Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
विश्वामित्रतपःफलां प्रियतरां विप्रालिसंसेवितां नित्यानित्यविवेकदां स्मितमुखीं खंडेंदुभूषोज्ज्वलाम् । तांबूलारुणभासमानवदनां मार्तांडमध्यस्थितां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 1 ॥
जातीपंकजकेतकीकुवलयैः संपूजितांघ्रिद्वयां तत्त्वार्थात्मिकवर्णपंक्तिसहितां तत्त्वार्थबुद्धिप्रदाम् । प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 2 ॥
मंजीरध्वनिभिः समस्तजगतां मंजुत्वसंवर्धनीं विप्रप्रेंखितवारिवारितमहारक्षोगणां मृण्मयीम् । जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 3 ॥
कांचीचेलविभूषितां शिवमयीं मालार्धमालादिका- -न्बिभ्राणां परमेश्वरीं शरणदां मोहांधबुद्धिच्छिदाम् । भूरादित्रिपुरां त्रिलोकजननीमध्यात्मशाखानुतां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 4 ॥
ध्यातुर्गर्भकृशानुतापहरणां सामात्मिकां सामगां सायंकालसुसेवितां स्वरमयीं दूर्वादलश्यामलाम् । मातुर्दास्यविलोचनैकमतिमत्खेटींद्रसंराजितां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 5 ॥
संध्यारागविचित्रवस्त्रविलसद्विप्रोत्तमैः सेवितां ताराहारसुमालिकां सुविलसद्रत्नेंदुकुंभांतराम् । राकाचंद्रमुखीं रमापतिनुतां शंखादिभास्वत्करां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 6 ॥
वेणीभूषितमालकध्वनिकरैर्भृंगैः सदा शोभितां तत्त्वज्ञानरसायनज्ञरसनासौधभ्रमद्भ्रामरीम् । नासालंकृतमौक्तिकेंदुकिरणैः सायंतमश्छेदिनीं गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
पादाब्जांतररेणुकुंकुमलसत्फालद्युरामावृतां रंभानाट्यविलोकनैकरसिकां वेदांतबुद्धिप्रदाम् । वीणावेणुमृदंगकाहलरवान् देवैः कृतांछृण्वतीं गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 8 ॥
हत्यापानसुवर्णतस्करमहागुर्वंगनासंगमा- -ंदोषांछैलसमान् पुरंदरसमाः संच्छिद्य सूर्योपमाः । गायत्रीं श्रुतिमातुरेकमनसा संध्यासु ये भूसुरा जप्त्वा यांति परां गतिं मनुमिमं देव्याः परं वैदिकाः ॥ 9 ॥
इति श्रीमच्छंकराचार्य विरचितं श्री गायत्र्यष्टकम् ।
Browse Related Categories: