Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
विरिंच्यादिभिः पंचभिर्लोकपालैः समूढे महानंदपीठे निषण्णम् । धनुर्बाणपाशांकुशप्रोतहस्तं महस्त्रैपुरं शंकराद्वैतमव्यात् ॥ 1 ॥
यदन्नादिभिः पंचभिः कोशजालैः शिरःपक्षपुच्छात्मकैरंतरंतः । निगूढे महायोगपीठे निषण्णं पुरारेरथांतःपुरं नौमि नित्यम् ॥ 2 ॥
विरिंचादिरूपैः प्रपंचे विहृत्य स्वतंत्रा यदा स्वात्मविश्रांतिरेषा । तदा मानमातृप्रमेयातिरिक्तं परानंदमीडे भवानि त्वदीयम् ॥ 3 ॥
विनोदाय चैतन्यमेकं विभज्य द्विधा देवि जीवः शिवश्चेति नाम्ना । शिवस्यापि जीवत्वमापादयंती पुनर्जीवमेनं शिवं वा करोषि ॥ 4 ॥
समाकुंच्य मूलं हृदि न्यस्य वायुं मनो भ्रूबिलं प्रापयित्वा निवृत्ताः । ततः सच्चिदानंदरूपे पदे ते भवंत्यंब जीवाः शिवत्वेन केचित् ॥ 5 ॥
शरीरेऽतिकष्टे रिपौ पुत्रवर्गे सदाभीतिमूले कलत्रे धने वा । न कश्चिद्विरज्यत्यहो देवि चित्रं कथं त्वत्कटाक्षं विना तत्त्वबोधः ॥ 6 ॥
शरीरे धनेऽपत्यवर्गे कलत्रे विरक्तस्य सद्देशिकादिष्टबुद्धेः । यदाकस्मिकं ज्योतिरानंदरूपं समाधौ भवेत्तत्त्वमस्यंब सत्यम् ॥ 7 ॥
मृषान्यो मृषान्यः परो मिश्रमेनं परः प्राकृतं चापरो बुद्धिमात्रम् । प्रपंचं मिमीते मुनीनां गणोऽयं तदेतत्त्वमेवेति न त्वां जहीमः ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
निवृत्तिः प्रतिष्ठा च विद्या च शांति- स्तथा शांत्यतीतेति पंचीकृताभिः । कलाभिः परे पंचविंशात्मिकाभि- स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥ 9 ॥
अगाधेऽत्र संसारपंके निमग्नं कलत्रादिभारेण खिन्नं नितांतम् । महामोहपाशौघबद्धं चिरान्मां समुद्धर्तुमंब त्वमेकैव शक्ता ॥ 10 ॥
समारभ्य मूलं गतो ब्रह्मचक्रं भवद्दिव्यचक्रेश्वरीधामभाजः । महासिद्धिसंघातकल्पद्रुमाभा- नवाप्यांब नादानुपास्ते च योगी ॥ 11 ॥
गणेशैर्ग्रहैरंब नक्षत्रपंक्त्या तथा योगिनीराशिपीठैरभिन्नम् । महाकालमात्मानमामृश्य लोकं विधत्से कृतिं वा स्थितिं वा महेशि ॥ 12 ॥
लसत्तारहारामतिस्वच्छचेलां वहंतीं करे पुस्तकं चाक्षमालाम् । शरच्चंद्रकोटिप्रभाभासुरां त्वां सकृद्भावयन्भारतीवल्लभः स्यात् ॥ 13 ॥
समुद्यत्सहस्रार्कबिंबाभवक्त्रां स्वभासैव सिंदूरिताजांडकोटिम् । धनुर्बाणपाशांकुशांधारयंतीं स्मरंतः स्मरं वापि संमोहयेयुः ॥ 14 ॥
मणिस्यूतताटंकशोणास्यबिंबां हरित्पट्टवस्त्रां त्वगुल्लासिभूषाम् । हृदा भावयंस्तप्तहेमप्रभां त्वां श्रियो नाशयत्यंब चांचल्यभावम् ॥ 15 ॥
महामंत्रराजांतबीजं पराख्यं स्वतो न्यस्तबिंदु स्वयं न्यस्तहार्दम् । भवद्वक्त्रवक्षोजगुह्याभिधानं स्वरूपं सकृद्भावयेत्स त्वमेव ॥ 16 ॥
तथान्ये विकल्पेषु निर्विण्णचित्ता- स्तदेकं समाधाय बिंदुत्रयं ते । परानंदसंधानसिंधौ निमग्नाः पुनर्गर्भरंध्रं न पश्यंति धीराः ॥ 17 ॥
त्वदुन्मेषलीलानुबंधाधिकारा- न्विरिंच्यादिकांस्त्वद्गुणांभोधिबिंदून् । भजंतस्तितीर्षंति संसारसिंधुं शिवे तावकीना सुसंभावनेयम् ॥ 18 ॥
कदा वा भवत्पादपोतेन तूर्णं भवांभोधिमुत्तीर्य पूर्णांतरंगः । निमज्जंतमेनं दुराशाविषाब्धौ समालोक्य लोकं कथं पर्युदास्से ॥ 19 ॥
कदावा हृषीकाणि साम्यं भजेयुः कदा वा न शत्रुर्न मित्रं भवानि । कदा वा दुराशाविषूचीविलोपः कदा वा मनो मे समूलं विनश्येत् ॥ 20 ॥
नमोवाकमाशास्महे देवि युष्म- त्पदांभोजयुग्माय तिग्माय गौरि । विरिंच्यादिभास्वत्किरीटप्रतोली- प्रदीपायमानप्रभाभास्वराय ॥ 21 ॥
कचे चंद्ररेखं कुचे तारहारं करे स्वादुचापं शरे षट्पदौघम् । स्मरामि स्मरारेरभिप्रायमेकं मदाघूर्णनेत्रं मदीयं निधानम् ॥ 22 ॥
शरेष्वेव नासा धनुष्वेव जिह्वा जपापाटले लोचने ते स्वरूपे । त्वगेषा भवच्चंद्रखंडे श्रवो मे गुणे ते मनोवृत्तिरंब त्वयि स्यात् ॥ 23 ॥
जगत्कर्मधीरान्वचोधूतकीरान् कुचन्यस्तहारांकृपासिंधुपूरान् । भवांभोधिपारान्महापापदूरान् भजे वेदसारांशिवप्रेमदारान् ॥ 24 ॥
सुधासिंधुसारे चिदानंदनीरे समुत्फुल्लनीपे सुरत्रांतरीपे । मणिव्यूहसाले स्थिते हैमशाले मनोजारिवामे निषण्णं मनो मे ॥ 25 ॥
दृगंते विलोला सुगंधीषुमाला प्रपंचेंद्रजाला विपत्सिंधुकूला । मुनिस्वांतशाला नमल्लोकपाला हृदि प्रेमलोलामृतस्वादुलीला ॥ 26 ॥
जगज्जालमेतत्त्वयैवांब सृष्टं त्वमेवाद्य यासींद्रियैरर्थजालम् । त्वमेकैव कर्त्री त्वमेकैव भोक्त्री न मे पुण्यपापे न मे बंधमोक्षौ ॥ 27 ॥
इति प्रेमभारेण किंचिन्मयोक्तं न बुध्वैव तत्त्वं मदीयं त्वदीयम् । विनोदाय बालस्य मौर्ख्यं हि मातस्- तदेतत्प्रलापस्तुतिं मे गृहाण ॥ 28 ॥
॥ इति श्रीमच्छंकराचार्यविरचिता देवीभुजंगं संपूर्णम् ॥
Browse Related Categories: