Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ॥
ध्यानं कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेंदु रेखां शंख-चक्रं कृपाणं त्रिशिखमपि करै-रुद्वहंतीं त्रिनेऱ्त्रम् । सिंह स्कंदाधिरूढां त्रिभुवन-मखिलं तेजसा पूरयंतीं ध्याये-द्दुर्गां जयाख्यां त्रिदश-परिवृतां सेवितां सिद्धि कामैः ॥
Offered for worship and study, not as prediction. Non-commercial.
ऋषिरुवाच
1
शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिंदुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ 2 ॥
देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या । तामंबिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातुशुभानि सा नः ॥3॥
यस्याः प्रभावमतुलं भगवाननंतो ब्रह्मा हरश्च नहि वक्तुमलं बलं च । सा चंडिकाऽखिल जगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥4॥
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्था सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥5॥
किं वर्णयाम तवरूप मचिंत्यमेतत् किंचातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवात्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु । ॥6॥
हेतुः समस्तजगतां त्रिगुणापि दोषैः न ज्ञायसे हरिहरादिभिरव्यपारा । सर्वाश्रयाखिलमिदं जगदंशभूतं अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥6॥
यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि । स्वाहासि वै पितृ गणस्य च तृप्ति हेतु रुच्चार्यसे त्वमत एव जनैः स्वधाच ॥8॥
या मुक्तिहेतुरविचिंत्य महाव्रता त्वं अभ्यस्यसे सुनियतेंद्रियतत्वसारैः । मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै र्विद्याऽसि सा भगवती परमा हि देवि ॥9॥
शब्दात्मिका सुविमलर्ग्यजुषां निधानं मुद्गीथरम्यपदपाठवतां च साम्नाम् । देवी त्रयी भगवती भवभावनाय वार्तासि सर्व जगतां परमार्तिहंत्री ॥10॥
मेधासि देवि विदिताखिलशास्त्रसारा दुर्गाऽसि दुर्गभवसागरसनौरसंगा । श्रीः कैट भारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृत प्रतिष्ठा ॥11॥
ईषत्सहासममलं परिपूर्ण चंद्र बिंबानुकारि कनकोत्तमकांतिकांतम् । अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण ॥12॥
दृष्ट्वातु देवि कुपितं भ्रुकुटीकराल मुद्यच्छशांकसदृशच्छवि यन्न सद्यः । प्राणान् मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितांतकदर्शनेन । ॥13॥
देविप्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि । विज्ञातमेतदधुनैव यदस्तमेतत् न्नीतं बलं सुविपुलं महिषासुरस्य ॥14॥
ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः । धन्यास्तएव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना॥15॥
धर्म्याणि देवि सकलानि सदैव कर्मानि ण्यत्यादृतः प्रतिदिनं सुकृती करोति । स्वर्गं प्रयाति च ततो भवती प्रसादा ल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥16॥
दुर्गे स्मृता हरसि भीति मशेश जंतोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॥17॥
एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वंतु नाम नरकाय चिराय पापम् । संग्राममृत्युमधिगम्य दिवंप्रयांतु मत्वेति नूनमहितान्विनिहंसि देवि ॥18॥
दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् । लोकान्प्रयांतु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वहि तेऽषुसाध्वी ॥19॥
खड्ग प्रभानिकरविस्फुरणैस्तधोग्रैः शूलाग्रकांतिनिवहेन दृशोऽसुराणाम् । यन्नागता विलयमंशुमदिंदुखंड योग्याननं तव विलोक यतां तदेतत् ॥20॥
दुर्वृत्त वृत्त शमनं तव देवि शीलं रूपं तथैतदविचिंत्यमतुल्यमन्यैः । वीर्यं च हंतृ हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥21॥
केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शतृभय कार्यतिहारि कुत्र । चित्तेकृपा समरनिष्टुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥22॥
त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा । नीता दिवं रिपुगणा भयमप्यपास्तं अस्माकमुन्मदसुरारिभवं नमस्ते ॥23॥
शूलेन पाहि नो देवि पाहि खड्गेन चांभिके । घंटास्वनेन नः पाहि चापज्यानिस्वनेन च ॥24॥
प्राच्यां रक्ष प्रतीच्यां च चंडिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी॥25॥
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरंतिते । यानि चात्यंत घोराणि तैरक्षास्मांस्तथाभुवम् ॥26॥
खड्गशूलगदादीनि यानि चास्त्राणि तेऽंबिके । करपल्लवसंगीनि तैरस्मान्रक्ष सर्वतः ॥27॥
ऋषिरुवाच
28
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नंदनोद्भवैः । अर्चिता जगतां धात्री तथा गंधानु लेपनैः ॥29॥
भक्त्या समस्तैस्रि शैर्दिव्यैर्धूपैः सुधूपिता । प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्। ॥30॥
देव्युवाच
31
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवांछितम् ॥32॥
देवा ऊचु ॥33॥
भगवत्या कृतं सर्वं न किंचिदवशिष्यते । यदयं निहतः शत्रु रस्माकं महिषासुरः ॥34॥
यदिचापि वरो देय स्त्वयाऽस्माकं महेश्वरि । संस्मृता संस्मृता त्वं नो हिं सेथाःपरमापदः॥35॥
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने । तस्य वित्तर्द्धिविभवैर्धनदारादि संपदाम् ॥36॥
वृद्दयेऽ स्मत्प्रसन्ना त्वं भवेथाः सर्वदांभिके ॥37॥
ऋषिरुवाच
38
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः । तथेत्युक्त्वा भद्रकाली बभूवांतर्हिता नृप ॥39॥
इत्येतत्कथितं भूप संभूता सा यथापुरा । देवी देवशरीरेभ्यो जगत्प्रयहितैषिणी ॥40॥
पुनश्च गौरी देहात्सा समुद्भूता यथाभवत् । वधाय दुष्ट दैत्यानां तथा शुंभनिशुंभयोः ॥41॥
रक्षणाय च लोकानां देवानामुपकारिणी । तच्छृ णुष्व मयाख्यातं यथावत्कथयामिते ह्रीं ॐ ॥42॥
॥ जय जय श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः समाप्तम् ॥
आहुति ह्रीं जयंती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥
Browse Related Categories: