Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
व्यूहलक्ष्मी तंत्रः दयालोल तरंगाक्षी पूर्णचंद्र निभानना । जननी सर्वलोकानां महालक्ष्मीः हरिप्रिया ॥ 1 ॥
सर्वपाप हरासैव प्रारब्धस्यापि कर्मणः । संहृतौ तु क्षमासैव सर्व संपत्प्रदायिनी ॥ 2 ॥
तस्या व्यूह प्रभेदास्तु लक्षीः सर्वपाप प्रणाशिनी । तत्रया व्यूहलक्ष्मी सा मुग्धाः कारुण्य विग्रह ॥ 3 ॥
अनायासेन सा लक्ष्मीः सर्वपाप प्रणाशिनी । सर्वैश्वर्य प्रदा नित्यं तस्या मंत्रमिमं शृणु ॥ 4 ॥
वेदादिमायै मात्रे च लक्ष्म्यै नति पदं वदेत् । परमेति पदं चोक्त्रा लक्ष्म्या इति पदं ततः ॥ 5 ॥
विष्णु वक्षः स्थितायै स्यात् माया श्रीतारिका ततः । वह्नि जायांत मंत्रोयं अभीष्टार्थ सुरद्रुमः ॥ 6 ॥
द्विभूजा व्यूहलक्षीस्स्यात्, बध्ध पद्मासन प्रिया । श्रीनिवासांग मध्यस्था सुतरां केशवप्रिया ॥ 7 ॥
तामेव शरणं गछ्छ सर्वभावेन सत्वरम् । इति मंत्रं उपादिश्य ददृशे न कुत्रचित् ॥
व्यूहलक्ष्मी मंत्रः वेदादिमायै मात्रे च लक्ष्म्यै नति पदं वदेत् । परमेति पदं चोक्त्रा लक्ष्म्या इति पदं ततः ॥
Offered for worship and study, not as prediction. Non-commercial.
विष्णु वक्षः स्थितायै स्यात् माया श्रीतारिका ततः । वह्नि जायांत मंत्रोयं अभीष्टार्थ सुरद्रुमः ॥
व्यूहलक्ष्मी मंत्रः (बीजाक्षर सहितम्) ॐ श्री ॐ नमः ॥ परमलक्ष्म्मै, विष्णु-वक्षस्थितायै, रमायै, आश्रित-तारकायै नमो, वह्निजायै नमः ॥
Browse Related Categories: