Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
प्रातस्स्मरामि गणनाथमनाथबंधुं सिंदूरपूरपरिशोभितगंडयुग्मम् । उद्दंडविघ्नपरिखंडनचंडदंड- माखंडलादिसुरनायकवृंदवंद्यम् ॥ 1॥
कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामास्तीकत्रिभुवनशिवाभ्यां हृदि पुन- र्भवाभ्यामानंदस्फुरदनुभवाभ्यां नतिरियम् ॥ 2॥
Offered for worship and study, not as prediction. Non-commercial.
नमस्ते नमस्ते महादेव! शंभो! नमस्ते नमस्ते दयापूर्णसिंधो! नमस्ते नमस्ते प्रपन्नात्मबंधो! नमस्ते नमस्ते नमस्ते महेश ॥ 3॥
शश्वच्छ्रीगिरिमूर्धनि त्रिजगतां रक्षाकृतौ लक्षितां साक्षादक्षतसत्कटाक्षसरणिश्रीमत्सुधावर्षिणीम् । सोमार्धांकितमस्तकां प्रणमतां निस्सीमसंपत्प्रदां सुश्लोकां भ्रमरांबिकां स्मितमुखीं शंभोस्सखीं त्वां स्तुमः ॥ 4॥
मातः! प्रसीद, सदया भव, भव्यशीले ! लीलालवाकुलितदैत्यकुलापहारे ! श्रीचक्रराजनिलये ! श्रुतिगीतकीर्ते ! श्रीशैलनाथदयिते ! तव सुप्रभातम् ॥ 5॥
शंभो ! सुरेंद्रनुत ! शंकर ! शूलपाणे ! चंद्रावतंस ! शिव ! शर्व ! पिनाकपाणे ! गंगाधर ! क्रतुपते ! गरुडध्वजाप्त ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 6॥
विश्वेश ! विश्वजनसेवित ! विश्वमूर्ते ! विश्वंभर ! त्रिपुरभेदन ! विश्वयोने ! फालाक्ष ! भव्यगुण ! भोगिविभूषणेश ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 7॥
कल्याणरूप ! करुणाकर ! कालकंठ ! कल्पद्रुमप्रसवपूजित ! कामदायिन् ! दुर्नीतिदैत्यदलनोद्यत ! देव देव ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 8॥
गौरीमनोहर ! गणेश्वरसेवितांघ्रे ! गंधर्वयक्षसुरकिन्नरगीतकीर्ते ! गंडावलंबिफणिकुंडलमंडितास्य ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 9॥
नागेंद्रभूषण ! निरीहित ! निर्विकार ! निर्माय ! निश्चल ! निरर्गल ! नागभेदिन् । नारायणीप्रिय ! नतेष्टद ! निर्मलात्मन् ! श्रीपर्वताधिप ! विभो ! तव सुप्रभातम् ॥ 10॥
सृष्टं त्वयैव जगदेतदशेषमीश ! रक्षाविधिश्च विधिगोचर ! तावकीनः । संहारशक्तिरपि शंकर ! किंकरी ते श्रीशैलशेखर विभो ! तव सुप्रभातम् ॥ 11॥
एकस्त्वमेव बहुधा भव ! भासि लोके निश्शंकधीर्वृषभकेतन ! मल्लिनाथ ! श्रीभ्रामरीप्रय ! सुखाश्रय ! लोकनाथ ! श्रीशैलशेखर विभो ! तव सुप्रभातम् ॥ 12॥
पातालगांगजलमज्जननिर्मलांगाः भस्मत्रिपुंड्रसमलंकृतफालभागाः । गायंति देवमुनिभक्तजना भवंतं श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 13॥
सारस्वतांबुयुतभोगवतीश्रितायाः ब्रह्मेशविष्णुगिरिचुंबितकृष्णवेण्याः । सोपानमार्गमधिरुह्य भजंति भक्ताः श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ 14॥
श्रीमल्लिकार्जुनमहेश्वरसुप्रभात- स्तोत्रं पठंति भुवि ये मनुजाः प्रभाते । ते सर्व सौख्यमनुभूय परानवाप्यं श्रीशांभवं पदमवाप्य मुदं लभंते ॥ 15॥
इति श्रीमल्लिकार्जुनसुप्रभातं संपूर्णम् ।
Browse Related Categories: