Vidura Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः ॥
विदुर उवाच
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
योऽभ्यर्थितः सद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा । क्षिप्रं यशस्तं समुपैति संतमलं प्रसन्ना हि सुखाय संतः ॥ 1॥
महांतमप्यर्थमधर्मयुक्तं यः संत्यजत्यनुपाक्रुष्ट एव । सुखं स दुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ 2॥
अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीक निर्बंधः समानि ब्रह्महत्यया ॥ 3॥
असूयैक पदं मृत्युरतिवादः श्रियो वधः । अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥ 4॥
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् । सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् ॥ 5॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नांतकः सर्वभूतानां न पुंसां वामलोचना ॥ 6॥
आशा धृतिं हंति समृद्धिमंतकः क्रोधः श्रियं हंति यशः कदर्यता । अपालनं हंति पशूंश्च राजन्न् एकः क्रुद्धो ब्राह्मणो हंति राष्ट्रम् ॥ 7॥
अजश्च कांस्यं च रथश्च नित्यं मध्वाकर्षः शकुनिः श्रोत्रियश् च । वृद्धो ज्ञातिरवसन्नो वयस्य एतानि ते संतु गृहे सदैव ॥ 8॥
अजोक्षा चंदनं वीणा आदर्शो मधुसर्पिषी । विषमौदुंबरं शंखः स्वर्णं नाभिश्च रोचना ॥ 9॥
गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् । देव ब्राह्मण पूजार्थमतिथीनां च भारत ॥ 10॥
इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम् । न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः ॥ 11॥
नित्यो धर्मः सुखदुःखे त्वनित्ये नित्यो जीवो धातुरस्य त्वनित्यः । त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये संतुष्य त्वं तोष परो हि लाभः ॥ 12॥
महाबलान्पश्य मनानुभावान् प्रशास्य भूमिं धनधान्य पूर्णाम् । राज्यानि हित्वा विपुलांश्च भोगान् गतान्नरेंद्रान्वशमंतकस्य ॥ 13॥
मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन्स्वगृहान्निर्हरंति । तं मुक्तकेशाः करुणं रुदंतश् चितामध्ये काष्ठमिव क्षिपंति ॥ 14॥
अन्यो धनं प्रेतगतस्य भुंक्ते वयांसि चाग्निश्च शरीरधातून् । द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥ 15॥
उत्सृज्य विनिवर्तंते ज्ञातयः सुहृदः सुताः । अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ॥ 16॥
अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यंधकारम् । तद्वै महामोहनमिंद्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन् ॥ 17॥
इदं वचः शक्ष्यसि चेद्यथावन् निशम्य सर्वं प्रतिपत्तुमेवम् । यशः परं प्राप्स्यसि जीवलोके भयं न चामुत्र न चेह तेऽस्ति ॥ 18॥
आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दमोर्मिः । तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमंभोऽंभ एव ॥ 19॥
कामक्रोधग्राहवतीं पंचेंद्रिय जलां नदीम् । कृत्वा धृतिमयीं नावं जन्म दुर्गाणि संतर ॥ 20॥
प्रज्ञा वृद्धं धर्मवृद्धं स्वबंधुं विद्या वृद्धं वयसा चापि वृद्धम् । कार्याकार्ये पूजयित्वा प्रसाद्य यः संपृच्छेन्न स मुह्येत्कदा चित् ॥ 21॥
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा । चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ 22॥
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्न वर्जी । ऋतं ब्रुवन्गुरवे कर्म कुर्वन् न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ 23॥
अधीत्य वेदान्परिसंस्तीर्य चाग्नीन् इष्ट्वा यज्ञैः पालयित्वा प्रजाश् च । गोब्राह्मणार्थे शस्त्रपूतांतरात्मा हतः संग्रामे क्षत्रियः स्वर्गमेति ॥ 24॥
वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश् च धनैः काले संविभज्याश्रितांश् च । त्रेता पूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे देव सुखानि भुंक्ते ॥ 25॥
ब्रह्मक्षत्रं वैश्य वर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः । तुष्टेष्वेतेष्वव्यथो दग्धपापस् त्यक्त्वा देहं स्वर्गसुखानि भुंक्ते ॥ 26॥
चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चात्र ब्रुवतो मे निबोध । क्षात्राद्धर्माद्धीयते पांडुपुत्रस् तं त्वं राजन्राजधर्मे नियुंक्ष्व ॥ 27॥
धृतराष्ट्र उवाच
एवमेतद्यथा मां त्वमनुशासति नित्यदा । ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ 28॥
सा तु बुद्दिः कृताप्येवं पांडवान्रप्ति मे सदा । दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ 29॥
न दिष्टमभ्यतिक्रांतुं शक्यं मर्त्येन केन चित् । दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् ॥ 30॥
॥ इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः ॥ 40॥
इति विदुर नीति समाप्ता ॥
Browse Related Categories: