विँ॒श्ये॑षु । 7) वि॒श्ये॑षु शू॒द्रेषु॑ शू॒द्रेषु॑ वि॒श्ये॑षु वि॒श्ये॑षु शू॒द्रेषु॑ । 8) शू॒द्रेषु॒ मयि॒ मयि॑ शू॒द्रेषु॑ शू॒द्रेषु॒ मयि॑ । 9) मयि॑ धेहि धेहि॒ मयि॒ मयि॑ धेहि । 10) धे॒हि॒ रु॒चा रु॒चा धे॑हि धेहि रु॒चा । 11) रु॒चा रुच॒ग्ं॒ रुचग्ं॑ रु॒चा रु॒चा रुच᳚म् । 12) रुच॒मिति॒ रुच᳚म् । 13) द्वे॒धा वै वै द्वे॒धा द्वे॒धा वै । 14) वा अ॒ग्नि म॒ग्निं-वैँ वा अ॒ग्निम् । 15) अ॒ग्नि-ञ्चि॑क्या॒नस्य॑ चिक्या॒न स्या॒ग्नि म॒ग्नि-ञ्चि॑क्या॒नस्य॑ । 16) चि॒क्या॒नस्य॒ यशो॒ यश॑ श्चिक्या॒नस्य॑ चिक्या॒नस्य॒ यशः॑ । 17) यश॑ इन्द्रि॒य मि॑न्द्रि॒यं-यँशो॒ यश॑ इन्द्रि॒यम् । 18) इ॒न्द्रि॒य-ङ्ग॑च्छति गच्छ तीन्द्रि॒य मि॑न्द्रि॒य-ङ्ग॑च्छति । 19) ग॒च्छ॒ त्य॒ग्नि म॒ग्नि-ङ्ग॑च्छति गच्छ त्य॒ग्निम् । 20) अ॒ग्निं-वाँ॑ वा॒ ऽग्नि म॒ग्निं-वाँ᳚ । 21) वा॒ चि॒त-ञ्चि॒तं-वाँ॑ वा चि॒तम् । 22) चि॒त मी॑जा॒न मी॑जा॒न-ञ्चि॒त-ञ्चि॒त मी॑जा॒नम् । 23) ई॒जा॒नं-वाँ॑ वेजा॒न मी॑जा॒नं-वाँ᳚ । 24) वा॒ य-द्य-द्वा॑ वा॒ यत् । 25) यदे॒ता ए॒ता य-द्यदे॒ताः । 26) ए॒ता आहु॑ती॒ राहु॑ती रे॒ता ए॒ता आहु॑तीः । 27) आहु॑ती-र्जु॒होति॑ जु॒हो त्याहु॑ती॒ राहु॑ती-र्जु॒होति॑ । 27) आहु॑ती॒रित्या - हु॒तीः॒ । 28) जु॒हो त्या॒त्म-न्ना॒त्मन् जु॒होति॑ जु॒हो त्या॒त्मन्न् । 29) आ॒त्म-न्ने॒वै वात्म-न्ना॒त्म-न्ने॒व । 30) ए॒व यशो॒ यश॑ ए॒वैव यशः॑ । 31) यश॑ इन्द्रि॒य मि॑न्द्रि॒यं-यँशो॒ यश॑ इन्द्रि॒यम् । 32) इ॒न्द्रि॒य-न्ध॑त्ते धत्त इन्द्रि॒य मि॑न्द्रि॒य-न्ध॑त्ते । 33) ध॒त्त॒ ई॒श्व॒र ई᳚श्व॒रो ध॑त्ते धत्त ईश्व॒रः । 34) ई॒श्व॒रो वै वा ई᳚श्व॒र ई᳚श्व॒रो वै । 35) वा ए॒ष ए॒ष वै वा ए॒षः । 36) ए॒ष आर्ति॒ मार्ति॑ मे॒ष ए॒ष आर्ति᳚म् । 37) आर्ति॒ मार्तो॒ रार्तो॒ रार्ति॒ मार्ति॒ मार्तोः᳚ । 38) आर्तो॒-र्यो य आर्तो॒ रार्तो॒-र्यः । 38) आर्तो॒रित्या - अ॒र्तोः॒ । 39) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 40) अ॒ग्नि-ञ्चि॒न्वग्ग् श्चि॒न्व-न्न॒ग्नि म॒ग्नि-ञ्चि॒न्वन्न् । 41) चि॒न्व-न्न॑धि॒क्राम॑ त्यधि॒क्राम॑ति चि॒न्वग्ग् श्चि॒न्व-न्न॑धि॒क्राम॑ति । 42) अ॒धि॒क्राम॑ति॒ त-त्तद॑धि॒क्राम॑ त्यधि॒क्राम॑ति॒ तत् । 42) अ॒धि॒क्राम॒तीत्य॑धि - क्राम॑ति । 43) त-त्त्वा᳚ त्वा॒ त-त्त-त्त्वा᳚ । 44) त्वा॒ या॒मि॒ या॒मि॒ त्वा॒ त्वा॒ या॒मि॒ । 45) या॒मि॒ ब्रह्म॑णा॒ ब्रह्म॑णा यामि यामि॒ ब्रह्म॑णा । 46) ब्रह्म॑णा॒ वन्द॑मानो॒ वन्द॑मानो॒ ब्रह्म॑णा॒ ब्रह्म॑णा॒ वन्द॑मानः । 47) वन्द॑मान॒ इतीति॒ वन्द॑मानो॒ वन्द॑मान॒ इति॑ । 48) इति॑ वारु॒ण्या वा॑रु॒ण्येतीति॑ वारु॒ण्या । 49) वा॒रु॒ण्य र्च र्चा वा॑रु॒ण्या वा॑रु॒ण्य र्चा । 50) ऋ॒चा जु॑हुयाज् जुहुया दृ॒च र्चा जु॑हुयात् । ॥ 27 ॥ (50/54)
1) जु॒हु॒या॒च् छान्ति॒-श्शान्ति॑-र्जुहुयाज् जुहुया॒च् छान्तिः॑ । 2) शान्ति॑ रे॒वैव शान्ति॒-श्शान्ति॑ रे॒व । 3) ए॒वैषै षैवै वैषा । 4) ए॒षा ऽग्ने र॒ग्ने रे॒षैषा ऽग्नेः । 5) अ॒ग्ने-र्गुप्ति॒-र्गुप्ति॑ र॒ग्ने र॒ग्ने-र्गुप्तिः॑ । 6) गुप्ति॑ रा॒त्मन॑ आ॒त्मनो॒ गुप्ति॒-र्गुप्ति॑ रा॒त्मनः॑ । 7) आ॒त्मनो॑ ह॒विष्कृ॑तो ह॒विष्कृ॑त आ॒त्मन॑ आ॒त्मनो॑ ह॒विष्कृ॑तः । 8) ह॒विष्कृ॑तो॒ वै वै ह॒विष्कृ॑तो ह॒विष्कृ॑तो॒ वै । 8) ह॒विष्कृ॑त॒ इति॑ ह॒विः - कृ॒तः॒ । 9) वा ए॒ष ए॒ष वै वा ए॒षः । 10) ए॒ष यो य ए॒ष ए॒ष यः । 11) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 12) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 13) चि॒नु॒ते यथा॒ यथा॑ चिनु॒ते चि॑नु॒ते यथा᳚ । 14) यथा॒ वै वै यथा॒ यथा॒ वै । 15) वै ह॒विर्-ह॒वि-र्वै वै ह॒विः । 16) ह॒वि-स्स्कन्द॑ति॒ स्कन्द॑ति ह॒विर्-ह॒वि-स्स्कन्द॑ति । 17) स्कन्द॑ त्ये॒व मे॒वग्ग् स्कन्द॑ति॒ स्कन्द॑ त्ये॒वम् । 18) ए॒वं-वैँ वा ए॒व मे॒वं-वैँ । 19) वा ए॒ष ए॒ष वै वा ए॒षः । 20) ए॒ष स्क॑न्दति स्कन्द त्ये॒ष ए॒ष स्क॑न्दति । 21) स्क॒न्द॒ति॒ यो य-स्स्क॑न्दति स्कन्दति॒ यः । 22) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 23) अ॒ग्नि-ञ्चि॒त्वा चि॒त्वा ऽग्नि म॒ग्नि-ञ्चि॒त्वा । 24) चि॒त्वा स्त्रिय॒ग्ग्॒ स्त्रिय॑-ञ्चि॒त्वा चि॒त्वा स्त्रिय᳚म् । 25) स्त्रिय॑ मु॒पै त्यु॒पैति॒ स्त्रिय॒ग्ग्॒ स्त्रिय॑ मु॒पैति॑ । 26) उ॒पैति॑ मैत्रावरु॒ण्या मै᳚त्रावरु॒ ण्योपैत्यु॒पैति॑ मैत्रावरु॒ण्या । 26) उ॒पैतीत्यु॑प - एति॑ । 27) मै॒त्रा॒व॒रु॒ण्या ऽऽमिक्ष॑या॒ ऽऽमिक्ष॑या मैत्रावरु॒ण्या मै᳚त्रावरु॒ण्या ऽऽमिक्ष॑या । 27) मै॒त्रा॒व॒रु॒ण्येति॑ मैत्रा - व॒रु॒ण्या । 28) आ॒मिक्ष॑या यजेत यजेता॒ मिक्ष॑या॒ ऽऽमिक्ष॑या यजेत । 29) य॒जे॒त॒ मै॒त्रा॒व॒रु॒णता᳚-म्मैत्रावरु॒णतां᳚-यँजेत यजेत मैत्रावरु॒णता᳚म् । 30) मै॒त्रा॒व॒रु॒णता॑ मे॒वैव मै᳚त्रावरु॒णता᳚-म्मैत्रावरु॒णता॑ मे॒व । 30) मै॒त्रा॒व॒रु॒णता॒मिति॑ मैत्रा - व॒रु॒णता᳚म् । 31) ए॒वो पोपै॒ वैवोप॑ । 32) उपै᳚त्ये॒ त्युपो पै॑ति । 33) ए॒त्या॒त्मन॑ आ॒त्मन॑ एत्ये त्या॒त्मनः॑ । 34) आ॒त्मनो ऽस्क॑न्दा॒या स्क॑न्दा या॒त्मन॑ आ॒त्मनो ऽस्क॑न्दाय । 35) अस्क॑न्दाय॒ यो यो ऽस्क॑न्दा॒या स्क॑न्दाय॒ यः । 36) यो वै वै यो यो वै । 37) वा अ॒ग्नि म॒ग्निं-वैँ वा अ॒ग्निम् । 38) अ॒ग्नि मृ॑तु॒स्था मृ॑तु॒स्था म॒ग्नि म॒ग्नि मृ॑तु॒स्थाम् । 39) ऋ॒तु॒स्थां-वेँद॒ वेद॑ र्तु॒स्था मृ॑तु॒स्थां-वेँद॑ । 39) ऋ॒तु॒स्थामित्यृ॑तु - स्थाम् । 40) वेद॒ र्तुर्-ऋ॑तुर्-ऋ॒तुर्-ऋ॑तु॒-र्वेद॒ वेद॒ र्तुर्-ऋ॑तुः । 41) ऋ॒तुर्-ऋ॑तु रस्मा अस्मा ऋ॒तुर्-ऋ॑तुर्-ऋ॒तुर्-ऋ॑तु रस्मै । 41) ऋ॒तुर्-ऋ॑तु॒रित्यृ॒तुः - ऋ॒तुः॒ । 42) अ॒स्मै॒ कल्प॑मानः॒ कल्प॑मानो ऽस्मा अस्मै॒ कल्प॑मानः । 43) कल्प॑मान एत्येति॒ कल्प॑मानः॒ कल्प॑मान एति । 44) ए॒ति॒ प्रति॒ प्रत्ये᳚ त्येति॒ प्रति॑ । 45) प्रत्ये॒ वैव प्रति॒ प्रत्ये॒व । 46) ए॒व ति॑ष्ठति तिष्ठ त्ये॒वैव ति॑ष्ठति । 47) ति॒ष्ठ॒ति॒ सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒र स्ति॑ष्ठति तिष्ठति संवँथ्स॒रः । 48) सं॒वँ॒थ्स॒रो वै वै सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वै । 48) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 49) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 50) अ॒ग्निर्-ऋ॑तु॒स्था ऋ॑तु॒स्था अ॒ग्नि र॒ग्निर्-ऋ॑तु॒स्थाः । ॥ 28 ॥ (50/57)
1) ऋ॒तु॒स्था स्तस्य॒ तस्य॑ र्तु॒स्था ऋ॑तु॒स्था स्तस्य॑ । 1) ऋ॒तु॒स्था इत्यृ॑तु - स्थाः । 2) तस्य॑ वस॒न्तो व॑स॒न्त स्तस्य॒ तस्य॑ वस॒न्तः । 3) व॒स॒न्त-श्शिर॒-श्शिरो॑ वस॒न्तो व॑स॒न्त-श्शिरः॑ । 4) शिरो᳚ ग्री॒ष्मो ग्री॒ष्म-श्शिर॒-श्शिरो᳚ ग्री॒ष्मः । 5) ग्री॒ष्मो दक्षि॑णो॒ दक्षि॑णो ग्री॒ष्मो ग्री॒ष्मो दक्षि॑णः । 6) दक्षि॑णः प॒क्षः प॒क्षो दक्षि॑णो॒ दक्षि॑णः प॒क्षः । 7) प॒क्षो व॒र्॒षा व॒र्॒षाः प॒क्षः प॒क्षो व॒र्॒षाः । 8) व॒र्॒षाः पुच्छ॒-म्पुच्छं॑-वँ॒र्॒षा व॒र्॒षाः पुच्छ᳚म् । 9) पुच्छग्ं॑ श॒रच् छ॒र-त्पुच्छ॒-म्पुच्छग्ं॑ श॒रत् । 10) श॒र दुत्त॑र॒ उत्त॑र-श्श॒रच् छ॒र दुत्त॑रः । 11) उत्त॑रः प॒क्षः प॒क्ष उत्त॑र॒ उत्त॑रः प॒क्षः । 11) उत्त॑र॒ इत्युत् - त॒रः॒ । 12) प॒क्षो हे॑म॒न्तो हे॑म॒न्तः प॒क्षः प॒क्षो हे॑म॒न्तः । 13) हे॒म॒न्तो मद्ध्य॒-म्मद्ध्यग्ं॑ हेम॒न्तो हे॑म॒न्तो मद्ध्य᳚म् । 14) मद्ध्य॑-म्पूर्वप॒क्षाः पू᳚र्वप॒क्षा मद्ध्य॒-म्मद्ध्य॑-म्पूर्वप॒क्षाः । 15) पू॒र्व॒प॒क्षा श्चित॑य॒ श्चित॑यः पूर्वप॒क्षाः पू᳚र्वप॒क्षा श्चित॑यः । 15) पू॒र्व॒प॒क्षा इति॑ पूर्व - प॒क्षाः । 16) चित॑यो ¶प॒क्षा अ॑परप॒क्षा श्चित॑य॒ श्चित॑यो ¶प॒क्षाः । 17) अ॒प॒र॒प॒क्षाः पुरी॑ष॒-म्पुरी॑ष मपरप॒क्षा अ॑परप॒क्षाः पुरी॑षम् । 17) अ॒प॒र॒प॒क्षा इत्य॑पर - प॒क्षाः । 18) पुरी॑ष महोरा॒त्रा ण्य॑होरा॒त्राणि॒ पुरी॑ष॒-म्पुरी॑ष महोरा॒त्राणि॑ । 19) अ॒हो॒रा॒त्राणी ष्ट॑का॒ इष्ट॑का अहोरा॒त्रा ण्य॑होरा॒त्राणी ष्ट॑काः । 19) अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ । 20) इष्ट॑का ए॒ष ए॒ष इष्ट॑का॒ इष्ट॑का ए॒षः । 21) ए॒ष वै वा ए॒ष ए॒ष वै । 22) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 23) अ॒ग्निर्-ऋ॑तु॒स्था ऋ॑तु॒स्था अ॒ग्नि र॒ग्निर्-ऋ॑तु॒स्थाः । 24) ऋ॒तु॒स्था यो य ऋ॑तु॒स्था ऋ॑तु॒स्था यः । 24) ऋ॒तु॒स्था इत्यृ॑तु - स्थाः । 25) य ए॒व मे॒वं-योँ य ए॒वम् । 26) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 27) वेद॒ र्तुर्-ऋ॑तुर्-ऋ॒तुर्-ऋ॑तु॒-र्वेद॒ वेद॒ र्तुर्-ऋ॑तुः । 28) ऋ॒तुर्-ऋ॑तु रस्मा अस्मा ऋ॒तुर्-ऋ॑तुर्-ऋ॒तुर्-ऋ॑तु रस्मै । 28) ऋ॒तुर्-ऋ॑तु॒रित्यृ॒तुः - ऋ॒तुः॒ । 29) अ॒स्मै॒ कल्प॑मानः॒ कल्प॑मानो ऽस्मा अस्मै॒ कल्प॑मानः । 30) कल्प॑मान एत्येति॒ कल्प॑मानः॒ कल्प॑मान एति । 31) ए॒ति॒ प्रति॒ प्रत्ये᳚ त्येति॒ प्रति॑ । 32) प्रत्ये॒ वैव प्रति॒ प्रत्ये॒व । 33) ए॒व ति॑ष्ठति तिष्ठ त्ये॒वैव ति॑ष्ठति । 34) ति॒ष्ठ॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति स्तिष्ठति तिष्ठति प्र॒जाप॑तिः । 35) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै । 35) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 36) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 37) ए॒त-ञ्ज्यैष्ठ्य॑कामो॒ ज्यैष्ठ्य॑काम ए॒त मे॒त-ञ्ज्यैष्ठ्य॑कामः । 38) ज्यैष्ठ्य॑कामो॒ नि नि ज्यैष्ठ्य॑कामो॒ ज्यैष्ठ्य॑कामो॒ नि । 38) ज्यैष्ठ्य॑काम॒ इति॒ ज्यैष्ठ्य॑ - का॒मः॒ । 39) न्य॑धत्ता धत्त॒ नि न्य॑धत्त । 40) अ॒ध॒त्त॒ तत॒ स्ततो॑ ऽधत्ता धत्त॒ ततः॑ । 41) ततो॒ वै वै तत॒ स्ततो॒ वै । 42) वै स स वै वै सः । 43) स ज्यैष्ठ्य॒-ञ्ज्यैष्ठ्य॒ग्ं॒ स स ज्यैष्ठ्य᳚म् । 44) ज्यैष्ठ्य॑ मगच्छ दगच्छ॒ज् ज्यैष्ठ्य॒-ञ्ज्यैष्ठ्य॑ मगच्छत् । 45) अ॒ग॒च्छ॒-द्यो यो॑ ऽगच्छ दगच्छ॒-द्यः । 46) य ए॒व मे॒वं-योँ य ए॒वम् । 47) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 48) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् । 49) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 50) चि॒नु॒ते ज्यैष्ठ्य॒-ञ्ज्यैष्ठ्य॑-ञ्चिनु॒ते चि॑नु॒ते ज्यैष्ठ्य᳚म् । 51) ज्यैष्ठ्य॑ मे॒वैव ज्यैष्ठ्य॒-ञ्ज्यैष्ठ्य॑ मे॒व । 52) ए॒व ग॑च्छति गच्छ त्ये॒वैव ग॑च्छति । 53) ग॒च्छ॒तीति॑ गच्छति । ॥ 29 ॥ (53/62) ॥ अ. 6 ॥
1) यदाकू॑ता॒ दाकू॑ता॒-द्य-द्यदाकू॑तात् । 2) आकू॑ता-थ्स॒मसु॑स्रो-थ्स॒मसु॑स्रो॒ दाकू॑ता॒ दाकू॑ता-थ्स॒मसु॑स्रोत् । 2) आकू॑ता॒दित्या - कू॒ता॒त् । 3) स॒मसु॑स्रो द्धृ॒दो हृ॒द-स्स॒मसु॑स्रो-थ्स॒मसु॑स्रो द्धृ॒दः । 3) स॒मसु॑स्रो॒दिति॑ सं - असु॑स्रोत् । 4) हृ॒दो वा॑ वा हृ॒दो हृ॒दो वा᳚ । 5) वा॒ मन॑सो॒ मन॑सो वा वा॒ मन॑सः । 6) मन॑सो वा वा॒ मन॑सो॒ मन॑सो वा । 7) वा॒ सम्भृ॑त॒ग्ं॒ सम्भृ॑तं-वाँ वा॒ सम्भृ॑तम् । 8) सम्भृ॑त॒-ञ्चक्षु॑ष॒ श्चक्षु॑ष॒-स्सम्भृ॑त॒ग्ं॒ सम्भृ॑त॒-ञ्चक्षु॑षः । 8) सम्भृ॑त॒मिति॒ सं - भृ॒त॒म् । 9) चक्षु॑षो वा वा॒ चक्षु॑ष॒ श्चक्षु॑षो वा । 10) वेति॑ वा । 11) त मन्वनु॒ त-न्त मनु॑ । 12) अनु॒ प्र प्राण्वनु॒ प्र । 13) प्रेही॑हि॒ प्र प्रेहि॑ । 14) इ॒हि॒ सु॒कृ॒तस्य॑ सुकृ॒त स्ये॑हीहि सुकृ॒तस्य॑ । 15) सु॒कृ॒तस्य॑ लो॒कम् ँलो॒कग्ं सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ लो॒कम् । 15) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । 16) लो॒कं-यँत्र॒ यत्र॑ लो॒कम् ँलो॒कं-यँत्र॑ । 17) यत्र र्ष॑य॒ ऋष॑यो॒ यत्र॒ यत्र र्ष॑यः । 18) ऋष॑यः प्रथम॒जाः प्र॑थम॒जा ऋष॑य॒ ऋष॑यः प्रथम॒जाः । 19) प्र॒थ॒म॒जा ये ये प्र॑थम॒जाः प्र॑थम॒जा ये । 19) प्र॒थ॒म॒जा इति॑ प्रथम - जाः । 20) ये पु॑रा॒णाः पु॑रा॒णा ये ये पु॑रा॒णाः । 21) पु॒रा॒णा इति॑ पुरा॒णाः । 22) ए॒तग्ं स॑धस्थ सधस्थै॒त मे॒तग्ं स॑धस्थ । 23) स॒ध॒स्थ॒ परि॒ परि॑ सधस्थ सधस्थ॒ परि॑ । 23) स॒ध॒स्थेति॑ सध - स्थ॒ । 24) परि॑ ते ते॒ परि॒ परि॑ ते । 25) ते॒ द॒दा॒मि॒ द॒दा॒मि॒ ते॒ ते॒ द॒दा॒मि॒ । 26) द॒दा॒मि॒ यं-यँ-न्द॑दामि ददामि॒ यम् । 27) य मा॒वहा॑ दा॒वहा॒-द्यं-यँ मा॒वहा᳚त् । 28) आ॒वहा᳚च् छेव॒धिग्ं शे॑व॒धि मा॒वहा॑ दा॒वहा᳚च् छेव॒धिम् । 28) आ॒वहा॒दित्या᳚ - वहा᳚त् । 29) शे॒व॒धि-ञ्जा॒तवे॑दा जा॒तवे॑दा-श्शेव॒धिग्ं शे॑व॒धि-ञ्जा॒तवे॑दाः । 29) शे॒व॒धिमिति॑ शेव - धिम् । 30) जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ । 31) अ॒न्वा॒ग॒न्ता य॒ज्ञप॑ति-र्य॒ज्ञप॑ति रन्वाग॒न्ता ऽन्वा॑ग॒न्ता य॒ज्ञप॑तिः । 31) अ॒न्वा॒ग॒न्तेत्य॑नु - आ॒ग॒न्ता । 32) य॒ज्ञप॑ति-र्वो वो य॒ज्ञप॑ति-र्य॒ज्ञप॑ति-र्वः । 32) य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ - प॒तिः॒ । 33) वो॒ अत्रात्र॑ वो वो॒ अत्र॑ । 34) अत्र॒ त-न्त मत्रात्र॒ तम् । 35) तग्ग् स्म॑ स्म॒ त-न्तग्ग् स्म॑ । 36) स्म॒ जा॒नी॒त॒ जा॒नी॒त॒ स्म॒ स्म॒ जा॒नी॒त॒ । 37) जा॒नी॒त॒ प॒र॒मे प॑र॒मे जा॑नीत जानीत पर॒मे । 38) प॒र॒मे व्यो॑म॒न् व्यो॑म-न्पर॒मे प॑र॒मे व्यो॑मन्न् । 39) व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् । 40) जा॒नी॒ता दे॑न मेन-ञ्जानी॒ताज् जा॑नी॒ता दे॑नम् । 41) ए॒न॒-म्प॒र॒मे प॑र॒म ए॑न मेन-म्पर॒मे । 42) प॒र॒मे व्यो॑म॒न् व्यो॑म-न्पर॒मे प॑र॒मे व्यो॑मन्न् । 43) व्यो॑म॒-न्देवा॒ देवा॒ व्यो॑म॒न् व्यो॑म॒-न्देवाः᳚ । 43) व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् । 44) देवा᳚-स्सधस्था-स्सधस्था॒ देवा॒ देवा᳚-स्सधस्थाः । 45) स॒ध॒स्था॒ वि॒द वि॒द स॑धस्था-स्सधस्था वि॒द । 45) स॒ध॒स्था॒ इति॑ सध - स्थाः॒ । 46) वि॒द रू॒पग्ं रू॒पं-विँ॒द वि॒द रू॒पम् । 47) रू॒प म॑स्यास्य रू॒पग्ं रू॒प म॑स्य । 48) अ॒स्येत्य॑स्य । 49) यदा॒गच्छा॑ दा॒गच्छा॒-द्य-द्यदा॒गच्छा᳚त् । 50) आ॒गच्छा᳚-त्प॒थिभिः॑ प॒थिभि॑ रा॒गच्छा॑ दा॒गच्छा᳚-त्प॒थिभिः॑ । 50) आ॒गच्छा॒दित्या᳚ - गच्छा᳚त् । ॥ 30 ॥ (50/63)
1) प॒थिभि॑-र्देव॒यानै᳚-र्देव॒यानैः᳚ प॒थिभिः॑ प॒थिभि॑-र्देव॒यानैः᳚ । 1) प॒थिभि॒रिति॑ प॒थि - भिः॒ । 2) दे॒व॒यानै॑ रिष्टापू॒र्ते इ॑ष्टापू॒र्ते दे॑व॒यानै᳚-र्देव॒यानै॑ रिष्टापू॒र्ते । 2) दे॒व॒यानै॒रिति॑ देव - यानैः᳚ । 3) इ॒ष्टा॒पू॒र्ते कृ॑णुता-त्कृणुता दिष्टापू॒र्ते इ॑ष्टापू॒र्ते कृ॑णुतात् । 3) इ॒ष्टा॒पू॒र्ते इती᳚ष्टा - पू॒र्ते । 4) कृ॒णु॒ता॒ दा॒वि रा॒विष् कृ॑णुता-त्कृणुता दा॒विः । 5) आ॒वि र॑स्मा अस्मा आ॒विरा॒वि र॑स्मै । 6) अ॒स्मा इत्य॑स्मै । 7) स-म्प्र प्र सग्ं स-म्प्र । 8) प्र च्य॑वद्ध्व-ञ्च्यवद्ध्व॒-म्प्र प्र च्य॑वद्ध्वम् । 9) च्य॒व॒द्ध्व॒ मन्वनु॑ च्यवद्ध्व-ञ्च्यवद्ध्व॒ मनु॑ । 10) अनु॒ सग्ं स मन्वनु॒ सम् । 11) स-म्प्र प्र सग्ं स-म्प्र । 12) प्र या॑त यात॒ प्र प्र या॑त । 13) या॒ताग्ने ऽग्ने॑ यात या॒ताग्ने᳚ । 14) अग्ने॑ प॒थः प॒थो ऽग्ने ऽग्ने॑ प॒थः । 15) प॒थो दे॑व॒याना᳚-न्देव॒याना᳚-न्प॒थः प॒थो दे॑व॒यानान्॑ । 16) दे॒व॒याना᳚न् कृणुद्ध्व-ङ्कृणुद्ध्व-न्देव॒याना᳚-न्देव॒याना᳚न् कृणुद्ध्वम् । 16) दे॒व॒याना॒निति॑ देव - यानान्॑ । 17) कृ॒णु॒द्ध्व॒मिति॑ कृणुद्ध्वम् । 18) अ॒स्मि-न्थ्स॒धस्थे॑ स॒धस्थे॑ अ॒स्मि-न्न॒स्मि-न्थ्स॒धस्थे᳚ । 19) स॒धस्थे॒ अध्यधि॑ स॒धस्थे॑ स॒धस्थे॒ अधि॑ । 19) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । 20) अध्युत्त॑रस्मि॒-न्नुत्त॑रस्मि॒-न्नध्यध्यु-त्त॑रस्मिन्न् । 21) उत्त॑रस्मि॒न्॒. विश्वे॒ विश्व॒ उत्त॑रस्मि॒-न्नुत्त॑रस्मि॒न्॒. विश्वे᳚ । 21) उत्त॑रस्मि॒न्नित्युत् - त॒र॒स्मि॒न्न् । 22) विश्वे॑ देवा देवा॒ विश्वे॒ विश्वे॑ देवाः । 23) दे॒वा॒ यज॑मानो॒ यज॑मानो देवा देवा॒ यज॑मानः । 24) यज॑मानश्च च॒ यज॑मानो॒ यज॑मानश्च । 25) च॒ सी॒द॒त॒ सी॒द॒त॒ च॒ च॒ सी॒द॒त॒ । 26) सी॒द॒तेति॑ सीदत । 27) प्र॒स्त॒रेण॑ परि॒धिना॑ परि॒धिना᳚ प्रस्त॒रेण॑ प्रस्त॒रेण॑ परि॒धिना᳚ । 27) प्र॒स्त॒रेणेति॑ प्र - स्त॒रेण॑ । 28) प॒रि॒धिना᳚ स्रु॒चा स्रु॒चा प॑रि॒धिना॑ परि॒धिना᳚ स्रु॒चा । 28) प॒रि॒धिनेति॑ परि - धिना᳚ । 29) स्रु॒चा वेद्या॒ वेद्या᳚ स्रु॒चा स्रु॒चा वेद्या᳚ । 30) वेद्या॑ च च॒ वेद्या॒ वेद्या॑ च । 31) च॒ ब॒र्॒हिषा॑ ब॒र्॒हिषा॑ च च ब॒र्॒हिषा᳚ । 32) ब॒र्॒हिषेति॑ ब॒र्॒हिषा᳚ । 33) ऋ॒चेम मि॒म मृ॒च-र्चेमम् । 34) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् । 35) य॒ज्ञ-न्नो॑ नो य॒ज्ञं-यँ॒ज्ञ-न्नः॑ । 36) नो॒ व॒ह॒ व॒ह॒ नो॒ नो॒ व॒ह॒ । 37) व॒ह॒ सुव॒-स्सुव॑-र्वह वह॒ सुवः॑ । 38) सुव॑-र्दे॒वेषु॑ दे॒वेषु॒ सुव॒-स्सुव॑-र्दे॒वेषु॑ । 39) दे॒वेषु॒ गन्त॑वे॒ गन्त॑वे दे॒वेषु॑ दे॒वेषु॒ गन्त॑वे । 40) गन्त॑व॒ इति॒ गन्त॑वे । 41) यदि॒ष्ट मि॒ष्टं-यँ-द्यदि॒ष्टम् । 42) इ॒ष्टं-यँ-द्यदि॒ष्ट मि॒ष्टं-यँत् । 43) य-त्प॑रा॒दान॑-म्परा॒दानं॒-यँ-द्य-त्प॑रा॒दान᳚म् । 44) प॒रा॒दानं॒-यँ-द्य-त्प॑रा॒दान॑-म्परा॒दानं॒-यँत् । 44) प॒रा॒दान॒मिति॑ परा - दान᳚म् । 45) य-द्द॒त्त-न्द॒त्तं-यँ-द्य-द्द॒त्तम् । 46) द॒त्तं-याँ या द॒त्त-न्द॒त्तं-याँ । 47) या च॑ च॒ या या च॑ । 48) च॒ दक्षि॑णा॒ दक्षि॑णा च च॒ दक्षि॑णा । 49) दक्षि॒णेति॒ दक्षि॑णा । 50) तद॒ग्नि र॒ग्नि स्त-त्तद॒ग्निः । ॥ 31 ॥ (50/59)
1) अ॒ग्नि-र्वै᳚श्वकर्म॒णो वै᳚श्वकर्म॒णो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वकर्म॒णः । 2) वै॒श्व॒क॒र्म॒ण-स्सुव॒-स्सुव॑-र्वैश्वकर्म॒णो वै᳚श्वकर्म॒ण-स्सुवः॑ । 2) वै॒श्व॒क॒र्म॒ण इति॑ वैश्व - क॒र्म॒णः । 3) सुव॑-र्दे॒वेषु॑ दे॒वेषु॒ सुव॒-स्सुव॑-र्दे॒वेषु॑ । 4) दे॒वेषु॑ नो नो दे॒वेषु॑ दे॒वेषु॑ नः । 5) नो॒ द॒ध॒-द्द॒ध॒-न्नो॒ नो॒ द॒ध॒त् । 6) द॒ध॒दिति॑ दधत् । 7) येना॑ स॒हस्रग्ं॑ स॒हस्रं॒-येँन॒ येना॑ स॒हस्र᳚म् । 8) स॒हस्रं॒-वँह॑सि॒ वह॑सि स॒हस्रग्ं॑ स॒हस्रं॒-वँह॑सि । 9) वह॑सि॒ येन॒ येन॒ वह॑सि॒ वह॑सि॒ येन॑ । 10) येना᳚ग्ने अग्ने॒ येन॒ येना᳚ग्ने । 11) अ॒ग्ने॒ स॒र्व॒वे॒द॒सग्ं स॑र्ववेद॒स म॑ग्ने अग्ने सर्ववेद॒सम् । 12) स॒र्व॒वे॒द॒समिति॑ सर्व - वे॒द॒सम् । 13) तेने॒म मि॒म-न्तेन॒ तेने॒मम् । 14) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् । 15) य॒ज्ञन्नो॑ नो य॒ज्ञं-यँ॒ज्ञन्नः॑ । 16) नो॒ व॒ह॒ व॒ह॒ नो॒ नो॒ व॒ह॒ । 17) व॒ह॒ सुव॒-स्सुव॑-र्वह वह॒ सुवः॑ । 18) सुव॑-र्दे॒वेषु॑ दे॒वेषु॒ सुव॒-स्सुव॑-र्दे॒वेषु॑ । 19) दे॒वेषु॒ गन्त॑वे॒ गन्त॑वे दे॒वेषु॑ दे॒वेषु॒ गन्त॑वे । 20) गन्त॑व॒ इति॒ गन्त॑वे । 21) येना᳚ग्ने ऽग्ने॒ येन॒ येना᳚ग्ने । 22) अ॒ग्ने॒ दक्षि॑णा॒ दक्षि॑णा अग्ने ऽग्ने॒ दक्षि॑णाः । 23) दक्षि॑णा यु॒क्ता यु॒क्ता दक्षि॑णा॒ दक्षि॑णा यु॒क्ताः । 24) यु॒क्ता य॒ज्ञं-यँ॒ज्ञं-युँ॒क्ता यु॒क्ता य॒ज्ञम् । 25) य॒ज्ञं-वँह॑न्ति॒ वह॑न्ति य॒ज्ञं-यँ॒ज्ञं-वँह॑न्ति । 26) वह॑-न्त्यृ॒त्विज॑ ऋ॒त्विजो॒ वह॑न्ति॒ वह॑-न्त्यृ॒त्विजः॑ । 27) ऋ॒त्विज॒ इत्यृ॒त्विजः॑ । 28) तेने॒म मि॒म-न्तेन॒ तेने॒मम् । 29) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् । 30) य॒ज्ञन्नो॑ नो य॒ज्ञं-यँ॒ज्ञन्नः॑ । 31) नो॒ व॒ह॒ व॒ह॒ नो॒ नो॒ व॒ह॒ । 32) व॒ह॒ सुव॒-स्सुव॑-र्वह वह॒ सुवः॑ । 33) सुव॑-र्दे॒वेषु॑ दे॒वेषु॒ सुव॒-स्सुव॑-र्दे॒वेषु॑ । 34) दे॒वेषु॒ गन्त॑वे॒ गन्त॑वे दे॒वेषु॑ दे॒वेषु॒ गन्त॑वे । 35) गन्त॑व॒ इति॒ गन्त॑वे । 36) येना᳚ग्ने ऽग्ने॒ येन॒ येना᳚ग्ने । 37) अ॒ग्ने॒ सु॒कृत॑-स्सु॒कृतो᳚ ऽग्ने ऽग्ने सु॒कृतः॑ । 38) सु॒कृतः॑ प॒था प॒था सु॒कृत॑-स्सु॒कृतः॑ प॒था । 38) सु॒कृत॒ इति॑ सु - कृतः॑ । 39) प॒था मधो॒-र्मधोः᳚ प॒था प॒था मधोः᳚ । 40) मधो॒-र्धारा॒ धारा॒ मधो॒-र्मधो॒-र्धाराः᳚ । 41) धारा᳚ व्यान॒शु-र्व्या॑न॒शु-र्धारा॒ धारा᳚ व्यान॒शुः । 42) व्या॒न॒शुरिति॑ वि - आ॒न॒शुः । 43) तेने॒म मि॒म-न्तेन॒ तेने॒मम् । 44) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् । 45) य॒ज्ञन्नो॑ नो य॒ज्ञं-यँ॒ज्ञन्नः॑ । 46) नो॒ व॒ह॒ व॒ह॒ नो॒ नो॒ व॒ह॒ । 47) व॒ह॒ सुव॒-स्सुव॑-र्वह वह॒ सुवः॑ । 48) सुव॑-र्दे॒वेषु॑ दे॒वेषु॒ सुव॒-स्सुव॑-र्दे॒वेषु॑ । 49) दे॒वेषु॒ गन्त॑वे॒ गन्त॑वे दे॒वेषु॑ दे॒वेषु॒ गन्त॑वे । 50) गन्त॑व॒ इति॒ गन्त॑वे । 51) यत्र॒ धारा॒ धारा॒ यत्र॒ यत्र॒ धाराः᳚ । 52) धारा॒ अन॑पेता॒ अन॑पेता॒ धारा॒ धारा॒ अन॑पेताः । 53) अन॑पेता॒ मधो॒-र्मधो॒ रन॑पेता॒ अन॑पेता॒ मधोः᳚ । 53) अन॑पेता॒ इत्यन॑प - इ॒ताः॒ । 54) मधो᳚-र्घृ॒तस्य॑ घृ॒तस्य॒ मधो॒-र्मधो᳚-र्घृ॒तस्य॑ । 55) घृ॒तस्य॑ च च घृ॒तस्य॑ घृ॒तस्य॑ च । 56) च॒ या याश्च॑ च॒ याः । 57) या इति॒ याः । 58) तद॒ग्नि र॒ग्नि स्त-त्तद॒ग्निः । 59) अ॒ग्नि-र्वै᳚श्वकर्म॒णो वै᳚श्वकर्म॒णो᳚ ऽग्निर॒ग्नि-र्वै᳚श्वकर्म॒णः । 60) वै॒श्व॒क॒र्म॒ण-स्सुव॒-स्सुव॑-र्वैश्वकर्म॒णो वै᳚श्वकर्म॒ण-स्सुवः॑ । 60) वै॒श्व॒क॒र्म॒ण इति॑ वैश्व - क॒र्म॒णः । 61) सुव॑-र्दे॒वेषु॑ दे॒वेषु॒ सुव॒-स्सुव॑-र्दे॒वेषु॑ । 62) दे॒वेषु॑ नो नो दे॒वेषु॑ दे॒वेषु॑ नः । 63) नो॒ द॒ध॒-द्द॒ध॒-न्नो॒ नो॒ द॒ध॒त् । 64) द॒ध॒दिति॑ दधत् । ॥ 32 ॥ (64/68) ॥ अ. 7 ॥
1) या स्ते॑ ते॒ या या स्ते᳚ । 2) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 3) अ॒ग्ने॒ स॒मिध॑-स्स॒मिधो᳚ ऽग्ने ऽग्ने स॒मिधः॑ । 4) स॒मिधो॒ यानि॒ यानि॑ स॒मिध॑-स्स॒मिधो॒ यानि॑ । 4) स॒मिध॒ इति॑ सं - इधः॑ । 5) यानि॒ धाम॒ धाम॒ यानि॒ यानि॒ धाम॑ । 6) धाम॒ या या धाम॒ धाम॒ या । 7) या जि॒ह्वा जि॒ह्वा या या जि॒ह्वा । 8) जि॒ह्वा जा॑तवेदो जातवेदो जि॒ह्वा जि॒ह्वा जा॑तवेदः । 9) जा॒त॒वे॒दो॒ यो यो जा॑तवेदो जातवेदो॒ यः । 9) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । 10) यो अ॒र्चि र॒र्चि-र्यो यो अ॒र्चिः । 11) अ॒र्चिरित्य॒र्चिः । 12) ये ते॑ ते॒ ये ये ते᳚ । 13) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 14) अ॒ग्ने॒ मे॒डयो॑ मे॒डयो᳚ ऽग्ने ऽग्ने मे॒डयः॑ । 15) मे॒डयो॒ ये ये मे॒डयो॑ मे॒डयो॒ ये । 16) य इन्द॑व॒ इन्द॑वो॒ ये य इन्द॑वः । 17) इन्द॑व॒ स्तेभि॒ स्तेभि॒ रिन्द॑व॒ इन्द॑व॒ स्तेभिः॑ । 18) तेभि॑ रा॒त्मान॑ मा॒त्मान॒-न्तेभि॒ स्तेभि॑ रा॒त्मान᳚म् । 19) आ॒त्मान॑-ञ्चिनुहि चिनु ह्या॒त्मान॑ मा॒त्मान॑-ञ्चिनुहि । 20) चि॒नु॒हि॒ प्र॒जा॒न-न्प्र॑जा॒नग्ग् श्चि॑नुहि चिनुहि प्रजा॒नन्न् । 21) प्र॒जा॒नन्निति॑ प्र - जा॒नन्न् । 22) उ॒थ्स॒न्न॒य॒ज्ञो वै वा उ॑थ्सन्नय॒ज्ञ उ॑थ्सन्नय॒ज्ञो वै । 22) उ॒थ्स॒न्न॒य॒ज्ञ इत्यु॑थ्सन्न - य॒ज्ञः । 23) वा ए॒ष ए॒ष वै वा ए॒षः । 24) ए॒ष य-द्यदे॒ष ए॒ष यत् । 25) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 26) अ॒ग्निः कि-ङ्कि म॒ग्नि र॒ग्निः किम् । 27) किं-वाँ॑ वा॒ कि-ङ्किं-वाँ᳚ । 28) वा ऽहाह॑ वा॒ वा ऽह॑ । 29) अहै॒तस्यै॒ तस्याहा है॒तस्य॑ । 30) ए॒तस्य॑ क्रि॒यते᳚ क्रि॒यत॑ ए॒त स्यै॒तस्य॑ क्रि॒यते᳚ । 31) क्रि॒यते॒ कि-ङ्कि-ङ्क्रि॒यते᳚ क्रि॒यते॒ किम् । 32) किं-वाँ॑ वा॒ कि-ङ्किं-वाँ᳚ । 33) वा॒ न न वा॑ वा॒ न । 34) न य-द्य-न्न न यत् । 35) य-द्वै वै य-द्य-द्वै । 36) वा अ॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्वै वा अ॑द्ध्व॒र्युः । 37) अ॒द्ध्व॒र्यु र॒ग्ने र॒ग्ने र॑द्ध्व॒र्यु र॑द्ध्व॒र्यु र॒ग्नेः । 38) अ॒ग्ने श्चि॒न्वग्ग् श्चि॒न्व-न्न॒ग्ने र॒ग्ने श्चि॒न्वन्न् । 39) चि॒न्व-न्न॑न्त॒रे त्य॑न्त॒रेति॑ चि॒न्वग्ग् श्चि॒न्व-न्न॑न्त॒रेति॑ । 40) अ॒न्त॒रे त्या॒त्मन॑ आ॒त्मनो᳚ ऽन्त॒रे त्य॑न्त॒रे त्या॒त्मनः॑ । 40) अ॒न्त॒रेतीत्य॑न्तः - एति॑ । 41) आ॒त्मनो॒ वै वा आ॒त्मन॑ आ॒त्मनो॒ वै । 42) वै त-त्त-द्वै वै तत् । 43) तद॒न्त र॒न्त स्त-त्तद॒न्तः । 44) अ॒न्त रे᳚त्ये त्य॒न्त र॒न्त रे॑ति । 45) ए॒ति॒ या या ए᳚त्येति॒ याः । 46) या स्ते॑ ते॒ या या स्ते᳚ । 47) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 48) अ॒ग्ने॒ स॒मिध॑-स्स॒मिधो᳚ ऽग्ने ऽग्ने स॒मिधः॑ । 49) स॒मिधो॒ यानि॒ यानि॑ स॒मिध॑-स्स॒मिधो॒ यानि॑ । 49) स॒मिध॒ इति॑ सं - इधः॑ । 50) यानि॒ धाम॒ धाम॒ यानि॒ यानि॒ धाम॑ । ॥ 33 ॥ (50/55)
1) धामे तीति॒ धाम॒ धामेति॑ । 2) इत्या॑हा॒हे तीत्या॑ह । 3) आ॒है॒षैषा ऽऽहा॑ है॒षा । 4) ए॒षा वै वा ए॒षैषा वै । 5) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 6) अ॒ग्ने-स्स्व॑यञ्चि॒ति-स्स्व॑यञ्चि॒ति र॒ग्ने र॒ग्ने-स्स्व॑यञ्चि॒तिः । 7) स्व॒य॒ञ्चि॒ति र॒ग्नि र॒ग्नि-स्स्व॑यञ्चि॒ति-स्स्व॑यञ्चि॒ति र॒ग्निः । 7) स्व॒य॒ञ्चि॒तिरिति॑ स्वयं - चि॒तिः । 8) अ॒ग्नि रे॒वै वाग्नि र॒ग्नि रे॒व । 9) ए॒व त-त्तदे॒ वैव तत् । 10) तद॒ग्नि म॒ग्नि-न्त-त्तद॒ग्निम् । 11) अ॒ग्नि-ञ्चि॑नोति चिनो त्य॒ग्नि म॒ग्नि-ञ्चि॑नोति । 12) चि॒नो॒ति॒ न न चि॑नोति चिनोति॒ न । 13) नाद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्न नाद्ध्व॒र्युः । 14) अ॒द्ध्व॒र्यु रा॒त्मन॑ आ॒त्मनो᳚ ऽद्ध्व॒र्यु र॑द्ध्व॒र्यु रा॒त्मनः॑ । 15) आ॒त्मनो॒ ऽन्त र॒न्त रा॒त्मन॑ आ॒त्मनो॒ ऽन्तः । 16) अ॒न्त रे᳚त्ये त्य॒न्त र॒न्त रे॑ति । 17) ए॒ति॒ चत॑स्र॒ श्चत॑स्र एत्येति॒ चत॑स्रः । 18) चत॑स्र॒ आशा॒ आशा॒ श्चत॑स्र॒ श्चत॑स्र॒ आशाः᳚ । 19) आशाः॒ प्र प्राशा॒ आशाः॒ प्र । 20) प्र च॑रन्तु चरन्तु॒ प्र प्र च॑रन्तु । 21) च॒र॒-न्त्व॒ग्नयो॒ ऽग्नय॑ श्चरन्तु चर-न्त्व॒ग्नयः॑ । 22) अ॒ग्नय॑ इ॒म मि॒म म॒ग्नयो॒ ऽग्नय॑ इ॒मम् । 23) इ॒म-न्नो॑ न इ॒म मि॒म-न्नः॑ । 24) नो॒ य॒ज्ञं-यँ॒ज्ञ-न्नो॑ नो य॒ज्ञम् । 25) य॒ज्ञ-न्न॑यतु नयतु य॒ज्ञं-यँ॒ज्ञ-न्न॑यतु । 26) न॒य॒तु॒ प्र॒जा॒न-न्प्र॑जा॒न-न्न॑यतु नयतु प्रजा॒नन्न् । 27) प्र॒जा॒नन्निति॑ प्र - जा॒नन्न् । 28) घृ॒त-म्पिन्व॒-न्पिन्व॑-न्घृ॒त-ङ्घृ॒त-म्पिन्वन्न्॑ । 29) पिन्व॑-न्न॒जर॑ म॒जर॒-म्पिन्व॒-न्पिन्व॑-न्न॒जर᳚म् । 30) अ॒जरग्ं॑ सु॒वीरग्ं॑ सु॒वीर॑ म॒जर॑ म॒जरग्ं॑ सु॒वीर᳚म् । 31) सु॒वीर॒-म्ब्रह्म॒ ब्रह्म॑ सु॒वीरग्ं॑ सु॒वीर॒-म्ब्रह्म॑ । 31) सु॒वीर॒मिति॑ सु - वीर᳚म् । 32) ब्रह्म॑ स॒मि-थ्स॒मि-द्ब्रह्म॒ ब्रह्म॑ स॒मित् । 33) स॒मि-द्भ॑वति भवति स॒मि-थ्स॒मि-द्भ॑वति । 33) स॒मिदिति॑ सं - इत् । 34) भ॒व॒ त्याहु॑तीना॒ माहु॑तीना-म्भवति भव॒ त्याहु॑तीनाम् । 35) आहु॑तीना॒मित्या - हु॒ती॒ना॒म् । 36) सु॒व॒र्गाय॒ वै वै सु॑व॒र्गाय॑ सुव॒र्गाय॒ वै । 36) सु॒व॒र्गायेति॑ सुवः - गाय॑ । 37) वा ए॒ष ए॒ष वै वा ए॒षः । 38) ए॒ष लो॒काय॑ लो॒का यै॒ष ए॒ष लो॒काय॑ । 39) लो॒का योपोप॑ लो॒काय॑ लो॒कायोप॑ । 40) उप॑ धीयते धीयत॒ उपोप॑ धीयते । 41) धी॒य॒ते॒ य-द्य-द्धी॑यते धीयते॒ यत् । 42) य-त्कू॒र्मः कू॒र्मो य-द्य-त्कू॒र्मः । 43) कू॒र्म श्चत॑स्र॒ श्चत॑स्रः कू॒र्मः कू॒र्म श्चत॑स्रः । 44) चत॑स्र॒ आशा॒ आशा॒ श्चत॑स्र॒ श्चत॑स्र॒ आशाः᳚ । 45) आशाः॒ प्र प्राशा॒ आशाः॒ प्र । 46) प्र च॑रन्तु चरन्तु॒ प्र प्र च॑रन्तु । 47) च॒र॒-न्त्व॒ग्नयो॒ ऽग्नय॑ श्चरन्तु चर-न्त्व॒ग्नयः॑ । 48) अ॒ग्नय॒ इती त्य॒ग्नयो॒ ऽग्नय॒ इति॑ । 49) इत्या॑हा॒हे तीत्या॑ह । 50) आ॒ह॒ दिशो॒ दिश॑ आहाह॒ दिशः॑ । ॥ 34 ॥ (50/54)
1) दिश॑ ए॒वैव दिशो॒ दिश॑ ए॒व । 2) ए॒वैते नै॒ते नै॒वै वैतेन॑ । 3) ए॒तेन॒ प्र प्रैते नै॒तेन॒ प्र । 4) प्र जा॑नाति जानाति॒ प्र प्र जा॑नाति । 5) जा॒ना॒ ती॒म मि॒म-ञ्जा॑नाति जाना ती॒मम् । 6) इ॒म-न्नो॑ न इ॒म मि॒म-न्नः॑ । 7) नो॒ य॒ज्ञं-यँ॒ज्ञन्नो॑ नो य॒ज्ञम् । 8) य॒ज्ञ-न्न॑यतु नयतु य॒ज्ञं-यँ॒ज्ञ-न्न॑यतु । 9) न॒य॒तु॒ प्र॒जा॒न-न्प्र॑जा॒न-न्न॑यतु नयतु प्रजा॒नन्न् । 10) प्र॒जा॒न-न्नितीति॑ प्रजा॒न-न्प्र॑जा॒न-न्निति॑ । 10) प्र॒जा॒नन्निति॑ प्र - जा॒नन्न् । 11) इत्या॑हा॒हे तीत्या॑ह । 12) आ॒ह॒ सु॒व॒र्गस्य॑ सुव॒र्गस्या॑ हाह सुव॒र्गस्य॑ । 13) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 13) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 14) लो॒कस्या॒ भिनी᳚त्या अ॒भिनी᳚त्यै लो॒कस्य॑ लो॒कस्या॒ भिनी᳚त्यै । 15) अ॒भिनी᳚त्यै॒ ब्रह्म॒ ब्रह्मा॒भिनी᳚त्या अ॒भिनी᳚त्यै॒ ब्रह्म॑ । 15) अ॒भिनी᳚त्या॒ इत्य॒भि - नी॒त्यै॒ । 16) ब्रह्म॑ स॒मि-थ्स॒मि-द्ब्रह्म॒ ब्रह्म॑ स॒मित् । 17) स॒मि-द्भ॑वति भवति स॒मि-थ्स॒मि-द्भ॑वति । 17) स॒मिदिति॑ सं - इत् । 18) भ॒व॒ त्याहु॑तीना॒ माहु॑तीना-म्भवति भव॒ त्याहु॑तीनाम् । 19) आहु॑तीना॒ मितीत्या हु॑तीना॒ माहु॑तीना॒ मिति॑ । 19) आहु॑तीना॒मित्या - हु॒ती॒ना॒म् । 20) इत्या॑हा॒हे तीत्या॑ह । 21) आ॒ह॒ ब्रह्म॑णा॒ ब्रह्म॑णा ऽऽहाह॒ ब्रह्म॑णा । 22) ब्रह्म॑णा॒ वै वै ब्रह्म॑णा॒ ब्रह्म॑णा॒ वै । 23) वै दे॒वा दे॒वा वै वै दे॒वाः । 24) दे॒वा-स्सु॑व॒र्गग्ं सु॑व॒र्ग-न्दे॒वा दे॒वा-स्सु॑व॒र्गम् । 25) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 25) सु॒व॒र्गमिति॑ सुवः - गम् । 26) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् । 27) आ॒य॒न्॒. य-द्यदा॑य-न्नाय॒न्॒. यत् । 28) य-द्ब्रह्म॑ण्वत्या॒ ब्रह्म॑ण्वत्या॒ य-द्य-द्ब्रह्म॑ण्वत्या । 29) ब्रह्म॑ण्व त्योप॒दधा᳚ त्युप॒दधा॑ति॒ ब्रह्म॑ण्वत्या॒ ब्रह्म॑ण्व त्योप॒दधा॑ति । 29) ब्रह्म॑ण्व॒त्येति॒ ब्रह्मण्॑ - व॒त्या॒ । 30) उ॒प॒दधा॑ति॒ ब्रह्म॑णा॒ ब्रह्म॑णो प॒दधा᳚ त्युप॒दधा॑ति॒ ब्रह्म॑णा । 30) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 31) ब्रह्म॑ णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 32) ए॒व त-त्तदे॒ वैव तत् । 33) त-द्यज॑मानो॒ यज॑मान॒ स्त-त्त-द्यज॑मानः । 34) यज॑मान-स्सुव॒र्गग्ं सु॑व॒र्गं-यँज॑मानो॒ यज॑मान-स्सुव॒र्गम् । 35) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 35) सु॒व॒र्गमिति॑ सुवः - गम् । 36) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 37) ए॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति रेत्येति प्र॒जाप॑तिः । 38) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै । 38) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 39) वा ए॒ष ए॒ष वै वा ए॒षः । 40) ए॒ष य-द्यदे॒ष ए॒ष यत् । 41) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 42) अ॒ग्नि स्तस्य॒ तस्या॒ग्नि र॒ग्नि स्तस्य॑ । 43) तस्य॑ प्र॒जाः प्र॒जा स्तस्य॒ तस्य॑ प्र॒जाः । 44) प्र॒जाः प॒शवः॑ प॒शवः॑ प्र॒जाः प्र॒जाः प॒शवः॑ । 44) प्र॒जा इति॑ प्र - जाः । 45) प॒शव॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि प॒शवः॑ प॒शव॒ श्छन्दाग्ं॑सि । 46) छन्दाग्ं॑सि रू॒पग्ं रू॒प-ञ्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि रू॒पम् । 47) रू॒पग्ं सर्वा॒-न्थ्सर्वा᳚-न्रू॒पग्ं रू॒पग्ं सर्वान्॑ । 48) सर्वा॒न्॒. वर्णा॒न्॒. वर्णा॒-न्थ्सर्वा॒-न्थ्सर्वा॒न्॒. वर्णान्॑ । 49) वर्णा॒ निष्ट॑काना॒ मिष्ट॑कानां॒-वँर्णा॒न्॒. वर्णा॒ निष्ट॑कानाम् । 50) इष्ट॑काना-ङ्कुर्या-त्कुर्या॒ दिष्ट॑काना॒ मिष्ट॑काना-ङ्कुर्यात् । 51) कु॒र्या॒-द्रू॒पेण॑ रू॒पेण॑ कुर्या-त्कुर्या-द्रू॒पेण॑ । 52) रू॒पेणै॒ वैव रू॒पेण॑ रू॒पेणै॒व । 53) ए॒व प्र॒जा-म्प्र॒जा मे॒वैव प्र॒जाम् । 54) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् । 54) प्र॒जामिति॑ प्र - जाम् । 55) प॒शून् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि प॒शू-न्प॒शून् छन्दाग्ं॑सि । 56) छन्दा॒ग्॒ स्यवाव॒ च्छन्दाग्ं॑सि॒ छन्दा॒ग्॒स्यव॑ । 57) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 58) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ । 59) अथो᳚ प्र॒जाभ्यः॑ प्र॒जाभ्यो ऽथो॒ अथो᳚ प्र॒जाभ्यः॑ । 59) अथो॒ इत्यथो᳚ । 60) प्र॒जाभ्य॑ ए॒वैव प्र॒जाभ्यः॑ प्र॒जाभ्य॑ ए॒व । 60) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । 61) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 62) ए॒न॒-म्प॒शुभ्यः॑ प॒शुभ्य॑ एन मेन-म्प॒शुभ्यः॑ । 63) प॒शुभ्य॒ श्छन्दो᳚भ्य॒ श्छन्दो᳚भ्यः प॒शुभ्यः॑ प॒शुभ्य॒ श्छन्दो᳚भ्यः । 63) प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ । 64) छन्दो᳚भ्यो ऽव॒रुद्ध्या॑ व॒रुद्ध्य॒ छन्दो᳚भ्य॒ श्छन्दो᳚भ्यो ऽव॒रुद्ध्य॑ । 64) छन्दो᳚भ्य॒ इति॒ छन्दः॑ - भ्यः॒ । 65) अ॒व॒रुद्ध्य॑ चिनुते चिनुते ऽव॒रुद्ध्या॑ व॒रुद्ध्य॑ चिनुते । 65) अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ । 66) चि॒नु॒त॒ इति॑ चिनुते । ॥ 35 ॥ (66/83) ॥ अ. 8 ॥
1) मयि॑ गृह्णामि गृह्णामि॒ मयि॒ मयि॑ गृह्णामि । 2) गृ॒ह्णा॒ म्यग्रे॒ अग्रे॑ गृह्णामि गृह्णा॒ म्यग्रे᳚ । 3) अग्रे॑ अ॒ग्नि म॒ग्नि मग्रे ऽग्रे॑ अ॒ग्निम् । 4) अ॒ग्निग्ं रा॒यो रा॒यो᳚ ऽग्नि म॒ग्निग्ं रा॒यः । 5) रा॒यस् पोषा॑य॒ पोषा॑य रा॒यो रा॒यस् पोषा॑य । 6) पोषा॑य सुप्रजा॒स्त्वाय॑ सुप्रजा॒स्त्वाय॒ पोषा॑य॒ पोषा॑य सुप्रजा॒स्त्वाय॑ । 7) सु॒प्र॒जा॒स्त्वाय॑ सु॒वीर्या॑य सु॒वीर्या॑य सुप्रजा॒स्त्वाय॑ सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । 7) सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः - त्वाय॑ । 8) सु॒वीर्या॒येति॑ सु - वीर्या॑य । 9) मयि॑ प्र॒जा-म्प्र॒जा-म्मयि॒ मयि॑ प्र॒जाम् । 10) प्र॒जा-म्मयि॒ मयि॑ प्र॒जा-म्प्र॒जा-म्मयि॑ । 10) प्र॒जामिति॑ प्र - जाम् । 11) मयि॒ वर्चो॒ वर्चो॒ मयि॒ मयि॒ वर्चः॑ । 12) वर्चो॑ दधामि दधामि॒ वर्चो॒ वर्चो॑ दधामि । 13) द॒धा॒ म्यरि॑ष्टा॒ अरि॑ष्टा दधामि दधा॒ म्यरि॑ष्टाः । 14) अरि॑ष्टा-स्स्याम स्या॒मा रि॑ष्टा॒ अरि॑ष्टा-स्स्याम । 15) स्या॒म॒ त॒नुवा॑ त॒नुवा᳚ स्याम स्याम त॒नुवा᳚ । 16) त॒नुवा॑ सु॒वीरा᳚-स्सु॒वीरा᳚ स्त॒नुवा॑ त॒नुवा॑ सु॒वीराः᳚ । 17) सु॒वीरा॒ इति॑ सु - वीराः᳚ । 18) यो नो॑ नो॒ यो यो नः॑ । 19) नो॒ अ॒ग्नि र॒ग्नि-र्नो॑ नो अ॒ग्निः । 20) अ॒ग्निः पि॑तरः पितरो॒ ऽग्नि र॒ग्निः पि॑तरः । 21) पि॒त॒रो॒ हृ॒थ्सु हृ॒थ्सु पि॑तरः पितरो हृ॒थ्सु । 22) हृ॒-थ्स्व॑न्त र॒न्तर्-हृ॒थ्सु हृ॒-थ्स्व॑न्तः । 22) हृ॒थ्स्विति॑ हृत् - सु । 23) अ॒न्त रम॒र्त्यो ऽम॑र्त्यो॒ ऽन्त र॒न्त रम॑र्त्यः । 24) अम॑र्त्यो॒ मर्त्या॒-न्मर्त्या॒ग्ं॒ अम॒र्त्यो ऽम॑र्त्यो॒ मर्त्यान्॑ । 25) मर्त्याग्ं॑ आवि॒वेशा॑ वि॒वेश॒ मर्त्या॒-न्मर्त्याग्ं॑ आवि॒वेश॑ । 26) आ॒वि॒वेशेत्या᳚ - वि॒वेश॑ । 27) त मा॒त्म-न्ना॒त्म-न्त-न्त मा॒त्मन्न् । 28) आ॒त्म-न्परि॒ पर्या॒त्म-न्ना॒त्म-न्परि॑ । 29) परि॑ गृह्णीमहे गृह्णीमहे॒ परि॒ परि॑ गृह्णीमहे । 30) गृ॒ह्णी॒म॒हे॒ व॒यं-वँ॒य-ङ्गृ॑ह्णीमहे गृह्णीमहे व॒यम् । 31) व॒य-म्मा मा व॒यं-वँ॒य-म्मा । 32) मा स स मा मा सः । 33) सो अ॒स्माग्ं अ॒स्मा-न्थ्स सो अ॒स्मान् । 34) अ॒स्माग्ं अ॑व॒हाया॑ व॒हाया॒स्माग्ं अ॒स्माग्ं अ॑व॒हाय॑ । 35) अ॒व॒हाय॒ परा॒ परा॑ ऽव॒हाया॑ व॒हाय॒ परा᳚ । 35) अ॒व॒हायेत्य॑व - हाय॑ । 36) परा॑ गा-द्गा॒-त्परा॒ परा॑ गात् । 37) गा॒दिति॑ गात् । 38) यद॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्य-द्यद॑द्ध्व॒र्युः । 39) अ॒द्ध्व॒र्यु रा॒त्म-न्ना॒त्म-न्न॑द्ध्व॒र्यु र॑द्ध्व॒र्यु रा॒त्मन्न् । 40) आ॒त्म-न्न॒ग्नि म॒ग्नि मा॒त्म-न्ना॒त्म-न्न॒ग्निम् । 41) अ॒ग्नि मगृ॑ही॒त्वा ऽगृ॑हीत्वा॒ ऽग्नि म॒ग्नि मगृ॑हीत्वा । 42) अगृ॑हीत्वा॒ ऽग्नि म॒ग्नि मगृ॑ही॒त्वा ऽगृ॑हीत्वा॒ ऽग्निम् । 43) अ॒ग्नि-ञ्चि॑नु॒याच् चि॑नु॒या द॒ग्नि म॒ग्नि-ञ्चि॑नु॒यात् । 44) चि॒नु॒या-द्यो यश्चि॑नु॒याच् चि॑नु॒या-द्यः । 45) यो᳚ ऽस्यास्य॒ यो यो᳚ ऽस्य । 46) अ॒स्य॒ स्व-स्स्वो᳚ ऽस्यास्य॒ स्वः । 47) स्वो᳚ ऽग्नि र॒ग्नि-स्स्व-स्स्वो᳚ ऽग्निः । 48) अ॒ग्नि स्त-न्त म॒ग्नि र॒ग्नि स्तम् । 49) त मप्यपि॒ त-न्त मपि॑ । 50) अपि॒ यज॑मानाय॒ यज॑माना॒या प्यपि॒ यज॑मानाय । ॥ 36 ॥ (50/54)
1) यज॑मानाय चिनुयाच् चिनुया॒-द्यज॑मानाय॒ यज॑मानाय चिनुयात् । 2) चि॒नु॒या॒ द॒ग्नि म॒ग्नि-ञ्चि॑नुयाच् चिनुया द॒ग्निम् । 3) अ॒ग्नि-ङ्खलु॒ खल्व॒ग्नि म॒ग्नि-ङ्खलु॑ । 4) खलु॒ वै वै खलु॒ खलु॒ वै । 5) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ । 6) प॒शवो ऽन्वनु॑ प॒शवः॑ प॒शवो ऽनु॑ । 7) अनूपोपा न्वनूप॑ । 8) उप॑ तिष्ठन्ते तिष्ठन्त॒ उपोप॑ तिष्ठन्ते । 9) ति॒ष्ठ॒न्ते॒ ऽप॒क्रामु॑का अप॒क्रामु॑का स्तिष्ठन्ते तिष्ठन्ते ऽप॒क्रामु॑काः । 10) अ॒प॒क्रामु॑का अस्मा दस्मा दप॒क्रामु॑का अप॒क्रामु॑का अस्मात् । 10) अ॒प॒क्रामु॑का॒ इत्य॑प - क्रामु॑काः । 11) अ॒स्मा॒-त्प॒शवः॑ प॒शवो᳚ ऽस्मा दस्मा-त्प॒शवः॑ । 12) प॒शव॑-स्स्यु-स्स्युः प॒शवः॑ प॒शव॑-स्स्युः । 13) स्यु॒-र्मयि॒ मयि॑ स्यु-स्स्यु॒-र्मयि॑ । 14) मयि॑ गृह्णामि गृह्णामि॒ मयि॒ मयि॑ गृह्णामि । 15) गृ॒ह्णा॒ म्यग्रे॒ अग्रे॑ गृह्णामि गृह्णा॒ म्यग्रे᳚ । 16) अग्रे᳚ ऽग्नि म॒ग्नि मग्रे ऽग्रे॑ अ॒ग्निम् । 17) अ॒ग्नि मितीत्य॒ग्नि म॒ग्नि मिति॑ । 18) इत्या॑हा॒हे तीत्या॑ह । 19) आ॒हा॒त्म-न्ना॒त्म-न्ना॑हा हा॒त्मन्न् । 20) आ॒त्म-न्ने॒वै वात्म-न्ना॒त्म-न्ने॒व । 21) ए॒व स्वग्ग् स्व मे॒वैव स्वम् । 22) स्व म॒ग्नि म॒ग्निग्ग् स्वग्ग् स्व म॒ग्निम् । 23) अ॒ग्नि-न्दा॑धार दाधारा॒ग्नि म॒ग्नि-न्दा॑धार । 24) दा॒धा॒र॒ न न दा॑धार दाधार॒ न । 25) नास्मा॑ दस्मा॒-न्न नास्मा᳚त् । 26) अ॒स्मा॒-त्प॒शवः॑ प॒शवो᳚ ऽस्मा दस्मा-त्प॒शवः॑ । 27) प॒शवो ऽपाप॑ प॒शवः॑ प॒शवो ऽप॑ । 28) अप॑ क्रामन्ति क्राम॒-न्त्यपाप॑ क्रामन्ति । 29) क्रा॒म॒न्ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनः॑ क्रामन्ति क्रामन्ति ब्रह्मवा॒दिनः॑ । 30) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 30) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 31) व॒द॒न्ति॒ य-द्य-द्व॑दन्ति वदन्ति॒ यत् । 32) य-न्मृण् मृ-द्य-द्य-न्मृत् । 33) मृच् च॑ च॒ मृण् मृच् च॑ । 34) चाप॒ आप॑ श्च॒ चापः॑ । 35) आप॑ श्च॒ चाप॒ आप॑ श्च । 36) चा॒ग्ने र॒ग्ने श्च॑ चा॒ग्नेः । 37) अ॒ग्ने र॑ना॒द्य म॑ना॒द्य म॒ग्ने र॒ग्ने र॑ना॒द्यम् । 38) अ॒ना॒द्य मथाथा॑ ना॒द्य म॑ना॒द्य मथ॑ । 39) अथ॒ कस्मा॒-त्कस्मा॒ दथाथ॒ कस्मा᳚त् । 40) कस्मा᳚-न्मृ॒दा मृ॒दा कस्मा॒-त्कस्मा᳚-न्मृ॒दा । 41) मृ॒दा च॑ च मृ॒दा मृ॒दा च॑ । 42) चा॒द्भि र॒द्भि श्च॑ चा॒द्भिः । 43) अ॒द्भि श्च॑ चा॒द्भि र॒द्भि श्च॑ । 43) अ॒द्भिरित्य॑त् - भिः । 44) चा॒ग्नि र॒ग्नि श्च॑ चा॒ग्निः । 45) अ॒ग्नि श्ची॑यते चीयते॒ ऽग्नि र॒ग्नि श्ची॑यते । 46) ची॒य॒त॒ इतीति॑ चीयते चीयत॒ इति॑ । 47) इति॒ य-द्यदितीति॒ यत् । 48) यद॒द्भि र॒द्भि-र्य-द्यद॒द्भिः । 49) अ॒द्भि-स्सं॒यौँति॑ सं॒यौँ त्य॒द्भि र॒द्भि-स्सं॒यौँति॑ । 49) अ॒द्भिरित्य॑त् - भिः । 50) सं॒यौँ त्याप॒ आप॑-स्सं॒यौँति॑ सं॒यौँ त्यापः॑ । 50) सं॒यौँतीति॑ सं - यौति॑ । ॥ 37 ॥ (50/55)
1) आपो॒ वै वा आप॒ आपो॒ वै । 2) वै सर्वा॒-स्सर्वा॒ वै वै सर्वाः᳚ । 3) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ । 4) दे॒वता॑ दे॒वता॑भि-र्दे॒वता॑भि-र्दे॒वता॑ दे॒वता॑ दे॒वता॑भिः । 5) दे॒वता॑भि रे॒वैव दे॒वता॑भि-र्दे॒वता॑भि रे॒व । 6) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 7) ए॒न॒ग्ं॒ सग्ं स मे॑न मेन॒ग्ं॒ सम् । 8) सग्ं सृ॑जति सृजति॒ सग्ं सग्ं सृ॑जति । 9) सृ॒ज॒ति॒ य-द्य-थ्सृ॑जति सृजति॒ यत् । 10) य-न्मृ॒दा मृ॒दा य-द्य-न्मृ॒दा । 11) मृ॒दा चि॒नोति॑ चि॒नोति॑ मृ॒दा मृ॒दा चि॒नोति॑ । 12) चि॒नोती॒य मि॒य-ञ्चि॒नोति॑ चि॒नोती॒यम् । 13) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 14) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 15) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः । 16) वै॒श्वा॒न॒रो᳚ ऽग्निना॒ ऽग्निना॑ वैश्वान॒रो वै᳚श्वान॒रो᳚ ऽग्निना᳚ । 17) अ॒ग्नि नै॒वै वाग्निना॒ ऽग्निनै॒व । 18) ए॒व त-त्तदे॒ वैव तत् । 19) तद॒ग्नि म॒ग्नि-न्त-त्तद॒ग्निम् । 20) अ॒ग्नि-ञ्चि॑नोति चिनो त्य॒ग्नि म॒ग्नि-ञ्चि॑नोति । 21) चि॒नो॒ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिन॑ श्चिनोति चिनोति ब्रह्मवा॒दिनः॑ । 22) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 22) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 23) व॒द॒न्ति॒ य-द्य-द्व॑दन्ति वदन्ति॒ यत् । 24) य-न्मृ॒दा मृ॒दा य-द्य-न्मृ॒दा । 25) मृ॒दा च॑ च मृ॒दा मृ॒दा च॑ । 26) चा॒द्भि र॒द्भि श्च॑ चा॒द्भिः । 27) अ॒द्भि श्च॑ चा॒द्भि र॒द्भि श्च॑ । 27) अ॒द्भिरित्य॑त् - भिः । 28) चा॒ग्नि र॒ग्नि श्च॑ चा॒ग्निः । 29) अ॒ग्नि श्ची॒यते॑ ची॒यते॒ ऽग्नि र॒ग्नि श्ची॒यते᳚ । 30) ची॒यते ऽथाथ॑ ची॒यते॑ ची॒यते ऽथ॑ । 31) अथ॒ कस्मा॒-त्कस्मा॒ दथाथ॒ कस्मा᳚त् । 32) कस्मा॑ द॒ग्नि र॒ग्निः कस्मा॒-त्कस्मा॑ द॒ग्निः । 33) अ॒ग्नि रु॑च्यत उच्यते॒ ऽग्नि र॒ग्नि रु॑च्यते । 34) उ॒च्य॒त॒ इती त्यु॑च्यत उच्यत॒ इति॑ । 35) इति॒ य-द्यदितीति॒ यत् । 36) यच् छन्दो॑भि॒ श्छन्दो॑भि॒-र्य-द्यच् छन्दो॑भिः । 37) छन्दो॑भि श्चि॒नोति॑ चि॒नोति॒ छन्दो॑भि॒ श्छन्दो॑भि श्चि॒नोति॑ । 37) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 38) चि॒नो त्य॒ग्नयो॒ ऽग्नय॑ श्चि॒नोति॑ चि॒नो त्य॒ग्नयः॑ । 39) अ॒ग्नयो॒ वै वा अ॒ग्नयो॒ ऽग्नयो॒ वै । 40) वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि । 41) छन्दाग्ं॑सि॒ तस्मा॒-त्तस्मा॒च् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ तस्मा᳚त् । 42) तस्मा॑ द॒ग्नि र॒ग्नि स्तस्मा॒-त्तस्मा॑ द॒ग्निः । 43) अ॒ग्नि रु॑च्यत उच्यते॒ ऽग्नि र॒ग्नि रु॑च्यते । 44) उ॒च्य॒ते ऽथो॒ अथो॑ उच्यत उच्य॒ते ऽथो᳚ । 45) अथो॑ इ॒य मि॒य मथो॒ अथो॑ इ॒यम् । 45) अथो॒ इत्यथो᳚ । 46) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 47) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 48) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः । 49) वै॒श्वा॒न॒रो य-द्य-द्वै᳚श्वान॒रो वै᳚श्वान॒रो यत् । 50) य-न्मृ॒दा मृ॒दा य-द्य-न्मृ॒दा । ॥ 38 ॥ (50/54)
1) मृ॒दा चि॒नोति॑ चि॒नोति॑ मृ॒दा मृ॒दा चि॒नोति॑ । 2) चि॒नोति॒ तस्मा॒-त्तस्मा᳚च् चि॒नोति॑ चि॒नोति॒ तस्मा᳚त् । 3) तस्मा॑ द॒ग्नि र॒ग्नि स्तस्मा॒-त्तस्मा॑ द॒ग्निः । 4) अ॒ग्नि रु॑च्यत उच्यते॒ ऽग्नि र॒ग्नि रु॑च्यते । 5) उ॒च्य॒ते॒ हि॒र॒ण्ये॒ष्ट॒का हि॑रण्येष्ट॒का उ॑च्यत उच्यते हिरण्येष्ट॒काः । 6) हि॒र॒ण्ये॒ष्ट॒का उपोप॑ हिरण्येष्ट॒का हि॑रण्येष्ट॒का उप॑ । 6) हि॒र॒ण्ये॒ष्ट॒का इति॑ हिरण्य - इ॒ष्ट॒काः । 7) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 8) द॒धा॒ति॒ ज्योति॒-र्ज्योति॑-र्दधाति दधाति॒ ज्योतिः॑ । 9) ज्योति॒-र्वै वै ज्योति॒-र्ज्योति॒-र्वै । 10) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-वैँ वै हिर॑ण्यम् । 11) हिर॑ण्य॒-ञ्ज्योति॒-र्ज्योति॒र्॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-ञ्ज्योतिः॑ । 12) ज्योति॑रे॒ वैव ज्योति॒-र्ज्योति॑ रे॒व । 13) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । 14) अ॒स्मि॒-न्द॒धा॒ति॒ द॒धा॒ त्य॒स्मि॒-न्न॒स्मि॒-न्द॒धा॒ति॒ । 15) द॒धा॒ त्यथो॒ अथो॑ दधाति दधा॒ त्यथो᳚ । 16) अथो॒ तेज॒ स्तेजो ऽथो॒ अथो॒ तेजः॑ । 16) अथो॒ इत्यथो᳚ । 17) तेजो॒ वै वै तेज॒ स्तेजो॒ वै । 18) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-वैँ वै हिर॑ण्यम् । 19) हिर॑ण्य॒-न्तेज॒ स्तेजो॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्तेजः॑ । 20) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व । 21) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् । 22) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 23) ध॒त्ते॒ यो यो ध॑त्ते धत्ते॒ यः । 24) यो वै वै यो यो वै । 25) वा अ॒ग्नि म॒ग्निं-वैँ वा अ॒ग्निम् । 26) अ॒ग्निग्ं स॒र्वतो॑मुखग्ं स॒र्वतो॑मुख म॒ग्नि म॒ग्निग्ं स॒र्वतो॑मुखम् । 27) स॒र्वतो॑मुख-ञ्चिनु॒ते चि॑नु॒ते स॒र्वतो॑मुखग्ं स॒र्वतो॑मुख-ञ्चिनु॒ते । 27) स॒र्वतो॑मुख॒मिति॑ स॒र्वतः॑ - मु॒ख॒म् । 28) चि॒नु॒ते सर्वा॑सु॒ सर्वा॑सु चिनु॒ते चि॑नु॒ते सर्वा॑सु । 29) सर्वा॑सु प्र॒जासु॑ प्र॒जासु॒ सर्वा॑सु॒ सर्वा॑सु प्र॒जासु॑ । 30) प्र॒जा स्वन्न॒ मन्न॑-म्प्र॒जासु॑ प्र॒जा स्वन्न᳚म् । 30) प्र॒जास्विति॑ प्र - जासु॑ । 31) अन्न॑ मत्त्य॒-त्त्यन्न॒ मन्न॑ मत्ति । 32) अ॒त्ति॒ सर्वा॒-स्सर्वा॑ अत्त्यत्ति॒ सर्वाः᳚ । 33) सर्वा॒ दिशो॒ दिश॒-स्सर्वा॒-स्सर्वा॒ दिशः॑ । 34) दिशो॒ ऽभ्य॑भि दिशो॒ दिशो॒ ऽभि । 35) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 36) ज॒य॒ति॒ गा॒य॒त्री-ङ्गा॑य॒त्री-ञ्ज॑यति जयति गाय॒त्रीम् । 37) गा॒य॒त्री-म्पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्गाय॒त्री-ङ्गा॑य॒त्री-म्पु॒रस्ता᳚त् । 38) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ । 39) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 40) द॒धा॒ति॒ त्रि॒ष्टुभ॑-न्त्रि॒ष्टुभ॑-न्दधाति दधाति त्रि॒ष्टुभ᳚म् । 41) त्रि॒ष्टुभ॑-न्दक्षिण॒तो द॑क्षिण॒त स्त्रि॒ष्टुभ॑-न्त्रि॒ष्टुभ॑-न्दक्षिण॒तः । 42) द॒क्षि॒ण॒तो जग॑ती॒-ञ्जग॑ती-न्दक्षिण॒तो द॑क्षिण॒तो जग॑तीम् । 43) जग॑ती-म्प॒श्चा-त्प॒श्चाज् जग॑ती॒-ञ्जग॑ती-म्प॒श्चात् । 44) प॒श्चा द॑नु॒ष्टुभ॑ मनु॒ष्टुभ॑-म्प॒श्चा-त्प॒श्चा द॑नु॒ष्टुभ᳚म् । 45) अ॒नु॒ष्टुभ॑ मुत्तर॒त उ॑त्तर॒तो॑ ऽनु॒ष्टुभ॑ मनु॒ष्टुभ॑ मुत्तर॒तः । 45) अ॒नु॒ष्टुभ॒मित्य॑नु - स्तुभ᳚म् । 46) उ॒त्त॒र॒तः प॒ङ्क्ति-म्प॒ङ्क्ति मु॑त्तर॒त उ॑त्तर॒तः प॒ङ्क्तिम् । 46) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 47) प॒ङ्क्ति-म्मद्ध्ये॒ मद्ध्ये॑ प॒ङ्क्ति-म्प॒ङ्क्ति-म्मद्ध्ये᳚ । 48) मद्ध्य॑ ए॒ष ए॒ष मद्ध्ये॒ मद्ध्य॑ ए॒षः । 49) ए॒ष वै वा ए॒ष ए॒ष वै । 50) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 51) अ॒ग्नि-स्स॒र्वतो॑मुख-स्स॒र्वतो॑मुखो॒ ऽग्नि र॒ग्नि-स्स॒र्वतो॑मुखः । 52) स॒र्वतो॑मुख॒स्त-न्तग्ं स॒र्वतो॑मुख-स्स॒र्वतो॑मुख॒स्तम् । 52) स॒र्वतो॑मुख॒ इति॑ स॒र्वतः॑ - मु॒खः॒ । 53) तं-योँ य स्त-न्तं-यः ँ। 54) य ए॒व मे॒वं-योँ य ए॒वम् । 55) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 56) वि॒द्वाग् श्चि॑नु॒ते चि॑नु॒ते वि॒द्वान्. वि॒द्वाग् श्चि॑नु॒ते । 57) चि॒नु॒ते सर्वा॑सु॒ सर्वा॑सु चिनु॒ते चि॑नु॒ते सर्वा॑सु । 58) सर्वा॑सु प्र॒जासु॑ प्र॒जासु॒ सर्वा॑सु॒ सर्वा॑सु प्र॒जासु॑ । 59) प्र॒जा स्वन्न॒ मन्न॑-म्प्र॒जासु॑ प्र॒जा स्वन्न᳚म् । 59) प्र॒जास्विति॑ प्र - जासु॑ । 60) अन्न॑ मत्त्य॒-त्त्यन्न॒ मन्न॑ मत्ति । 61) अ॒त्ति॒ सर्वा॒-स्सर्वा॑ अत्त्यत्ति॒ सर्वाः᳚ । 62) सर्वा॒ दिशो॒ दिश॒-स्सर्वा॒-स्सर्वा॒ दिशः॑ । 63) दिशो॒ ऽभ्य॑भि दिशो॒ दिशो॒ ऽभि । 64) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 65) ज॒य॒ त्यथो॒ अथो॑ जयति जय॒ त्यथो᳚ । 66) अथो॑ दि॒शि दि॒श्यथो॒ अथो॑ दि॒शि । 66) अथो॒ इत्यथो᳚ । 67) दि॒श्ये॑ वैव दि॒शि दि॒श्ये॑व । 68) ए॒व दिश॒-न्दिश॑ मे॒वैव दिश᳚म् । 69) दिश॒-म्प्र प्र दिश॒-न्दिश॒-म्प्र । 70) प्र व॑यति वयति॒ प्र प्र व॑यति । 71) व॒य॒ति॒ तस्मा॒-त्तस्मा᳚-द्वयति वयति॒ तस्मा᳚त् । 72) तस्मा᳚-द्दि॒शि दि॒शि तस्मा॒-त्तस्मा᳚-द्दि॒शि । 73) दि॒शि दिग् दिग् दि॒शि दि॒शि दिक् । 74) दि-क्प्रोता॒ प्रोता॒ दिग् दि-क्प्रोता᳚ । 75) प्रोतेति॒ प्र - उ॒ता॒ । ॥ 39 ॥ (75/84) ॥ अ. 9 ॥
1) प्र॒जाप॑ति र॒ग्नि म॒ग्नि-म्प्र॒जाप॑तिः प्र॒जाप॑ति र॒ग्निम् । 1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 2) अ॒ग्नि म॑सृजता सृजता॒ग्नि म॒ग्नि म॑सृजत । 3) अ॒सृ॒ज॒त॒ स सो॑ ऽसृजता सृजत॒ सः । 4) सो᳚ ऽस्मा दस्मा॒-थ्स सो᳚ ऽस्मात् । 5) अ॒स्मा॒-थ्सृ॒ष्ट-स्सृ॒ष्टो᳚ ऽस्मा दस्मा-थ्सृ॒ष्टः । 6) सृ॒ष्टः प्रा-म्प्रा-ङ्ख्सृ॒ष्ट-स्सृ॒ष्टः प्राम् । 7) प्रा-म्प्र प्र प्रा-म्प्रा-म्प्र । 8) प्राद्र॑व दद्रव॒-त्प्र प्राद्र॑वत् । 9) अ॒द्र॒व॒-त्तस्मै॒ तस्मा॑ अद्रव दद्रव॒-त्तस्मै᳚ । 10) तस्मा॒ अश्व॒ मश्व॒-न्तस्मै॒ तस्मा॒ अश्व᳚म् । 11) अश्व॒-म्प्रति॒ प्रत्यश्व॒ मश्व॒-म्प्रति॑ । 12) प्रत्या᳚स्य दास्य॒-त्प्रति॒ प्रत्या᳚स्यत् । 13) आ॒स्य॒-थ्स स आ᳚स्य दास्य॒-थ्सः । 14) स द॑क्षि॒णा द॑क्षि॒णा स स द॑क्षि॒णा । 15) द॒क्षि॒णा ऽव॑र्तता वर्त॒ता द॑क्षि॒णा द॑क्षि॒णा ऽव॑र्तत । 16) आ ऽव॑र्तता वर्त॒ता ऽव॑र्तत । 17) अ॒व॒र्त॒त॒ तस्मै॒ तस्मा॑ अवर्तता वर्तत॒ तस्मै᳚ । 18) तस्मै॑ वृ॒ष्णिं-वृँ॒ष्णि-न्तस्मै॒ तस्मै॑ वृ॒ष्णिम् । 19) वृ॒ष्णि-म्प्रति॒ प्रति॑ वृ॒ष्णिं-वृँ॒ष्णि-म्प्रति॑ । 20) प्रत्या᳚स्य दास्य॒-त्प्रति॒ प्रत्या᳚स्यत् । 21) आ॒स्य॒-थ्स स आ᳚स्य दास्य॒-थ्सः । 22) स प्र॒त्य-म्प्र॒त्य-ङ्ख्स स प्र॒त्यम् । 23) प्र॒त्यं आ प्र॒त्य-म्प्र॒त्यं आ । 24) आ ऽव॑र्तता वर्त॒ता ऽव॑र्तत । 25) अ॒व॒र्त॒त॒ तस्मै॒ तस्मा॑ अवर्तता वर्तत॒ तस्मै᳚ । 26) तस्मा॑ ऋष॒भ मृ॑ष॒भ-न्तस्मै॒ तस्मा॑ ऋष॒भम् । 27) ऋ॒ष॒भ-म्प्रति॒ प्रत्यृ॑ष॒भ मृ॑ष॒भ-म्प्रति॑ । 28) प्रत्या᳚स्य दास्य॒-त्प्रति॒ प्रत्या᳚स्यत् । 29) आ॒स्य॒-थ्स स आ᳚स्य दास्य॒-थ्सः । 30) स उदं॒ ंउद॒-ङ्ख्स स उदं॑ । 31) उदं॒ ओदं॒ ंउदं॒ आ । 32) आ ऽव॑र्तता वर्त॒ता ऽव॑र्तत । 33) अ॒व॒र्त॒त॒ तस्मै॒ तस्मा॑ अवर्तता वर्तत॒ तस्मै᳚ । 34) तस्मै॑ ब॒स्त-म्ब॒स्त-न्तस्मै॒ तस्मै॑ ब॒स्तम् । 35) ब॒स्त-म्प्रति॒ प्रति॑ ब॒स्त-म्ब॒स्त-म्प्रति॑ । 36) प्रत्या᳚स्य दास्य॒-त्प्रति॒ प्रत्या᳚स्यत् । 37) आ॒स्य॒-थ्स स आ᳚स्य दास्य॒-थ्सः । 38) स ऊ॒र्ध्व ऊ॒र्ध्व-स्स स ऊ॒र्ध्वः । 39) ऊ॒र्ध्वो᳚ ऽद्रव दद्रव दू॒र्ध्व ऊ॒र्ध्वो᳚ ऽद्रवत् । 40) अ॒द्र॒व॒-त्तस्मै॒ तस्मा॑ अद्रव दद्रव॒-त्तस्मै᳚ । 41) तस्मै॒ पुरु॑ष॒-म्पुरु॑ष॒-न्तस्मै॒ तस्मै॒ पुरु॑षम् । 42) पुरु॑ष॒-म्प्रति॒ प्रति॒ पुरु॑ष॒-म्पुरु॑ष॒-म्प्रति॑ । 43) प्रत्या᳚स्य दास्य॒-त्प्रति॒ प्रत्या᳚स्यत् । 44) आ॒स्य॒-द्य-द्यदा᳚स्य दास्य॒-द्यत् । 45) य-त्प॑शुशी॒र्॒षाणि॑ पशुशी॒र्॒षाणि॒ य-द्य-त्प॑शुशी॒र्॒षाणि॑ । 46) प॒शु॒शी॒र्॒षा ण्यु॑प॒दधा᳚ त्युप॒दधा॑ति पशुशी॒र्॒षाणि॑ पशुशी॒र्॒षा ण्यु॑प॒दधा॑ति । 46) प॒शु॒शी॒र्॒षाणीति॑ पशु - शी॒र्॒षाणि॑ । 47) उ॒प॒दधा॑ति स॒र्वत॑-स्स॒र्वत॑ उप॒दधा᳚ त्युप॒दधा॑ति स॒र्वतः॑ । 47) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 48) स॒र्वत॑ ए॒वैव स॒र्वत॑-स्स॒र्वत॑ ए॒व । 49) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 50) ए॒न॒ म॒व॒रुद्ध्या॑ व॒रुद्ध्यै॑न मेन मव॒रुद्ध्य॑ । ॥ 40 ॥ (50/53)
1) अ॒व॒रुद्ध्य॑ चिनुते चिनुते ऽव॒रुद्ध्या॑ व॒रुद्ध्य॑ चिनुते । 1) अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ । 2) चि॒नु॒त॒ ए॒ता ए॒ता श्चि॑नुते चिनुत ए॒ताः । 3) ए॒ता वै वा ए॒ता ए॒ता वै । 4) वै प्रा॑ण॒भृतः॑ प्राण॒भृतो॒ वै वै प्रा॑ण॒भृतः॑ । 5) प्रा॒ण॒भृत॒ श्चक्षु॑ष्मती॒ श्चक्षु॑ष्मतीः प्राण॒भृतः॑ प्राण॒भृत॒ श्चक्षु॑ष्मतीः । 5) प्रा॒ण॒भृत॒ इति॑ प्राण - भृतः॑ । 6) चक्षु॑ष्मती॒ रिष्ट॑का॒ इष्ट॑का॒ श्चक्षु॑ष्मती॒ श्चक्षु॑ष्मती॒ रिष्ट॑काः । 7) इष्ट॑का॒ य-द्यदिष्ट॑का॒ इष्ट॑का॒ यत् । 8) य-त्प॑शुशी॒र्॒षाणि॑ पशुशी॒र्॒षाणि॒ य-द्य-त्प॑शुशी॒र्॒षाणि॑ । 9) प॒शु॒शी॒र्॒षाणि॒ य-द्य-त्प॑शुशी॒र्॒षाणि॑ पशुशी॒र्॒षाणि॒ यत् । 9) प॒शु॒शी॒र्॒षाणीति॑ पशु - शी॒र्॒षाणि॑ । 10) य-त्प॑शुशी॒र्॒षाणि॑ पशुशी॒र्॒षाणि॒ य-द्य-त्प॑शुशी॒र्॒षाणि॑ । 11) प॒शु॒शी॒र्॒षा ण्यु॑प॒दधा᳚ त्युप॒दधा॑ति पशुशी॒र्॒षाणि॑ पशुशी॒र्॒षा ण्यु॑प॒दधा॑ति । 11) प॒शु॒शी॒र्॒षाणीति॑ पशु - शी॒र्॒षाणि॑ । 12) उ॒प॒दधा॑ति॒ ताभि॒ स्ताभि॑ रुप॒दधा᳚ त्युप॒दधा॑ति॒ ताभिः॑ । 12) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 13) ताभि॑ रे॒वैव ताभि॒ स्ताभि॑ रे॒व । 14) ए॒व यज॑मानो॒ यज॑मान ए॒वैव यज॑मानः । 15) यज॑मानो॒ ऽमुष्मि॑-न्न॒मुष्मि॒न्॒. यज॑मानो॒ यज॑मानो॒ ऽमुष्मिन्न्॑ । 16) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 17) लो॒के प्र प्र लो॒के लो॒के प्र । 18) प्राणि॑ त्यनिति॒ प्र प्राणि॑ति । 19) अ॒नि॒ त्यथो॒ अथो॑ अनि त्यनि॒ त्यथो᳚ । 20) अथो॒ ताभि॒ स्ताभि॒ रथो॒ अथो॒ ताभिः॑ । 20) अथो॒ इत्यथो᳚ । 21) ताभि॑ रे॒वैव ताभि॒ स्ताभि॑ रे॒व । 22) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 23) अ॒स्मा॒ इ॒म इ॒मे᳚ ऽस्मा अस्मा इ॒मे । 24) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 25) लो॒काः प्र प्र लो॒का लो॒काः प्र । 26) प्र भा᳚न्ति भान्ति॒ प्र प्र भा᳚न्ति । 27) भा॒न्ति॒ मृ॒दा मृ॒दा भा᳚न्ति भान्ति मृ॒दा । 28) मृ॒दा ऽभि॒लिप्या॑ भि॒लिप्य॑ मृ॒दा मृ॒दा ऽभि॒लिप्य॑ । 29) अ॒भि॒लिप्यो पोपा॑भि॒लिप्या॑ भि॒लिप्योप॑ । 29) अ॒भि॒लिप्येत्य॑भि - लिप्य॑ । 30) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 31) द॒धा॒ति॒ मे॒द्ध्य॒त्वाय॑ मेद्ध्य॒त्वाय॑ दधाति दधाति मेद्ध्य॒त्वाय॑ । 32) मे॒द्ध्य॒त्वाय॑ प॒शुः प॒शु-र्मे᳚द्ध्य॒त्वाय॑ मेद्ध्य॒त्वाय॑ प॒शुः । 32) मे॒द्ध्य॒त्वायेति॑ मेद्ध्य - त्वाय॑ । 33) प॒शु-र्वै वै प॒शुः प॒शु-र्वै । 34) वा ए॒ष ए॒ष वै वा ए॒षः । 35) ए॒ष य-द्यदे॒ष ए॒ष यत् । 36) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 37) अ॒ग्नि रन्न॒ मन्न॑ म॒ग्नि र॒ग्नि रन्न᳚म् । 38) अन्न॑-म्प॒शवः॑ प॒शवो ऽन्न॒ मन्न॑-म्प॒शवः॑ । 39) प॒शव॑ ए॒ष ए॒ष प॒शवः॑ प॒शव॑ ए॒षः । 40) ए॒ष खलु॒ खल्वे॒ष ए॒ष खलु॑ । 41) खलु॒ वै वै खलु॒ खलु॒ वै । 42) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 43) अ॒ग्नि-र्य-द्यद॒ग्नि र॒ग्नि-र्यत् । 44) य-त्प॑शुशी॒र्॒षाणि॑ पशुशी॒र्॒षाणि॒ य-द्य-त्प॑शुशी॒र्॒षाणि॑ । 45) प॒शु॒शी॒र्॒षाणि॒ यं-यँ-म्प॑शुशी॒र्॒षाणि॑ पशुशी॒र्॒षाणि॒ यम् । 45) प॒शु॒शी॒र्॒षाणीति॑ पशु - शी॒र्॒षाणि॑ । 46) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 47) का॒मये॑त॒ कनी॑यः॒ कनी॑यः का॒मये॑त का॒मये॑त॒ कनी॑यः । 48) कनी॑यो ऽस्यास्य॒ कनी॑यः॒ कनी॑यो ऽस्य । 49) अ॒स्यान्न॒ मन्न॑ मस्या॒ स्यान्न᳚म् । 50) अन्नग्ग्॑ स्या-थ्स्या॒ दन्न॒ मन्नग्ग्॑ स्यात् । ॥ 41 ॥ (50/59)
1) स्या॒ दितीति॑ स्या-थ्स्या॒ दिति॑ । 2) इति॑ सन्त॒राग्ं स॑न्त॒रा मितीति॑ सन्त॒राम् । 3) स॒न्त॒रा-न्तस्य॒ तस्य॑ सन्त॒राग्ं स॑न्त॒रा-न्तस्य॑ । 3) स॒न्त॒रामिति॑ सं - त॒राम् । 4) तस्य॑ पशुशी॒र्॒षाणि॑ पशुशी॒र्॒षाणि॒ तस्य॒ तस्य॑ पशुशी॒र्॒षाणि॑ । 5) प॒शु॒शी॒र्॒षा ण्युपोप॑ पशुशी॒र्॒षाणि॑ पशुशी॒र्॒षा ण्युप॑ । 5) प॒शु॒शी॒र्॒षाणीति॑ पशु - शी॒र्॒षाणि॑ । 6) उप॑ दद्ध्या-द्दद्ध्या॒ दुपोप॑ दद्ध्यात् । 7) द॒द्ध्या॒-त्कनी॑यः॒ कनी॑यो दद्ध्या-द्दद्ध्या॒-त्कनी॑यः । 8) कनी॑य ए॒वैव कनी॑यः॒ कनी॑य ए॒व । 9) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 10) अ॒स्यान्न॒ मन्न॑ मस्या॒ स्यान्न᳚म् । 11) अन्न॑-म्भवति भव॒ त्यन्न॒ मन्न॑-म्भवति । 12) भ॒व॒ति॒ यं-यँ-म्भ॑वति भवति॒ यम् । 13) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 14) का॒मये॑त स॒माव॑-थ्स॒माव॑-त्का॒मये॑त का॒मये॑त स॒माव॑त् । 15) स॒माव॑ दस्यास्य स॒माव॑-थ्स॒माव॑ दस्य । 16) अ॒स्यान्न॒ मन्न॑ मस्या॒ स्यान्न᳚म् । 17) अन्नग्ग्॑ स्या-थ्स्या॒ दन्न॒ मन्नग्ग्॑ स्यात् । 18) स्या॒ दितीति॑ स्या-थ्स्या॒ दिति॑ । 19) इति॑ मद्ध्य॒तो म॑द्ध्य॒त इतीति॑ मद्ध्य॒तः । 20) म॒द्ध्य॒त स्तस्य॒ तस्य॑ मद्ध्य॒तो म॑द्ध्य॒त स्तस्य॑ । 21) तस्यो पोप॒ तस्य॒ तस्योप॑ । 22) उप॑ दद्ध्या-द्दद्ध्या॒ दुपोप॑ दद्ध्यात् । 23) द॒द्ध्या॒-थ्स॒माव॑-थ्स॒माव॑-द्दद्ध्या-द्दद्ध्या-थ्स॒माव॑त् । 24) स॒माव॑ दे॒वैव स॒माव॑-थ्स॒माव॑ दे॒व । 25) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 26) अ॒स्यान्न॒ मन्न॑ मस्या॒ स्यान्न᳚म् । 27) अन्न॑-म्भवति भव॒ त्यन्न॒ मन्न॑-म्भवति । 28) भ॒व॒ति॒ यं-यँ-म्भ॑वति भवति॒ यम् । 29) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 30) का॒मये॑त॒ भूयो॒ भूयः॑ का॒मये॑त का॒मये॑त॒ भूयः॑ । 31) भूयो᳚ ऽस्यास्य॒ भूयो॒ भूयो᳚ ऽस्य । 32) अ॒स्यान्न॒ मन्न॑ मस्या॒ स्यान्न᳚म् । 33) अन्नग्ग्॑ स्या-थ्स्या॒ दन्न॒ मन्नग्ग्॑ स्यात् । 34) स्या॒ दितीति॑ स्या-थ्स्या॒ दिति॑ । 35) इत्यन्ते॒ ष्वन्ते॒ ष्विती त्यन्ते॑षु । 36) अन्ते॑षु॒ तस्य॒ तस्या न्ते॒ ष्वन्ते॑षु॒ तस्य॑ । 37) तस्य॑ व्यु॒दूह्य॑ व्यु॒दूह्य॒ तस्य॒ तस्य॑ व्यु॒दूह्य॑ । 38) व्यु॒दूह्यो पोप॑ व्यु॒दूह्य॑ व्यु॒दूह्योप॑ । 38) व्यु॒दूह्येति॑ वि - उ॒दूह्य॑ । 39) उप॑ दद्ध्या-द्दद्ध्या॒ दुपोप॑ दद्ध्यात् । 40) द॒द्ध्या॒ द॒न्त॒तो᳚ ऽन्त॒तो द॑द्ध्या-द्दद्ध्या दन्त॒तः । 41) अ॒न्त॒त ए॒वै वान्त॒तो᳚ ऽन्त॒त ए॒व । 42) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 43) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् । 44) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ । 45) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 46) रु॒न्धे॒ भूयो॒ भूयो॑ रुन्धे रुन्धे॒ भूयः॑ । 47) भूयो᳚ ऽस्यास्य॒ भूयो॒ भूयो᳚ ऽस्य । 48) अ॒स्यान्न॒ मन्न॑ मस्या॒ स्यान्न᳚म् । 49) अन्न॑-म्भवति भव॒ त्यन्न॒ मन्न॑-म्भवति । 50) भ॒व॒तीति॑ भवति । ॥ 42 ॥ (50/53) ॥ अ. 10 ॥
1) स्ते॒गा-न्दग्ग्ष्ट्रा᳚भ्या॒-न्दग्ग्ष्ट्रा᳚भ्याग् स्ते॒गा-न्थ्स्ते॒गा-न्दग्ग्ष्ट्रा᳚भ्याम् । 2) दग्ग्ष्ट्रा᳚भ्या-म्म॒ण्डूका᳚-न्म॒ण्डूका॒-न्दग्ग्ष्ट्रा᳚भ्या॒-न्दग्ग्ष्ट्रा᳚भ्या-म्म॒ण्डूकान्॑ । 3) म॒ण्डूका॒न् जम्भ्ये॑भि॒-र्जम्भ्ये॑भि-र्म॒ण्डूका᳚-न्म॒ण्डूका॒न् जम्भ्ये॑भिः । 4) जम्भ्ये॑भि॒ राद॑का॒ माद॑का॒-ञ्जम्भ्ये॑भि॒-र्जम्भ्ये॑भि॒ राद॑काम् । 5) आद॑का-ङ्खा॒देन॑ खा॒देना द॑का॒ माद॑का-ङ्खा॒देन॑ । 6) खा॒देनोर्ज॒ मूर्ज॑-ङ्खा॒देन॑ खा॒देनोर्ज᳚म् । 7) ऊर्जग्ं॑ सग्ंसू॒देन॑ सग्ंसू॒देनोर्ज॒ मूर्जग्ं॑ सग्ंसू॒देन॑ । 8) स॒ग्ं॒सू॒देना र॑ण्य॒ मर॑ण्यग्ं सग्ंसू॒देन॑ सग्ंसू॒देना र॑ण्यम् । 8) स॒ग्ं॒सू॒देनेति॑ सं - सू॒देन॑ । 9) अर॑ण्य॒-ञ्जाम्बी॑लेन॒ जाम्बी॑ले॒ना र॑ण्य॒ मर॑ण्य॒-ञ्जाम्बी॑लेन । 10) जाम्बी॑लेन॒ मृद॒-म्मृद॒-ञ्जाम्बी॑लेन॒ जाम्बी॑लेन॒ मृद᳚म् । 11) मृद॑-म्ब॒र्स्वे॑भि-र्ब॒र्स्वे॑भि॒-र्मृद॒-म्मृद॑-म्ब॒र्स्वे॑भिः । 12) ब॒र्स्वे॑भि॒-श्शर्क॑राभि॒-श्शर्क॑राभि-र्ब॒र्स्वे॑भि-र्ब॒र्स्वे॑भि॒-श्शर्क॑राभिः । 13) शर्क॑राभि॒ रव॑का॒ मव॑का॒ग्ं॒ शर्क॑राभि॒-श्शर्क॑राभि॒ रव॑काम् । 14) अव॑का॒ मव॑काभि॒ रव॑काभि॒ रव॑का॒ मव॑का॒ मव॑काभिः । 15) अव॑काभि॒-श्शर्क॑रा॒ग्ं॒ शर्क॑रा॒ मव॑काभि॒ रव॑काभि॒-श्शर्क॑राम् । 16) शर्क॑रा मुथ्सा॒देनो᳚ थ्सा॒देन॒ शर्क॑रा॒ग्ं॒ शर्क॑रा मुथ्सा॒देन॑ । 17) उ॒थ्सा॒देन॑ जि॒ह्वा-ञ्जि॒ह्वा मु॑थ्सा॒देनो᳚ थ्सा॒देन॑ जि॒ह्वाम् । 17) उ॒थ्सा॒देनेत्यु॑त् - सा॒देन॑ । 18) जि॒ह्वा म॑वक्र॒न्देना॑ वक्र॒न्देन॑ जि॒ह्वा-ञ्जि॒ह्वा म॑वक्र॒न्देन॑ । 19) अ॒व॒क्र॒न्देन॒ तालु॒-न्तालु॑ मवक्र॒न्देना॑ वक्र॒न्देन॒ तालु᳚म् । 19) अ॒व॒क्र॒न्देनेत्य॑व - क्र॒न्देन॑ । 20) तालु॒ग्ं॒ सर॑स्वती॒ग्ं॒ सर॑स्वती॒-न्तालु॒-न्तालु॒ग्ं॒ सर॑स्वतीम् । 21) सर॑स्वती-ञ्जिह्वा॒ग्रेण॑ जिह्वा॒ग्रेण॒ सर॑स्वती॒ग्ं॒ सर॑स्वती-ञ्जिह्वा॒ग्रेण॑ । 22) जि॒ह्वा॒ग्रेणेति॑ जिह्वा - अ॒ग्रेण॑ । ॥ 43 ॥ (22/25) ॥ अ. 11 ॥
1) वाज॒ग्ं॒ हनू᳚भ्या॒ग्ं॒ हनू᳚भ्यां॒-वाँजं॒-वाँज॒ग्ं॒ हनू᳚भ्याम् । 2) हनू᳚भ्या म॒पो॑ ऽपो हनू᳚भ्या॒ग्ं॒ हनू᳚भ्या म॒पः । 2) हनू᳚भ्या॒मिति॒ हनु॑ - भ्या॒म् । 3) अ॒प आ॒स्ये॑ना॒ स्ये॑ना॒पो॑ ऽप आ॒स्ये॑न । 4) आ॒स्ये॑ नादि॒त्या ना॑दि॒त्या ना॒स्ये॑ ना॒स्ये॑ नादि॒त्यान् । 5) आ॒दि॒त्या-ञ्छ्मश्रु॑भि॒-श्श्मश्रु॑भि रादि॒त्या ना॑दि॒त्या-ञ्छ्मश्रु॑भिः । 6) श्मश्रु॑भि रुपया॒म मु॑पया॒मग्ग् श्मश्रु॑भि॒-श्श्मश्रु॑भि रुपया॒मम् । 6) श्मश्रु॑भि॒रिति॒ श्मश्रु॑ - भिः॒ । 7) उ॒प॒या॒म मध॑रे॒णा ध॑रेणो पया॒म मु॑पया॒म मध॑रेण । 7) उ॒प॒या॒ममित्यु॑प - या॒मम् । 8) अध॑रे॒ णौष्ठे॒ नौष्ठे॒ना ध॑रे॒णा ध॑रे॒णौ ष्ठे॑न । 9) ओष्ठे॑न॒ स-थ्सदोष्ठे॒ नौष्ठे॑न॒ सत् । 10) सदुत्त॑रे॒णो त्त॑रेण॒ स-थ्सदुत्त॑रेण । 11) उत्त॑रे॒णा न्त॑रे॒णा न्त॑रे॒णो त्त॑रे॒णो त्त॑रे॒णा न्त॑रेण । 11) उत्त॑रे॒णेत्युत् - त॒रे॒ण॒ । 12) अन्त॑रेणा नूका॒श म॑नूका॒श मन्त॑रे॒णा न्त॑रेणा नूका॒शम् । 13) अ॒नू॒का॒श-म्प्र॑का॒शेन॑ प्रका॒शेना॑ नूका॒श म॑नूका॒श-म्प्र॑का॒शेन॑ । 13) अ॒नू॒का॒शमित्य॑नु - का॒शम् । 14) प्र॒का॒शेन॒ बाह्य॒-म्बाह्य॑-म्प्रका॒शेन॑ प्रका॒शेन॒ बाह्य᳚म् । 14) प्र॒का॒शेनेति॑ प्र - का॒शेन॑ । 15) बाह्यग्ग्॑ स्तनयि॒त्नुग्ग् स्त॑नयि॒त्नु-म्बाह्य॒-म्बाह्यग्ग्॑ स्तनयि॒त्नुम् । 16) स्त॒न॒यि॒त्नु-न्नि॑र्बा॒धेन॑ निर्बा॒धेन॑ स्तनयि॒त्नुग्ग् स्त॑नयि॒त्नु-न्नि॑र्बा॒धेन॑ । 17) नि॒र्बा॒धेन॑ सूर्या॒ग्नी सू᳚र्या॒ग्नी नि॑र्बा॒धेन॑ निर्बा॒धेन॑ सूर्या॒ग्नी । 17) नि॒र्बा॒धेनेति॑ निः - बा॒धेन॑ । 18) सू॒र्या॒ग्नी चक्षु॑र्भ्या॒-ञ्चक्षु॑र्भ्याग्ं सूर्या॒ग्नी सू᳚र्या॒ग्नी चक्षु॑र्भ्याम् । 18) सू॒र्या॒ग्नी इति॑ सूर्य - अ॒ग्नी । 19) चक्षु॑र्भ्यां-विँ॒द्युतौ॑ वि॒द्युतौ॒ चक्षु॑र्भ्या॒-ञ्चक्षु॑र्भ्यां-विँ॒द्युतौ᳚ । 19) चक्षु॑र्भ्या॒मिति॒ चक्षुः॑ - भ्या॒म् । 20) वि॒द्युतौ॑ क॒नान॑काभ्या-ङ्क॒नान॑काभ्यां-विँ॒द्युतौ॑ वि॒द्युतौ॑ क॒नान॑काभ्याम् । 20) वि॒द्युता॒विति॑ वि - द्युतौ᳚ । 21) क॒नान॑काभ्या म॒शनि॑ म॒शनि॑-ङ्क॒नान॑काभ्या-ङ्क॒नान॑काभ्या म॒शनि᳚म् । 22) अ॒शनि॑-म्म॒स्तिष्के॑ण म॒स्तिष्के॑णा॒ शनि॑ म॒शनि॑-म्म॒स्तिष्के॑ण । 23) म॒स्तिष्के॑ण॒ बल॒-म्बल॑-म्म॒स्तिष्के॑ण म॒स्तिष्के॑ण॒ बल᳚म् । 24) बल॑-म्म॒ज्जभि॑-र्म॒ज्जभि॒-र्बल॒-म्बल॑-म्म॒ज्जभिः॑ । 25) म॒ज्जभि॒रिति॑ म॒ज्ज - भिः॒ । ॥ 44 ॥ (25/35) ॥ अ. 12 ॥
1) कू॒र्मा-ञ्छ॒फै-श्श॒फैः कू॒र्मान् कू॒र्मा-ञ्छ॒फैः । 2) श॒फै र॒च्छला॑भि र॒च्छला॑भि-श्श॒फै-श्श॒फै र॒च्छला॑भिः । 3) अ॒च्छला॑भिः क॒पिञ्ज॑लान् क॒पिञ्ज॑ला न॒च्छला॑भि र॒च्छला॑भिः क॒पिञ्ज॑लान् । 4) क॒पिञ्ज॑ला॒-न्थ्साम॒ साम॑ क॒पिञ्ज॑लान् क॒पिञ्ज॑ला॒-न्थ्साम॑ । 5) साम॒ कुष्ठि॑काभिः॒ कुष्ठि॑काभि॒-स्साम॒ साम॒ कुष्ठि॑काभिः । 6) कुष्ठि॑काभि-र्ज॒व-ञ्ज॒व-ङ्कुष्ठि॑काभिः॒ कुष्ठि॑काभि-र्ज॒वम् । 7) ज॒व-ञ्जङ्घा॑भि॒-र्जङ्घा॑भि-र्ज॒व-ञ्ज॒व-ञ्जङ्घा॑भिः । 8) जङ्घा॑भि रग॒द म॑ग॒द-ञ्जङ्घा॑भि॒-र्जङ्घा॑भि रग॒दम् । 9) अ॒ग॒द-ञ्जानु॑भ्या॒-ञ्जानु॑भ्या मग॒द म॑ग॒द-ञ्जानु॑भ्याम् । 10) जानु॑भ्यां-वीँ॒र्यं॑-वीँ॒र्य॑-ञ्जानु॑भ्या॒-ञ्जानु॑भ्यां-वीँ॒र्य᳚म् । 10) जानु॑भ्या॒मिति॒ जानु॑ - भ्या॒म् । 11) वी॒र्य॑-ङ्कु॒हाभ्या᳚-ङ्कु॒हाभ्यां᳚-वीँ॒र्यं॑-वीँ॒र्य॑-ङ्कु॒हाभ्या᳚म् । 12) कु॒हाभ्या᳚-म्भ॒य-म्भ॒य-ङ्कु॒हाभ्या᳚-ङ्कु॒हाभ्या᳚-म्भ॒यम् । 13) भ॒य-म्प्र॑चा॒लाभ्या᳚-म्प्रचा॒लाभ्या᳚-म्भ॒य-म्भ॒य-म्प्र॑चा॒लाभ्या᳚म् । 14) प्र॒चा॒लाभ्या॒-ङ्गुहा॒ गुहा᳚ प्रचा॒लाभ्या᳚-म्प्रचा॒लाभ्या॒-ङ्गुहा᳚ । 14) प्र॒चा॒लाभ्या॒मिति॑ प्र - चा॒लाभ्या᳚म् । 15) गुहो॑ पप॒क्षाभ्या॑ मुपप॒क्षाभ्या॒-ङ्गुहा॒ गुहो॑ पप॒क्षाभ्या᳚म् । 16) उ॒प॒प॒क्षाभ्या॑ म॒श्विना॑ व॒श्विना॑ वुपप॒क्षाभ्या॑ मुपप॒क्षाभ्या॑ म॒श्विनौ᳚ । 16) उ॒प॒प॒क्षाभ्या॒मित्यु॑प - प॒क्षाभ्या᳚म् । 17) अ॒श्विना॒ वग्ंसा᳚भ्या॒ मग्ंसा᳚भ्या म॒श्विना॑ व॒श्विना॒ वग्ंसा᳚भ्याम् । 18) अग्ंसा᳚भ्या॒ मदि॑ति॒ मदि॑ति॒ मग्ंसा᳚भ्या॒ मग्ंसा᳚भ्या॒ मदि॑तिम् । 19) अदि॑तिग्ं शी॒र्ष्णा शी॒र्ष्णा ऽदि॑ति॒ मदि॑तिग्ं शी॒र्ष्णा । 20) शी॒र्ष्णा निर्-ऋ॑ति॒-न्निर्-ऋ॑तिग्ं शी॒र्ष्णा शी॒र्ष्णा निर्-ऋ॑तिम् । 21) निर्-ऋ॑ति॒-न्निर्जा᳚ल्मकेन॒ निर्जा᳚ल्मकेन॒ निर्-ऋ॑ति॒-न्निर्-ऋ॑ति॒-न्निर्जा᳚ल्मकेन । 21) निर्-ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् । 22) निर्जा᳚ल्मकेन शी॒र्ष्णा शी॒र्ष्णा निर्जा᳚ल्मकेन॒ निर्जा᳚ल्मकेन शी॒र्ष्णा । 22) निर्जा᳚ल्मके॒नेति॒ निः - जा॒ल्म॒के॒न॒ । 23) शी॒र्ष्णेति॑ शी॒र्ष्णा । ॥ 45 ॥ (23/28) ॥ अ. 13 ॥
1) योक्त्र॒-ङ्गृद्ध्रा॑भि॒-र्गृद्ध्रा॑भि॒-र्योक्त्रं॒-योँक्त्र॒-ङ्गृद्ध्रा॑भिः । 2) गृद्ध्रा॑भि-र्यु॒गं-युँ॒ग-ङ्गृद्ध्रा॑भि॒-र्गृद्ध्रा॑भि-र्यु॒गम् । 3) यु॒ग मान॑ते॒ना न॑तेन यु॒गं-युँ॒ग मान॑तेन । 4) आन॑तेन चि॒त्त-ञ्चि॒त्त मान॑ते॒ना न॑तेन चि॒त्तम् । 4) आन॑ते॒नेत्या - न॒ते॒न॒ । 5) चि॒त्त-म्मन्या॑भि॒-र्मन्या॑भि श्चि॒त्त-ञ्चि॒त्त-म्मन्या॑भिः । 6) मन्या॑भि-स्सङ्क्रो॒शा-न्थ्स॑ङ्क्रो॒शा-न्मन्या॑भि॒-र्मन्या॑भि-स्सङ्क्रो॒शान् । 7) स॒ङ्क्रो॒शा-न्प्रा॒णैः प्रा॒णै-स्स॑ङ्क्रो॒शा-न्थ्स॑ङ्क्रो॒शा-न्प्रा॒णैः । 7) स॒ङ्क्रो॒शानिति॑ सं - क्रो॒शान् । 8) प्रा॒णैः प्र॑का॒शेन॑ प्रका॒शेन॑ प्रा॒णैः प्रा॒णैः प्र॑का॒शेन॑ । 8) प्रा॒णैरिति॑ प्र - अ॒नैः । 9) प्र॒का॒शेन॒ त्वच॒-न्त्वच॑-म्प्रका॒शेन॑ प्रका॒शेन॒ त्वच᳚म् । 9) प्र॒का॒शेनेति॑ प्र - का॒शेन॑ । 10) त्वच॑-म्पराका॒शेन॑ पराका॒शेन॒ त्वच॒-न्त्वच॑-म्पराका॒शेन॑ । 11) प॒रा॒का॒शेना न्त॑रा॒ मन्त॑रा-म्पराका॒शेन॑ पराका॒शेना न्त॑राम् । 11) प॒रा॒का॒शेनेति॑ परा - का॒शेन॑ । 12) अन्त॑रा-म्म॒शका᳚-न्म॒शका॒ नन्त॑रा॒ मन्त॑रा-म्म॒शकान्॑ । 13) म॒शका॒न् केशैः॒ केशै᳚-र्म॒शका᳚-न्म॒शका॒न् केशैः᳚ । 14) केशै॒ रिन्द्र॒ मिन्द्र॒-ङ्केशैः॒ केशै॒ रिन्द्र᳚म् । 15) इन्द्र॒ग्ग्॒ स्वप॑सा॒ स्वप॒ सेन्द्र॒ मिन्द्र॒ग्ग्॒ स्वप॑सा । 16) स्वप॑सा॒ वहे॑न॒ वहे॑न॒ स्वप॑सा॒ स्वप॑सा॒ वहे॑न । 16) स्वप॒सेति॑ सु - अप॑सा । 17) वहे॑न॒ बृह॒स्पति॒-म्बृह॒स्पतिं॒-वँहे॑न॒ वहे॑न॒ बृह॒स्पति᳚म् । 18) बृह॒स्पतिग्ं॑ शकुनिसा॒देन॑ शकुनिसा॒देन॒ बृह॒स्पति॒-म्बृह॒स्पतिग्ं॑ शकुनिसा॒देन॑ । 19) श॒कु॒नि॒सा॒देन॒ रथ॒ग्ं॒ रथग्ं॑ शकुनिसा॒देन॑ शकुनिसा॒देन॒ रथ᳚म् । 19) श॒कु॒नि॒सा॒देनेति॑ शकुनि - सा॒देन॑ । 20) रथ॑ मु॒ष्णिहा॑भि रु॒ष्णिहा॑भी॒ रथ॒ग्ं॒ रथ॑ मु॒ष्णिहा॑भिः । 21) उ॒ष्णिहा॑भि॒रित्यु॒ष्णिहा॑भिः । ॥ 46 ॥ (21/28) ॥ अ. 14 ॥
1) मि॒त्रावरु॑णौ॒ श्रोणी᳚भ्या॒ग्॒ श्रोणी᳚भ्या-म्मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ॒ श्रोणी᳚भ्याम् । 1) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । 2) श्रोणी᳚भ्या मिन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी श्रोणी᳚भ्या॒ग्॒ श्रोणी᳚भ्या मिन्द्रा॒ग्नी । 2) श्रोणी᳚भ्या॒मिति॒ श्रोणि॑ - भ्या॒म् । 3) इ॒न्द्रा॒ग्नी शि॑ख॒ण्डाभ्याग्ं॑ शिख॒ण्डाभ्या॑ मिन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी शि॑ख॒ण्डाभ्या᳚म् । 3) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । 4) शि॒ख॒ण्डाभ्या॒ मिन्द्रा॒बृह॒स्पती॒ इन्द्रा॒बृह॒स्पती॑ शिख॒ण्डाभ्याग्ं॑ शिख॒ण्डाभ्या॒ मिन्द्रा॒बृह॒स्पती᳚ । 5) इन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॑ मू॒रुभ्या॒ मिन्द्रा॒बृह॒स्पती॒ इन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या᳚म् । 5) इन्द्रा॒बृह॒स्पती॒ इतीन्द्रा᳚ - बृह॒स्पती᳚ । 6) ऊ॒रुभ्या॒ मिन्द्रा॒विष्णू॒ इन्द्रा॒विष्णू॑ ऊ॒रुभ्या॑ मू॒रुभ्या॒ मिन्द्रा॒विष्णू᳚ । 6) ऊ॒रुभ्या॒मित्यू॒रु - भ्या॒म् । 7) इन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्या॑ मष्ठी॒वद्भ्या॒ मिन्द्रा॒विष्णू॒ इन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्या᳚म् । 7) इन्द्रा॒विष्णू॒ इतीन्द्रा᳚ - विष्णू᳚ । 8) अ॒ष्ठी॒वद्भ्याग्ं॑ सवि॒तारग्ं॑ सवि॒तार॑ मष्ठी॒वद्भ्या॑ मष्ठी॒वद्भ्याग्ं॑ सवि॒तार᳚म् । 8) अ॒ष्ठी॒वद्भ्या॒मित्य॑ष्ठी॒वत् - भ्या॒म् । 9) स॒वि॒तार॒-म्पुच्छे॑न॒ पुच्छे॑न सवि॒तारग्ं॑ सवि॒तार॒-म्पुच्छे॑न । 10) पुच्छे॑न गन्ध॒र्वा-न्ग॑न्ध॒र्वा-न्पुच्छे॑न॒ पुच्छे॑न गन्ध॒र्वान् । 11) ग॒न्ध॒र्वा-ञ्छेपे॑न॒ शेपे॑न गन्ध॒र्वा-न्ग॑न्ध॒र्वा-ञ्छेपे॑न । 12) शेपे॑ना फ्स॒रसो᳚ ऽफ्स॒रस॒-श्शेपे॑न॒ शेपे॑ना फ्स॒रसः॑ । 13) अ॒फ्स॒रसो॑ मु॒ष्काभ्या᳚-म्मु॒ष्काभ्या॑ मफ्स॒रसो᳚ ऽफ्स॒रसो॑ मु॒ष्काभ्या᳚म् । 14) मु॒ष्काभ्या॒-म्पव॑मान॒-म्पव॑मान-म्मु॒ष्काभ्या᳚-म्मु॒ष्काभ्या॒-म्पव॑मानम् । 15) पव॑मान-म्पा॒युना॑ पा॒युना॒ पव॑मान॒-म्पव॑मान-म्पा॒युना᳚ । 16) पा॒युना॑ प॒वित्र॑-म्प॒वित्र॑-म्पा॒युना॑ पा॒युना॑ प॒वित्र᳚म् । 17) प॒वित्र॒-म्पोत्रा᳚भ्या॒-म्पोत्रा᳚भ्या-म्प॒वित्र॑-म्प॒वित्र॒-म्पोत्रा᳚भ्याम् । 18) पोत्रा᳚भ्या मा॒क्रम॑ण मा॒क्रम॑ण॒-म्पोत्रा᳚भ्या॒-म्पोत्रा᳚भ्या मा॒क्रम॑णम् । 19) आ॒क्रम॑णग्ग् स्थू॒राभ्याग्॑ स्थू॒राभ्या॑ मा॒क्रम॑ण मा॒क्रम॑णग्ग् स्थू॒राभ्या᳚म् । 19) आ॒क्रम॑ण॒मित्या᳚ - क्रम॑णम् । 20) स्थू॒राभ्या᳚-म्प्रति॒क्रम॑ण-म्प्रति॒क्रम॑णग्ग् स्थू॒राभ्याग्॑ स्थू॒राभ्या᳚-म्प्रति॒क्रम॑णम् । 21) प्र॒ति॒क्रम॑ण॒-ङ्कुष्ठा᳚भ्या॒-ङ्कुष्ठा᳚भ्या-म्प्रति॒क्रम॑ण-म्प्रति॒क्रम॑ण॒-ङ्कुष्ठा᳚भ्याम् । 21) प्र॒ति॒क्रम॑ण॒मिति॑ प्रति - क्रम॑णम् । 22) कुष्ठा᳚भ्या॒मिति॒ कुष्ठा᳚भ्याम् । ॥ 47 ॥ (22/31) ॥ अ. 15 ॥
1) इन्द्र॑स्य क्रो॒डः क्रो॒ड इन्द्र॒ स्येन्द्र॑स्य क्रो॒डः । 2) क्रो॒डो ऽदि॑त्या॒ अदि॑त्यै क्रो॒डः क्रो॒डो ऽदि॑त्यै । 3) अदि॑त्यै पाज॒स्य॑-म्पाज॒स्य॑ मदि॑त्या॒ अदि॑त्यै पाज॒स्य᳚म् । 4) पा॒ज॒स्य॑-न्दि॒शा-न्दि॒शा-म्पा॑ज॒स्य॑-म्पाज॒स्य॑-न्दि॒शाम् । 5) दि॒शा-ञ्ज॒त्रवो॑ ज॒त्रवो॑ दि॒शा-न्दि॒शा-ञ्ज॒त्रवः॑ । 6) ज॒त्रवो॑ जी॒मूता᳚न् जी॒मूता᳚न् ज॒त्रवो॑ ज॒त्रवो॑ जी॒मूतान्॑ । 7) जी॒मूता᳚न् हृदयौप॒शाभ्याग्ं॑ हृदयौप॒शाभ्या᳚-ञ्जी॒मूता᳚न् जी॒मूता᳚न् हृदयौप॒शाभ्या᳚म् । 8) हृ॒द॒यौ॒प॒शाभ्या॑ म॒न्तरि॑क्ष म॒न्तरि॑क्षग्ं हृदयौप॒शाभ्याग्ं॑ हृदयौप॒शाभ्या॑ म॒न्तरि॑क्षम् । 8) हृ॒द॒यौ॒प॒शाभ्या॒मिति॑ हृदय - औ॒प॒शाभ्या᳚म् । 9) अ॒न्तरि॑क्ष-म्पुरि॒तता॑ पुरि॒तता॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष-म्पुरि॒तता᳚ । 10) पु॒रि॒तता॒ नभो॒ नभः॑ पुरि॒तता॑ पुरि॒तता॒ नभः॑ । 11) नभ॑ उद॒र्ये॑ णोद॒र्ये॑ण॒ नभो॒ नभ॑ उद॒र्ये॑ण । 12) उ॒द॒र्ये॑ णेन्द्रा॒णी मि॑न्द्रा॒णी मु॑द॒र्ये॑ णोद॒र्ये॑ णेन्द्रा॒णीम् । 13) इ॒न्द्रा॒णी-म्प्ली॒ह्ना प्ली॒ह्नेन्द्रा॒णी मि॑न्द्रा॒णी-म्प्ली॒ह्ना । 14) प्ली॒ह्ना व॒ल्मीकान्॑. व॒ल्मीका᳚-न्प्ली॒ह्ना प्ली॒ह्ना व॒ल्मीकान्॑ । 15) व॒ल्मीका᳚न् क्लो॒म्ना क्लो॒म्ना व॒ल्मीकान्॑. व॒ल्मीका᳚न् क्लो॒म्ना । 16) क्लो॒म्ना गि॒री-न्गि॒रीन् क्लो॒म्ना क्लो॒म्ना गि॒रीन् । 17) गि॒री-न्प्ला॒शिभिः॑ प्ला॒शिभि॑-र्गि॒री-न्गि॒री-न्प्ला॒शिभिः॑ । 18) प्ला॒शिभि॑-स्समु॒द्रग्ं स॑मु॒द्र-म्प्ला॒शिभिः॑ प्ला॒शिभि॑-स्समु॒द्रम् । 18) प्ला॒शिभि॒रिति॑ प्ला॒शि - भिः॒ । 19) स॒मु॒द्र मु॒दरे॑ णो॒दरे॑ण समु॒द्रग्ं स॑मु॒द्र मु॒दरे॑ण । 20) उ॒दरे॑ण वैश्वान॒रं-वैँ᳚श्वान॒र मु॒दरे॑ णो॒दरे॑ण वैश्वान॒रम् । 21) वै॒श्वा॒न॒र-म्भस्म॑ना॒ भस्म॑ना वैश्वान॒रं-वैँ᳚श्वान॒र-म्भस्म॑ना । 22) भस्म॒नेति॒ भस्म॑ना । ॥ 48 ॥ (22/24) ॥ अ. 16 ॥
1) पू॒ष्णो व॑नि॒ष्ठु-र्व॑नि॒ष्ठुः पू॒ष्णः पू॒ष्णो व॑नि॒ष्ठुः । 2) व॒नि॒ष्ठु र॑न्धा॒हे र॑न्धा॒हे-र्व॑नि॒ष्ठु-र्व॑नि॒ष्ठु र॑न्धा॒हेः । 3) अ॒न्धा॒हे-स्स्थू॑रगु॒दा स्थू॑रगु॒दा ऽन्धा॒हे र॑न्धा॒हे-स्स्थू॑रगु॒दा । 3) अ॒न्धा॒हेरित्य॑न्ध - अ॒हेः । 4) स्थू॒र॒गु॒दा स॒र्पा-न्थ्स॒र्पा-न्थ्स्थू॑रगु॒दा स्थू॑रगु॒दा स॒र्पान् । 4) स्थू॒र॒गु॒देति॑ स्थूर - गु॒दा । 5) स॒र्पा-न्गुदा॑भि॒-र्गुदा॑भि-स्स॒र्पा-न्थ्स॒र्पा-न्गुदा॑भिः । 6) गुदा॑भिर्-ऋ॒तू नृ॒तू-न्गुदा॑भि॒-र्गुदा॑भिर्-ऋ॒तून् । 7) ऋ॒तू-न्पृ॒ष्टीभिः॑ पृ॒ष्टीभिर्॑. ऋ॒तू नृ॒तू-न्पृ॒ष्टीभिः॑ । 8) पृ॒ष्टीभि॒-र्दिव॒-न्दिव॑-म्पृ॒ष्टीभिः॑ पृ॒ष्टीभि॒-र्दिव᳚म् । 8) पृ॒ष्टीभि॒रिति॑ पृ॒ष्टि - भिः॒ । 9) दिव॑-म्पृ॒ष्ठेन॑ पृ॒ष्ठेन॒ दिव॒-न्दिव॑-म्पृ॒ष्ठेन॑ । 10) पृ॒ष्ठेन॒ वसू॑नां॒-वँसू॑ना-म्पृ॒ष्ठेन॑ पृ॒ष्ठेन॒ वसू॑नाम् । 11) वसू॑ना-म्प्रथ॒मा प्र॑थ॒मा वसू॑नां॒-वँसू॑ना-म्प्रथ॒मा । 12) प्र॒थ॒मा कीक॑सा॒ कीक॑सा प्रथ॒मा प्र॑थ॒मा कीक॑सा । 13) कीक॑सा रु॒द्राणाग्ं॑ रु॒द्राणा॒-ङ्कीक॑सा॒ कीक॑सा रु॒द्राणा᳚म् । 14) रु॒द्राणा᳚-न्द्वि॒तीया᳚ द्वि॒तीया॑ रु॒द्राणाग्ं॑ रु॒द्राणा᳚-न्द्वि॒तीया᳚ । 15) द्वि॒तीया॑ ऽऽदि॒त्याना॑ मादि॒त्याना᳚-न्द्वि॒तीया᳚ द्वि॒तीया॑ ऽऽदि॒त्याना᳚म् । 16) आ॒दि॒त्याना᳚-न्तृ॒तीया॑ तृ॒तीया॑ ऽऽदि॒त्याना॑ मादि॒त्याना᳚-न्तृ॒तीया᳚ । 17) तृ॒तीया ऽङ्गि॑रसा॒ मङ्गि॑रसा-न्तृ॒तीया॑ तृ॒तीया ऽङ्गि॑रसाम् । 18) अङ्गि॑रसा-ञ्चतु॒र्थी च॑तु॒-र्थ्यङ्गि॑रसा॒ मङ्गि॑रसा-ञ्चतु॒र्थी । 19) च॒तु॒र्थी सा॒द्ध्यानाग्ं॑ सा॒द्ध्याना᳚-ञ्चतु॒र्थी च॑तु॒र्थी सा॒द्ध्याना᳚म् । 20) सा॒द्ध्याना᳚-म्पञ्च॒मी प॑ञ्च॒मी सा॒द्ध्यानाग्ं॑ सा॒द्ध्याना᳚-म्पञ्च॒मी । 21) प॒ञ्च॒मी विश्वे॑षां॒-विँश्वे॑षा-म्पञ्च॒मी प॑ञ्च॒मी विश्वे॑षाम् । 22) विश्वे॑षा-न्दे॒वाना᳚-न्दे॒वानां॒-विँश्वे॑षां॒-विँश्वे॑षा-न्दे॒वाना᳚म् । 23) दे॒वानाग्ं॑ ष॒ष्ठी ष॒ष्ठी दे॒वाना᳚-न्दे॒वानाग्ं॑ ष॒ष्ठी । 24) ष॒ष्ठीति॑ ष॒ष्ठी । ॥ 49 ॥ (24/27) ॥ अ. 17 ॥
1) ओजो᳚ ग्री॒वाभि॑-र्ग्री॒वाभि॒ रोज॒ ओजो᳚ ग्री॒वाभिः॑ । 2) ग्री॒वाभि॒-र्निर्-ऋ॑ति॒-न्निर्-ऋ॑ति-ङ्ग्री॒वाभि॑-र्ग्री॒वाभि॒-र्निर्-ऋ॑तिम् । 3) निर्-ऋ॑ति म॒स्थभि॑ र॒स्थभि॒-र्निर्-ऋ॑ति॒-न्निर्-ऋ॑ति म॒स्थभिः॑ । 3) निर्-ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् । 4) अ॒स्थभि॒ रिन्द्र॒ मिन्द्र॑ म॒स्थभि॑ र॒स्थभि॒ रिन्द्र᳚म् । 4) अ॒स्थभि॒रित्य॒स्थ - भिः॒ । 5) इन्द्र॒ग्ग्॒ स्वप॑सा॒ स्वप॒ सेन्द्र॒ मिन्द्र॒ग्ग्॒ स्वप॑सा । 6) स्वप॑सा॒ वहे॑न॒ वहे॑न॒ स्वप॑सा॒ स्वप॑सा॒ वहे॑न । 6) स्वप॒सेति॑ सु - अप॑सा । 7) वहे॑न रु॒द्रस्य॑ रु॒द्रस्य॒ वहे॑न॒ वहे॑न रु॒द्रस्य॑ । 8) रु॒द्रस्य॑ विच॒लो वि॑च॒लो रु॒द्रस्य॑ रु॒द्रस्य॑ विच॒लः । 9) वि॒च॒ल-स्स्क॒न्ध-स्स्क॒न्धो वि॑च॒लो वि॑च॒ल-स्स्क॒न्धः । 9) वि॒च॒ल इति॑ वि - च॒लः । 10) स्क॒न्धो॑ ऽहोरा॒त्रयो॑ रहोरा॒त्रयो᳚-स्स्क॒न्ध-स्स्क॒न्धो॑ ऽहोरा॒त्रयोः᳚ । 11) अ॒हो॒रा॒त्रयो᳚-र्द्वि॒तीयो᳚ द्वि॒तीयो॑ ऽहोरा॒त्रयो॑ रहोरा॒त्रयो᳚-र्द्वि॒तीयः॑ । 11) अ॒हो॒रा॒त्रयो॒रित्य॑हः - रा॒त्रयोः᳚ । 12) द्वि॒तीयो᳚ ऽर्धमा॒साना॑ मर्धमा॒साना᳚-न्द्वि॒तीयो᳚ द्वि॒तीयो᳚ ऽर्धमा॒साना᳚म् । 13) अ॒र्ध॒मा॒साना᳚-न्तृ॒तीय॑ स्तृ॒तीयो᳚ ऽर्धमा॒साना॑ मर्धमा॒साना᳚-न्तृ॒तीयः॑ । 13) अ॒र्ध॒मा॒साना॒मित्य॑र्ध - मा॒साना᳚म् । 14) तृ॒तीयो॑ मा॒सा-म्मा॒सा-न्तृ॒तीय॑ स्तृ॒तीयो॑ मा॒साम् । 15) मा॒सा-ञ्च॑तु॒र्थ श्च॑तु॒र्थो मा॒सा-म्मा॒सा-ञ्च॑तु॒र्थः । 16) च॒तु॒र्थ ऋ॑तू॒ना मृ॑तू॒ना-ञ्च॑तु॒र्थ श्च॑तु॒र्थ ऋ॑तू॒नाम् । 17) ऋ॒तू॒ना-म्प॑ञ्च॒मः प॑ञ्च॒म ऋ॑तू॒ना मृ॑तू॒ना-म्प॑ञ्च॒मः । 18) प॒ञ्च॒म-स्सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्य॑ पञ्च॒मः प॑ञ्च॒म-स्सं॑वँथ्स॒रस्य॑ । 19) सं॒वँ॒थ्स॒रस्य॑ ष॒ष्ठ ष्ष॒ष्ठ-स्सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्य॑ ष॒ष्ठः । 19) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 20) ष॒ष्ठ इति॑ ष॒ष्ठः । ॥ 50 ॥ (20/27) ॥ अ. 18 ॥
1) आ॒न॒न्द-न्न॒न्दथु॑ना न॒न्दथु॑ना ऽऽन॒न्द मा॑न॒न्द-न्न॒न्दथु॑ना । 1) आ॒न॒न्दमित्या᳚ - न॒न्दम् । 2) न॒न्दथु॑ना॒ काम॒-ङ्काम॑-न्न॒न्दथु॑ना न॒न्दथु॑ना॒ काम᳚म् । 3) काम॑-म्प्रत्या॒साभ्या᳚-म्प्रत्या॒साभ्या॒-ङ्काम॒-ङ्काम॑-म्प्रत्या॒साभ्या᳚म् । 4) प्र॒त्या॒साभ्या᳚-म्भ॒य-म्भ॒य-म्प्र॑त्या॒साभ्या᳚-म्प्रत्या॒साभ्या᳚-म्भ॒यम् । 4) प्र॒त्या॒साभ्या॒मिति॑ प्रति - आ॒साभ्या᳚म् । 5) भ॒यग्ं शि॑ती॒मभ्याग्ं॑ शिती॒मभ्या᳚-म्भ॒य-म्भ॒यग्ं शि॑ती॒मभ्या᳚म् । 6) शि॒ती॒मभ्या᳚-म्प्र॒शिष॑-म्प्र॒शिषग्ं॑ शिती॒मभ्याग्ं॑ शिती॒मभ्या᳚-म्प्र॒शिष᳚म् । 6) शि॒ती॒मभ्या॒मिति॑ शिती॒म - भ्या॒म् । 7) प्र॒शिष॑-म्प्रशा॒साभ्या᳚-म्प्रशा॒साभ्या᳚-म्प्र॒शिष॑-म्प्र॒शिष॑-म्प्रशा॒साभ्या᳚म् । 7) प्र॒शिष॒मिति॑ प्र - शिष᳚म् । 8) प्र॒शा॒साभ्याग्ं॑ सूर्याचन्द्र॒मसौ॑ सूर्याचन्द्र॒मसौ᳚ प्रशा॒साभ्या᳚-म्प्रशा॒साभ्याग्ं॑ सूर्याचन्द्र॒मसौ᳚ । 8) प्र॒शा॒साभ्या॒मिति॑ प्र - शा॒साभ्या᳚म् । 9) सू॒र्या॒च॒न्द्र॒मसौ॒ वृक्या᳚भ्यां॒-वृँक्या᳚भ्याग्ं सूर्याचन्द्र॒मसौ॑ सूर्याचन्द्र॒मसौ॒ वृक्या᳚भ्याम् । 9) सू॒र्या॒च॒न्द्र॒मसा॒विति॑ सूर्या - च॒न्द्र॒मसौ᳚ । 10) वृक्या᳚भ्याग् श्यामशब॒लौ श्या॑मशब॒लौ वृक्या᳚भ्यां॒-वृँक्या᳚भ्याग् श्यामशब॒लौ । 11) श्या॒म॒श॒ब॒लौ मत॑स्नाभ्या॒-म्मत॑स्नाभ्याग् श्यामशब॒लौ श्या॑मशब॒लौ मत॑स्नाभ्याम् । 11) श्या॒म॒श॒ब॒लाविति॑ श्याम - श॒ब॒लौ । 12) मत॑स्नाभ्यां॒-व्युँ॑ष्टिं॒-व्युँ॑ष्टि॒-म्मत॑स्नाभ्या॒-म्मत॑स्नाभ्यां॒-व्युँ॑ष्टिम् । 13) व्यु॑ष्टिग्ं रू॒पेण॑ रू॒पेण॒ व्यु॑ष्टिं॒-व्युँ॑ष्टिग्ं रू॒पेण॑ । 13) व्यु॑ष्टि॒मिति॒ वि - उ॒ष्टि॒म् । 14) रू॒पेण॒ निम्रु॑क्ति॒-न्निम्रु॑क्तिग्ं रू॒पेण॑ रू॒पेण॒ निम्रु॑क्तिम् । 15) निम्रु॑क्ति॒ मरू॑पे॒णारू॑पेण॒ निम्रु॑क्ति॒-न्निम्रु॑क्ति॒ मरू॑पेण । 15) निम्रु॑क्ति॒मिति॒ नि - म्रु॒क्ति॒म् । 16) अरू॑पे॒णेत्यरू॑पेण । ॥ 51 ॥ (16/25) ॥ अ. 19 ॥
1) अह॑-र्मा॒ग्ं॒सेन॑ मा॒ग्ं॒सेनाह॒ रह॑-र्मा॒ग्ं॒सेन॑ । 2) मा॒ग्ं॒सेन॒ रात्रि॒ग्ं॒ रात्रि॑-म्मा॒ग्ं॒सेन॑ मा॒ग्ं॒सेन॒ रात्रि᳚म् । 3) रात्रि॒-म्पीव॑सा॒ पीव॑सा॒ रात्रि॒ग्ं॒ रात्रि॒-म्पीव॑सा । 4) पीव॑सा॒ ऽपो॑ ऽपः पीव॑सा॒ पीव॑सा॒ ऽपः । 5) अ॒पो यू॒षेण॑ यू॒षेणा॒पो॑ ऽपो यू॒षेण॑ । 6) यू॒षेण॑ घृ॒त-ङ्घृ॒तं-यूँ॒षेण॑ यू॒षेण॑ घृ॒तम् । 7) घृ॒तग्ं रसे॑न॒ रसे॑न घृ॒त-ङ्घृ॒तग्ं रसे॑न । 8) रसे॑न॒ श्याग् श्याग्ं रसे॑न॒ रसे॑न॒ श्याम् । 9) श्यां-वँस॑या॒ वस॑या॒ श्याग् श्यां-वँस॑या । 10) वस॑या दू॒षीका॑भि-र्दू॒षीका॑भि॒-र्वस॑या॒ वस॑या दू॒षीका॑भिः । 11) दू॒षीका॑भिर्-ह्रा॒दुनिग्ग्॑ ह्रा॒दुनि॑-न्दू॒षीका॑भि-र्दू॒षीका॑भिर्-ह्रा॒दुनि᳚म् । 12) ह्रा॒दुनि॒ मश्रु॑भि॒ रश्रु॑भिर्-ह्रा॒दुनिग्ग्॑ ह्रा॒दुनि॒ मश्रु॑भिः । 13) अश्रु॑भिः॒ पृष्वा॒-म्पृष्वा॒ मश्रु॑भि॒ रश्रु॑भिः॒ पृष्वा᳚म् । 13) अश्रु॑भि॒रित्यश्रु॑ - भिः॒ । 14) पृष्वा॒-न्दिव॒-न्दिव॒-म्पृष्वा॒-म्पृष्वा॒-न्दिव᳚म् । 15) दिवग्ं॑ रू॒पेण॑ रू॒पेण॒ दिव॒-न्दिवग्ं॑ रू॒पेण॑ । 16) रू॒पेण॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि रू॒पेण॑ रू॒पेण॒ नक्ष॑त्राणि । 17) नक्ष॑त्राणि॒ प्रति॑रूपेण॒ प्रति॑रूपेण॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि॒ प्रति॑रूपेण । 18) प्रति॑रूपेण पृथि॒वी-म्पृ॑थि॒वी-म्प्रति॑रूपेण॒ प्रति॑रूपेण पृथि॒वीम् । 18) प्रति॑रूपे॒णेति॒ प्रति॑ - रू॒पे॒ण॒ । 19) पृ॒थि॒वी-ञ्चर्म॑णा॒ चर्म॑णा पृथि॒वी-म्पृ॑थि॒वी-ञ्चर्म॑णा । 20) चर्म॑णा छ॒वी-ञ्छ॒वी-ञ्चर्म॑णा॒ चर्म॑णा छ॒वीम् । 21) छ॒वी-ञ्छ॒व्या॑ छ॒व्या॑ छ॒वी-ञ्छ॒वी-ञ्छ॒व्या᳚ । 22) छ॒व्यो॑ पाकृ॑तायो॒ पाकृ॑ताय छ॒व्या॑ छ॒व्यो॑ पाकृ॑ताय । 23) उ॒पाकृ॑ताय॒ स्वाहा॒ स्वाहो॒ पाकृ॑तायो॒ पाकृ॑ताय॒ स्वाहा᳚ । 23) उ॒पाकृ॑ता॒येत्यु॑प - आकृ॑ताय । 24) स्वाहा ऽऽल॑ब्धा॒या ल॑ब्धाय॒ स्वाहा॒ स्वाहा ऽऽल॑ब्धाय । 25) आल॑ब्धाय॒ स्वाहा॒ स्वाहा ऽऽल॑ब्धा॒या ल॑ब्धाय॒ स्वाहा᳚ । 25) आल॑ब्धा॒येत्या - ल॒ब्धा॒य॒ । 26) स्वाहा॑ हु॒ताय॑ हु॒ताय॒ स्वाहा॒ स्वाहा॑ हु॒ताय॑ । 27) हु॒ताय॒ स्वाहा॒ स्वाहा॑ हु॒ताय॑ हु॒ताय॒ स्वाहा᳚ । 28) स्वाहेति॒ स्वाहा᳚ । ॥ 52 ॥ (28/32) ॥ अ. 20 ॥
1) अ॒ग्नेः प॑क्ष॒तिः प॑क्ष॒ति र॒ग्ने र॒ग्नेः प॑क्ष॒तिः । 2) प॒क्ष॒ति-स्सर॑स्वत्यै॒ सर॑स्वत्यै पक्ष॒तिः प॑क्ष॒ति-स्सर॑स्वत्यै । 3) सर॑स्वत्यै॒ निप॑क्षति॒-र्निप॑क्षति॒-स्सर॑स्वत्यै॒ सर॑स्वत्यै॒ निप॑क्षतिः । 4) निप॑क्षति॒-स्सोम॑स्य॒ सोम॑स्य॒ निप॑क्षति॒-र्निप॑क्षति॒-स्सोम॑स्य । 4) निप॑क्षति॒रिति॒ नि - प॒क्ष॒तिः॒ । 5) सोम॑स्य तृ॒तीया॑ तृ॒तीया॒ सोम॑स्य॒ सोम॑स्य तृ॒तीया᳚ । 6) तृ॒तीया॒ ऽपा म॒पा-न्तृ॒तीया॑ तृ॒तीया॒ ऽपाम् । 7) अ॒पा-ञ्च॑तु॒र्थी च॑तु॒र्थ्य॑पा म॒पा-ञ्च॑तु॒र्थी । 8) च॒तु॒-र्थ्योष॑धीना॒ मोष॑धीना-ञ्चतु॒र्थी च॑तु॒-र्थ्योष॑धीनाम् । 9) ओष॑धीना-म्पञ्च॒मी प॑ञ्च॒म्यो ष॑धीना॒ मोष॑धीना-म्पञ्च॒मी । 10) प॒ञ्च॒मी सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्य॑ पञ्च॒मी प॑ञ्च॒मी सं॑वँथ्स॒रस्य॑ । 11) सं॒वँ॒थ्स॒रस्य॑ ष॒ष्ठी ष॒ष्ठी सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्य॑ ष॒ष्ठी । 11) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 12) ष॒ष्ठी म॒रुता᳚-म्म॒रुताग्ं॑ ष॒ष्ठी ष॒ष्ठी म॒रुता᳚म् । 13) म॒रुताग्ं॑ सप्त॒मी स॑प्त॒मी म॒रुता᳚-म्म॒रुताग्ं॑ सप्त॒मी । 14) स॒प्त॒मी बृह॒स्पते॒-र्बृह॒स्पते᳚-स्सप्त॒मी स॑प्त॒मी बृह॒स्पतेः᳚ । 15) बृह॒स्पते॑ रष्ट॒ म्य॑ष्ट॒मी बृह॒स्पते॒-र्बृह॒स्पते॑ रष्ट॒मी । 16) अ॒ष्ट॒मी मि॒त्रस्य॑ मि॒त्रस्या᳚ ष्ट॒म्य॑ ष्ट॒मी मि॒त्रस्य॑ । 17) मि॒त्रस्य॑ नव॒मी न॑व॒मी मि॒त्रस्य॑ मि॒त्रस्य॑ नव॒मी । 18) न॒व॒मी वरु॑णस्य॒ वरु॑णस्य नव॒मी न॑व॒मी वरु॑णस्य । 19) वरु॑णस्य दश॒मी द॑श॒मी वरु॑णस्य॒ वरु॑णस्य दश॒मी । 20) द॒श॒ मीन्द्र॒ स्येन्द्र॑स्य दश॒मी द॑श॒ मीन्द्र॑स्य । 21) इन्द्र॑ स्यैकाद॒ श्ये॑काद॒ शीन्द्र॒ स्येन्द्र॑ स्यैकाद॒शी । 22) ए॒का॒द॒शी विश्वे॑षां॒-विँश्वे॑षा मेकाद॒ श्ये॑काद॒शी विश्वे॑षाम् । 23) विश्वे॑षा-न्दे॒वाना᳚-न्दे॒वानां॒-विँश्वे॑षां॒-विँश्वे॑षा-न्दे॒वाना᳚म् । 24) दे॒वाना᳚-न्द्वाद॒शी द्वा॑द॒शी दे॒वाना᳚-न्दे॒वाना᳚-न्द्वाद॒शी । 25) द्वा॒द॒शी द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्यो-र्द्वा॑द॒शी द्वा॑द॒शी द्यावा॑पृथि॒व्योः । 26) द्यावा॑पृथि॒व्योः पा॒र्श्व-म्पा॒र्श्व-न्द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्योः पा॒र्श्वम् । 26) द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚ - पृ॒थि॒व्योः । 27) पा॒र्श्वं-यँ॒मस्य॑ य॒मस्य॑ पा॒र्श्व-म्पा॒र्श्वं-यँ॒मस्य॑ । 28) य॒मस्य॑ पाटू॒रः पा॑टू॒रो य॒मस्य॑ य॒मस्य॑ पाटू॒रः । 29) पा॒टू॒र इति॑ पाटू॒रः । ॥ 53 ॥ (29/32) ॥ अ. 21 ॥
1) वा॒योः प॑क्ष॒तिः प॑क्ष॒ति-र्वा॒यो-र्वा॒योः प॑क्ष॒तिः । 2) प॒क्ष॒ति-स्सर॑स्वत॒-स्सर॑स्वतः पक्ष॒तिः प॑क्ष॒ति-स्सर॑स्वतः । 3) सर॑स्वतो॒ निप॑क्षति॒-र्निप॑क्षति॒-स्सर॑स्वत॒-स्सर॑स्वतो॒ निप॑क्षतिः । 4) निप॑क्षति श्च॒न्द्रम॑स श्च॒न्द्रम॑सो॒ निप॑क्षति॒-र्निप॑क्षति श्च॒न्द्रम॑सः । 4) निप॑क्षति॒रिति॒ नि - प॒क्ष॒तिः॒ । 5) च॒न्द्रम॑स स्तृ॒तीया॑ तृ॒तीया॑ च॒न्द्रम॑स श्च॒न्द्रम॑स स्तृ॒तीया᳚ । 6) तृ॒तीया॒ नक्ष॑त्राणा॒-न्नक्ष॑त्राणा-न्तृ॒तीया॑ तृ॒तीया॒ नक्ष॑त्राणाम् । 7) नक्ष॑त्राणा-ञ्चतु॒र्थी च॑तु॒र्थी नक्ष॑त्राणा॒-न्नक्ष॑त्राणा-ञ्चतु॒र्थी । 8) च॒तु॒र्थी स॑वि॒तु-स्स॑वि॒तु श्च॑तु॒र्थी च॑तु॒र्थी स॑वि॒तुः । 9) स॒वि॒तुः प॑ञ्च॒मी प॑ञ्च॒मी स॑वि॒तु-स्स॑वि॒तुः प॑ञ्च॒मी । 10) प॒ञ्च॒मी रु॒द्रस्य॑ रु॒द्रस्य॑ पञ्च॒मी प॑ञ्च॒मी रु॒द्रस्य॑ । 11) रु॒द्रस्य॑ ष॒ष्ठी ष॒ष्ठी रु॒द्रस्य॑ रु॒द्रस्य॑ ष॒ष्ठी । 12) ष॒ष्ठी स॒र्पाणाग्ं॑ स॒र्पाणाग्ं॑ ष॒ष्ठी ष॒ष्ठी स॒र्पाणा᳚म् । 13) स॒र्पाणाग्ं॑ सप्त॒मी स॑प्त॒मी स॒र्पाणाग्ं॑ स॒र्पाणाग्ं॑ सप्त॒मी । 14) स॒प्त॒ म्य॑र्य॒म्णो᳚ ऽर्य॒म्ण-स्स॑प्त॒मी स॑प्त॒ म्य॑र्य॒म्णः । 15) अ॒र्य॒म्णो᳚ ऽष्ट॒ म्य॑ष्ट॒ म्य॑र्य॒म्णो᳚ ऽर्य॒म्णो᳚ ऽष्ट॒मी । 16) अ॒ष्ट॒मी त्वष्टु॒ स्त्वष्टु॑ रष्ट॒ म्य॑ष्ट॒मी त्वष्टुः॑ । 17) त्वष्टु॑-र्नव॒मी न॑व॒मी त्वष्टु॒ स्त्वष्टु॑-र्नव॒मी । 18) न॒व॒मी धा॒तु-र्धा॒तु-र्न॑व॒मी न॑व॒मी धा॒तुः । 19) धा॒तु-र्द॑श॒मी द॑श॒मी धा॒तु-र्धा॒तु-र्द॑श॒मी । 20) द॒श॒ मीन्द्रा॒ण्या इ॑न्द्रा॒ण्या द॑श॒मी द॑श॒ मीन्द्रा॒ण्याः । 21) इ॒न्द्रा॒ण्या ए॑काद॒ श्ये॑काद॒ शीन्द्रा॒ण्या इ॑न्द्रा॒ण्या ए॑काद॒शी । 22) ए॒का॒द॒ श्यदि॑त्या॒ अदि॑त्या एकाद॒ श्ये॑काद॒ श्यदि॑त्यै । 23) अदि॑त्यै द्वाद॒शी द्वा॑द॒ श्यदि॑त्या॒ अदि॑त्यै द्वाद॒शी । 24) द्वा॒द॒शी द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्यो-र्द्वा॑द॒शी द्वा॑द॒शी द्यावा॑पृथि॒व्योः । 25) द्यावा॑पृथि॒व्योः पा॒र्श्व-म्पा॒र्श्व-न्द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्योः पा॒र्श्वम् । 25) द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚ - पृ॒थि॒व्योः । 26) पा॒र्श्वं-यँ॒म्यै॑ य॒म्यै॑ पा॒र्श्व-म्पा॒र्श्वं-यँ॒म्यै᳚ । 27) य॒म्यै॑ पाटू॒रः पा॑टू॒रो य॒म्यै॑ य॒म्यै॑ पाटू॒रः । 28) पा॒टू॒र इति॑ पाटू॒रः । ॥ 54 ॥ (28/30) ॥ अ. 22 ॥
1) पन्था॑ मनू॒वृग्भ्या॑ मनू॒वृग्भ्या॒-म्पन्था॒-म्पन्था॑ मनू॒वृग्भ्या᳚म् । 2) अ॒नू॒वृग्भ्या॒ग्ं॒ सन्त॑ति॒ग्ं॒ सन्त॑ति मनू॒वृग्भ्या॑ मनू॒वृग्भ्या॒ग्ं॒ सन्त॑तिम् । 2) अ॒नू॒वृग्भ्या॒मित्य॑नू॒वृक् - भ्या॒म् । 3) सन्त॑तिग्ग् स्नाव॒न्या᳚भ्याग् स्नाव॒न्या᳚भ्या॒ग्ं॒ सन्त॑ति॒ग्ं॒ सन्त॑तिग्ग् स्नाव॒न्या᳚भ्याम् । 3) सन्त॑ति॒मिति॒ सं - त॒ति॒म् । 4) स्ना॒व॒न्या᳚भ्या॒ग्ं॒ शुका॒-ञ्छुका᳚-न्थ्स्नाव॒न्या᳚भ्याग् स्नाव॒न्या᳚भ्या॒ग्ं॒ शुकान्॑ । 5) शुका᳚-न्पि॒त्तेन॑ पि॒त्तेन॒ शुका॒-ञ्छुका᳚-न्पि॒त्तेन॑ । 6) पि॒त्तेन॑ हरि॒माणग्ं॑ हरि॒माण॑-म्पि॒त्तेन॑ पि॒त्तेन॑ हरि॒माण᳚म् । 7) ह॒रि॒माणं॑-यँ॒क्ना य॒क्ना ह॑रि॒माणग्ं॑ हरि॒माणं॑-यँ॒क्ना । 8) य॒क्ना हली᳚क्ष्णा॒न्॒. हली᳚क्ष्णान्. य॒क्ना य॒क्ना हली᳚क्ष्णान् । 9) हली᳚क्ष्णा-न्पापवा॒तेन॑ पापवा॒तेन॒ हली᳚क्ष्णा॒न्॒. हली᳚क्ष्णा-न्पापवा॒तेन॑ । 10) पा॒प॒वा॒तेन॑ कू॒श्मान् कू॒श्मा-न्पा॑पवा॒तेन॑ पापवा॒तेन॑ कू॒श्मान् । 10) पा॒प॒वा॒तेनेति॑ पाप - वा॒तेन॑ । 11) कू॒श्मा-ञ्छक॑भि॒-श्शक॑भिः कू॒श्मान् कू॒श्मा-ञ्छक॑भिः । 12) शक॑भि-श्शव॒र्ता-ञ्छ॑व॒र्ता-ञ्छक॑भि॒-श्शक॑भि-श्शव॒र्तान् । 12) शक॑भि॒रिति॒ शक॑ - भिः॒ । 13) श॒व॒र्ता नूव॑द्ध्ये॒नो व॑द्ध्येन शव॒र्ता-ञ्छ॑व॒र्ता नूव॑द्ध्येन । 14) ऊव॑द्ध्येन॒ शुन॒-श्शुन॒ ऊव॑द्ध्ये॒नो व॑द्ध्येन॒ शुनः॑ । 15) शुनो॑ वि॒शस॑नेन वि॒शस॑नेन॒ शुन॒-श्शुनो॑ वि॒शस॑नेन । 16) वि॒शस॑नेन स॒र्पा-न्थ्स॒र्पान्. वि॒शस॑नेन वि॒शस॑नेन स॒र्पान् । 16) वि॒शस॑ने॒नेति॑ वि - शस॑नेन । 17) स॒र्पान् ँलो॑हितग॒न्धेन॑ लोहितग॒न्धेन॑ स॒र्पा-न्थ्स॒र्पान् ँलो॑हितग॒न्धेन॑ । 18) लो॒हि॒त॒ग॒न्धेन॒ वयाग्ं॑सि॒ वयाग्ं॑सि लोहितग॒न्धेन॑ लोहितग॒न्धेन॒ वयाग्ं॑सि । 18) लो॒हि॒त॒ग॒न्धेनेति॑ लोहित - ग॒न्धेन॑ । 19) वयाग्ं॑सि पक्वग॒न्धेन॑ पक्वग॒न्धेन॒ वयाग्ं॑सि॒ वयाग्ं॑सि पक्वग॒न्धेन॑ । 20) प॒क्व॒ग॒न्धेन॑ पि॒पीलि॑काः पि॒पीलि॑काः पक्वग॒न्धेन॑ पक्वग॒न्धेन॑ पि॒पीलि॑काः । 20) प॒क्व॒ग॒न्धेनेति॑ पक्व - ग॒न्धेन॑ । 21) पि॒पीलि॑काः प्रशा॒देन॑ प्रशा॒देन॑ पि॒पीलि॑काः पि॒पीलि॑काः प्रशा॒देन॑ । 22) प्र॒शा॒देनेति॑ प्र - शा॒देन॑ । ॥ 55 ॥ (22/29) ॥ अ. 23 ॥
1) क्रमै॒ रत्यति॒ क्रमैः॒ क्रमै॒ रति॑ । 2) अत्य॑ क्रमी दक्रमी॒ दत्य त्य॑क्रमीत् । 3) अ॒क्र॒मी॒-द्वा॒जी वा॒ज्य॑ क्रमी दक्रमी-द्वा॒जी । 4) वा॒जी विश्वै॒-र्विश्वै᳚-र्वा॒जी वा॒जी विश्वैः᳚ । 5) विश्वै᳚-र्दे॒वै-र्दे॒वै-र्विश्वै॒-र्विश्वै᳚-र्दे॒वैः । 6) दे॒वै-र्य॒ज्ञियै᳚-र्य॒ज्ञियै᳚-र्दे॒वै-र्दे॒वै-र्य॒ज्ञियैः᳚ । 7) य॒ज्ञियै᳚-स्संविँदा॒न-स्सं॑विँदा॒नो य॒ज्ञियै᳚-र्य॒ज्ञियै᳚-स्संविँदा॒नः । 8) सं॒विँ॒दा॒न इति॑ सं - वि॒दा॒नः । 9) स नो॑ न॒-स्स स नः॑ । 10) नो॒ न॒य॒ न॒य॒ नो॒ नो॒ न॒य॒ । 11) न॒य॒ सु॒कृ॒तस्य॑ सुकृ॒तस्य॑ नय नय सुकृ॒तस्य॑ । 12) सु॒कृ॒तस्य॑ लो॒कम् ँलो॒कग्ं सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ लो॒कम् । 12) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । 13) लो॒क-न्तस्य॒ तस्य॑ लो॒कम् ँलो॒क-न्तस्य॑ । 14) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते । 15) ते॒ व॒यं-वँ॒य-न्ते॑ ते व॒यम् । 16) व॒यग्ग् स्व॒धया᳚ स्व॒धया॑ व॒यं-वँ॒यग्ग् स्व॒धया᳚ । 17) स्व॒धया॑ मदेम मदेम स्व॒धया᳚ स्व॒धया॑ मदेम । 17) स्व॒धयेति॑ स्व - धया᳚ । 18) म॒दे॒मेति॑ मदेम । ॥ 56 ॥ (18/20) ॥ अ. 24 ॥
1) द्यौ स्ते॑ ते॒ द्यौ-र्द्यौ स्ते᳚ । 2) ते॒ पृ॒ष्ठ-म्पृ॒ष्ठ-न्ते॑ ते पृ॒ष्ठम् । 3) पृ॒ष्ठ-म्पृ॑थि॒वी पृ॑थि॒वी पृ॒ष्ठ-म्पृ॒ष्ठ-म्पृ॑थि॒वी । 4) पृ॒थि॒वी स॒धस्थग्ं॑ स॒धस्थ॑-म्पृथि॒वी पृ॑थि॒वी स॒धस्थ᳚म् । 5) स॒धस्थ॑ मा॒त्मा ऽऽत्मा स॒धस्थग्ं॑ स॒धस्थ॑ मा॒त्मा । 5) स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । 6) आ॒त्मा ऽन्तरि॑क्ष म॒न्तरि॑क्ष मा॒त्मा ऽऽत्मा ऽन्तरि॑क्षम् । 7) अ॒न्तरि॑क्षग्ं समु॒द्र-स्स॑मु॒द्रो अ॒न्तरि॑क्ष म॒न्तरि॑क्षग्ं समु॒द्रः । 8) स॒मु॒द्रो योनि॒-र्योनि॑-स्समु॒द्र-स्स॑मु॒द्रो योनिः॑ । 9) योनि॒-स्सूर्य॒-स्सूर्यो॒ योनि॒-र्योनि॒-स्सूर्यः॑ । 10) सूर्य॑ स्ते ते॒ सूर्य॒-स्सूर्य॑ स्ते । 11) ते॒ चक्षु॒ श्चक्षु॑ स्ते ते॒ चक्षुः॑ । 12) चक्षु॒-र्वातो॒ वात॒ श्चक्षु॒ श्चक्षु॒-र्वातः॑ । 13) वातः॑ प्रा॒णः प्रा॒णो वातो॒ वातः॑ प्रा॒णः । 14) प्रा॒ण श्च॒न्द्रमा᳚ श्च॒न्द्रमाः᳚ प्रा॒णः प्रा॒ण श्च॒न्द्रमाः᳚ । 14) प्रा॒ण इति॑ प्र - अ॒नः । 15) च॒न्द्रमा॒-श्श्रोत्र॒ग्ग्॒ श्रोत्र॑-ञ्च॒न्द्रमा᳚ श्च॒न्द्रमा॒-श्श्रोत्र᳚म् । 16) श्रोत्र॒-म्मासा॒ मासा॒-श्श्रोत्र॒ग्ग्॒ श्रोत्र॒-म्मासाः᳚ । 17) मासा᳚श्च च॒ मासा॒ मासा᳚श्च । 18) चा॒र्ध॒मा॒सा अ॑र्धमा॒सा श्च॑ चार्धमा॒साः । 19) अ॒र्ध॒मा॒सा श्च॑ चार्धमा॒सा अ॑र्धमा॒सा श्च॑ । 19) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः । 20) च॒ पर्वा॑णि॒ पर्वा॑णि च च॒ पर्वा॑णि । 21) पर्वा᳚ण्यृ॒तव॑ ऋ॒तवः॒ पर्वा॑णि॒ पर्वा᳚ण्यृ॒तवः॑ । 22) ऋ॒तवो ऽङ्गा॒ न्यङ्गा᳚ न्यृ॒तव॑ ऋ॒तवो ऽङ्गा॑नि । 23) अङ्गा॑नि संवँथ्स॒र-स्सं॑वँथ्स॒रो ऽङ्गा॒ न्यङ्गा॑नि संवँथ्स॒रः । 24) सं॒वँ॒थ्स॒रो म॑हि॒मा म॑हि॒मा सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो म॑हि॒मा । 24) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 25) म॒हि॒मेति॑ महि॒मा । ॥ 57 ॥ (25/29) ॥ अ. 25 ॥
1) अ॒ग्निः प॒शुः प॒शु र॒ग्नि र॒ग्निः प॒शुः । 2) प॒शु रा॑सी दासी-त्प॒शुः प॒शु रा॑सीत् । 3) आ॒सी॒-त्तेन॒ तेना॑सी दासी॒-त्तेन॑ । 4) तेना॑ यजन्ता यजन्त॒ तेन॒ तेना॑ यजन्त । 5) अ॒य॒ज॒न्त॒ स सो॑ ऽयजन्ता यजन्त॒ सः । 6) स ए॒त मे॒तग्ं स स ए॒तम् । 7) ए॒तम् ँलो॒कम् ँलो॒क मे॒त मे॒तम् ँलो॒कम् । 8) लो॒क म॑जय दजय-ल्लो॒कम् ँलो॒क म॑जयत् । 9) अ॒ज॒य॒-द्यस्मि॒न्॒. यस्मि॑-न्नजय दजय॒-द्यस्मिन्न्॑ । 10) यस्मि॑-न्न॒ग्नि र॒ग्नि-र्यस्मि॒न्॒. यस्मि॑-न्न॒ग्निः । 11) अ॒ग्नि-स्स सो᳚ ऽग्नि र॒ग्नि-स्सः । 12) स ते॑ ते॒ स स ते᳚ । 13) ते॒ लो॒को लो॒क स्ते॑ ते लो॒कः । 14) लो॒क स्त-न्तम् ँलो॒को लो॒क स्तम् । 15) त-ञ्जे᳚ष्यसि जेष्यसि॒ त-न्त-ञ्जे᳚ष्यसि । 16) जे॒ष्य॒ स्यथाथ॑ जेष्यसि जेष्य॒स्यथ॑ । 17) अथावा वाथा थाव॑ । 18) अव॑ जिघ्र जि॒घ्रा वाव॑ जिघ्र । 19) जि॒घ्र॒ वा॒यु-र्वा॒यु-र्जि॑घ्र जिघ्र वा॒युः । 20) वा॒युः प॒शुः प॒शु-र्वा॒यु-र्वा॒युः प॒शुः । 21) प॒शु रा॑सी दासी-त्प॒शुः प॒शु रा॑सीत् । 22) आ॒सी॒-त्तेन॒ तेना॑सी दासी॒-त्तेन॑ । 23) तेना॑ यजन्ता यजन्त॒ तेन॒ तेना॑ यजन्त । 24) अ॒य॒ज॒न्त॒ स सो॑ ऽयजन्ता यजन्त॒ सः । 25) स ए॒त मे॒तग्ं स स ए॒तम् । 26) ए॒तम् ँलो॒कम् ँलो॒क मे॒त मे॒तम् ँलो॒कम् । 27) लो॒क म॑जय दजय-ल्लो॒कम् ँलो॒क म॑जयत् । 28) अ॒ज॒य॒-द्यस्मि॒न्॒. यस्मि॑-न्नजय दजय॒-द्यस्मिन्न्॑ । 29) यस्मि॑न् वा॒यु-र्वा॒यु-र्यस्मि॒न्॒. यस्मि॑न् वा॒युः । 30) वा॒यु-स्स स वा॒यु-र्वा॒यु-स्सः । 31) स ते॑ ते॒ स स ते᳚ । 32) ते॒ लो॒को लो॒क स्ते॑ ते लो॒कः । 33) लो॒क स्तस्मा॒-त्तस्मा᳚-ल्लो॒को लो॒क स्तस्मा᳚त् । 34) तस्मा᳚-त्त्वा त्वा॒ तस्मा॒-त्तस्मा᳚-त्त्वा । 35) त्वा॒ ऽन्त र॒न्त स्त्वा᳚ त्वा॒ ऽन्तः । 36) अ॒न्त रे᳚ष्या म्येष्या म्य॒न्त र॒न्त रे᳚ष्यामि । 37) ए॒ष्या॒मि॒ यदि॒ यद्ये᳚ष्या म्येष्यामि॒ यदि॑ । 38) यदि॒ न न यदि॒ यदि॒ न । 39) नाव॒जिघ्र॑ स्यव॒जिघ्र॑सि॒ न नाव॒जिघ्र॑सि । 40) अ॒व॒जिघ्र॑ स्यादि॒त्य आ॑दि॒त्यो॑ ऽव॒जिघ्र॑ स्यव॒जिघ्र॑ स्यादि॒त्यः । 40) अ॒व॒जिघ्र॒सीत्य॑व - जिघ्र॑सि । 41) आ॒दि॒त्यः प॒शुः प॒शु रा॑दि॒त्य आ॑दि॒त्यः प॒शुः । 42) प॒शु रा॑सी दासी-त्प॒शुः प॒शु रा॑सीत् । 43) आ॒सी॒-त्तेन॒ तेना॑सी दासी॒-त्तेन॑ । 44) तेना॑ यजन्ता यजन्त॒ तेन॒ तेना॑ यजन्त । 45) अ॒य॒ज॒न्त॒ स सो॑ ऽयजन्ता यजन्त॒ सः । 46) स ए॒त मे॒तग्ं स स ए॒तम् । 47) ए॒तम् ँलो॒कम् ँलो॒क मे॒त मे॒तम् ँलो॒कम् । 48) लो॒क म॑जय दजय-ल्लो॒कम् ँलो॒क म॑जयत् । 49) अ॒ज॒य॒-द्यस्मि॒न्॒. यस्मि॑-न्नजय दजय॒-द्यस्मिन्न्॑ । 50) यस्मि॑-न्नादि॒त्य आ॑दि॒त्यो यस्मि॒न्॒. यस्मि॑-न्नादि॒त्यः । 51) आ॒दि॒त्य-स्स स आ॑दि॒त्य आ॑दि॒त्य-स्सः । 52) स ते॑ ते॒ स स ते᳚ । 53) ते॒ लो॒को लो॒क स्ते॑ ते लो॒कः । 54) लो॒क स्त-न्तम् ँलो॒को लो॒क स्तम् । 55) त-ञ्जे᳚ष्यसि जेष्यसि॒ त-न्त-ञ्जे᳚ष्यसि । 56) जे॒ष्य॒सि॒ यदि॒ यदि॑ जेष्यसि जेष्यसि॒ यदि॑ । 57) यद्य॑व॒जिघ्र॑ स्यव॒जिघ्र॑सि॒ यदि॒ यद्य॑व॒जिघ्र॑सि । 58) अ॒व॒जिघ्र॒सीत्य॑व - जिघ्र॑सि । ॥ 58 ॥ (58, 59)
॥ अ. 26 ॥
Browse Related Categories: