Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ द्वितीयः सर्गः ॥ ॥ अक्लेशकेशवः ॥
विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः । क्वचिदपि लताकुंजे गुंजन्मधुव्रतमंडली-मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ 14 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
॥ गीतं 5 ॥
संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् । चलितदृगंचलचंचलमौलिकपोलविलोलवतंसम् ॥ रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥ 1 ॥
चंद्रकचारुमयूरशिखंडकमंडलवलयितकेशम् । प्रचुरपुरंदरधनुरनुरंजितमेदुरमुदिरसुवेशम् ॥ 2 ॥
गोपकदंबनितंबवतीमुखचुंबनलंभितलोभम् । बंधुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ 3 ॥
विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् । करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ 4 ॥
जलदपटलवलदिंदुविनंदकचंदनतिलकललाटम् । पीनपयोधरपरिसरमर्दननिर्दयहृदयकवाटम् ॥ 5 ॥
मणिमयमकरमनोहरकुंडलमंडितगंडमुदारम् । पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ 6 ॥
विशदकदंबतले मिलितं कलिकलुषभयं शमयंतम् । मामपि किमपि तरंगदनंगदृशा मनसा रमयंतम् ॥ 7 ॥
श्रीजयदेवभणितमतिसुंदरमोहनमधुरिपुरूपम् । हरिचरणस्मरणं प्रति संप्रति पुण्यवतामनुरूपम् ॥ 8 ॥
गणयति गुणग्रामं भामं भ्रमादपि नेहते वहति च परितोषं दोषं विमुंचति दूरतः । युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥ 15 ॥
॥ गीतं 6 ॥
निभृतनिकुंजगृहं गतया निशि रहसि निलीय वसंतम् । चकितविलोकितसकलदिशा रतिरभसरसेन हसंतम् ॥ सखि हे केशिमथनमुदारं रमय मया सह मदनमनोरथभावितया सविकारम् ॥ 1 ॥
प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् । मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् ॥ 2 ॥
किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् । कृतपरिरंभणचुंबनया परिरभ्य कृताधरपानम् ॥ 3 ॥
अलसनिमीलितलोचनया पुलकावलिललितकपोलम् । श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥ 4 ॥
कोकिलकलरवकूजितया जितमनसिजतंत्रविचारम् । श्लथकुसुमाकुलकुंतलया नखलिखितघनस्तनभारम् ॥ 5 ॥
चरणरणितमनिनूपुरया परिपूरितसुरतवितानम् । मुखरविशृंखलमेखलया सकचग्रहचुंबनदानम् ॥ 6 ॥
रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् । निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ 7 ॥
श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् । सुखमुत्कंठितगोपवधूकथितं वितनोतु सलीलम् ॥ 8 ॥
हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी-वृंदोत्सारिदृगंतवीक्षितमतिस्वेदार्द्रगंडस्थलम् । मामुद्वीक्ष्य विलक्षितं स्मितसुधामुग्धाननं कानने गोविंदं व्रजसुंदरीगणवृतं पश्यामि हृष्यामि च ॥ 16 ॥
दुरालोकस्तोकस्तबकनवकाशोकलतिका-विकासः कासारोपवनपवनोऽपि व्यथयति । अपि भ्राम्यद्भृंगीरणितरमणीया न मुकुल-प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ 17 ॥
॥ इति गीतगोविंदे अक्लेशकेशवो नाम द्वितीयः सर्गः ॥
Browse Related Categories: