Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ ॐ ओम् ... शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं
मनो बुध्यहंकार चित्तानि नाहं न च श्रोत्र जिह्वे न च घ्राणनेत्रे । न च व्योम भूमिर्न तेजो न वायुः चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 1 ॥ शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं
न च प्राण संज्ञो न वैपंचवायुः न वा सप्तधातुर्न वा पंचकोशाः । नवाक्पाणि पादौ न चोपस्थ पायू चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 2 ॥ शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं
न मे द्वेषरागौ न मे लोभमोहो मदो नैव मे नैव मात्सर्यभावः । न धर्मो न चार्धो न कामो न मोक्षः चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 3 ॥ शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं
न पुण्यं न पापं न सौख्यं न दुःखं न मंत्रो न तीर्थं न वेदा न यज्ञः । अहं भोजनं नैव भोज्यं न भोक्ता चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 4 ॥ शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं
न मृत्युर्न शंका न मे जाति भेदः पिता नैव मे नैव माता न जन्मः । न बंधुर्न मित्रं गुरुर्नैव शिष्यः चिदानंदरूपः शिवोऽहं शिवोऽहम् ॥ 5 ॥ शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं
अहं निर्विकल्पो निराकार रूपो विभूत्वाच्च सर्वत्र सर्वेंद्रियाणाम् । न चासंगतं नैव मुक्तिर्न मेयः [न वा बंधनं नैव मुक्तिर्न बंधः] चिदानंदरूपः शिवोऽहं शिवोऽहम् ॥ 6 ॥ शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं
Offered for worship and study, not as prediction. Non-commercial.
Browse Related Categories: