Ashtakams · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
रामानुजाय मुनये नम उक्ति मात्रं कामातुरोऽपि कुमतिः कलयन्नभीक्षम् । यामामनंति यमिनां भगवज्जनानां तामेव विंदति गतिं तमसः परस्तात् ॥ 1 ॥
सोमावचूडसुरशेखरदुष्करेण कामातिगोऽपि तपसा क्षपयन्नघानि । रामानुजाय मुनये नम इत्यनुक्त्वा कोवा महीसहचरे कुरुतेऽनुरागम् ॥ 2 ॥
रामानुजाय नम इत्यसकृद्गृणीते यो मान मात्सर मदस्मर दूषितोऽपि । प्रेमातुरः प्रियतमामपहाय पद्मां भूमा भुजंगशयनस्तमनुप्रयाति ॥ 3 ॥
वामालकानयनवागुरिकागृहीतं क्षेमाय किंचिदपि कर्तुमनीहमानम् । रामानुजो यतिपतिर्यदि नेक्षते मां मा मामकोऽयमिति मुंचति माधवोऽपि ॥ 4 ॥
रामानुजेति यदितं विदितं जगत्यां नामीपि न श्रुतिसमीपमुपैति येषाम् । मा मा मदीय इति सद्भिरुपेक्षितास्ते कामानुविद्धमनसो निपतंत्यधोऽधः ॥ 5 ॥
नामानुकीर्त्य नरकार्तिहरं यदीयं व्योमाधिरोहति पदं सकलोऽपि लोकः । रामानुजो यतिपतिर्यदि नाविरासीत् को मादृशः प्रभविता भवमुत्तरीतुम् ॥ 6 ॥
सीमामहीध्रपरिधिं पृथिवीमवाप्तुं वैमानिकेश्वरपुरीमधिवासितुं वा । व्योमाधिरोढुमपि न स्पृहयंति नित्यं रामानुजांघ्रियुगलं शरणं प्रपन्नाः ॥ 7 ॥
मा मा धुनोति मनसोऽपि न गोचरं यत् भूमासखेन पुरुषेण सहानुभूय । प्रेमानुविद्धहृदयप्रियभक्तलभ्ये रामानुजांघ्रिकमले रमतां मनो मे ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
श्लोकाष्टकमिदं पुण्यं यो भक्त्या प्रत्यहं पठेत् । आकारत्रयसंपन्नः शोकाब्धिं तरति द्रुतम् ॥
Browse Related Categories: