Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ नमश्चंडिकायै
न्यासः अस्य श्री चंडी कवचस्य । ब्रह्मा ऋषिः । अनुष्टुप् छंदः । चामुंडा देवता । अंगन्यासोक्त मातरो बीजम् । नवावरणो मंत्रशक्तिः । दिग्बंध देवताः तत्वम् । श्री जगदंबा प्रीत्यर्थे सप्तशती पाठांगत्वेन जपे विनियोगः ॥ ॐ नमश्चंडिकायै
मार्कंडेय उवाच
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ 1
ब्रह्मोवाच । अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ 2 ॥
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । तृतीयं चंद्रघंटेति कूष्मांडेति चतुर्थकम् ॥ 3 ॥
पंचमं स्कंदमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ 4 ॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ 5 ॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे । विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ 6 ॥
Offered for worship and study, not as prediction. Non-commercial.
न तेषां जायते किंचिदशुभं रणसंकटे । नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ 7 ॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते । ये त्वां स्मरंति देवेशि रक्षसे तान्नसंशयः ॥ 8 ॥
प्रेतसंस्था तु चामुंडा वाराही महिषासना । ऐंद्री गजसमारूढा वैष्णवी गरुडासना ॥ 9 ॥
माहेश्वरी वृषारूढा कौमारी शिखिवाहना । लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ 10 ॥
श्वेतरूपधरा देवी ईश्वरी वृषवाहना । ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ 11 ॥
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः । नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ॥ 12 ॥
दृश्यंते रथमारूढा देव्यः क्रोधसमाकुलाः । शंखं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ 13 ॥
खेटकं तोमरं चैव परशुं पाशमेव च । कुंतायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ 14 ॥
दैत्यानां देहनाशाय भक्तानामभयाय च । धारयंत्यायुधानीत्थं देवानां च हिताय वै ॥ 15 ॥
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे । महाबले महोत्साहे महाभयविनाशिनि ॥ 16 ॥
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि । प्राच्यां रक्षतु मामैंद्री आग्नेय्यामग्निदेवता ॥ 17 ॥
दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी । प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ 18 ॥
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी । ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ 19 ॥
एवं दश दिशो रक्षेच्चामुंडा शववाहना । जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ 20 ॥
अजिता वामपार्श्वे तु दक्षिणे चापराजिता । शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ 21 ॥
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी । त्रिनेत्रा च भ्रुवोर्मध्ये यमघंटा च नासिके ॥ 22 ॥
शंखिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी । कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी ॥ 23 ॥
नासिकायां सुगंधा च उत्तरोष्ठे च चर्चिका । अधरे चामृतकला जिह्वायां च सरस्वती ॥ 24 ॥
दंतान् रक्षतु कौमारी कंठदेशे तु चंडिका । घंटिकां चित्रघंटा च महामाया च तालुके ॥ 25 ॥
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमंगला । ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ 26 ॥
नीलग्रीवा बहिः कंठे नलिकां नलकूबरी । स्कंधयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ॥ 27 ॥
हस्तयोर्दंडिनी रक्षेदंबिका चांगुलीषु च । नखांछूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥ 28 ॥
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी । हृदये ललिता देवी उदरे शूलधारिणी ॥ 29 ॥
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा । पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ 30 ॥
कट्यां भगवती रक्षेज्जानुनी विंध्यवासिनी । जंघे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ 31 ॥
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी । पादांगुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ 32 ॥
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी । रोमकूपेषु कौमारी त्वचं वागीश्वरी तथा ॥ 33 ॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती । अंत्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ 34 ॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा । ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु ॥ 35 ॥
शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा । अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ 36 ॥
प्राणापानौ तथा व्यानमुदानं च समानकम् । वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ 37 ॥
रसे रूपे च गंधे च शब्दे स्पर्शे च योगिनी । सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ 38 ॥
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी । यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ 39 ॥
गोत्रमिंद्राणि! मे रक्षेत्पशून्मे रक्ष चंडिके । पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ 40 ॥
पंथानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा । राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ 41 ॥
रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु । तत्सर्वं रक्ष मे देवि! जयंती पापनाशिनी ॥ 42 ॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः । कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ 43 ॥
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः । यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम् ॥ 44 ॥
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् । निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥ 45 ॥
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् । इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ 46 ॥
यः पठेत्प्रयतो नित्यं त्रिसंध्यं श्रद्धयान्वितः । दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः । 47 ॥
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः । नश्यंति व्याधयः सर्वे लूताविस्फोटकादयः ॥ 48 ॥
स्थावरं जंगमं चैव कृत्रिमं चैव यद्विषम् । अभिचाराणि सर्वाणि मंत्रयंत्राणि भूतले ॥ 49 ॥
भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः । सहजा कुलजा माला डाकिनी शाकिनी तथा ॥ 50 ॥
अंतरिक्षचरा घोरा डाकिन्यश्च महाबलाः । ग्रहभूतपिशाचाश्च यक्षगंधर्वराक्षसाः ॥ 51 ॥
ब्रह्मराक्षसवेतालाः कूष्मांडा भैरवादयः । नश्यंति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ 52 ॥
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् । यशसा वर्धते सोऽपि कीर्तिमंडितभूतले ॥ 53 ॥
जपेत्सप्तशतीं चंडीं कृत्वा तु कवचं पुरा । यावद्भूमंडलं धत्ते सशैलवनकाननम् ॥ 54 ॥
तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी । देहांते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ 55 ॥
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः । लभते परमं रूपं शिवेन सह मोदते ॥ 56 ॥
॥ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं संपूर्णम् ॥
Browse Related Categories: