Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
कल्याणवृष्टिभिरिवामृतपूरिताभि- -र्लक्ष्मीस्वयंवरणमंगलदीपिकाभिः । सेवाभिरंब तव पादसरोजमूले नाकारि किं मनसि भाग्यवतां जनानाम् ॥ 1 ॥
एतावदेव जननि स्पृहणीयमास्ते त्वद्वंदनेषु सलिलस्थगिते च नेत्रे । सांनिध्यमुद्यदरुणायुतसोदरस्य त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ 2 ॥
ईशत्वनामकलुषाः कति वा न संति ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः । एकः स एव जननि स्थिरसिद्धिरास्ते यः पादयोस्तव सकृत्प्रणतिं करोति ॥ 3 ॥
लब्ध्वा सकृत्त्रिपुरसुंदरि तावकीनं कारुण्यकंदलितकांतिभरं कटाक्षम् । कंदर्पकोटिसुभगास्त्वयि भक्तिभाजः संमोहयंति तरुणीर्भुवनत्रयेऽपि ॥ 4 ॥
ह्रींकारमेव तव नाम गृणंति वेदा मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे । त्वत्संस्मृतौ यमभटाभिभवं विहाय दीव्यंति नंदनवने सह लोकपालैः ॥ 5 ॥
हंतुः पुरामधिगलं परिपीयमानः क्रूरः कथं न भविता गरलस्य वेगः । नाश्वासनाय यदि मातरिदं तवार्थं देहस्य शश्वदमृताप्लुतशीतलस्य ॥ 6 ॥
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते देवि त्वदंघ्रिसरसीरुहयोः प्रणामः । किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं द्वे चामरे च महतीं वसुधां ददाति ॥ 7 ॥
कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरंब भवात्कटाक्षैः । आलोकय त्रिपुरसुंदरि मामनाथं त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
हंतेतरेष्वपि मनांसि निधाय चान्ये भक्तिं वहंति किल पामरदैवतेषु । त्वामेव देवि मनसा समनुस्मरामि त्वामेव नौमि शरणं जननि त्वमेव ॥ 9 ॥
लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना- -मालोकय त्रिपुरसुंदरि मां कदाचित् । नूनं मया तु सदृशः करुणैकपात्रं जातो जनिष्यति जनो न च जायते वा ॥ 10 ॥
ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां किं नाम दुर्लभमिह त्रिपुराधिवासे । मालाकिरीटमदवारणमाननीया तान्सेवते वसुमती स्वयमेव लक्ष्मीः ॥ 11 ॥
संपत्कराणि सकलेंद्रियनंदनानि साम्राज्यदाननिरतानि सरोरुहाक्षि । त्वद्वंदनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयंतु नान्यम् ॥ 12 ॥
कल्पोपसंहृतिषु कल्पिततांडवस्य देवस्य खंडपरशोः परभैरवस्य । पाशांकुशैक्षवशरासनपुष्पबाणा सा साक्षिणी विजयते तव मूर्तिरेका ॥ 13 ॥
लग्नं सदा भवतु मातरिदं तवार्धं तेजः परं बहुलकुंकुमपंकशोणम् । भास्वत्किरीटममृतांशुकलावतंसं मध्ये त्रिकोणनिलयं परमामृतार्द्रम् ॥ 14 ॥
ह्रींकारमेव तव नाम तदेव रूपं त्वन्नाम दुर्लभमिह त्रिपुरे गृणंति । त्वत्तेजसा परिणतं वियदादिभूतं सौख्यं तनोति सरसीरुहसंभवादेः ॥ 15 ॥
ह्रींकारत्रयसंपुटेन महता मंत्रेण संदीपितं स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मंत्रवित् । तस्य क्षोणिभुजो भवंति वशगा लक्ष्मीश्चिरस्थायिनी वाणी निर्मलसूक्तिभारभारिता जागर्ति दीर्घं वयः ॥ 16 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ कल्याणवृष्टि स्तवः ।
Browse Related Categories: