Kanda 1 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) दे॒वा॒सु॒रा-स्संयँ॑त्ता॒-स्संयँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्संयँ॑त्ताः । 1) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । 2) संयँ॑त्ता आसन्नास॒-न्थ्संयँ॑त्ता॒-स्संयँ॑त्ता आसन्न् । 2) संयँ॑त्ता॒ इति॑ सं - य॒त्ताः॒ । 3) आ॒स॒-न्ते त आ॑सन्नास॒-न्ते । 4) ते दे॒वा दे॒वास्ते ते दे॒वाः । 5) दे॒वा वि॑ज॒यं-विँ॑ज॒य-न्दे॒वा दे॒वा वि॑ज॒यम् । 6) वि॒ज॒य मु॑प॒यन्त॑ उप॒यन्तो॑ विज॒यं-विँ॑ज॒य मु॑प॒यन्तः॑ । 6) वि॒ज॒यमिति॑ वि - ज॒यम् । 7) उ॒प॒यन्तो॒ ऽग्ना व॒ग्ना वु॑प॒यन्त॑ उप॒यन्तो॒ ऽग्नौ । 7) उ॒प॒यन्त॒ इत्यु॑प - यन्तः॑ । 8) अ॒ग्नौ वा॒मं-वाँ॒म म॒ग्ना व॒ग्नौ वा॒मम् । 9) वा॒मं-वँसु॒ वसु॑ वा॒मं-वाँ॒मं-वँसु॑ । 10) वसु॒ सग्ं सं-वँसु॒ वसु॒ सम् । 11) सन्नि नि सग्ं सन्नि । 12) न्य॑दधतादधत॒ नि न्य॑दधत । 13) अ॒द॒ध॒ते॒ द मि॒द म॑दधतादधते॒ दम् । 14) इ॒द मु॑ वु वि॒द मि॒द मु॑ । 15) उ॒ नो॒ न॒ उ॒ वु॒ नः॒ । 16) नो॒ भ॒वि॒ष्य॒ति॒ भ॒वि॒ष्य॒ति॒ नो॒ नो॒ भ॒वि॒ष्य॒ति॒ । 17) भ॒वि॒ष्य॒ति॒ यदि॒ यदि॑ भविष्यति भविष्यति॒ यदि॑ । 18) यदि॑ नो नो॒ यदि॒ यदि॑ नः । 19) नो॒ जे॒ष्यन्ति॑ जे॒ष्यन्ति॑ नो नो जे॒ष्यन्ति॑ । 20) जे॒ष्यन्तीतीति॑ जे॒ष्यन्ति॑ जे॒ष्यन्तीति॑ । 21) इति॒ त-त्तदितीति॒ तत् । 22) तद॒ग्नि र॒ग्नि स्त-त्तद॒ग्निः । 23) अ॒ग्नि-र्नि न्य॑ग्नि र॒ग्नि-र्नि । 24) न्य॑कामयताकामयत॒ नि न्य॑कामयत । 25) अ॒का॒म॒य॒त॒ तेन॒ तेना॑कामयताकामयत॒ तेन॑ । 26) तेनापाप॒ तेन॒ तेनाप॑ । 27) अपा᳚क्राम दक्राम॒ दपापा᳚क्रामत् । 28) अ॒क्रा॒म॒-त्त-त्तद॑क्राम दक्राम॒-त्तत् । 29) त-द्दे॒वा दे॒वास्त-त्त-द्दे॒वाः । 30) दे॒वा वि॒जित्य॑ वि॒जित्य॑ दे॒वा दे॒वा वि॒जित्य॑ । 31) वि॒जित्या॑व॒रुरु॑थ्समाना अव॒रुरु॑थ्समाना वि॒जित्य॑ वि॒जित्या॑व॒रुरु॑थ्समानाः । 31) वि॒जित्येति॑ वि - जित्य॑ । 32) अ॒व॒रुरु॑थ्समाना॒ अन्वन्व॑व॒रुरु॑थ्समाना अव॒रुरु॑थ्समाना॒ अनु॑ । 32) अ॒व॒रुरु॑थ्समाना॒ इत्य॑व - रुरु॑थ्समानाः । 33) अन्वा॑य-न्नाय॒-न्नन्वन्वा॑यन्न् । 34) आ॒य॒-न्त-त्तदा॑यन्नाय॒-न्तत् । 35) तद॑स्यास्य॒ त-त्तद॑स्य । 36) अ॒स्य॒ सह॑सा॒ सह॑सा ऽस्यास्य॒ सह॑सा । 37) सह॒सा ऽऽसह॑सा॒ सह॒सा । 38) आ ऽदि॑थ्सन्तादिथ्स॒न्ता ऽदि॑थ्सन्त । 39) अ॒दि॒थ्स॒न्त॒ स सो॑ ऽदिथ्सन्तादिथ्सन्त॒ सः । 40) सो॑ ऽरोदीदरोदी॒-थ्स सो॑ ऽरोदीत् । 41) अ॒रो॒दी॒-द्य-द्यद॑रोदी दरोदी॒-द्यत् । 42) यदरो॑दी॒ दरो॑दी॒-द्य-द्यदरो॑दीत् । 43) अरो॑दी॒-त्त-त्तदरो॑दी॒ दरो॑दी॒-त्तत् । 44) त-द्रु॒द्रस्य॑ रु॒द्रस्य॒ त-त्त-द्रु॒द्रस्य॑ । 45) रु॒द्रस्य॑ रुद्र॒त्वग्ं रु॑द्र॒त्वग्ं रु॒द्रस्य॑ रु॒द्रस्य॑ रुद्र॒त्वम् । 46) रु॒द्र॒त्वं-यँ-द्य-द्रु॑द्र॒त्वग्ं रु॑द्र॒त्वं-यँत् । 46) रु॒द्र॒त्वमिति॑ रुद्र - त्वम् । 47) यदश्र्वश्रु॒ य-द्यदश्रु॑ । 48) अश्र्वशी॑य॒ताशी॑य॒ताश्र्वश्र्वशी॑यत । 49) अशी॑यत॒ त-त्तदशी॑य॒ताशी॑यत॒ तत् । 50) त-द्र॑ज॒तग्ं र॑ज॒त-न्त-त्त-द्र॑ज॒तम् । ॥ 1 ॥ (50/57)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) र॒ज॒तग्ं हिर॑ण्य॒(ग्म्॒) हिर॑ण्यग्ं रज॒तग्ं र॑ज॒तग्ं हिर॑ण्यम् । 2) हिर॑ण्य मभव दभव॒द्धिर॑ण्य॒(ग्म्॒) हिर॑ण्य मभवत् । 3) अ॒भ॒व॒-त्तस्मा॒-त्तस्मा॑ दभव दभव॒-त्तस्मा᳚त् । 4) तस्मा᳚-द्रज॒तग्ं र॑ज॒त-न्तस्मा॒-त्तस्मा᳚-द्रज॒तम् । 5) र॒ज॒तग्ं हिर॑ण्य॒(ग्म्॒) हिर॑ण्यग्ं रज॒तग्ं र॑ज॒तग्ं हिर॑ण्यम् । 6) हिर॑ण्य मदक्षि॒ण्य म॑दक्षि॒ण्यग्ं हिर॑ण्य॒(ग्म्॒) हिर॑ण्य मदक्षि॒ण्यम् । 7) अ॒द॒क्षि॒ण्य म॑श्रु॒ज म॑श्रु॒ज म॑दक्षि॒ण्य म॑दक्षि॒ण्य म॑श्रु॒जम् । 8) अ॒श्रु॒जग्ं हि ह्य॑श्रु॒ज म॑श्रु॒जग्ं हि । 8) अ॒श्रु॒जमित्य॑श्रु - जम् । 9) हि यो यो हि हि यः । 10) यो ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ यो यो ब॒र्॒हिषि॑ । 11) ब॒र्॒हिषि॒ ददा॑ति॒ ददा॑ति ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ ददा॑ति । 12) ददा॑ति पु॒रा पु॒रा ददा॑ति॒ ददा॑ति पु॒रा । 13) पु॒रा ऽस्या᳚स्य पु॒रा पु॒रा ऽस्य॑ । 14) अ॒स्य॒ सं॒वँ॒थ्स॒रा-थ्सं॑वँथ्स॒रा द॑स्यास्य संवँथ्स॒रात् । 15) सं॒वँ॒थ्स॒रा-द्गृ॒हे गृ॒हे सं॑वँथ्स॒रा-थ्सं॑वँथ्स॒रा-द्गृ॒हे । 15) सं॒वँ॒थ्स॒रादिति॑ सं - व॒थ्स॒रात् । 16) गृ॒हे रु॑दन्ति रुदन्ति गृ॒हे गृ॒हे रु॑दन्ति । 17) रु॒द॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्रुदन्ति रुदन्ति॒ तस्मा᳚त् । 18) तस्मा᳚-द्ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ तस्मा॒-त्तस्मा᳚-द्ब॒र्॒हिषि॑ । 19) ब॒र्॒हिषि॒ न न ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ न । 20) न देय॒-न्देय॒न्न न देय᳚म् । 21) देय॒(ग्म्॒) स स देय॒-न्देय॒(ग्म्॒) सः । 22) सो᳚ ऽग्निर॒ग्नि-स्स सो᳚ ऽग्निः । 23) अ॒ग्नि र॑ब्रवी दब्रवी द॒ग्नि र॒ग्नि र॑ब्रवीत् । 24) अ॒ब्र॒वी॒-द्भा॒गी भा॒ग्य॑ब्रवी दब्रवी-द्भा॒गी । 25) भा॒ग्य॑सान्यसानि भा॒गी भा॒ग्य॑सानि । 26) अ॒सा॒न्यथाथा॑सान्यसा॒न्यथ॑ । 27) अथ॑ वो॒ वो ऽथाथ॑ वः । 28) व॒ इ॒द मि॒दं-वोँ॑ व इ॒दम् । 29) इ॒द मितीती॒द मि॒द मिति॑ । 30) इति॑ पुनरा॒धेय॑-म्पुनरा॒धेय॒ मितीति॑ पुनरा॒धेय᳚म् । 31) पु॒न॒रा॒धेय॑-न्ते ते पुनरा॒धेय॑-म्पुनरा॒धेय॑-न्ते । 31) पु॒न॒रा॒धेय॒मिति॑ पुनः - आ॒धेय᳚म् । 32) ते॒ केव॑ल॒-ङ्केव॑ल-न्ते ते॒ केव॑लम् । 33) केव॑ल॒ मितीति॒ केव॑ल॒-ङ्केव॑ल॒ मिति॑ । 34) इत्य॑ब्रुव न्नब्रुव॒ न्नितीत्य॑ब्रुवन्न् । 35) अ॒ब्रु॒व॒-न्नृ॒द्ध्नव॑ दृ॒द्ध्नव॑दब्रुव-न्नब्रुवन्नृ॒द्ध्नव॑त् । 36) ऋ॒द्ध्नव॒-त्खलु॒ खलु॑ ऋ॒द्ध्नव॑दृ॒द्ध्नव॒-त्खलु॑ । 37) खलु॒ स स खलु॒ खलु॒ सः । 38) स इतीति॒ स स इति॑ । 39) इत्य॑ब्रवी दब्रवी॒दिती त्य॑ब्रवीत् । 40) अ॒ब्र॒वी॒-द्यो यो᳚ ऽब्रवीदब्रवी॒-द्यः । 41) यो म॑द्देव॒त्य॑-म्मद्देव॒त्यं॑-योँ यो म॑द्देव॒त्य᳚म् । 42) म॒द्दे॒व॒त्य॑ म॒ग्नि म॒ग्नि-म्म॑द्देव॒त्य॑-म्मद्देव॒त्य॑ म॒ग्निम् । 42) म॒द्दे॒व॒त्य॑मिति॑ मत् - दे॒व॒त्य᳚म् । 43) अ॒ग्नि मा॒दधा॑ता आ॒दधा॑ता अ॒ग्नि म॒ग्नि मा॒दधा॑तै । 44) आ॒दधा॑ता॒ इतीत्या॒दधा॑ता आ॒दधा॑ता॒ इति॑ । 44) आ॒दधा॑ता॒ इत्या᳚ - दधा॑तै । 45) इति॒ त-न्त मितीति॒ तम् । 46) त-म्पू॒षा पू॒षा त-न्त-म्पू॒षा । 47) पू॒षा ऽध॑त्ता ध॒त्ता पू॒षा पू॒षा ऽध॑त्त । 48) आ ऽध॑त्ताध॒त्ता ऽध॑त्त । 49) अ॒ध॒त्त॒ तेन॒ तेना॑धत्ताधत्त॒ तेन॑ । 50) तेन॑ पू॒षा पू॒षा तेन॒ तेन॑ पू॒षा । ॥ 2 ॥ (50/55)
1) पू॒षा ऽऽर्ध्नो॑दार्ध्नो-त्पू॒षा पू॒षा ऽऽर्ध्नो᳚त् । 2) आ॒र्ध्नो॒-त्तस्मा॒-त्तस्मा॑ दार्ध्नो दार्ध्नो॒-त्तस्मा᳚त् । 3) तस्मा᳚-त्पौ॒ष्णाः पौ॒ष्णास्तस्मा॒-त्तस्मा᳚-त्पौ॒ष्णाः । 4) पौ॒ष्णाः प॒शवः॑ प॒शवः॑ पौ॒ष्णाः पौ॒ष्णाः प॒शवः॑ । 5) प॒शव॑ उच्यन्त उच्यन्ते प॒शवः॑ प॒शव॑ उच्यन्ते । 6) उ॒च्य॒न्ते॒ त-न्त मु॑च्यन्त उच्यन्ते॒ तम् । 7) त-न्त्वष्टा॒ त्वष्टा॒ त-न्त-न्त्वष्टा᳚ । 8) त्वष्टा ऽऽत्वष्टा॒ त्वष्टा । 9) आ ऽध॑त्ताध॒त्ता ऽध॑त्त । 10) अ॒ध॒त्त॒ तेन॒ तेना॑धत्ताधत्त॒ तेन॑ । 11) तेन॒ त्वष्टा॒ त्वष्टा॒ तेन॒ तेन॒ त्वष्टा᳚ । 12) त्वष्टा᳚ ऽऽर्ध्नोदार्ध्नो॒-त्त्वष्टा॒ त्वष्टा᳚ ऽऽर्ध्नोत् । 13) आ॒र्ध्नो॒-त्तस्मा॒-त्तस्मा॑ दार्ध्नो दार्ध्नो॒-त्तस्मा᳚त् । 14) तस्मा᳚-त्त्वा॒ष्ट्रा स्त्वा॒ष्ट्रा स्तस्मा॒-त्तस्मा᳚-त्त्वा॒ष्ट्राः । 15) त्वा॒ष्ट्राः प॒शवः॑ प॒शव॑ स्त्वा॒ष्ट्रा स्त्वा॒ष्ट्राः प॒शवः॑ । 16) प॒शव॑ उच्यन्त उच्यन्ते प॒शवः॑ प॒शव॑ उच्यन्ते । 17) उ॒च्य॒न्ते॒ त-न्त मु॑च्यन्त उच्यन्ते॒ तम् । 18) त-म्मनु॒-र्मनु॒स्त-न्त-म्मनुः॑ । 19) मनु॒रा मनु॒-र्मनु॒रा । 20) आ ऽध॑त्ताध॒त्ता ऽध॑त्त । 21) अ॒ध॒त्त॒ तेन॒ तेना॑धत्ताधत्त॒ तेन॑ । 22) तेन॒ मनु॒-र्मनु॒स्तेन॒ तेन॒ मनुः॑ । 23) मनु॑ रार्ध्नो दार्ध्नो॒-न्मनु॒-र्मनु॑ रार्ध्नोत् । 24) आ॒र्ध्नो॒-त्तस्मा॒-त्तस्मा॑ दार्ध्नो दार्ध्नो॒-त्तस्मा᳚त् । 25) तस्मा᳚-न्मान॒व्यो॑ मान॒व्य॑ स्तस्मा॒-त्तस्मा᳚-न्मान॒व्यः॑ । 26) मा॒न॒व्यः॑ प्र॒जाः प्र॒जा मा॑न॒व्यो॑ मान॒व्यः॑ प्र॒जाः । 27) प्र॒जा उ॑च्यन्त उच्यन्ते प्र॒जाः प्र॒जा उ॑च्यन्ते । 27) प्र॒जा इति॑ प्र - जाः । 28) उ॒च्य॒न्ते॒ त-न्त मु॑च्यन्त उच्यन्ते॒ तम् । 29) त-न्धा॒ता धा॒ता त-न्त-न्धा॒ता । 30) धा॒ता ऽध॑त्ताध॒त्ता धा॒ता धा॒ता ऽध॑त्त । 31) आ ऽध॑त्ताध॒त्ता ऽध॑त्त । 32) अ॒ध॒त्त॒ तेन॒ तेना॑धत्ताधत्त॒ तेन॑ । 33) तेन॑ धा॒ता धा॒ता तेन॒ तेन॑ धा॒ता । 34) धा॒ता ऽऽर्ध्नो॑ दार्ध्नो-द्धा॒ता धा॒ता ऽऽर्ध्नो᳚त् । 35) आ॒र्ध्नो॒-थ्सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒र आ᳚र्ध्नो दार्ध्नो-थ्संवँथ्स॒रः । 36) सं॒वँ॒थ्स॒रो वै वै सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वै । 36) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 37) वै धा॒ता धा॒ता वै वै धा॒ता । 38) धा॒ता तस्मा॒-त्तस्मा᳚-द्धा॒ता धा॒ता तस्मा᳚त् । 39) तस्मा᳚-थ्संवँथ्स॒रग्ं सं॑वँथ्स॒र-न्तस्मा॒-त्तस्मा᳚-थ्संवँथ्स॒रम् । 40) सं॒वँ॒थ्स॒र-म्प्र॒जाः प्र॒जा-स्सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-म्प्र॒जाः । 40) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 41) प्र॒जाः प॒शवः॑ प॒शवः॑ प्र॒जाः प्र॒जाः प॒शवः॑ । 41) प्र॒जा इति॑ प्र - जाः । 42) प॒शवो ऽन्वनु॑ प॒शवः॑ प॒शवो ऽनु॑ । 43) अनु॒ प्र प्राण्वनु॒ प्र । 44) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते । 45) जा॒य॒न्ते॒ यो यो जा॑यन्ते जायन्ते॒ यः । 46) य ए॒व मे॒वं-योँ य ए॒वम् । 47) ए॒व-म्पु॑नरा॒धेय॑स्य पुनरा॒धेय॑स्यै॒व मे॒व-म्पु॑नरा॒धेय॑स्य । 48) पु॒न॒रा॒धेय॒स्य र्धि॒ मृद्धि॑-म्पुनरा॒धेय॑स्य पुनरा॒धेय॒स्य र्धि᳚म् । 48) पु॒न॒रा॒धेय॒स्येति॑ पुनः - आ॒धेय॑स्य । 49) ऋद्धिं॒-वेँद॒ वेद र्धि॒ मृद्धिं॒-वेँद॑ । 50) वेद॒ र्ध्नोत्यृ॒द्ध्नोति॒ वेद॒ वेद॒ र्ध्नोति॑ । ॥ 3 ॥ (50/55)
1) ऋ॒द्ध्नोत्ये॒वैव र्ध्नोत्यृ॒द्ध्नोत्ये॒व । 2) ए॒व यो य ए॒वैव यः । 3) यो᳚ ऽस्यास्य॒ यो यो᳚ ऽस्य । 4) अ॒स्यै॒व मे॒व म॑स्यास्यै॒वम् । 5) ए॒व-म्ब॒न्धुता᳚-म्ब॒न्धुता॑ मे॒व मे॒व-म्ब॒न्धुता᳚म् । 6) ब॒न्धुतां॒-वेँद॒ वेद॑ ब॒न्धुता᳚-म्ब॒न्धुतां॒-वेँद॑ । 7) वेद॒ बन्धु॑मा॒-न्बन्धु॑मा॒न्॒. वेद॒ वेद॒ बन्धु॑मान् । 8) बन्धु॑मा-न्भवति भवति॒ बन्धु॑मा॒-न्बन्धु॑मा-न्भवति । 8) बन्धु॑मा॒निति॒ बन्धु॑ - मा॒न् । 9) भ॒व॒ति॒ भा॒ग॒धेय॑-म्भाग॒धेय॑-म्भवति भवति भाग॒धेय᳚म् । 10) भा॒ग॒धेयं॒-वैँ वै भा॑ग॒धेय॑-म्भाग॒धेयं॒-वैँ । 10) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 11) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 12) अ॒ग्निराहि॑त॒ आहि॑तो॒ ऽग्निर॒ग्निराहि॑तः । 13) आहि॑त इ॒च्छमा॑न इ॒च्छमा॑न॒ आहि॑त॒ आहि॑त इ॒च्छमा॑नः । 13) आहि॑त॒ इत्या - हि॒तः॒ । 14) इ॒च्छमा॑नः प्र॒जा-म्प्र॒जा मि॒च्छमा॑न इ॒च्छमा॑नः प्र॒जाम् । 15) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् । 15) प्र॒जामिति॑ प्र - जाम् । 16) प॒शून्. यज॑मानस्य॒ यज॑मानस्य प॒शू-न्प॒शून्. यज॑मानस्य । 17) यज॑मान॒स्योपोप॒ यज॑मानस्य॒ यज॑मान॒स्योप॑ । 18) उप॑ दोद्राव दोद्रा॒वोपोप॑ दोद्राव । 19) दो॒द्रा॒वो॒द्वास्यो॒द्वास्य॑ दोद्राव दोद्रावो॒द्वास्य॑ । 20) उ॒द्वास्य॒ पुनः॒ पुन॑ रु॒द्वास्यो॒द्वास्य॒ पुनः॑ । 20) उ॒द्वास्येत्यु॑त् - वास्य॑ । 21) पुन॒ रा पुनः॒ पुन॒ रा । 22) आ द॑धीत दधी॒ता द॑धीत । 23) द॒धी॒त॒ भा॒ग॒धेये॑न भाग॒धेये॑न दधीत दधीत भाग॒धेये॑न । 24) भा॒ग॒धेये॑नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व । 24) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । 25) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 26) ए॒न॒(ग्म्॒) सग्ं स मे॑न मेन॒(ग्म्॒) सम् । 27) स म॑र्धयत्यर्धयति॒ सग्ं स म॑र्धयति । 28) अ॒र्ध॒य॒त्यथो॒ अथो॑ अर्धयत्यर्धय॒त्यथो᳚ । 29) अथो॒ शान्ति॒-श्शान्ति॒रथो॒ अथो॒ शान्तिः॑ । 29) अथो॒ इत्यथो᳚ । 30) शान्ति॑रे॒वैव शान्ति॒-श्शान्ति॑रे॒व । 31) ए॒वास्या᳚स्यै॒वैवास्य॑ । 32) अ॒स्यै॒षैषा ऽस्या᳚स्यै॒षा । 33) ए॒षा पुन॑र्वस्वोः॒ पुन॑र्वस्वो रे॒षैषा पुन॑र्वस्वोः । 34) पुन॑र्वस्वो॒रा पुन॑र्वस्वोः॒ पुन॑र्वस्वो॒रा । 34) पुन॑र्वस्वो॒रिति॒ पुनः॑ - व॒स्वोः॒ । 35) आ द॑धीत दधी॒ता द॑धीत । 36) द॒धी॒तै॒तदे॒त-द्द॑धीत दधीतै॒तत् । 37) ए॒त-द्वै वा ए॒तदे॒त-द्वै । 38) वै पु॑नरा॒धेय॑स्य पुनरा॒धेय॑स्य॒ वै वै पु॑नरा॒धेय॑स्य । 39) पु॒न॒रा॒धेय॑स्य॒ नक्ष॑त्र॒न्नक्ष॑त्र-म्पुनरा॒धेय॑स्य पुनरा॒धेय॑स्य॒ नक्ष॑त्रम् । 39) पु॒न॒रा॒धेय॒स्येति॑ पुनः - आ॒धेय॑स्य । 40) नक्ष॑त्रं॒-यँ-द्य-न्नक्ष॑त्र॒न्नक्ष॑त्रं॒-यँत् । 41) य-त्पुन॑र्वसू॒ पुन॑र्वसू॒ य-द्य-त्पुन॑र्वसू । 42) पुन॑र्वसू॒ स्वाया॒(ग्ग्॒) स्वाया॒-म्पुन॑र्वसू॒ पुन॑र्वसू॒ स्वाया᳚म् । 42) पुन॑र्वसू॒ इति॒ पुनः॑ - व॒सू॒ । 43) स्वाया॑ मे॒वैव स्वाया॒(ग्ग्॒) स्वाया॑ मे॒व । 44) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 45) ए॒न॒-न्दे॒वता॑या-न्दे॒वता॑या मेन मेन-न्दे॒वता॑याम् । 46) दे॒वता॑या मा॒धाया॒धाय॑ दे॒वता॑या-न्दे॒वता॑या मा॒धाय॑ । 47) आ॒धाय॑ ब्रह्मवर्च॒सी ब्र॑ह्मवर्च॒स्या॑धाया॒धाय॑ ब्रह्मवर्च॒सी । 47) आ॒धायेत्या᳚ - धाय॑ । 48) ब्र॒ह्म॒व॒र्च॒सी भ॑वति भवति ब्रह्मवर्च॒सी ब्र॑ह्मवर्च॒सी भ॑वति । 48) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । 49) भ॒व॒ति॒ द॒र्भै-र्द॒र्भै-र्भ॑वति भवति द॒र्भैः । 50) द॒र्भैरा द॒र्भै-र्द॒र्भैरा । 51) आ द॑धाति दधा॒त्या द॑धाति । 52) द॒धा॒त्यया॑तयामत्वा॒याया॑तयामत्वाय दधाति दधा॒त्यया॑तयामत्वाय । 53) अया॑तयामत्वाय द॒र्भै-र्द॒र्भै रया॑तयामत्वा॒याया॑तयामत्वाय द॒र्भैः । 53) अया॑तयामत्वा॒येत्यया॑तयाम - त्वा॒य॒ । 54) द॒र्भैरा द॒र्भै-र्द॒र्भैरा । 55) आ द॑धाति दधा॒त्या द॑धाति । 56) द॒धा॒त्य॒द्भ्यो᳚ ऽद्भ्यो द॑धाति दधात्य॒द्भ्यः । 57) अ॒द्भ्य ए॒वैवाद्भ्यो᳚ ऽद्भ्य ए॒व । 57) अ॒द्भ्य इत्य॑त् - भ्यः । 58) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 59) ए॒न॒ मोष॑धीभ्य॒ ओष॑धीभ्य एन मेन॒ मोष॑धीभ्यः । 60) ओष॑धीभ्यो ऽव॒रुद्ध्या॑व॒रुद्ध्यौष॑धीभ्य॒ ओष॑धीभ्यो ऽव॒रुद्ध्य॑ । 60) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । 61) अ॒व॒रुद्ध्या ऽव॒रुद्ध्या॑व॒रुद्ध्या । 61) अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ । 62) आ ध॑त्ते धत्त॒ आ ध॑त्ते । 63) ध॒त्ते॒ पञ्च॑कपालः॒ पञ्च॑कपालो धत्ते धत्ते॒ पञ्च॑कपालः । 64) पञ्च॑कपालः पुरो॒डाशः॑ पुरो॒डाशः॒ पञ्च॑कपालः॒ पञ्च॑कपालः पुरो॒डाशः॑ । 64) पञ्च॑कपाल॒ इति॒ पञ्च॑ - क॒पा॒लः॒ । 65) पु॒रो॒डाशो॑ भवति भवति पुरो॒डाशः॑ पुरो॒डाशो॑ भवति । 66) भ॒व॒ति॒ पञ्च॒ पञ्च॑ भवति भवति॒ पञ्च॑ । 67) पञ्च॒ वै वै पञ्च॒ पञ्च॒ वै । 68) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 69) ऋ॒तव॑ ऋ॒तुभ्य॑ ऋ॒तुभ्य॑ ऋ॒तव॑ ऋ॒तव॑ ऋ॒तुभ्यः॑ । 70) ऋ॒तुभ्य॑ ए॒वैव र्तुभ्य॑ ऋ॒तुभ्य॑ ए॒व । 70) ऋ॒तुभ्य॒ इत्यृ॒तु - भ्यः॒ । 71) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 72) ए॒न॒ म॒व॒रुद्ध्या॑ व॒रुद्ध्यै॑न मेन मव॒रुद्ध्य॑ । 73) अ॒व॒रुद्ध्या ऽव॒रुद्ध्या॑व॒रुद्ध्या । 73) अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ । 74) आ ध॑त्ते धत्त॒ आ ध॑त्ते । 75) ध॒त्त॒ इति॑ धत्ते । ॥ 4 ॥ (75/94) ॥ अ. 1 ॥
1) परा॒ वै वै परा॒ परा॒ वै । 2) वा ए॒ष ए॒ष वै वा ए॒षः । 3) ए॒ष य॒ज्ञं-यँ॒ज्ञ मे॒ष ए॒ष य॒ज्ञम् । 4) य॒ज्ञ-म्प॒शू-न्प॒शून्. य॒ज्ञं-यँ॒ज्ञ-म्प॒शून् । 5) प॒शून्. व॑पति वपति प॒शू-न्प॒शून्. व॑पति । 6) व॒प॒ति॒ यो यो व॑पति वपति॒ यः । 7) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 8) अ॒ग्नि मु॑द्वा॒सय॑त उद्वा॒सय॑ते॒ ऽग्नि म॒ग्नि मु॑द्वा॒सय॑ते । 9) उ॒द्वा॒सय॑ते॒ पञ्च॑कपालः॒ पञ्च॑कपाल उद्वा॒सय॑त उद्वा॒सय॑ते॒ पञ्च॑कपालः । 9) उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते । 10) पञ्च॑कपालः पुरो॒डाशः॑ पुरो॒डाशः॒ पञ्च॑कपालः॒ पञ्च॑कपालः पुरो॒डाशः॑ । 10) पञ्च॑कपाल॒ इति॒ पञ्च॑ - क॒पा॒लः॒ । 11) पु॒रो॒डाशो॑ भवति भवति पुरो॒डाशः॑ पुरो॒डाशो॑ भवति । 12) भ॒व॒ति॒ पाङ्क्तः॒ पाङ्क्तो॑ भवति भवति॒ पाङ्क्तः॑ । 13) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 14) य॒ज्ञः पाङ्क्ताः॒ पाङ्क्ता॑ य॒ज्ञो य॒ज्ञः पाङ्क्ताः᳚ । 15) पाङ्क्ताः᳚ प॒शवः॑ प॒शवः॒ पाङ्क्ताः॒ पाङ्क्ताः᳚ प॒शवः॑ । 16) प॒शवो॑ य॒ज्ञं-यँ॒ज्ञ-म्प॒शवः॑ प॒शवो॑ य॒ज्ञम् । 17) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 18) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 19) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 20) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 21) रु॒न्धे॒ वी॒र॒हा वी॑र॒हा रु॑न्धे रुन्धे वीर॒हा । 22) वी॒र॒हा वै वै वी॑र॒हा वी॑र॒हा वै । 22) वी॒र॒हेति॑ वीर - हा । 23) वा ए॒ष ए॒ष वै वा ए॒षः । 24) ए॒ष दे॒वाना᳚-न्दे॒वाना॑ मे॒ष ए॒ष दे॒वाना᳚म् । 25) दे॒वानां॒-योँ यो दे॒वाना᳚-न्दे॒वानां॒-यः ँ। 26) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 27) अ॒ग्नि मु॑द्वा॒सय॑त उद्वा॒सय॑ते॒ ऽग्नि म॒ग्नि मु॑द्वा॒सय॑ते । 28) उ॒द्वा॒सय॑ते॒ न नोद्वा॒सय॑त उद्वा॒सय॑ते॒ न । 28) उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते । 29) न वै वै न न वै । 30) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ । 31) ए॒तस्य॑ ब्राह्म॒णा ब्रा᳚ह्म॒णा ए॒तस्यै॒तस्य॑ ब्राह्म॒णाः । 32) ब्रा॒ह्म॒णा ऋ॑ता॒यव॑ ऋता॒यवो᳚ ब्राह्म॒णा ब्रा᳚ह्म॒णा ऋ॑ता॒यवः॑ । 33) ऋ॒ता॒यवः॑ पु॒रा पु॒रर्ता॒यव॑ ऋता॒यवः॑ पु॒रा । 33) ऋ॒ता॒यव॒ इत्यृ॑त - यवः॑ । 34) पु॒रा ऽन्न॒ मन्न॑-म्पु॒रा पु॒रा ऽन्न᳚म् । 35) अन्न॑ मक्षन्नक्ष॒न्नन्न॒ मन्न॑ मक्षन्न् । 36) अ॒क्ष॒-न्प॒ङ्क्त्यः॑ प॒ङ्क्त्यो᳚ ऽक्षन्नक्ष-न्प॒ङ्क्त्यः॑ । 37) प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ याज्यानुवा॒क्याः᳚ प॒ङ्क्त्यः॑ प॒ङ्क्त्यो॑ याज्यानुवा॒क्याः᳚ । 38) या॒ज्या॒नु॒वा॒क्या॑ भवन्ति भवन्ति याज्यानुवा॒क्या॑ याज्यानुवा॒क्या॑ भवन्ति । 38) या॒ज्या॒नु॒वा॒क्या॑ इति॑ याज्या - अ॒नु॒वा॒क्याः᳚ । 39) भ॒व॒न्ति॒ पाङ्क्तः॒ पाङ्क्तो॑ भवन्ति भवन्ति॒ पाङ्क्तः॑ । 40) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 41) य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॑ । 42) पाङ्क्तः॒ पुरु॑षः॒ पुरु॑षः॒ पाङ्क्तः॒ पाङ्क्तः॒ पुरु॑षः । 43) पुरु॑षो दे॒वा-न्दे॒वा-न्पुरु॑षः॒ पुरु॑षो दे॒वान् । 44) दे॒वा ने॒वैव दे॒वा-न्दे॒वा ने॒व । 45) ए॒व वी॒रं-वीँ॒र मे॒वैव वी॒रम् । 46) वी॒रन्नि॑रव॒दाय॑ निरव॒दाय॑ वी॒रं-वीँ॒रन्नि॑रव॒दाय॑ । 47) नि॒र॒व॒दाया॒ग्नि म॒ग्निन्नि॑रव॒दाय॑ निरव॒दाया॒ग्निम् । 47) नि॒र॒व॒दायेति॑ निः - अ॒व॒दाय॑ । 48) अ॒ग्नि-म्पुनः॒ पुन॑ र॒ग्नि म॒ग्नि-म्पुनः॑ । 49) पुन॒ रा पुनः॒ पुन॒ रा । 50) आ ध॒त्ते ध॒त्त आ ध॒त्ते । ॥ 5 ॥ (50/57)
1) ध॒त्ते श॒ताक्ष॑रा-श्श॒ताक्ष॑रा ध॒त्ते ध॒त्ते श॒ताक्ष॑राः । 2) श॒ताक्ष॑रा भवन्ति भवन्ति श॒ताक्ष॑रा-श्श॒ताक्ष॑रा भवन्ति । 2) श॒ताक्ष॑रा॒ इति॑ श॒त - अ॒क्ष॒राः॒ । 3) भ॒व॒न्ति॒ श॒तायु॑-श्श॒तायु॑-र्भवन्ति भवन्ति श॒तायुः॑ । 4) श॒तायुः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तायु॑-श्श॒तायुः॒ पुरु॑षः । 4) श॒तायु॒रिति॑ श॒त - आ॒युः॒ । 5) पुरु॑ष-श्श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑यः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । 6) श॒तेन्द्रि॑य॒ आयु॒ष्यायु॑षि श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑य॒ आयु॑षि । 6) श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ । 7) आयु॑ष्ये॒वैवायु॒ष्यायु॑ष्ये॒व । 8) ए॒वे न्द्रि॒य इ॑न्द्रि॒य ए॒वैवे न्द्रि॒ये । 9) इ॒न्द्रि॒ये प्रति॒ प्रती᳚न्द्रि॒य इ॑न्द्रि॒ये प्रति॑ । 10) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 11) ति॒ष्ठ॒ति॒ य-द्य-त्ति॑ष्ठति तिष्ठति॒ यत् । 12) य-द्वै वै य-द्य-द्वै । 13) वा अ॒ग्निर॒ग्नि-र्वै वा अ॒ग्निः । 14) अ॒ग्निराहि॑त॒ आहि॑तो॒ ऽग्निर॒ग्निराहि॑तः । 15) आहि॑तो॒ न नाहि॑त॒ आहि॑तो॒ न । 15) आहि॑त॒ इत्या - हि॒तः॒ । 16) न र्ध्यत॑ ऋ॒द्ध्यते॒ न न र्ध्यते᳚ । 17) ऋ॒द्ध्यते॒ ज्यायो॒ ज्याय॑ ऋ॒द्ध्यत॑ ऋ॒द्ध्यते॒ ज्यायः॑ । 18) ज्यायो॑ भाग॒धेय॑-म्भाग॒धेय॒-ञ्ज्यायो॒ ज्यायो॑ भाग॒धेय᳚म् । 19) भा॒ग॒धेय॑न्निका॒मय॑मानो निका॒मय॑मानो भाग॒धेय॑-म्भाग॒धेय॑न्निका॒मय॑मानः । 19) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 20) नि॒का॒मय॑मानो॒ य-द्य-न्नि॑का॒मय॑मानो निका॒मय॑मानो॒ यत् । 20) नि॒का॒मय॑मान॒ इति॑ नि - का॒मय॑मानः । 21) यदा᳚ग्ने॒य मा᳚ग्ने॒यं-यँ-द्यदा᳚ग्ने॒यम् । 22) आ॒ग्ने॒यग्ं सर्व॒(ग्म्॒) सर्व॑ माग्ने॒य मा᳚ग्ने॒यग्ं सर्व᳚म् । 23) सर्व॒-म्भव॑ति॒ भव॑ति॒ सर्व॒(ग्म्॒) सर्व॒-म्भव॑ति । 24) भव॑ति॒ सा सा भव॑ति॒ भव॑ति॒ सा । 25) सैवैव सा सैव । 26) ए॒वास्या᳚स्यै॒वैवास्य॑ । 27) अ॒स्य र्धि॒र्॒ ऋद्धि॑रस्या॒स्य र्धिः॑ । 28) ऋद्धि॒-स्सग्ं स मृद्धि॒र्॒ ऋद्धि॒-स्सम् । 29) सं-वैँ वै सग्ं सं-वैँ । 30) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ । 31) ए॒तस्य॑ गृ॒हे गृ॒ह ए॒तस्यै॒तस्य॑ गृ॒हे । 32) गृ॒हे वाग् वाग् गृ॒हे गृ॒हे वाक् । 33) वा-ख्सृ॑ज्यते सृज्यते॒ वाग् वा-ख्सृ॑ज्यते । 34) सृ॒ज्य॒ते॒ यो य-स्सृ॑ज्यते सृज्यते॒ यः । 35) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 36) अ॒ग्नि मु॑द्वा॒सय॑त उद्वा॒सय॑ते॒ ऽग्नि म॒ग्नि मु॑द्वा॒सय॑ते । 37) उ॒द्वा॒सय॑ते॒ स स उ॑द्वा॒सय॑त उद्वा॒सय॑ते॒ सः । 37) उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते । 38) स वाचं॒-वाँच॒(ग्म्॒) स स वाच᳚म् । 39) वाच॒(ग्म्॒) सग्ंसृ॑ष्टा॒(ग्म्॒) सग्ंसृ॑ष्टां॒-वाँचं॒-वाँच॒(ग्म्॒) सग्ंसृ॑ष्टाम् । 40) सग्ंसृ॑ष्टां॒-यँज॑मानो॒ यज॑मान॒-स्सग्ंसृ॑ष्टा॒(ग्म्॒) सग्ंसृ॑ष्टां॒-यँज॑मानः । 40) सग्ंसृ॑ष्टा॒मिति॒ सं - सृ॒ष्टा॒म् । 41) यज॑मान ईश्व॒र ई᳚श्व॒रो यज॑मानो॒ यज॑मान ईश्व॒रः । 42) ई॒श्व॒रो ऽन्वन्वी᳚श्व॒र ई᳚श्व॒रो ऽनु॑ । 43) अनु॒ परा॑भवितोः॒ परा॑भवितो॒रन्वनु॒ परा॑भवितोः । 44) परा॑भवितो॒-र्विभ॑क्तयो॒ विभ॑क्तयः॒ परा॑भवितोः॒ परा॑भवितो॒-र्विभ॑क्तयः । 44) परा॑भवितो॒रिति॒ परा᳚ - भ॒वि॒तोः॒ । 45) विभ॑क्तयो भवन्ति भवन्ति॒ विभ॑क्तयो॒ विभ॑क्तयो भवन्ति । 45) विभ॑क्तय॒ इति॒ वि - भ॒क्त॒यः॒ । 46) भ॒व॒न्ति॒ वा॒चो वा॒चो भ॑वन्ति भवन्ति वा॒चः । 47) वा॒चो विधृ॑त्यै॒ विधृ॑त्यै वा॒चो वा॒चो विधृ॑त्यै । 48) विधृ॑त्यै॒ यज॑मानस्य॒ यज॑मानस्य॒ विधृ॑त्यै॒ विधृ॑त्यै॒ यज॑मानस्य । 48) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । 49) यज॑मान॒स्याप॑राभावा॒याप॑राभावाय॒ यज॑मानस्य॒ यज॑मान॒स्याप॑राभावाय । 50) अप॑राभावाय॒ विभ॑क्तिं॒-विँभ॑क्ति॒ मप॑राभावा॒याप॑राभावाय॒ विभ॑क्तिम् । 50) अप॑राभावा॒येत्यप॑रा - भा॒वा॒य॒ । ॥ 6 ॥ (50/62)
1) विभ॑क्ति-ङ्करोति करोति॒ विभ॑क्तिं॒-विँभ॑क्ति-ङ्करोति । 1) विभ॑क्ति॒मिति॒ वि - भ॒क्ति॒म् । 2) क॒रो॒ति॒ ब्रह्म॒ ब्रह्म॑ करोति करोति॒ ब्रह्म॑ । 3) ब्रह्मै॒वैव ब्रह्म॒ ब्रह्मै॒व । 4) ए॒व त-त्तदे॒वैव तत् । 5) तद॑क रक॒स्त-त्तद॑कः । 6) अ॒क॒ रु॒पा॒(ग्म्॒)शू॑पा॒(ग्ग्॒)श्व॑क रक रुपा॒(ग्म्॒)शु । 7) उ॒पा॒(ग्म्॒)शु य॑जति यजत्युपा॒(ग्म्॒)शू॑पा॒(ग्म्॒)शु य॑जति । 7) उ॒पा॒(ग्ग्॒)श्वित्यु॑प - अ॒(ग्म्॒)शु । 8) य॒ज॒ति॒ यथा॒ यथा॑ यजति यजति॒ यथा᳚ । 9) यथा॑ वा॒मं-वाँ॒मं-यँथा॒ यथा॑ वा॒मम् । 10) वा॒मं-वँसु॒ वसु॑ वा॒मं-वाँ॒मं-वँसु॑ । 11) वसु॑ विविदा॒नो वि॑विदा॒नो वसु॒ वसु॑ विविदा॒नः । 12) वि॒वि॒दा॒नो गूह॑ति॒ गूह॑ति विविदा॒नो वि॑विदा॒नो गूह॑ति । 13) गूह॑ति ता॒दृ-क्ता॒दृग् गूह॑ति॒ गूह॑ति ता॒दृक् । 14) ता॒दृगे॒वैव ता॒दृ-क्ता॒दृगे॒व । 15) ए॒व त-त्तदे॒वैव तत् । 16) तद॒ग्नि म॒ग्नि-न्त-त्तद॒ग्निम् । 17) अ॒ग्नि-म्प्रति॒ प्रत्य॒ग्नि म॒ग्नि-म्प्रति॑ । 18) प्रति॑ स्विष्ट॒कृत(ग्ग्॑) स्विष्ट॒कृत॒-म्प्रति॒ प्रति॑ स्विष्ट॒कृत᳚म् । 19) स्वि॒ष्ट॒कृत॒न्नि-र्णिष् स्वि॑ष्ट॒कृत(ग्ग्॑) स्विष्ट॒कृत॒न्निः । 19) स्वि॒ष्ट॒कृत॒मिति॑ स्विष्ट - कृत᳚म् । 20) निरा॑हाह॒ नि-र्णिरा॑ह । 21) आ॒ह॒ यथा॒ यथा॑ ऽऽहाह॒ यथा᳚ । 22) यथा॑ वा॒मं-वाँ॒मं-यँथा॒ यथा॑ वा॒मम् । 23) वा॒मं-वँसु॒ वसु॑ वा॒मं-वाँ॒मं-वँसु॑ । 24) वसु॑ विविदा॒नो वि॑विदा॒नो वसु॒ वसु॑ विविदा॒नः । 25) वि॒वि॒दा॒नः प्र॑का॒श-म्प्र॑का॒शं-विँ॑विदा॒नो वि॑विदा॒नः प्र॑का॒शम् । 26) प्र॒का॒श-ञ्जिग॑मिषति॒ जिग॑मिषति प्रका॒श-म्प्र॑का॒श-ञ्जिग॑मिषति । 26) प्र॒का॒शमिति॑ प्र - का॒शम् । 27) जिग॑मिषति ता॒दृ-क्ता॒दृग् जिग॑मिषति॒ जिग॑मिषति ता॒दृक् । 28) ता॒दृगे॒वैव ता॒दृ-क्ता॒दृगे॒व । 29) ए॒व त-त्तदे॒वैव तत् । 30) त-द्विभ॑क्तिं॒-विँभ॑क्ति॒-न्त-त्त-द्विभ॑क्तिम् । 31) विभ॑क्ति मु॒क्त्वोक्त्वा विभ॑क्तिं॒-विँभ॑क्ति मु॒क्त्वा । 31) विभ॑क्ति॒मिति॒ वि - भ॒क्ति॒म् । 32) उ॒क्त्वा प्र॑या॒जेन॑ प्रया॒जेनो॒क्त्वोक्त्वा प्र॑या॒जेन॑ । 33) प्र॒या॒जेन॒ वष॒-ड्वष॑ट् प्रया॒जेन॑ प्रया॒जेन॒ वष॑ट् । 33) प्र॒या॒जेनेति॑ प्र - या॒जेन॑ । 34) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति । 35) क॒रो॒त्या॒यत॑नादा॒यत॑ना-त्करोति करोत्या॒यत॑नात् । 36) आ॒यत॑ना दे॒वैवायत॑ना दा॒यत॑नादे॒व । 36) आ॒यत॑ना॒दित्या᳚ - यत॑नात् । 37) ए॒व न नैवैव न । 38) नैत्ये॑ति॒ न नैति॑ । 39) ए॒ति॒ यज॑मानो॒ यज॑मान एत्येति॒ यज॑मानः । 40) यज॑मानो॒ वै वै यज॑मानो॒ यज॑मानो॒ वै । 41) वै पु॑रो॒डाशः॑ पुरो॒डाशो॒ वै वै पु॑रो॒डाशः॑ । 42) पु॒रो॒डाशः॑ प॒शवः॑ प॒शवः॑ पुरो॒डाशः॑ पुरो॒डाशः॑ प॒शवः॑ । 43) प॒शव॑ ए॒ते ए॒ते प॒शवः॑ प॒शव॑ ए॒ते । 44) ए॒ते आहु॑ती॒ आहु॑ती ए॒ते ए॒ते आहु॑ती । 44) ए॒ते इत्ये॒ते । 45) आहु॑ती॒ य-द्यदाहु॑ती॒ आहु॑ती॒ यत् । 45) आहु॑ती॒ इत्या - हु॒ती॒ । 46) यद॒भितो॒ ऽभितो॒ य-द्यद॒भितः॑ । 47) अ॒भितः॑ पुरो॒डाश॑-म्पुरो॒डाश॑ म॒भितो॒ ऽभितः॑ पुरो॒डाश᳚म् । 48) पु॒रो॒डाश॑ मे॒ते ए॒ते पु॑रो॒डाश॑-म्पुरो॒डाश॑ मे॒ते । 49) ए॒ते आहु॑ती॒ आहु॑ती ए॒ते ए॒ते आहु॑ती । 49) ए॒ते इत्ये॒ते । 50) आहु॑ती जु॒होति॑ जु॒होत्याहु॑ती॒ आहु॑ती जु॒होति॑ । 50) आहु॑ती॒ इत्या - हु॒ती॒ । ॥ 7 ॥ (50/61)
1) जु॒होति॒ यज॑मानं॒-यँज॑मान-ञ्जु॒होति॑ जु॒होति॒ यज॑मानम् । 2) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व । 3) ए॒वोभ॒यत॑ उभ॒यत॑ ए॒वैवोभ॒यतः॑ । 4) उ॒भ॒यतः॑ प॒शुभिः॑ प॒शुभि॑ रुभ॒यत॑ उभ॒यतः॑ प॒शुभिः॑ । 5) प॒शुभिः॒ परि॒ परि॑ प॒शुभिः॑ प॒शुभिः॒ परि॑ । 5) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 6) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति । 7) गृ॒ह्णा॒ति॒ कृ॒तय॑जुः कृ॒तय॑जु-र्गृह्णाति गृह्णाति कृ॒तय॑जुः । 8) कृ॒तय॑जु॒-स्सम्भृ॑तसम्भार॒-स्सम्भृ॑तसम्भारः कृ॒तय॑जुः कृ॒तय॑जु॒-स्सम्भृ॑तसम्भारः । 8) कृ॒तय॑जु॒रिति॑ कृ॒त - य॒जुः॒ । 9) सम्भृ॑तसम्भार॒ इतीति॒ सम्भृ॑तसम्भार॒-स्सम्भृ॑तसम्भार॒ इति॑ । 9) सम्भृ॑तसम्भार॒ इति॒ सम्भृ॑त - स॒म्भा॒रः॒ । 10) इत्या॑हु राहु॒ रितीत्या॑हुः । 11) आ॒हु॒-र्न नाहु॑राहु॒-र्न । 12) न स॒म्भृत्या᳚-स्स॒म्भृत्या॒ न न स॒म्भृत्याः᳚ । 13) स॒म्भृत्या᳚-स्सम्भा॒रा-स्स॑म्भा॒रा-स्स॒म्भृत्या᳚-स्स॒म्भृत्या᳚-स्सम्भा॒राः । 13) स॒म्भृत्या॒ इति॑ सं - भृत्याः᳚ । 14) स॒म्भा॒रा न न स॑म्भा॒रा-स्स॑म्भा॒रा न । 14) स॒म्भा॒रा इति॑ सं - भा॒राः । 15) न यजु॒-र्यजु॒-र्न न यजुः॑ । 16) यजुः॑ कर्त॒व्य॑-ङ्कर्त॒व्यं॑-यँजु॒-र्यजुः॑ कर्त॒व्य᳚म् । 17) क॒र्त॒व्य॑ मितीति॑ कर्त॒व्य॑-ङ्कर्त॒व्य॑ मिति॑ । 18) इत्यथो॒ अथो॒ इतीत्यथो᳚ । 19) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 19) अथो॒ इत्यथो᳚ । 20) खलु॑ स॒म्भृत्या᳚-स्स॒म्भृत्याः॒ खलु॒ खलु॑ स॒म्भृत्याः᳚ । 21) स॒म्भृत्या॑ ए॒वैव स॒म्भृत्या᳚-स्स॒म्भृत्या॑ ए॒व । 21) स॒म्भृत्या॒ इति॑ सं - भृत्याः᳚ । 22) ए॒व स॑म्भा॒रा-स्स॑म्भा॒रा ए॒वैव स॑म्भा॒राः । 23) स॒म्भा॒राः क॑र्त॒व्य॑-ङ्कर्त॒व्य(ग्म्॑) सम्भा॒रा-स्स॑म्भा॒राः क॑र्त॒व्य᳚म् । 23) स॒म्भा॒रा इति॑ सं - भा॒राः । 24) क॒र्त॒व्यं॑-यँजु॒-र्यजुः॑ कर्त॒व्य॑-ङ्कर्त॒व्यं॑-यँजुः॑ । 25) यजु॑-र्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यजु॒-र्यजु॑-र्य॒ज्ञस्य॑ । 26) य॒ज्ञस्य॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ समृ॑द्ध्यै । 27) समृ॑द्ध्यै पुनर्निष्कृ॒तः पु॑नर्निष्कृ॒त-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै पुनर्निष्कृ॒तः । 27) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । 28) पु॒न॒र्नि॒ष्कृ॒तो रथो॒ रथः॑ पुनर्निष्कृ॒तः पु॑नर्निष्कृ॒तो रथः॑ । 28) पु॒न॒र्नि॒ष्कृ॒त इति॑ पुनः - नि॒ष्कृ॒तः । 29) रथो॒ दक्षि॑णा॒ दक्षि॑णा॒ रथो॒ रथो॒ दक्षि॑णा । 30) दक्षि॑णा पुनरुथ्स्यू॒त-म्पु॑नरुथ्स्यू॒त-न्दक्षि॑णा॒ दक्षि॑णा पुनरुथ्स्यू॒तम् । 31) पु॒न॒रु॒थ्स्यू॒तं-वाँसो॒वासः॑ पुनरुथ्स्यू॒त-म्पु॑नरुथ्स्यू॒तं-वाँसः॑ । 31) पु॒न॒रु॒थ्स्यू॒तमिति॑ पुनः - उ॒थ्स्यू॒तम् । 32) वासः॑ पुनरुथ्सृ॒ष्टः पु॑नरुथ्सृ॒ष्टो वासो॒वासः॑ पुनरुथ्सृ॒ष्टः । 33) पु॒न॒रु॒थ्सृ॒ष्टो॑ ऽन॒ड्वा न॑न॒ड्वा-न्पु॑नरुथ्सृ॒ष्टः पु॑नरुथ्सृ॒ष्टो॑ ऽन॒ड्वान् । 33) पु॒न॒रु॒थ्सृ॒ष्ट इति॑ पुनः - उ॒थ्सृ॒ष्टः । 34) अ॒न॒ड्वा-न्पु॑नरा॒धेय॑स्य पुनरा॒धेय॑स्यान॒ड्वा न॑न॒ड्वा-न्पु॑नरा॒धेय॑स्य । 35) पु॒न॒रा॒धेय॑स्य॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै पुनरा॒धेय॑स्य पुनरा॒धेय॑स्य॒ समृ॑द्ध्यै । 35) पु॒न॒रा॒धेय॒स्येति॑ पुनः - आ॒धेय॑स्य । 36) समृ॑द्ध्यै स॒प्त स॒प्त समृ॑द्ध्यै॒ समृ॑द्ध्यै स॒प्त । 36) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । 37) स॒प्त ते॑ ते स॒प्त स॒प्त ते᳚ । 38) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 39) अ॒ग्ने॒ स॒मिध॑-स्स॒मिधो᳚ ऽग्ने ऽग्ने स॒मिधः॑ । 40) स॒मिध॑-स्स॒प्त स॒प्त स॒मिध॑-स्स॒मिध॑-स्स॒प्त । 40) स॒मिध॒ इति॑ सं - इधः॑ । 41) स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वाः । 42) जि॒ह्वा इतीति॑ जि॒ह्वा जि॒ह्वा इति॑ । 43) इत्य॑ग्निहो॒त्र म॑ग्निहो॒त्र मितीत्य॑ग्निहो॒त्रम् । 44) अ॒ग्नि॒हो॒त्र-ञ्जु॑होति जुहोत्यग्निहो॒त्र म॑ग्निहो॒त्र-ञ्जु॑होति । 44) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । 45) जु॒हो॒ति॒ यत्र॑यत्र॒ यत्र॑यत्र जुहोति जुहोति॒ यत्र॑यत्र । 46) यत्र॑यत्रै॒वैव यत्र॑यत्र॒ यत्र॑यत्रै॒व । 46) यत्र॑य॒त्रेति॒ यत्र॑ - य॒त्र॒ । 47) ए॒वास्या᳚स्यै॒वैवास्य॑ । 48) अ॒स्य॒ न्य॑क्त॒न्न्य॑क्त मस्यास्य॒ न्य॑क्तम् । 49) न्य॑क्त॒-न्तत॒स्ततो॒ न्य॑क्त॒न्न्य॑क्त॒-न्ततः॑ । 49) न्य॑क्त॒मिति॒ नि - अ॒क्त॒म् । 50) तत॑ ए॒वैव तत॒स्तत॑ ए॒व । ॥ 8 ॥ (50/68)
1) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 2) ए॒न॒ मवावै॑न मेन॒ मव॑ । 3) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 4) रु॒न्धे॒ वी॒र॒हा वी॑र॒हा रु॑न्धे रुन्धे वीर॒हा । 5) वी॒र॒हा वै वै वी॑र॒हा वी॑र॒हा वै । 5) वी॒र॒हेति॑ वीर - हा । 6) वा ए॒ष ए॒ष वै वा ए॒षः । 7) ए॒ष दे॒वाना᳚-न्दे॒वाना॑ मे॒ष ए॒ष दे॒वाना᳚म् । 8) दे॒वानां॒-योँ यो दे॒वाना᳚-न्दे॒वानां॒-यः ँ। 9) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 10) अ॒ग्नि मु॑द्वा॒सय॑त उद्वा॒सय॑ते॒ ऽग्नि म॒ग्नि मु॑द्वा॒सय॑ते । 11) उ॒द्वा॒सय॑ते॒ तस्य॒ तस्यो᳚द्वा॒सय॑त उद्वा॒सय॑ते॒ तस्य॑ । 11) उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते । 12) तस्य॒ वरु॑णो॒ वरु॑ण॒स्तस्य॒ तस्य॒ वरु॑णः । 13) वरु॑ण ए॒वैव वरु॑णो॒ वरु॑ण ए॒व । 14) ए॒व र्ण॒यादृ॑ण॒यादे॒वैव र्ण॒यात् । 15) ऋ॒ण॒यादा᳚ग्निवारु॒ण मा᳚ग्निवारु॒ण मृ॑ण॒यादृ॑ण॒यादा᳚ग्निवारु॒णम् । 15) ऋ॒ण॒यादित्यृ॑ण - यात् । 16) आ॒ग्नि॒वा॒रु॒ण मेका॑दशकपाल॒ मेका॑दशकपाल माग्निवारु॒ण मा᳚ग्निवारु॒ण मेका॑दशकपालम् । 16) आ॒ग्नि॒वा॒रु॒णमित्या᳚ग्नि - वा॒रु॒णम् । 17) एका॑दशकपाल॒ मन्वन्वेका॑दशकपाल॒ मेका॑दशकपाल॒ मनु॑ । 17) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । 18) अनु॒ नि-र्णिरन्वनु॒ निः । 19) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् । 20) व॒पे॒-द्यं-यंँ व॑पे-द्वपे॒-द्यम् । 21) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 22) चै॒वैव च॑ चै॒व । 23) ए॒व हन्ति॒ हन्त्ये॒वैव हन्ति॑ । 24) हन्ति॒ यो यो हन्ति॒ हन्ति॒ यः । 25) यश्च॑ च॒ यो यश्च॑ । 26) चा॒स्या॒स्य॒ च॒ चा॒स्य॒ । 27) अ॒स्य॒ र्ण॒यादृ॑ण॒याद॑स्यास्य र्ण॒यात् । 28) ऋ॒ण॒या-त्तौ ता वृ॑ण॒यादृ॑ण॒या-त्तौ । 28) ऋ॒ण॒यादित्यृ॑ण - यात् । 29) तौ भा॑ग॒धेये॑न भाग॒धेये॑न॒ तौ तौ भा॑ग॒धेये॑न । 30) भा॒ग॒धेये॑न प्रीणाति प्रीणाति भाग॒धेये॑न भाग॒धेये॑न प्रीणाति । 30) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । 31) प्री॒णा॒ति॒ न न प्री॑णाति प्रीणाति॒ न । 32) नार्ति॒ मार्ति॒न्न नार्ति᳚म् । 33) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 34) आर्च्छ॑त्यृच्छ॒त्यार्च्छ॑ति । 35) ऋ॒च्छ॒ति॒ यज॑मानो॒ यज॑मान ऋच्छत्यृच्छति॒ यज॑मानः । 36) यज॑मान॒ इति॒ यज॑मानः । ॥ 9 ॥ (36/43) ॥ अ. 2 ॥
1) भूमि॑-र्भू॒म्ना भू॒म्ना भूमि॒-र्भूमि॑-र्भू॒म्ना । 2) भू॒म्ना द्यौ-र्द्यौ-र्भू॒म्ना भू॒म्ना द्यौः । 3) द्यौ-र्व॑रि॒णा व॑रि॒णा द्यौ-र्द्यौ-र्व॑रि॒णा । 4) व॒रि॒णा ऽन्तरि॑क्ष म॒न्तरि॑क्षं-वँरि॒णा व॑रि॒णा ऽन्तरि॑क्षम् । 5) अ॒न्तरि॑क्ष-म्महि॒त्वा म॑हि॒त्वा ऽन्तरि॑क्ष म॒न्तरि॑क्ष-म्महि॒त्वा । 6) म॒हि॒त्वेति॑ महि - त्वा । 7) उ॒पस्थे॑ ते त उ॒पस्थ॑ उ॒पस्थे॑ ते । 7) उ॒पस्थ॒ इत्यु॒प - स्थे॒ । 8) ते॒ दे॒वि॒ दे॒वि॒ ते॒ ते॒ दे॒वि॒ । 9) दे॒व्य॒दि॒ते॒ ऽदि॒ते॒ दे॒वि॒ दे॒व्य॒दि॒ते॒ । 10) अ॒दि॒ते॒ ऽग्नि म॒ग्नि म॑दिते ऽदिते॒ ऽग्निम् । 11) अ॒ग्नि म॑न्ना॒द म॑न्ना॒द म॒ग्नि म॒ग्नि म॑न्ना॒दम् । 12) अ॒न्ना॒द म॒न्नाद्या॑या॒ न्नाद्या॑या न्ना॒द म॑न्ना॒द म॒न्नाद्या॑य । 12) अ॒न्ना॒दमित्य॑न्न - अ॒दम् । 13) अ॒न्नाद्या॒या ऽन्नाद्या॑या॒ न्नाद्या॒या । 13) अ॒न्नाद्या॒येत्य॑न्न - अद्या॑य । 14) आ द॑धे दध॒ आ द॑धे । 15) द॒ध॒ इति॑ दधे । 16) आ ऽय म॒य मा ऽयम् । 17) अ॒य-ङ्गौ-र्गौर॒य म॒य-ङ्गौः । 18) गौः पृश्ञिः॒ पृश्ञि॒-र्गौ-र्गौः पृश्ञिः॑ । 19) पृश्ञि॑ रक्रमी दक्रमी॒-त्पृश्ञिः॒ पृश्ञि॑ रक्रमीत् । 20) अ॒क्र॒मी॒ दस॑न॒ दस॑न दक्रमी दक्रमी॒ दस॑नत् । 21) अस॑न-न्मा॒तर॑-म्मा॒तर॒ मस॑न॒ दस॑न-न्मा॒तर᳚म् । 22) मा॒तर॒-म्पुनः॒ पुन॑-र्मा॒तर॑-म्मा॒तर॒-म्पुनः॑ । 23) पुन॒रिति॒ पुनः॑ । 24) पि॒तर॑-ञ्च च पि॒तर॑-म्पि॒तर॑-ञ्च । 25) च॒ प्र॒य-न्प्र॒यग्ग्श्च॑ च प्र॒यन्न् । 26) प्र॒य-न्थ्सुव॒-स्सुवः॑ प्र॒य-न्प्र॒य-न्थ्सुवः॑ । 26) प्र॒यन्निति॑ प्र - यन्न् । 27) सुव॒रिति॒ सुवः॑ । 28) त्रि॒(ग्म्॒)श-द्धाम॒ धाम॑ त्रि॒(ग्म्॒)श-त्त्रि॒(ग्म्॒)श-द्धाम॑ । 29) धाम॒ वि वि धाम॒ धाम॒ वि । 30) वि रा॑जति राजति॒ वि वि रा॑जति । 31) रा॒ज॒ति॒ वाग् वाग् रा॑जति राजति॒ वाक् । 32) वा-क्प॑त॒ङ्गाय॑ पत॒ङ्गाय॒ वाग् वा-क्प॑त॒ङ्गाय॑ । 33) प॒त॒ङ्गाय॑ शिश्रिये शिश्रिये पत॒ङ्गाय॑ पत॒ङ्गाय॑ शिश्रिये । 34) शि॒श्रि॒य॒ इति॑ शिश्रिये । 35) प्रत्य॑स्यास्य॒ प्रति॒ प्रत्य॑स्य । 36) अ॒स्य॒ व॒ह॒ व॒हा॒स्या॒स्य॒ व॒ह॒ । 37) व॒ह॒ द्युभि॒-र्द्युभि॑-र्वह वह॒ द्युभिः॑ । 38) द्युभि॒रिति॒ द्यु - भिः॒ । 39) अ॒स्य प्रा॒णा-त्प्रा॒णा द॒स्यास्य प्रा॒णात् । 40) प्रा॒णा द॑पान॒त्य॑पान॒ती प्रा॒णा-त्प्रा॒णाद॑पान॒ती । 40) प्रा॒णादिति॑ प्र - अ॒नात् । 41) अ॒पा॒न॒त्य॑न्त र॒न्त र॑पान॒त्य॑पान॒त्य॑न्तः । 41) अ॒पा॒न॒तीत्य॑प - अ॒न॒ती । 42) अ॒न्तश्च॑रति चरत्य॒न्त र॒न्तश्च॑रति । 43) च॒र॒ति॒ रो॒च॒ना रो॑च॒ना च॑रति चरति रोच॒ना । 44) रो॒च॒नेति॑ रोच॒ना । 45) व्य॑ख्यदख्य॒-द्वि व्य॑ख्यत् । 46) अ॒ख्य॒-न्म॒हि॒षो म॑हि॒षो᳚ ऽख्यदख्य-न्महि॒षः । 47) म॒हि॒ष-स्सुव॒-स्सुव॑-र्महि॒षो म॑हि॒ष-स्सुवः॑ । 48) सुव॒रिति॒ सुवः॑ । 49) य-त्त्वा᳚ त्वा॒ य-द्य-त्त्वा᳚ । 50) त्वा॒ क्रु॒द्धः क्रु॒द्धस्त्वा᳚ त्वा क्रु॒द्धः । ॥ 10 ॥ (50/56)
1) क्रु॒द्धः प॑रो॒वप॑ परो॒वप॑ क्रु॒द्धः क्रु॒द्धः प॑रो॒वप॑ । 2) प॒रो॒वप॑ म॒न्युना॑ म॒न्युना॑ परो॒वप॑ परो॒वप॑ म॒न्युना᳚ । 2) प॒रो॒वपेति॑ परा - उ॒पव॑ । 3) म॒न्युना॒ य-द्य-न्म॒न्युना॑ म॒न्युना॒ यत् । 4) यदव॒र्त्या ऽव॑र्त्या॒ य-द्यदव॑र्त्या । 5) अव॒र्त्येत्यव॑र्त्या । 6) सु॒कल्प॑ मग्ने ऽग्ने सु॒कल्प(ग्म्॑) सु॒कल्प॑ मग्ने । 6) सु॒कल्प॒मिति॑ सु - कल्प᳚म् । 7) अ॒ग्ने॒ त-त्तद॑ग्ने ऽग्ने॒ तत् । 8) त-त्तव॒ तव॒ त-त्त-त्तव॑ । 9) तव॒ पुनः॒ पुन॒स्तव॒ तव॒ पुनः॑ । 10) पुन॑स्त्वा त्वा॒ पुनः॒ पुन॑स्त्वा । 11) त्वोदु-त्त्वा॒ त्वोत् । 12) उ-द्दी॑पयामसि दीपयाम॒स्युदु-द्दी॑पयामसि । 13) दी॒प॒या॒म॒सीति॑ दीपयामसि । 14) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 15) ते॒ म॒न्युप॑रोप्तस्य म॒न्युप॑रोप्तस्य ते ते म॒न्युप॑रोप्तस्य । 16) म॒न्युप॑रोप्तस्य पृथि॒वी-म्पृ॑थि॒वी-म्म॒न्युप॑रोप्तस्य म॒न्युप॑रोप्तस्य पृथि॒वीम् । 16) म॒न्युप॑रोप्त॒स्येति॑ म॒न्यु - प॒रो॒प्त॒स्य॒ । 17) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ । 18) अनु॑ दद्ध्व॒से द॑द्ध्व॒से ऽन्वनु॑ दद्ध्व॒से । 19) द॒द्ध्व॒स इति॑ दद्ध्व॒से । 20) आ॒दि॒त्या विश्वे॒ विश्व॑ आदि॒त्या आ॑दि॒त्या विश्वे᳚ । 21) विश्वे॒ त-त्त-द्विश्वे॒ विश्वे॒ तत् । 22) त-द्दे॒वा दे॒वास्त-त्त-द्दे॒वाः । 23) दे॒वा वस॑वो॒ वस॑वो दे॒वा दे॒वा वस॑वः । 24) वस॑वश्च च॒ वस॑वो॒ वस॑वश्च । 25) च॒ स॒माभ॑र-न्थ्स॒माभ॑रग्ग्श्च च स॒माभ॑रन्न् । 26) स॒माभ॑र॒न्निति॑ सं - आभ॑रन्न् । 27) मनो॒ ज्योति॒-र्ज्योति॒-र्मनो॒ मनो॒ ज्योतिः॑ । 28) ज्योति॑-र्जुषता-ञ्जुषता॒-ञ्ज्योति॒-र्ज्योति॑-र्जुषताम् । 29) जु॒ष॒ता॒ माज्य॒ माज्य॑-ञ्जुषता-ञ्जुषता॒ माज्य᳚म् । 30) आज्यं॒-विँच्छि॑न्नं॒-विँच्छि॑न्न॒ माज्य॒ माज्यं॒-विँच्छि॑न्नम् । 31) विच्छि॑न्नं-यँ॒ज्ञं-यँ॒ज्ञं-विँच्छि॑न्नं॒-विँच्छि॑न्नं-यँ॒ज्ञम् । 31) विच्छि॑न्न॒मिति॒ वि - छि॒न्न॒म् । 32) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् । 33) स मि॒म मि॒मग्ं सग्ं स मि॒मम् । 34) इ॒म-न्द॑धातु दधात्वि॒म मि॒म-न्द॑धातु । 35) द॒धा॒त्विति॑ दधातु । 36) बृह॒स्पति॑ स्तनुता-न्तनुता॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑ स्तनुताम् । 37) त॒नु॒ता॒ मि॒म मि॒म-न्त॑नुता-न्तनुता मि॒मम् । 38) इ॒मन्नो॑ न इ॒म मि॒मन्नः॑ । 39) नो॒ विश्वे॒ विश्वे॑ नो नो॒ विश्वे᳚ । 40) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः । 41) दे॒वा इ॒हे ह दे॒वा दे॒वा इ॒ह । 42) इ॒ह मा॑दयन्ता-म्मादयन्ता मि॒हे ह मा॑दयन्ताम् । 43) मा॒द॒य॒न्ता॒मिति॑ मादयन्ताम् । 44) स॒प्त ते॑ ते स॒प्त स॒प्त ते᳚ । 45) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 46) अ॒ग्ने॒ स॒मिध॑-स्स॒मिधो᳚ ऽग्ने ऽग्ने स॒मिधः॑ । 47) स॒मिध॑-स्स॒प्त स॒प्त स॒मिध॑-स्स॒मिध॑-स्स॒प्त । 47) स॒मिध॒ इति॑ सं - इधः॑ । 48) स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वाः । 49) जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त । 50) स॒प्त र्ष॑य॒ ऋष॑य-स्स॒प्त स॒प्त र्ष॑यः । ॥ 11 ॥ (50/55)
1) ऋष॑य-स्स॒प्त स॒प्त र्ष॑य॒ ऋष॑य-स्स॒प्त । 2) स॒प्त धाम॒ धाम॑ स॒प्त स॒प्त धाम॑ । 3) धाम॑ प्रि॒याणि॑ प्रि॒याणि॒ धाम॒ धाम॑ प्रि॒याणि॑ । 4) प्रि॒याणीति॑ प्रि॒याणि॑ । 5) स॒प्त होत्रा॒ होत्रा᳚-स्स॒प्त स॒प्त होत्राः᳚ । 6) होत्रा᳚-स्सप्त॒धा स॑प्त॒धा होत्रा॒ होत्रा᳚-स्सप्त॒धा । 7) स॒प्त॒धा त्वा᳚ त्वा सप्त॒धा स॑प्त॒धा त्वा᳚ । 7) स॒प्त॒धेति॑ सप्त - धा । 8) त्वा॒ य॒ज॒न्ति॒ य॒ज॒न्ति॒ त्वा॒ त्वा॒ य॒ज॒न्ति॒ । 9) य॒ज॒न्ति॒ स॒प्त स॒प्त य॑जन्ति यजन्ति स॒प्त । 10) स॒प्त योनी॒-र्योनी᳚-स्स॒प्त स॒प्त योनीः᳚ । 11) योनी॒रा योनी॒-र्योनी॒रा । 12) आ पृ॑णस्व पृण॒स्वा पृ॑णस्व । 13) पृ॒ण॒स्वा॒ घृ॒तेन॑ घृ॒तेन॑ पृणस्व पृणस्वा घृ॒तेन॑ । 14) घृ॒तेनेति॑ घृ॒तेन॑ । 15) पुन॑ रू॒र्जोर्जा पुनः॒ पुन॑ रू॒र्जा । 16) ऊ॒र्जा नि न्यू᳚र्जोर्जा नि । 17) नि व॑र्तस्व वर्तस्व॒ नि नि व॑र्तस्व । 18) व॒र्त॒स्व॒ पुनः॒ पुन॑-र्वर्तस्व वर्तस्व॒ पुनः॑ । 19) पुन॑ रग्ने ऽग्ने॒ पुनः॒ पुन॑ रग्ने । 20) अ॒ग्न॒ इ॒षेषा ऽग्ने᳚ ऽग्न इ॒षा । 21) इ॒षा ऽऽयु॒षा ऽऽयु॑षे॒षेषा ऽऽयु॑षा । 22) आयु॒षेत्यायु॑षा । 23) पुन॑-र्नो नः॒ पुनः॒ पुन॑-र्नः । 24) नः॒ पा॒हि॒ पा॒हि॒ नो॒ नः॒ पा॒हि॒ । 25) पा॒हि॒ वि॒श्वतो॑ वि॒श्वत॑ स्पाहि पाहि वि॒श्वतः॑ । 26) वि॒श्वत॒ इति॑ वि॒श्वतः॑ । 27) स॒ह र॒य्या र॒य्या स॒ह स॒ह र॒य्या । 28) र॒य्या नि नि र॒य्या र॒य्या नि । 29) नि व॑र्तस्व वर्तस्व॒ नि नि व॑र्तस्व । 30) व॒र्त॒स्वाग्ने ऽग्ने॑ वर्तस्व वर्त॒स्वाग्ने᳚ । 31) अग्ने॒ पिन्व॑स्व॒ पिन्व॒स्वाग्ने ऽग्ने॒ पिन्व॑स्व । 32) पिन्व॑स्व॒ धार॑या॒ धार॑या॒ पिन्व॑स्व॒ पिन्व॑स्व॒ धार॑या । 33) धार॒येति॒ धार॑या । 34) वि॒श्वफ्स्नि॑या वि॒श्वतो॑ वि॒श्वतो॑ वि॒श्वफ्स्नि॑या वि॒श्वफ्स्नि॑या वि॒श्वतः॑ । 34) वि॒श्वफ्स्नि॒येति॑ वि॒श्व - फ्स्नि॒या॒ । 35) वि॒श्वत॒ स्परि॒ परि॑ वि॒श्वतो॑ वि॒श्वत॒ स्परि॑ । 36) परीति॒ परि॑ । 37) लेक॒-स्सले॑क॒-स्सले॑को॒ लेको॒ लेक॒-स्सले॑कः । 38) सले॑क-स्सु॒लेक॑-स्सु॒लेक॒-स्सले॑क॒-स्सले॑क-स्सु॒लेकः॑ । 38) सले॑क॒ इति॒ स - ले॒कः॒ । 39) सु॒लेक॒स्ते ते सु॒लेक॑-स्सु॒लेक॒स्ते । 39) सु॒लेक॒ इति॑ सु - लेकः॑ । 40) ते नो॑ न॒स्ते ते नः॑ । 41) न॒ आ॒दि॒त्या आ॑दि॒त्या नो॑ न आदि॒त्याः । 42) आ॒दि॒त्या आज्य॒ माज्य॑ मादि॒त्या आ॑दि॒त्या आज्य᳚म् । 43) आज्य॑-ञ्जुषा॒णा जु॑षा॒णा आज्य॒ माज्य॑-ञ्जुषा॒णाः । 44) जु॒षा॒णा वि॑यन्तु वियन्तु जुषा॒णा जु॑षा॒णा वि॑यन्तु । 45) वि॒य॒न्तु॒ केतः॒ केतो॑ वियन्तु वियन्तु॒ केतः॑ । 46) केत॒-स्सके॑त॒-स्सके॑तः॒ केतः॒ केत॒-स्सके॑तः । 47) सके॑त-स्सु॒केत॑-स्सु॒केत॒-स्सके॑त॒-स्सके॑त-स्सु॒केतः॑ । 47) सके॑त॒ इति॒ स - के॒तः॒ । 48) सु॒केत॒स्ते ते सु॒केत॑-स्सु॒केत॒स्ते । 48) सु॒केत॒ इति॑ सु - केतः॑ । 49) ते नो॑ न॒स्ते ते नः॑ । 50) न॒ आ॒दि॒त्या आ॑दि॒त्या नो॑ न आदि॒त्याः । 51) आ॒दि॒त्या आज्य॒ माज्य॑ मादि॒त्या आ॑दि॒त्या आज्य᳚म् । 52) आज्य॑-ञ्जुषा॒णा जु॑षा॒णा आज्य॒ माज्य॑-ञ्जुषा॒णाः । 53) जु॒षा॒णा वि॑यन्तु वियन्तु जुषा॒णा जु॑षा॒णा वि॑यन्तु । 54) वि॒य॒न्तु॒ विव॑स्वा॒न्॒. विव॑स्वान्. वियन्तु वियन्तु॒ विव॑स्वान् । 55) विव॑स्वा॒(ग्म्॒) अदि॑ति॒ रदि॑ति॒-र्विव॑स्वा॒न्॒. विव॑स्वा॒(ग्म्॒) अदि॑तिः । 56) अदि॑ति॒-र्देव॑जूति॒-र्देव॑जूति॒ रदि॑ति॒ रदि॑ति॒-र्देव॑जूतिः । 57) देव॑जूति॒स्ते ते देव॑जूति॒-र्देव॑जूति॒स्ते । 57) देव॑जूति॒रिति॒ देव॑ - जू॒तिः॒ । 58) ते नो॑ न॒स्ते ते नः॑ । 59) न॒ आ॒दि॒त्या आ॑दि॒त्या नो॑ न आदि॒त्याः । 60) आ॒दि॒त्या आज्य॒ माज्य॑ मादि॒त्या आ॑दि॒त्या आज्य᳚म् । 61) आज्य॑-ञ्जुषा॒णा जु॑षा॒णा आज्य॒ माज्य॑-ञ्जुषा॒णाः । 62) जु॒षा॒णा वि॑यन्तु वियन्तु जुषा॒णा जु॑षा॒णा वि॑यन्तु । 63) वि॒य॒न्त्विति॑ वियन्तु । ॥ 12 ॥ (63/70) ॥ अ. 3 ॥
1) भूमि॑-र्भू॒म्ना भू॒म्ना भूमि॒-र्भूमि॑-र्भू॒म्ना । 2) भू॒म्ना द्यौ-र्द्यौ-र्भू॒म्ना भू॒म्ना द्यौः । 3) द्यौ-र्व॑रि॒णा व॑रि॒णा द्यौ-र्द्यौ-र्व॑रि॒णा । 4) व॒रि॒णेतीति॑ वरि॒णा व॑रि॒णेति॑ । 5) इत्या॑हा॒हे तीत्या॑ह । 6) आ॒हा॒शिषा॒ ऽऽशिषा॑ ऽऽहाहा॒शिषा᳚ । 7) आ॒शिषै॒वैवाशिषा॒ ऽऽशिषै॒व । 7) आ॒शिषेत्या᳚ - शिषा᳚ । 8) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 9) ए॒न॒ मैन॑ मेन॒ मा । 10) आ ध॑त्ते धत्त॒ आ ध॑त्ते । 11) ध॒त्ते॒ स॒र्पा-स्स॒र्पा ध॑त्ते धत्ते स॒र्पाः । 12) स॒र्पा वै वै स॒र्पा-स्स॒र्पा वै । 13) वै जीर्य॑न्तो॒ जीर्य॑न्तो॒ वै वै जीर्य॑न्तः । 14) जीर्य॑न्तो ऽमन्यन्तामन्यन्त॒ जीर्य॑न्तो॒ जीर्य॑न्तो ऽमन्यन्त । 15) अ॒म॒न्य॒न्त॒ स सो॑ ऽमन्यन्तामन्यन्त॒ सः । 16) स ए॒त मे॒तग्ं स स ए॒तम् । 17) ए॒त-ङ्क॑स॒र्णीरः॑ कस॒र्णीर॑ ए॒त मे॒त-ङ्क॑स॒र्णीरः॑ । 18) क॒स॒र्णीरः॑ काद्रवे॒यः का᳚द्रवे॒यः क॑स॒र्णीरः॑ कस॒र्णीरः॑ काद्रवे॒यः । 19) का॒द्र॒वे॒यो मन्त्र॒-म्मन्त्र॑-ङ्काद्रवे॒यः का᳚द्रवे॒यो मन्त्र᳚म् । 20) मन्त्र॑ मपश्यदपश्य॒-न्मन्त्र॒-म्मन्त्र॑ मपश्यत् । 21) अ॒प॒श्य॒-त्तत॒स्ततो॑ ऽपश्यदपश्य॒-त्ततः॑ । 22) ततो॒ वै वै तत॒स्ततो॒ वै । 23) वै ते ते वै वै ते । 24) ते जी॒र्णा जी॒र्णास्ते ते जी॒र्णाः । 25) जी॒र्णा स्त॒नू स्त॒नू-र्जी॒र्णा जी॒र्णास्त॒नूः । 26) त॒नूरपाप॑ त॒नूस्त॒नूरप॑ । 27) अपा᳚घ्नताघ्न॒तापापा᳚घ्नत । 28) अ॒घ्न॒त॒ स॒र्प॒रा॒ज्ञिया᳚-स्सर्परा॒ज्ञिया॑ अघ्नताघ्नत सर्परा॒ज्ञियाः᳚ । 29) स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिर्-ऋ॒ग्भि-स्स॑र्परा॒ज्ञिया᳚-स्सर्परा॒ज्ञिया॑ ऋ॒ग्भिः । 29) स॒र्प॒रा॒ज्ञिया॒ इति॑ सर्प - रा॒ज्ञियाः᳚ । 30) ऋ॒ग्भि-र्गार्ह॑पत्य॒-ङ्गार्ह॑पत्य मृ॒ग्भिर्-ऋ॒ग्भि-र्गार्ह॑पत्यम् । 30) ऋ॒ग्भिरित्यृ॑क् - भिः । 31) गार्ह॑पत्य॒ मा गार्ह॑पत्य॒-ङ्गार्ह॑पत्य॒ मा । 31) गार्ह॑पत्य॒मिति॒ गार्ह॑ - प॒त्य॒म् । 32) आ द॑धाति दधा॒त्या द॑धाति । 33) द॒धा॒ति॒ पु॒न॒र्न॒व-म्पु॑नर्न॒व-न्द॑धाति दधाति पुनर्न॒वम् । 34) पु॒न॒र्न॒व मे॒वैव पु॑नर्न॒व-म्पु॑नर्न॒व मे॒व । 34) पु॒न॒र्न॒वमिति॑ पुनः - न॒वम् । 35) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 36) ए॒न॒ म॒जर॑ म॒जर॑ मेन मेन म॒जर᳚म् । 37) अ॒जर॑-ङ्कृ॒त्वा कृ॒त्वा ऽजर॑ म॒जर॑-ङ्कृ॒त्वा । 38) कृ॒त्वा ऽऽध॑त्ते धत्त॒ आ कृ॒त्वा कृ॒त्वा ऽऽध॑त्ते । 39) आ ध॑त्ते धत्त॒ आ ध॑त्ते । 40) ध॒त्ते ऽथो॒ अथो॑ धत्ते ध॒त्ते ऽथो᳚ । 41) अथो॑ पू॒त-म्पू॒त मथो॒ अथो॑ पू॒तम् । 41) अथो॒ इत्यथो᳚ । 42) पू॒त मे॒वैव पू॒त-म्पू॒त मे॒व । 43) ए॒व पृ॑थि॒वी-म्पृ॑थि॒वी मे॒वैव पृ॑थि॒वीम् । 44) पृ॒थि॒वी म॒न्नाद्य॑ म॒न्नाद्य॑-म्पृथि॒वी-म्पृ॑थि॒वी म॒न्नाद्य᳚म् । 45) अ॒न्नाद्य॒न्न नान्नाद्य॑ म॒न्नाद्य॒न्न । 45) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 46) नोपोप॒ न नोप॑ । 47) उपा॑नमदनम॒ दुपोपा॑नमत् । 48) अ॒न॒म॒-थ्सा सा ऽन॑मदनम॒-थ्सा । 49) सैत मे॒तग्ं सा सैतम् । 50) ए॒त-म्मन्त्र॒-म्मन्त्र॑ मे॒त मे॒त-म्मन्त्र᳚म् । ॥ 13 ॥ (50/57)
1) मन्त्र॑ मपश्य दपश्य॒-न्मन्त्र॒-म्मन्त्र॑ मपश्यत् । 2) अ॒प॒श्य॒-त्तत॒स्ततो॑ ऽपश्य दपश्य॒-त्ततः॑ । 3) ततो॒ वै वै तत॒स्ततो॒ वै । 4) वै ता-न्तां-वैँ वै ताम् । 5) ता म॒न्नाद्य॑ म॒न्नाद्य॒-न्ता-न्ता म॒न्नाद्य᳚म् । 6) अ॒न्नाद्य॒ मुपोपा॒न्नाद्य॑ म॒न्नाद्य॒ मुप॑ । 6) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 7) उपा॑नमदनम॒ दुपोपा॑नमत् । 8) अ॒न॒म॒-द्य-द्यद॑नमदनम॒-द्यत् । 9) य-थ्स॑र्परा॒ज्ञिया᳚-स्सर्परा॒ज्ञिया॒ य-द्य-थ्स॑र्परा॒ज्ञियाः᳚ । 10) स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिर्-ऋ॒ग्भि-स्स॑र्परा॒ज्ञिया᳚-स्सर्परा॒ज्ञिया॑ ऋ॒ग्भिः । 10) स॒र्प॒रा॒ज्ञिया॒ इति॑ सर्प - रा॒ज्ञियाः᳚ । 11) ऋ॒ग्भि-र्गार्ह॑पत्य॒-ङ्गार्ह॑पत्य मृ॒ग्भिर्-ऋ॒ग्भि-र्गार्ह॑पत्यम् । 11) ऋ॒ग्भिरित्यृ॑क् - भिः । 12) गार्ह॑पत्य मा॒दधा᳚त्या॒दधा॑ति॒ गार्ह॑पत्य॒-ङ्गार्ह॑पत्य मा॒दधा॑ति । 12) गार्ह॑पत्य॒मिति॒ गार्ह॑ - प॒त्य॒म् । 13) आ॒दधा᳚ त्य॒न्नाद्य॑स्या॒ न्नाद्य॑स्या॒दधा᳚ त्या॒दधा᳚त्य॒न्नाद्य॑स्य । 13) आ॒दधा॒तीत्या᳚ - दधा॑ति । 14) अ॒न्नाद्य॒स्याव॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑स्या॒न्नाद्य॒स्याव॑रुद्ध्यै । 14) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । 15) अव॑रुद्ध्या॒ अथो॒ अथो॒ अव॑रुद्ध्या॒ अव॑रुद्ध्या॒ अथो᳚ । 15) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 16) अथो॑ अ॒स्या म॒स्या मथो॒ अथो॑ अ॒स्याम् । 16) अथो॒ इत्यथो᳚ । 17) अ॒स्या मे॒वैवास्या म॒स्या मे॒व । 18) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 19) ए॒न॒-म्प्रति॑ष्ठित॒-म्प्रति॑ष्ठित मेन मेन॒-म्प्रति॑ष्ठितम् । 20) प्रति॑ष्ठित॒ मा प्रति॑ष्ठित॒-म्प्रति॑ष्ठित॒ मा । 20) प्रति॑ष्ठित॒मिति॒ प्रति॑ - स्थि॒त॒म् । 21) आ ध॑त्ते धत्त॒ आ ध॑त्ते । 22) ध॒त्ते॒ य-द्य-द्ध॑त्ते धत्ते॒ यत् । 23) य-त्त्वा᳚ त्वा॒ य-द्य-त्त्वा᳚ । 24) त्वा॒ क्रु॒द्धः क्रु॒द्धस्त्वा᳚ त्वा क्रु॒द्धः । 25) क्रु॒द्धः प॑रो॒वप॑ परो॒वप॑ क्रु॒द्धः क्रु॒द्धः प॑रो॒वप॑ । 26) प॒रो॒वपे तीति॑ परो॒वप॑ परो॒वपे ति॑ । 26) प॒रो॒वपेति॑ परा - उ॒वप॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒हापापा॑हा॒हाप॑ । 29) अप॑ ह्नुते ह्नु॒ते ऽपाप॑ ह्नुते । 30) ह्नु॒त॒ ए॒वैव ह्नु॑ते ह्नुत ए॒व । 31) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 32) अ॒स्मै॒ त-त्तद॑स्मा अस्मै॒ तत् । 33) त-त्पुनः॒ पुन॒स्त-त्त-त्पुनः॑ । 34) पुन॑स्त्वा त्वा॒ पुनः॒ पुन॑स्त्वा । 35) त्वोदु-त्त्वा॒ त्वोत् । 36) उ-द्दी॑पयामसि दीपयाम॒स्युदु-द्दी॑पयामसि । 37) दी॒प॒या॒म॒सीतीति॑ दीपयामसि दीपयाम॒सीति॑ । 38) इत्या॑हा॒हे तीत्या॑ह । 39) आ॒ह॒ सग्ं स मा॑हाह॒ सम् । 40) स मि॑न्ध इन्धे॒ सग्ं स मि॑न्धे । 41) इ॒न्ध॒ ए॒वैवे न्ध॑ इन्ध ए॒व । 42) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 43) ए॒नं॒-यँ-द्यदे॑न मेनं॒-यँत् । 44) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 45) ते॒ म॒न्युप॑रोप्तस्य म॒न्युप॑रोप्तस्य ते ते म॒न्युप॑रोप्तस्य । 46) म॒न्युप॑रोप्त॒स्ये तीति॑ म॒न्युप॑रोप्तस्य म॒न्युप॑रोप्त॒स्ये ति॑ । 46) म॒न्युप॑रोप्त॒स्येति॑ म॒न्यु - प॒रो॒प्त॒स्य॒ । 47) इत्या॑हा॒हे तीत्या॑ह । 48) आ॒ह॒ दे॒वता॑भि-र्दे॒वता॑भिराहाह दे॒वता॑भिः । 49) दे॒वता॑भि रे॒वैव दे॒वता॑भि-र्दे॒वता॑भिरे॒व । 50) ए॒वैन॑ मेन मे॒वैवैन᳚म् । ॥ 14 ॥ (50/61)
1) ए॒न॒(ग्म्॒) सग्ं स मे॑न मेन॒(ग्म्॒) सम् । 2) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति । 3) भ॒र॒ति॒ वि वि भ॑रति भरति॒ वि । 4) वि वै वै वि वि वै । 5) वा ए॒तस्यै॒तस्य॒ वै वा ए॒तस्य॑ । 6) ए॒तस्य॑ य॒ज्ञो य॒ज्ञ ए॒तस्यै॒तस्य॑ य॒ज्ञः । 7) य॒ज्ञश्छि॑द्यते छिद्यते य॒ज्ञो य॒ज्ञश्छि॑द्यते । 8) छि॒द्य॒ते॒ यो यश्छि॑द्यते छिद्यते॒ यः । 9) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 10) अ॒ग्नि मु॑द्वा॒सय॑त उद्वा॒सय॑ते॒ ऽग्नि म॒ग्नि मु॑द्वा॒सय॑ते । 11) उ॒द्वा॒सय॑ते॒ बृह॒स्पति॑वत्या॒ बृह॒स्पति॑वत्योद्वा॒सय॑त उद्वा॒सय॑ते॒ बृह॒स्पति॑वत्या । 11) उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते । 12) बृह॒स्पति॑वत्य॒र्चर्चा बृह॒स्पति॑वत्या॒ बृह॒स्पति॑वत्य॒र्चा । 12) बृह॒स्पति॑व॒त्येति॒ बृह॒स्पति॑ - व॒त्या॒ । 13) ऋ॒चोपोपा॒-र्चर्चोप॑ । 14) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 15) ति॒ष्ठ॒ते॒ ब्रह्म॒ ब्रह्म॑ तिष्ठते तिष्ठते॒ ब्रह्म॑ । 16) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै । 17) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 18) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ । 19) बृह॒स्पति॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णा । 20) ब्रह्म॑णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 21) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 22) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् । 23) स-न्द॑धाति दधाति॒ सग्ं स-न्द॑धाति । 24) द॒धा॒ति॒ विच्छि॑न्नं॒-विँच्छि॑न्न-न्दधाति दधाति॒ विच्छि॑न्नम् । 25) विच्छि॑न्नं-यँ॒ज्ञं-यँ॒ज्ञं-विँच्छि॑न्नं॒-विँच्छि॑न्नं-यँ॒ज्ञम् । 25) विच्छि॑न्न॒मिति॒ वि - छि॒न्न॒म् । 26) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् । 27) स मि॒म मि॒मग्ं सग्ं स मि॒मम् । 28) इ॒म-न्द॑धातु दधात्वि॒म मि॒म-न्द॑धातु । 29) द॒धा॒त्वितीति॑ दधातु दधा॒त्विति॑ । 30) इत्या॑हा॒हे तीत्या॑ह । 31) आ॒ह॒ सन्त॑त्यै॒ सन्त॑त्या आहाह॒ सन्त॑त्यै । 32) सन्त॑त्यै॒ विश्वे॒ विश्वे॒ सन्त॑त्यै॒ सन्त॑त्यै॒ विश्वे᳚ । 32) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । 33) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः । 34) दे॒वा इ॒हे ह दे॒वा दे॒वा इ॒ह । 35) इ॒ह मा॑दयन्ता-म्मादयन्ता मि॒हे ह मा॑दयन्ताम् । 36) मा॒द॒य॒न्ता॒ मितीति॑ मादयन्ता-म्मादयन्ता॒ मिति॑ । 37) इत्या॑हा॒हे तीत्या॑ह । 38) आ॒ह॒ स॒न्तत्य॑ स॒न्तत्या॑हाह स॒न्तत्य॑ । 39) स॒न्तत्यै॒वैव स॒न्तत्य॑ स॒न्तत्यै॒व । 39) स॒न्तत्येति॑ सं - तत्य॑ । 40) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 41) य॒ज्ञ-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ य॒ज्ञं-यँ॒ज्ञ-न्दे॒वेभ्यः॑ । 42) दे॒वेभ्यो ऽन्वनु॑ दे॒वेभ्यो॑ दे॒वेभ्यो ऽनु॑ । 43) अनु॑ दिशति दिश॒त्यन्वनु॑ दिशति । 44) दि॒श॒ति॒ स॒प्त स॒प्त दि॑शति दिशति स॒प्त । 45) स॒प्त ते॑ ते स॒प्त स॒प्त ते᳚ । 46) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 47) अ॒ग्ने॒ स॒मिध॑-स्स॒मिधो᳚ ऽग्ने ऽग्ने स॒मिधः॑ । 48) स॒मिध॑-स्स॒प्त स॒प्त स॒मिध॑-स्स॒मिध॑-स्स॒प्त । 48) स॒मिध॒ इति॑ सं - इधः॑ । 49) स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वाः । 50) जि॒ह्वा इतीति॑ जि॒ह्वा जि॒ह्वा इति॑ । ॥ 15 ॥ (50/56)
1) इत्या॑हा॒हे तीत्या॑ह । 2) आ॒ह॒ स॒प्तस॑प्त स॒प्तस॑प्ताहाह स॒प्तस॑प्त । 3) स॒प्तस॑प्त॒ वै वै स॒प्तस॑प्त स॒प्तस॑प्त॒ वै । 3) स॒प्तस॒प्तेति॑ स॒प्त - स॒प्त॒ । 4) वै स॑प्त॒धा स॑प्त॒धा वै वै स॑प्त॒धा । 5) स॒प्त॒धा ऽग्नेर॒ग्ने-स्स॑प्त॒धा स॑प्त॒धा ऽग्नेः । 5) स॒प्त॒धेति॑ सप्त - धा । 6) अ॒ग्नेः प्रि॒याः प्रि॒या अ॒ग्नेर॒ग्नेः प्रि॒याः । 7) प्रि॒या स्त॒नुव॑ स्त॒नुवः॑ प्रि॒याः प्रि॒यास्त॒नुवः॑ । 8) त॒नुव॒ स्तास्ता स्त॒नुव॑ स्त॒नुव॒स्ताः । 9) ता ए॒वैव तास्ता ए॒व । 10) ए॒वावावै॒वैवाव॑ । 11) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 12) रु॒न्धे॒ पुनः॒ पुना॑ रुन्धे रुन्धे॒ पुनः॑ । 13) पुन॑ रू॒र्जोर्जा पुनः॒ पुन॑ रू॒र्जा । 14) ऊ॒र्जा स॒ह स॒होर्जोर्जा स॒ह । 15) स॒ह र॒य्या र॒य्या स॒ह स॒ह र॒य्या । 16) र॒य्येतीति॑ र॒य्या र॒य्येति॑ । 17) इत्य॒भितो॒ ऽभित॒ इतीत्य॒भितः॑ । 18) अ॒भितः॑ पुरो॒डाश॑-म्पुरो॒डाश॑ म॒भितो॒ ऽभितः॑ पुरो॒डाश᳚म् । 19) पु॒रो॒डाश॒ माहु॑ती॒ आहु॑ती पुरो॒डाश॑-म्पुरो॒डाश॒ माहु॑ती । 20) आहु॑ती जुहोति जुहो॒त्याहु॑ती॒ आहु॑ती जुहोति । 20) आहु॑ती॒ इत्या - हु॒ती॒ । 21) जु॒हो॒ति॒ यज॑मानं॒-यँज॑मान-ञ्जुहोति जुहोति॒ यज॑मानम् । 22) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व । 23) ए॒वोर्जोर्जैवैवोर्जा । 24) ऊ॒र्जा च॑ चो॒र्जोर्जा च॑ । 25) च॒ र॒य्या र॒य्या च॑ च र॒य्या । 26) र॒य्या च॑ च र॒य्या र॒य्या च॑ । 27) चो॒भ॒यत॑ उभ॒यत॑श्च चोभ॒यतः॑ । 28) उ॒भ॒यतः॒ परि॒ पर्यु॑भ॒यत॑ उभ॒यतः॒ परि॑ । 29) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति । 30) गृ॒ह्णा॒त्या॒दि॒त्या आ॑दि॒त्या गृ॑ह्णाति गृह्णात्यादि॒त्याः । 31) आ॒दि॒त्या वै वा आ॑दि॒त्या आ॑दि॒त्या वै । 32) वा अ॒स्मा द॒स्मा-द्वै वा अ॒स्मात् । 33) अ॒स्मा ल्लो॒का ल्लो॒का द॒स्मा द॒स्मा ल्लो॒कात् । 34) लो॒काद॒मु म॒मुम् ँलो॒का ल्लो॒काद॒मुम् । 35) अ॒मुम् ँलो॒कम् ँलो॒क म॒मु म॒मुम् ँलो॒कम् । 36) लो॒क मा॑यन्नायन्न् ँलो॒कम् ँलो॒क मा॑यन्न् । 37) आ॒य॒-न्ते त आ॑यन्नाय॒-न्ते । 38) ते॑ ऽमुष्मि॑न्न॒मुष्मि॒-न्ते ते॑ ऽमुष्मिन्न्॑ । 39) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑ न्न॒मुष्मि॑न् ँलो॒के । 40) लो॒के वि वि लो॒के लो॒के वि । 41) व्य॑तृष्यन्नतृष्य॒न्॒. वि व्य॑तृष्यन्न् । 42) अ॒तृ॒ष्य॒-न्ते ते॑ ऽतृष्यन्नतृष्य॒-न्ते । 43) त इ॒म मि॒म-न्ते त इ॒मम् । 44) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् । 45) लो॒क-म्पुनः॒ पुन॑-र्लो॒कम् ँलो॒क-म्पुनः॑ । 46) पुन॑ रभ्य॒वेत्या᳚भ्य॒वेत्य॒ पुनः॒ पुन॑ रभ्य॒वेत्य॑ । 47) अ॒भ्य॒वेत्या॒ग्नि म॒ग्नि म॑भ्य॒वेत्या᳚भ्य॒वेत्या॒ग्निम् । 47) अ॒भ्य॒वेत्येत्य॑भि - अ॒वेत्य॑ । 48) अ॒ग्नि मा॒धाया॒धाया॒ग्नि म॒ग्नि मा॒धाय॑ । 49) आ॒धायै॒ता ने॒ता ना॒धाया॒धायै॒तान् । 49) आ॒धायेत्या᳚ - धाय॑ । 50) ए॒तान्. होमा॒न्॒. होमा॑ ने॒ता ने॒तान्. होमान्॑ । 51) होमा॑ नजुहवु रजुहवु॒र्॒ होमा॒न्॒. होमा॑ नजुहवुः । 52) अ॒जु॒ह॒वु॒स्ते ते॑ ऽजुहवु रजुहवु॒स्ते । 53) त आ᳚र्ध्नुवन्नार्ध्नुव॒-न्ते त आ᳚र्ध्नुवन्न् । 54) आ॒र्ध्नु॒व॒-न्ते त आ᳚र्ध्नुवन्नार्ध्नुव॒-न्ते । 55) ते सु॑व॒र्गग्ं सु॑व॒र्ग-न्ते ते सु॑व॒र्गम् । 56) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 56) सु॒व॒र्गमिति॑ सुवः - गम् । 57) लो॒क मा॑यन्नायन्न् ँलो॒कम् ँलो॒क मा॑यन्न् । 58) आ॒य॒न्॒. यो य आ॑यन्नाय॒न्॒. यः । 59) यः प॑रा॒चीन॑-म्परा॒चीनं॒-योँ यः प॑रा॒चीन᳚म् । 60) प॒रा॒चीन॑-म्पुनरा॒धेया᳚-त्पुनरा॒धेया᳚-त्परा॒चीन॑-म्परा॒चीन॑-म्पुनरा॒धेया᳚त् । 61) पु॒न॒रा॒धेया॑द॒ग्नि म॒ग्नि-म्पु॑नरा॒धेया᳚-त्पुनरा॒धेया॑द॒ग्निम् । 61) पु॒न॒रा॒धेया॒दिति॑ पुनः - आ॒धेया᳚त् । 62) अ॒ग्नि मा॒दधी॑ता॒दधी॑ता॒ग्नि म॒ग्नि मा॒दधी॑त । 63) आ॒दधी॑त॒ स स आ॒दधी॑ता॒दधी॑त॒ सः । 63) आ॒दधी॒तेत्या᳚ - दधी॑त । 64) स ए॒ता ने॒ता-न्थ्स स ए॒तान् । 65) ए॒तान्. होमा॒न्॒. होमा॑ ने॒ता ने॒तान्. होमान्॑ । 66) होमा᳚न् जुहुयाज् जुहुया॒द्धोमा॒न्॒. होमा᳚न् जुहुयात् । 67) जु॒हु॒या॒-द्यां-याँ-ञ्जु॑हुयाज् जुहुया॒-द्याम् । 68) या मे॒वैव यां-याँ मे॒व । 69) ए॒वादि॒त्या आ॑दि॒त्या ए॒वैवादि॒त्याः । 70) आ॒दि॒त्या ऋद्धि॒ मृद्धि॑ मादि॒त्या आ॑दि॒त्या ऋद्धि᳚म् । 71) ऋद्धि॒ मार्ध्नु॑व॒न्नार्ध्नु॑व॒न्नृद्धि॒ मृद्धि॒ मार्ध्नु॑वन्न् । 72) आर्ध्नु॑व॒-न्ता-न्ता मार्ध्नु॑व॒न्नार्ध्नु॑व॒-न्ताम् । 73) ता मे॒वैव ता-न्ता मे॒व । 74) ए॒व र्ध्नो᳚त्यृद्ध्नोत्ये॒वैव र्ध्नो॑ति । 75) ऋ॒द्ध्नो॒तीत्यृ॑द्ध्नोति । ॥ 16 ॥ (75/83) ॥ अ. 4 ॥
1) उ॒प॒प्र॒यन्तो॑ अद्ध्व॒र म॑द्ध्व॒र मु॑पप्र॒यन्त॑ उपप्र॒यन्तो॑ अद्ध्व॒रम् । 1) उ॒प॒प्र॒यन्त॒ इत्यु॑प - प्र॒यन्तः॑ । 2) अ॒द्ध्व॒र-म्मन्त्र॒-म्मन्त्र॑ मद्ध्व॒र म॑द्ध्व॒र-म्मन्त्र᳚म् । 3) मन्त्रं॑-वोँचेम वोचेम॒ मन्त्र॒-म्मन्त्रं॑-वोँचेम । 4) वो॒चे॒मा॒ग्नये॑ अ॒ग्नये॑ वोचेम वोचेमा॒ग्नये᳚ । 5) अ॒ग्नय॒ इत्य॒ग्नये᳚ । 6) आ॒रे अ॒स्मे अ॒स्मे आ॒र आ॒रे अ॒स्मे । 7) अ॒स्मे च॑ चा॒स्मे अ॒स्मे च॑ । 7) अ॒स्मे इत्य॒स्मे । 8) च॒ शृ॒ण्व॒ते शृ॑ण्व॒ते च॑ च शृण्व॒ते । 9) शृ॒ण्व॒त इति॑ शृण्व॒ते । 10) अ॒स्य प्र॒त्ना-म्प्र॒त्ना म॒स्यास्य प्र॒त्नाम् । 11) प्र॒त्ना मन्वनु॑ प्र॒त्ना-म्प्र॒त्ना मनु॑ । 12) अनु॒ द्युत॒-न्द्युत॒ मन्वनु॒ द्युत᳚म् । 13) द्युत(ग्म्॑) शु॒क्रग्ं शु॒क्र-न्द्युत॒-न्द्युत(ग्म्॑) शु॒क्रम् । 14) शु॒क्र-न्दु॑दुह्रे दुदुह्रे शु॒क्रग्ं शु॒क्र-न्दु॑दुह्रे । 15) दु॒दु॒ह्रे॒ अह्र॑यो॒ अह्र॑यो दुदुह्रे दुदुह्रे॒ अह्र॑यः । 16) अह्र॑य॒ इत्यह्र॑यः । 17) पय॑-स्सहस्र॒साग्ं स॑हस्र॒सा-म्पयः॒ पय॑-स्सहस्र॒साम् । 18) स॒ह॒स्र॒सा मृषि॒ मृषि(ग्म्॑) सहस्र॒साग्ं स॑हस्र॒सा मृषि᳚म् । 18) स॒ह॒स्र॒सामिति॑ सहस्र - साम् । 19) ऋषि॒मित्यृषि᳚म् । 20) अ॒ग्नि-र्मू॒र्धा मू॒र्धा ऽग्निर॒ग्नि-र्मू॒र्धा । 21) मू॒र्धा दि॒वो दि॒वो मू॒र्धा मू॒र्धा दि॒वः । 22) दि॒वः क॒कु-त्क॒कु-द्दि॒वो दि॒वः क॒कुत् । 23) क॒कु-त्पति॒ष् पतिः॑ क॒कु-त्क॒कु-त्पतिः॑ । 24) पतिः॑ पृथि॒व्याः पृ॑थि॒व्या स्पति॒ष् पतिः॑ पृथि॒व्याः । 25) पृ॒थि॒व्या अ॒य म॒य-म्पृ॑थि॒व्याः पृ॑थि॒व्या अ॒यम् । 26) अ॒यमित्य॒यम् । 27) अ॒पाग्ं रेता(ग्म्॑)सि॒ रेता(ग्ग्॑)स्य॒पा म॒पाग्ं रेता(ग्म्॑)सि । 28) रेता(ग्म्॑)सि जिन्वति जिन्वति॒ रेता(ग्म्॑)सि॒ रेता(ग्म्॑)सि जिन्वति । 29) जि॒न्व॒तीति॑ जिन्वति । 30) अ॒य मि॒हे हाय म॒य मि॒ह । 31) इ॒ह प्र॑थ॒मः प्र॑थ॒म इ॒हे ह प्र॑थ॒मः । 32) प्र॒थ॒मो धा॑यि धायि प्रथ॒मः प्र॑थ॒मो धा॑यि । 33) धा॒यि॒ धा॒तृभि॑-र्धा॒तृभि॑-र्धायि धायि धा॒तृभिः॑ । 34) धा॒तृभि॒र्॒ होता॒ होता॑ धा॒तृभि॑-र्धा॒तृभि॒र्॒ होता᳚ । 34) धा॒तृभि॒रिति॑ धा॒तृ - भिः॒ । 35) होता॒ यजि॑ष्ठो॒ यजि॑ष्ठो॒ होता॒ होता॒ यजि॑ष्ठः । 36) यजि॑ष्ठो अद्ध्व॒रेष्व॑द्ध्व॒रेषु॒ यजि॑ष्ठो॒ यजि॑ष्ठो अद्ध्व॒रेषु॑ । 37) अ॒द्ध्व॒रेष्वीड्य॒ ईड्यो॑ अद्ध्व॒रेष्व॑द्ध्व॒रेष्वीड्यः॑ । 38) ईड्य॒ इतीड्यः॑ । 39) य मप्न॑वानो॒ अप्न॑वानो॒ यं-यँ मप्न॑वानः । 40) अप्न॑वानो॒ भृग॑वो॒ भृग॑वो॒ अप्न॑वानो॒ अप्न॑वानो॒ भृग॑वः । 41) भृग॑वो विरुरु॒चु-र्वि॑रुरु॒चु-र्भृग॑वो॒ भृग॑वो विरुरु॒चुः । 42) वि॒रु॒रु॒चु-र्वने॑षु॒ वने॑षु विरुरु॒चु-र्वि॑रुरु॒चु-र्वने॑षु । 42) वि॒रु॒रु॒चुरिति॑ वि - रु॒रु॒चुः । 43) वने॑षु चि॒त्र-ञ्चि॒त्रं-वँने॑षु॒ वने॑षु चि॒त्रम् । 44) चि॒त्रं-विँ॒भुवं॑-विँ॒भुव॑-ञ्चि॒त्र-ञ्चि॒त्रं-विँ॒भुव᳚म् । 45) वि॒भुवं॑-विँ॒शेवि॑शे वि॒शेवि॑शे वि॒भुवं॑-विँ॒भुवं॑-विँ॒शेवि॑शे । 45) वि॒भुव॒मिति॑ वि - भुव᳚म् । 46) वि॒शेवि॑श॒ इति॑ वि॒शे - वि॒शे॒ । 47) उ॒भा वां᳚-वाँ मु॒भोभा वा᳚म् । 48) वा॒ मि॒न्द्रा॒ग्नी॒ इ॒न्द्रा॒ग्नी॒ वां॒-वाँ॒ मि॒न्द्रा॒ग्नी॒ । 49) इ॒न्द्रा॒ग्नी॒ आ॒हु॒वद्ध्या॑ आहु॒वद्ध्या॑ इन्द्राग्नी इन्द्राग्नी आहु॒वद्ध्यै᳚ । 49) इ॒न्द्रा॒ग्नी॒ इती᳚न्द्र - अ॒ग्नी॒ । 50) आ॒हु॒वद्ध्या॑ उ॒भोभा ऽऽहु॒वद्ध्या॑ आहु॒वद्ध्या॑ उ॒भा । ॥ 17 ॥ (50/57)
1) उ॒भा राध॑सो॒ राध॑स उ॒भोभा राध॑सः । 2) राध॑स-स्स॒ह स॒ह राध॑सो॒ राध॑स-स्स॒ह । 3) स॒ह मा॑द॒यद्ध्यै॑ माद॒यद्ध्यै॑ स॒ह स॒ह मा॑द॒यद्ध्यै᳚ । 4) मा॒द॒यद्ध्या॒ इति॑ माद॒यद्ध्यै᳚ । 5) उ॒भा दा॒तारौ॑ दा॒तारा॑ वु॒भोभा दा॒तारौ᳚ । 6) दा॒तारा॑ वि॒षा मि॒षा-न्दा॒तारौ॑ दा॒तारा॑ वि॒षाम् । 7) इ॒षाग्ं र॑यी॒णाग्ं र॑यी॒णा मि॒षा मि॒षाग्ं र॑यी॒णाम् । 8) र॒यी॒णा मु॒भोभा र॑यी॒णाग्ं र॑यी॒णा मु॒भा । 9) उ॒भा वाज॑स्य॒ वाज॑स्यो॒भोभा वाज॑स्य । 10) वाज॑स्य सा॒तये॑ सा॒तये॒ वाज॑स्य॒ वाज॑स्य सा॒तये᳚ । 11) सा॒तये॑ हुवे हुवे सा॒तये॑ सा॒तये॑ हुवे । 12) हु॒वे॒ वां॒-वाँ॒(ग्म्॒) हु॒वे॒ हु॒वे॒ वा॒म् । 13) वा॒मिति॑ वाम् । 14) अ॒य-न्ते॑ ते॒ ऽय म॒य-न्ते᳚ । 15) ते॒ योनि॒-र्योनि॑स्ते ते॒ योनिः॑ । 16) योनि॑र्-ऋ॒त्विय॑ ऋ॒त्वियो॒ योनि॒-र्योनि॑र्-ऋ॒त्वियः॑ । 17) ऋ॒त्वियो॒ यतो॒ यत॑ ऋ॒त्विय॑ ऋ॒त्वियो॒ यतः॑ । 18) यतो॑ जा॒तो जा॒तो यतो॒ यतो॑ जा॒तः । 19) जा॒तो अरो॑चथा॒ अरो॑चथा जा॒तो जा॒तो अरो॑चथाः । 20) अरो॑चथा॒ इत्यरो॑चथाः । 21) त-ञ्जा॒नन् जा॒न-न्त-न्त-ञ्जा॒नन्न् । 22) जा॒नन्न॑ग्ने अग्ने जा॒नन् जा॒नन्न॑ग्ने । 23) अ॒ग्न॒ आ ऽग्ने॑ अग्न॒ आ । 24) आ रो॑ह रो॒हा रो॑ह । 25) रो॒हाथाथ॑ रोह रो॒हाथ॑ । 26) अथा॑ नो नो॒ अथाथा॑ नः । 27) नो॒ व॒र्ध॒य॒ व॒र्ध॒य॒ नो॒ नो॒ व॒र्ध॒य॒ । 28) व॒र्ध॒या॒ र॒यिग्ं र॒यिं-वँ॑र्धय वर्धया र॒यिम् । 29) र॒यिमिति॑ र॒यिम् । 30) अग्न॒ आयू॒(ग्ग्॒)ष्यायू॒(ग्ग्॒)ष्यग्ने ऽग्न॒ आयू(ग्म्॑)षि । 31) आयू(ग्म्॑)षि पवसे पवस॒ आयू॒(ग्ग्॒) ष्यायू(ग्म्॑)षि पवसे । 32) प॒व॒स॒ आ प॑वसे पवस॒ आ । 33) आ सु॑व सु॒वा सु॑व । 34) सु॒वोर्ज॒ मूर्ज(ग्म्॑) सुव सु॒वोर्ज᳚म् । 35) ऊर्ज॒ मिष॒ मिष॒ मूर्ज॒ मूर्ज॒ मिष᳚म् । 36) इष॑-ञ्च॒ चे ष॒ मिष॑-ञ्च । 37) च॒ नो॒ न॒श्च॒ च॒ नः॒ । 38) न॒ इति॑ नः । 39) आ॒रे बा॑धस्व बाधस्वा॒र आ॒रे बा॑धस्व । 40) बा॒ध॒स्व॒ दु॒च्छुना᳚-न्दु॒च्छुना᳚-म्बाधस्व बाधस्व दु॒च्छुना᳚म् । 41) दु॒च्छुना॒मिति॑ दु॒च्छुना᳚म् । 42) अग्ने॒ पव॑स्व॒ पव॒स्वाग्ने ऽग्ने॒ पव॑स्व । 43) पव॑स्व॒ स्वपा॒-स्स्वपाः॒ पव॑स्व॒ पव॑स्व॒ स्वपाः᳚ । 44) स्वपा॑ अ॒स्मे अ॒स्मे स्वपा॒-स्स्वपा॑ अ॒स्मे । 44) स्वपा॒ इति॑ सु - अपाः᳚ । 45) अ॒स्मे वर्चो॒ वर्चो॑ अ॒स्मे अ॒स्मे वर्चः॑ । 45) अ॒स्मे इत्य॒स्मे । 46) वर्च॑-स्सु॒वीर्य(ग्म्॑) सु॒वीर्यं॒-वँर्चो॒ वर्च॑-स्सु॒वीर्य᳚म् । 47) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । 48) दध॒-त्पोष॒-म्पोष॒-न्दध॒-द्दध॒-त्पोष᳚म् । 49) पोष(ग्म्॑) र॒यिग्ं र॒यि-म्पोष॒-म्पोष(ग्म्॑) र॒यिम् । 50) र॒यि-म्मयि॒ मयि॑ र॒यिग्ं र॒यि-म्मयि॑ । ॥ 18 ॥ (50/52)
1) मयीति॒ मयि॑ । 2) अग्ने॑ पावक पाव॒काग्ने ऽग्ने॑ पावक । 3) पा॒व॒क॒ रो॒चिषा॑ रो॒चिषा॑ पावक पावक रो॒चिषा᳚ । 4) रो॒चिषा॑ म॒न्द्रया॑ म॒न्द्रया॑ रो॒चिषा॑ रो॒चिषा॑ म॒न्द्रया᳚ । 5) म॒न्द्रया॑ देव देव म॒न्द्रया॑ म॒न्द्रया॑ देव । 6) दे॒व॒ जि॒ह्वया॑ जि॒ह्वया॑ देव देव जि॒ह्वया᳚ । 7) जि॒ह्वयेति॑ जि॒ह्वया᳚ । 8) आ दे॒वा-न्दे॒वा ना दे॒वान् । 9) दे॒वान्. व॑क्षि वक्षि दे॒वा-न्दे॒वान्. व॑क्षि । 10) व॒क्षि॒ यक्षि॒ यक्षि॑ वक्षि वक्षि॒ यक्षि॑ । 11) यक्षि॑ च च॒ यक्षि॒ यक्षि॑ च । 12) चेति॑ च । 13) स नो॑ न॒-स्स सो नः॑ । 14) नः॒ पा॒व॒क॒ पा॒व॒क॒ नो॒ नः॒ पा॒व॒क॒ । 15) पा॒व॒क॒ दी॒दि॒वो॒ दी॒दि॒वः॒ पा॒व॒क॒ पा॒व॒क॒ दी॒दि॒वः॒ । 16) दी॒दि॒वो ऽग्ने ऽग्ने॑ दीदिवो दीदि॒वो ऽग्ने᳚ । 17) अग्ने॑ दे॒वा-न्दे॒वाग्ं अग्ने ऽग्ने॑ दे॒वान् । 18) दे॒वाग्ं इ॒हे ह दे॒वा-न्दे॒वाग्ं इ॒ह । 19) इ॒हेहे हा । 20) आ व॑ह व॒हा व॑ह । 21) व॒हेति॑ वह । 22) उप॑ य॒ज्ञं-यँ॒ज्ञ मुपोप॑ य॒ज्ञम् । 23) य॒ज्ञग्ं ह॒विर्-ह॒वि-र्य॒ज्ञं-यँ॒ज्ञग्ं ह॒विः । 24) ह॒विश्च॑ च ह॒विर्-ह॒विश्च॑ । 25) च॒ नो॒ न॒श्च॒ च॒ नः॒ । 26) न॒ इति॑ नः । 27) अ॒ग्नि-श्शुचि॑व्रततम॒-श्शुचि॑व्रततमो॒ ऽग्निर॒ग्नि-श्शुचि॑व्रततमः । 28) शुचि॑व्रततम॒-श्शुचि॒-श्शुचि॒-श्शुचि॑व्रततम॒-श्शुचि॑व्रततम॒-श्शुचिः॑ । 28) शुचि॑व्रततम॒ इति॒ शुचि॑व्रत - त॒मः॒ । 29) शुचि॒-र्विप्रो॒ विप्र॒-श्शुचि॒-श्शुचि॒-र्विप्रः॑ । 30) विप्र॒-श्शुचि॒-श्शुचि॒-र्विप्रो॒ विप्र॒-श्शुचिः॑ । 31) शुचिः॑ क॒विः क॒वि-श्शुचि॒-श्शुचिः॑ क॒विः । 32) क॒विरिति॑ क॒विः । 33) शुची॑ रोचते रोचते॒ शुचि॒-श्शुची॑ रोचते । 34) रो॒च॒त॒ आहु॑त॒ आहु॑तो रोचते रोचत॒ आहु॑तः । 35) आहु॑त॒ इत्या - हु॒तः॒ । 36) उद॑ग्ने अग्न॒ उदुद॑ग्ने । 37) अ॒ग्ने॒ शुच॑य॒-श्शुच॑यो अग्ने अग्ने॒ शुच॑यः । 38) शुच॑य॒स्तव॒ तव॒ शुच॑य॒-श्शुच॑य॒स्तव॑ । 39) तव॑ शु॒क्रा-श्शु॒क्रास्तव॒ तव॑ शु॒क्राः । 40) शु॒क्रा भ्राज॑न्तो॒ भ्राज॑न्त-श्शु॒क्रा-श्शु॒क्रा भ्राज॑न्तः । 41) भ्राज॑न्त ईरत ईरते॒ भ्राज॑न्तो॒ भ्राज॑न्त ईरते । 42) ई॒र॒त॒ इती॑रते । 43) तव॒ ज्योती(ग्म्॑)षि॒ ज्योती(ग्म्॑)षि॒ तव॒ तव॒ ज्योती(ग्म्॑)षि । 44) ज्योती(ग्ग्॑)ष्य॒र्चयो॑ अ॒र्चयो॒ ज्योती(ग्म्॑)षि॒ ज्योती(ग्ग्॑)ष्य॒र्चयः॑ । 45) अ॒र्चय॒ इत्य॒र्चयः॑ । 46) आ॒यु॒र्दा अ॑ग्ने अग्न आयु॒र्दा आ॑यु॒र्दा अ॑ग्ने । 46) आ॒यु॒र्दा इत्या॑युः - दाः । 47) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ अ॒ग्ने॒ ऽसि॒ । 48) अ॒स्यायु॒रायु॑ रस्य॒स्यायुः॑ । 49) आयु॑-र्मे म॒ आयु॒रायु॑-र्मे । 50) मे॒ दे॒हि॒ दे॒हि॒ मे॒ मे॒ दे॒हि॒ । ॥ 19 ॥ (50/52)
1) दे॒हि॒ व॒र्चो॒दा व॑र्चो॒दा दे॑हि देहि वर्चो॒दाः । 2) व॒र्चो॒दा अ॑ग्ने अग्ने वर्चो॒दा व॑र्चो॒दा अ॑ग्ने । 2) व॒र्चो॒दा इति॑ वर्चः - दाः । 3) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ अ॒ग्ने॒ ऽसि॒ । 4) अ॒सि॒ वर्चो॒ वर्चो᳚ ऽस्यसि॒ वर्चः॑ । 5) वर्चो॑ मे मे॒ वर्चो॒ वर्चो॑ मे । 6) मे॒ दे॒हि॒ दे॒हि॒ मे॒ मे॒ दे॒हि॒ । 7) दे॒हि॒ त॒नू॒पास्त॑नू॒पा दे॑हि देहि तनू॒पाः । 8) त॒नू॒पा अ॑ग्ने अग्ने तनू॒पास्त॑नू॒पा अ॑ग्ने । 8) त॒नू॒पा इति॑ तनू - पाः । 9) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ अ॒ग्ने॒ ऽसि॒ । 10) अ॒सि॒ त॒नुव॑-न्त॒नुव॑ मस्यसि त॒नुव᳚म् । 11) त॒नुव॑-म्मे मे त॒नुव॑-न्त॒नुव॑-म्मे । 12) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ । 13) पा॒ह्यग्ने ऽग्ने॑ पाहि पा॒ह्यग्ने᳚ । 14) अग्ने॒ य-द्यदग्ने ऽग्ने॒ यत् । 15) य-न्मे॑ मे॒ य-द्य-न्मे᳚ । 16) मे॒ त॒नुवा᳚स्त॒नुवा॑ मे मे त॒नुवाः᳚ । 17) त॒नुवा॑ ऊ॒न मू॒न-न्त॒नुवा᳚स्त॒नुवा॑ ऊ॒नम् । 18) ऊ॒न-न्त-त्तदू॒न मू॒न-न्तत् । 19) त-न्मे॑ मे॒ त-त्त-न्मे᳚ । 20) म॒ आ मे॑ म॒ आ । 21) आ पृ॑ण पृ॒णा पृ॑ण । 22) पृ॒ण॒ चित्रा॑वसो॒ चित्रा॑वसो पृण पृण॒ चित्रा॑वसो । 23) चित्रा॑वसो स्व॒स्ति स्व॒स्ति चित्रा॑वसो॒ चित्रा॑वसो स्व॒स्ति । 23) चित्रा॑वसो॒ इति॒ चित्र॑ - व॒सो॒ । 24) स्व॒स्ति ते॑ ते स्व॒स्ति स्व॒स्ति ते᳚ । 25) ते॒ पा॒र-म्पा॒र-न्ते॑ ते पा॒रम् । 26) पा॒र म॑शीयाशीय पा॒र-म्पा॒र म॑शीय । 27) अ॒शी॒ये न्धा॑ना॒ इन्धा॑ना अशीयाशी॒ये न्धा॑नाः । 28) इन्धा॑नास्त्वा॒ त्वेन्धा॑ना॒ इन्धा॑नास्त्वा । 29) त्वा॒ श॒तग्ं श॒त-न्त्वा᳚ त्वा श॒तम् । 30) श॒तग्ं हिमा॒ हिमा᳚-श्श॒तग्ं श॒तग्ं हिमाः᳚ । 31) हिमा᳚ द्यु॒मन्तो᳚ द्यु॒मन्तो॒ हिमा॒ हिमा᳚ द्यु॒मन्तः॑ । 32) द्यु॒मन्त॒-स्सग्ं स-न्द्यु॒मन्तो᳚ द्यु॒मन्त॒-स्सम् । 32) द्यु॒मन्त॒ इति॑ द्यु - मन्तः॑ । 33) स मि॑धीमहीधीमहि॒ सग्ं स मि॑धीमहि । 34) इ॒धी॒म॒हि॒ वय॑स्वन्तो॒ वय॑स्वन्त इधीमहीधीमहि॒ वय॑स्वन्तः । 35) वय॑स्वन्तो वय॒स्कृतं॑-वँय॒स्कृतं॒-वँय॑स्वन्तो॒ वय॑स्वन्तो वय॒स्कृत᳚म् । 36) व॒य॒स्कृतं॒-यँश॑स्वन्तो॒ यश॑स्वन्तो वय॒स्कृतं॑-वँय॒स्कृतं॒-यँश॑स्वन्तः । 36) व॒य॒स्कृत॒मिति॑ वयः - कृत᳚म् । 37) यश॑स्वन्तो यश॒स्कृतं॑-यँश॒स्कृतं॒-यँश॑स्वन्तो॒ यश॑स्वन्तो यश॒स्कृत᳚म् । 38) य॒श॒स्कृत(ग्म्॑) सु॒वीरा॑स-स्सु॒वीरा॑सो यश॒स्कृतं॑-यँश॒स्कृत(ग्म्॑) सु॒वीरा॑सः । 38) य॒श॒स्कृत॒मिति॑ यशः - कृत᳚म् । 39) सु॒वीरा॑सो॒ अदा᳚भ्य॒ मदा᳚भ्यग्ं सु॒वीरा॑स-स्सु॒वीरा॑सो॒ अदा᳚भ्यम् । 39) सु॒वीरा॑स॒ इति॑ सु - वीरा॑सः । 40) अदा᳚भ्य॒मित्यदा᳚भ्यम् । 41) अग्ने॑ सपत्न॒दम्भ॑नग्ं सपत्न॒दम्भ॑न॒ मग्ने ऽग्ने॑ सपत्न॒दम्भ॑नम् । 42) स॒प॒त्न॒दम्भ॑नं॒-वँर्षि॑ष्ठे॒ वर्षि॑ष्ठे सपत्न॒दम्भ॑नग्ं सपत्न॒दम्भ॑नं॒-वँर्षि॑ष्ठे । 42) स॒प॒त्न॒दम्भ॑न॒मिति॑ सपत्न - दम्भ॑नम् । 43) वर्षि॑ष्ठे॒ अध्यधि॒ वर्षि॑ष्ठे॒ वर्षि॑ष्ठे॒ अधि॑ । 44) अधि॒ नाके॒ नाके॒ अध्यधि॒ नाके᳚ । 45) नाक॒ इति॒ नाके᳚ । 46) स-न्त्व-न्त्वग्ं सग्ं स-न्त्वम् । 47) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने । 48) अ॒ग्ने॒ सूर्य॑स्य॒ सूर्य॑स्याग्ने अग्ने॒ सूर्य॑स्य । 49) सूर्य॑स्य॒ वर्च॑सा॒ वर्च॑सा॒ सूर्य॑स्य॒ सूर्य॑स्य॒ वर्च॑सा । 50) वर्च॑सा ऽगथा अगथा॒ वर्च॑सा॒ वर्च॑सा ऽगथाः । 51) अ॒ग॒था॒-स्सग्ं स म॑गथा अगथा॒-स्सम् । 52) स मृषी॑णा॒ मृषी॑णा॒(ग्म्॒) सग्ं स मृषी॑णाम् । 53) ऋषी॑णाग् स्तु॒तेन॑ स्तु॒तेन र्षी॑णा॒ मृषी॑णाग् स्तु॒तेन॑ । 54) स्तु॒तेन॒ सग्ं सग्ग् स्तु॒तेन॑ स्तु॒तेन॒ सम् । 55) स-म्प्रि॒येण॑ प्रि॒येण॒ सग्ं स-म्प्रि॒येण॑ । 56) प्रि॒येण॒ धाम्ना॒ धाम्ना᳚ प्रि॒येण॑ प्रि॒येण॒ धाम्ना᳚ । 57) धाम्नेति॒ धाम्ना᳚ । 58) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने । 59) अ॒ग्ने॒ सूर्य॑वर्चा॒-स्सूर्य॑वर्चा अग्ने अग्ने॒ सूर्य॑वर्चाः । 60) सूर्य॑वर्चा अस्यसि॒ सूर्य॑वर्चा॒-स्सूर्य॑वर्चा असि । 60) सूर्य॑वर्चा॒ इति॒ सूर्य॑ - व॒र्चाः॒ । 61) अ॒सि॒ सग्ं स म॑स्यसि॒ सम् । 62) स-म्मा-म्माग्ं सग्ं स-म्माम् । 63) मा मायु॒षा ऽऽयु॑षा॒ मा-म्मा मायु॑षा । 64) आयु॑षा॒ वर्च॑सा॒ वर्च॒सा ऽऽयु॒षा ऽऽयु॑षा॒ वर्च॑सा । 65) वर्च॑सा प्र॒जया᳚ प्र॒जया॒ वर्च॑सा॒ वर्च॑सा प्र॒जया᳚ । 66) प्र॒जया॑ सृज सृज प्र॒जया᳚ प्र॒जया॑ सृज । 66) प्र॒जयेति॑ प्र - जया᳚ । 67) सृ॒जेति॑ सृज । ॥ 20 ॥ (67/77) ॥ अ. 5 ॥
1) स-म्प॑श्यामि पश्यामि॒ सग्ं स-म्प॑श्यामि । 2) प॒श्या॒मि॒ प्र॒जाः प्र॒जाः प॑श्यामि पश्यामि प्र॒जाः । 3) प्र॒जा अ॒ह म॒ह-म्प्र॒जाः प्र॒जा अ॒हम् । 3) प्र॒जा इति॑ प्र - जाः । 4) अ॒ह मिड॑प्रजस॒ इड॑प्रजसो॒ ऽह म॒ह मिड॑प्रजसः । 5) इड॑प्रजसो मान॒वी-र्मा॑न॒वी रिड॑प्रजस॒ इड॑प्रजसो मान॒वीः । 5) इड॑प्रजस॒ इतीड॑ - प्र॒ज॒सः॒ । 6) मा॒न॒वीरिति॑ मान॒वीः । 7) सर्वा॑ भवन्तु भवन्तु॒ सर्वा॒-स्सर्वा॑ भवन्तु । 8) भ॒व॒न्तु॒ नो॒ नो॒ भ॒व॒न्तु॒ भ॒व॒न्तु॒ नः॒ । 9) नो॒ गृ॒हे गृ॒हे नो॑ नो गृ॒हे । 10) गृ॒ह इति॑ गृ॒हे । 11) अम्भ॑-स्स्थ॒ स्थाम्भों ऽभ॑-स्स्थ । 12) स्थाम्भो ऽम्भ॑-स्स्थ॒ स्थाम्भः॑ । 13) अम्भो॑ वो॒ वो ऽम्भो ऽम्भो॑ वः । 14) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ । 15) भ॒क्षी॒य॒ महो॒ महो॑ भक्षीय भक्षीय॒ महः॑ । 16) मह॑-स्स्थ स्थ॒ महो॒ मह॑-स्स्थ । 17) स्थ॒ महो॒ मह॑-स्स्थ स्थ॒ महः॑ । 18) महो॑ वो वो॒ महो॒ महो॑ वः । 19) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ । 20) भ॒क्षी॒य॒ सह॒-स्सहो॑ भक्षीय भक्षीय॒ सहः॑ । 21) सह॑-स्स्थ स्थ॒ सह॒-स्सह॑-स्स्थ । 22) स्थ॒ सह॒-स्सह॑-स्स्थ स्थ॒ सहः॑ । 23) सहो॑ वो व॒-स्सह॒-स्सहो॑ वः । 24) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ । 25) भ॒क्षी॒योर्ज॒ ऊर्जो॑ भक्षीय भक्षी॒योर्जः॑ । 26) ऊर्ज॑-स्स्थ॒ स्थोर्ज॒ ऊर्ज॑-स्स्थ । 27) स्थोर्ज॒ मूर्ज(ग्ग्॑) स्थ॒ स्थोर्ज᳚म् । 28) ऊर्जं॑-वोँ व॒ ऊर्ज॒ मूर्जं॑-वः ँ। 29) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ । 30) भ॒क्षी॒य॒ रेव॑ती॒ रेव॑ती-र्भक्षीय भक्षीय॒ रेव॑तीः । 31) रेव॑ती॒ रम॑द्ध्व॒(ग्म्॒) रम॑द्ध्व॒(ग्म्॒) रेव॑ती॒ रेव॑ती॒ रम॑द्ध्वम् । 32) रम॑द्ध्व म॒स्मिन्न॒स्मि-न्रम॑द्ध्व॒(ग्म्॒) रम॑द्ध्व म॒स्मिन्न् । 33) अ॒स्मिन्न् ँलो॒के लो॒के᳚ ऽस्मिन्न॒स्मिन्न् ँलो॒के । 34) लो॒के᳚ ऽस्मिन्न॒स्मिन्न् ँलो॒के लो॒के᳚ ऽस्मिन्न् । 35) अ॒स्मि-न्गो॒ष्ठे गो॒ष्ठे᳚ ऽस्मिन्न॒स्मि-न्गो॒ष्ठे । 36) गो॒ष्ठे᳚ ऽस्मिन्न॒स्मि-न्गो॒ष्ठे गो॒ष्ठे᳚ ऽस्मिन्न् । 36) गो॒ष्ठ इति॑ गो - स्थे । 37) अ॒स्मिन् क्षये॒ क्षये॒ ऽस्मिन्न॒स्मिन् क्षये᳚ । 38) क्षये॒ ऽस्मिन्न॒स्मिन् क्षये॒ क्षये॒ ऽस्मिन्न् । 39) अ॒स्मिन्. योनौ॒ योना॑ व॒स्मिन्न॒स्मिन्. योनौ᳚ । 40) योना॑ वि॒हे ह योनौ॒ योना॑ वि॒ह । 41) इ॒हैवैवे हे हैव । 42) ए॒व स्त॑ स्तै॒वैव स्त॑ । 43) स्ते॒ त इ॒त-स्स्त॑ स्ते॒ तः । 44) इ॒तो मा मेत इ॒तो मा । 45) मा ऽपाप॒ मा मा ऽप॑ । 46) अप॑ गात गा॒तापाप॑ गात । 47) गा॒त॒ ब॒ह्वी-र्ब॒ह्वी-र्गा॑त गात ब॒ह्वीः । 48) ब॒ह्वी-र्मे॑ मे ब॒ह्वी-र्ब॒ह्वी-र्मे᳚ । 49) मे॒ भू॒या॒स्त॒ भू॒या॒स्त॒ मे॒ मे॒ भू॒या॒स्त॒ । 50) भू॒या॒स्त॒ स॒(ग्म्॒)हि॒ता स(ग्म्॑)हि॒ता भू॑यास्त भूयास्त सग्ंहि॒ता । ॥ 21 ॥ (50/53)
1) स॒(ग्म्॒)हि॒ता ऽस्य॑सि सग्ंहि॒ता स(ग्म्॑)हि॒ता ऽसि॑ । 1) स॒(ग्म्॒)हि॒तेति॑ सं - हि॒ता । 2) अ॒सि॒ वि॒श्व॒रू॒पी-र्वि॑श्वरू॒पी र॑स्यसि विश्वरू॒पीः । 3) वि॒श्व॒रू॒पीरा वि॑श्वरू॒पी-र्वि॑श्वरू॒पीरा । 3) वि॒श्व॒रू॒पीरिति॑ विश्व - रू॒पीः । 4) आ मा॒ मा ऽऽमा᳚ । 5) मो॒र्जोर्जा मा॑ मो॒र्जा । 6) ऊ॒र्जा वि॑श विशो॒र्जोर्जा वि॑श । 7) वि॒शा वि॑श वि॒शा । 8) आ गौ॑प॒त्येन॑ गौप॒त्येना गौ॑प॒त्येन॑ । 9) गौ॒प॒त्येना गौ॑प॒त्येन॑ गौप॒त्येना । 10) आ रा॒यो रा॒य आ रा॒यः । 11) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण । 12) पोषे॑ण सहस्रपो॒षग्ं स॑हस्रपो॒ष-म्पोषे॑ण॒ पोषे॑ण सहस्रपो॒षम् । 13) स॒ह॒स्र॒पो॒षं-वोँ॑ व-स्सहस्रपो॒षग्ं स॑हस्रपो॒षं-वँः॑ । 13) स॒ह॒स्र॒पो॒षमिति॑ सहस्र - पो॒षम् । 14) वः॒ पु॒ष्या॒स॒-म्पु॒ष्या॒सं॒-वोँ॒ वः॒ पु॒ष्या॒स॒म् । 15) पु॒ष्या॒स॒-म्मयि॒ मयि॑ पुष्यास-म्पुष्यास॒-म्मयि॑ । 16) मयि॑ वो वो॒ मयि॒ मयि॑ वः । 17) वो॒ रायो॒ रायो॑ वो वो॒ रायः॑ । 18) राय॑-श्श्रयन्ताग् श्रयन्ता॒(ग्म्॒) रायो॒ राय॑-श्श्रयन्ताम् । 19) श्र॒य॒न्ता॒मिति॑ श्रयन्ताम् । 20) उप॑ त्वा॒ त्वोपोप॑ त्वा । 21) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ । 22) अ॒ग्ने॒ दि॒वेदि॑वे दि॒वेदि॑वे ऽग्ने ऽग्ने दि॒वेदि॑वे । 23) दि॒वेदि॑वे॒ दोषा॑वस्त॒-र्दोषा॑वस्त-र्दि॒वेदि॑वे दि॒वेदि॑वे॒ दोषा॑वस्तः । 23) दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒वे॒ । 24) दोषा॑वस्त-र्धि॒या धि॒या दोषा॑वस्त॒-र्दोषा॑वस्त-र्धि॒या । 24) दोषा॑वस्त॒रिति॒ दोषा᳚ - व॒स्तः॒ । 25) धि॒या व॒यं-वँ॒य-न्धि॒या धि॒या व॒यम् । 26) व॒यमिति॑ व॒यम् । 27) नमो॒ भर॑न्तो॒ भर॑न्तो॒ नमो॒ नमो॒ भर॑न्तः । 28) भर॑न्त॒ आ भर॑न्तो॒ भर॑न्त॒ आ । 29) एम॑सीम॒स्येम॑सि । 30) इ॒म॒सीती॑मसि । 31) राज॑न्त मद्ध्व॒राणा॑ मद्ध्व॒राणा॒(ग्म्॒) राज॑न्त॒(ग्म्॒) राज॑न्त मद्ध्व॒राणा᳚म् । 32) अ॒द्ध्व॒राणा᳚-ङ्गो॒पा-ङ्गो॒पा म॑द्ध्व॒राणा॑ मद्ध्व॒राणा᳚-ङ्गो॒पाम् । 33) गो॒पा मृ॒तस्य॒ र्तस्य॑ गो॒पा-ङ्गो॒पा मृ॒तस्य॑ । 33) गो॒पामिति॑ गो - पाम् । 34) ऋ॒तस्य॒ दीदि॑वि॒-न्दीदि॑वि मृ॒तस्य॒ र्तस्य॒ दीदि॑विम् । 35) दीदि॑वि॒मिति॒ दीदि॑विम् । 36) वर्ध॑मान॒(ग्ग्॒) स्वे स्वे वर्ध॑मानं॒-वँर्ध॑मान॒(ग्ग्॒) स्वे । 37) स्वे दमे॒ दमे॒ स्वे स्वे दमे᳚ । 38) दम॒ इति॒ दमे᳚ । 39) स नो॑ न॒-स्स सो नः॑ । 40) नः॒ पि॒ता पि॒ता नो॑ नः पि॒ता । 41) पि॒तेवे॑ व पि॒ता पि॒तेव॑ । 42) इ॒व॒ सू॒नवे॑ सू॒नव॑ इवे व सू॒नवे᳚ । 43) सू॒नवे ऽग्ने ऽग्ने॑ सू॒नवे॑ सू॒नवे ऽग्ने᳚ । 44) अग्ने॑ सूपाय॒न-स्सू॑पाय॒नो ऽग्ने ऽग्ने॑ सूपाय॒नः । 45) सू॒पा॒य॒नो भ॑व भव सूपाय॒न-स्सू॑पाय॒नो भ॑व । 45) सू॒पा॒य॒न इति॑ सु - उ॒पा॒य॒नः । 46) भ॒वेति॑ भव । 47) सच॑स्वा नो न॒-स्सच॑स्व॒ सच॑स्वा नः । 48) न॒-स्स्व॒स्तये᳚ स्व॒स्तये॑ नो न-स्स्व॒स्तये᳚ । 49) स्व॒स्तय॒ इति॑ स्व॒स्तये᳚ । 50) अग्ने॒ त्व-न्त्व मग्ने ऽग्ने॒ त्वम् । ॥ 22 ॥ (50/57)
1) त्वन्नो॑ न॒स्त्व-न्त्वन्नः॑ । 2) नो॒ अन्त॒मो ऽन्त॑मो नो नो॒ अन्त॑मः । 3) अन्त॑म॒ इत्यन्त॑मः । 4) उ॒त त्रा॒ता त्रा॒तोतोत त्रा॒ता । 5) त्रा॒ता शि॒व-श्शि॒वस्त्रा॒ता त्रा॒ता शि॒वः । 6) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व । 7) भ॒व॒ व॒रू॒थ्यो॑ वरू॒थ्यो॑ भव भव वरू॒थ्यः॑ । 8) व॒रू॒थ्य॑ इति॑ वरू॒थ्यः॑ । 9) त-न्त्वा᳚ त्वा॒ त-न्त-न्त्वा᳚ । 10) त्वा॒ शो॒चि॒ष्ठ॒ शो॒चि॒ष्ठ॒ त्वा॒ त्वा॒ शो॒चि॒ष्ठ॒ । 11) शो॒चि॒ष्ठ॒ दी॒दि॒वो॒ दी॒दि॒व॒-श्शो॒चि॒ष्ठ॒ शो॒चि॒ष्ठ॒ दी॒दि॒वः॒ । 12) दी॒दि॒व॒ इति॑ दीदिवः । 13) सु॒म्नाय॑ नू॒नन्नू॒नग्ं सु॒म्नाय॑ सु॒म्नाय॑ नू॒नम् । 14) नू॒न मी॑मह ईमहे नू॒नन्नू॒न मी॑महे । 15) ई॒म॒हे॒ सखि॑भ्य॒-स्सखि॑भ्य ईमह ईमहे॒ सखि॑भ्यः । 16) सखि॑भ्य॒ इति॒ सखि॑ - भ्यः॒ । 17) वसु॑र॒ग्निर॒ग्नि-र्वसु॒-र्वसु॑र॒ग्निः । 18) अ॒ग्नि-र्वसु॑श्रवा॒ वसु॑श्रवा अ॒ग्निर॒ग्नि-र्वसु॑श्रवाः । 19) वसु॑श्रवा॒ इति॒ वसु॑ - श्र॒वाः॒ । 20) अच्छा॑ नक्षि न॒क्ष्यच्छाच्छा॑ नक्षि । 21) न॒क्षि॒ द्यु॒मत्त॑मो द्यु॒मत्त॑मो नक्षि नक्षि द्यु॒मत्त॑मः । 22) द्यु॒मत्त॑मो र॒यिग्ं र॒यि-न्द्यु॒मत्त॑मो द्यु॒मत्त॑मो र॒यिम् । 22) द्यु॒मत्त॑म॒ इति॑ द्यु॒मत् - त॒मः॒ । 23) र॒यि-न्दा॑ दा र॒यिग्ं र॒यि-न्दाः᳚ । 24) दा॒ इति॑ दाः । 25) ऊ॒र्जा वो॑ व ऊ॒र्जोर्जा वः॑ । 26) वः॒ प॒श्या॒मि॒ प॒श्या॒मि॒ वो॒ वः॒ प॒श्या॒मि॒ । 27) प॒श्या॒म्यू॒र्जोर्जा प॑श्यामि पश्याम्यू॒र्जा । 28) ऊ॒र्जा मा॑ मो॒र्जोर्जा मा᳚ । 29) मा॒ प॒श्य॒त॒ प॒श्य॒त॒ मा॒ मा॒ प॒श्य॒त॒ । 30) प॒श्य॒त॒ रा॒यो रा॒यः प॑श्यत पश्यत रा॒यः । 31) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण । 32) पोषे॑ण वो वः॒ पोषे॑ण॒ पोषे॑ण वः । 33) वः॒ प॒श्या॒मि॒ प॒श्या॒मि॒ वो॒ वः॒ प॒श्या॒मि॒ । 34) प॒श्या॒मि॒ रा॒यो रा॒यः प॑श्यामि पश्यामि रा॒यः । 35) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण । 36) पोषे॑ण मा मा॒ पोषे॑ण॒ पोषे॑ण मा । 37) मा॒ प॒श्य॒त॒ प॒श्य॒त॒ मा॒ मा॒ प॒श्य॒त॒ । 38) प॒श्य॒ते डा॒ इडाः᳚ पश्यत पश्य॒ते डाः᳚ । 39) इडा᳚-स्स्थ॒ स्थे डा॒ इडा᳚-स्स्थ । 40) स्थ॒ म॒धु॒कृतो॑ मधु॒कृत॑-स्स्थ स्थ मधु॒कृतः॑ । 41) म॒धु॒कृत॑-स्स्यो॒ना-स्स्यो॒ना म॑धु॒कृतो॑ मधु॒कृत॑-स्स्यो॒नाः । 41) म॒धु॒कृत॒ इति॑ मधु - कृतः॑ । 42) स्यो॒ना मा॑ मा स्यो॒ना-स्स्यो॒ना मा᳚ । 43) मा ऽऽमा॒ मा । 44) आ वि॑शत विश॒ता वि॑शत । 45) वि॒श॒ते रा॒ इरा॑ विशत विश॒ते राः᳚ । 46) इरा॒ मदो॒ मद॒ इरा॒ इरा॒ मदः॑ । 47) मद॒ इति॒ मदः॑ । 48) स॒ह॒स्र॒पो॒षं-वोँ॑ व-स्सहस्रपो॒षग्ं स॑हस्रपो॒षं-वँः॑ । 48) स॒ह॒स्र॒पो॒षमिति॑ सहस्र - पो॒षम् । 49) वः॒ पु॒ष्या॒स॒-म्पु॒ष्या॒सं॒-वोँ॒ वः॒ पु॒ष्या॒स॒म् । 50) पु॒ष्या॒स॒-म्मयि॒ मयि॑ पुष्यास-म्पुष्यास॒-म्मयि॑ । ॥ 23 ॥ (50/53)
1) मयि॑ वो वो॒ मयि॒ मयि॑ वः । 2) वो॒ रायो॒ रायो॑ वो वो॒ रायः॑ । 3) राय॑-श्श्रयन्ताग् श्रयन्ता॒(ग्म्॒) रायो॒ राय॑-श्श्रयन्ताम् । 4) श्र॒य॒न्ता॒मिति॑ श्रयन्ताम् । 5) त-थ्स॑वि॒तु-स्स॑वि॒तुस्त-त्त-थ्स॑वि॒तुः । 6) स॒वि॒तु-र्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तु-र्वरे᳚ण्यम् । 7) वरे᳚ण्य॒-म्भर्गो॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्य॒-म्भर्गः॑ । 8) भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ । 9) दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि । 10) धी॒म॒हीति॑ धीमहि । 11) धियो॒ यो यो धियो॒ धियो॒ यः । 12) यो नो॑ नो॒ यो यो नः॑ । 13) नः॒ प्र॒चो॒दया᳚-त्प्रचो॒दया᳚-न्नो नः प्रचो॒दया᳚त् । 14) प्र॒चो॒दया॒दिति॑ प्र - चो॒दया᳚त् । 15) सो॒मान॒(ग्ग्॒) स्वर॑ण॒(ग्ग्॒) स्वर॑णग्ं सो॒मान(ग्म्॑) सो॒मान॒(ग्ग्॒) स्वर॑णम् । 16) स्वर॑ण-ङ्कृणु॒हि कृ॑णु॒हि स्वर॑ण॒(ग्ग्॒) स्वर॑ण-ङ्कृणु॒हि । 17) कृ॒णु॒हि ब्र॑ह्मणो ब्रह्मणः कृणु॒हि कृ॑णु॒हि ब्र॑ह्मणः । 18) ब्र॒ह्म॒ण॒ स्प॒ते॒ प॒ते॒ ब्र॒ह्म॒णो॒ ब्र॒ह्म॒ण॒ स्प॒ते॒ । 19) प॒त॒ इति॑ पते । 20) क॒क्षीव॑न्तं॒-योँ यः क॒क्षीव॑न्त-ङ्क॒क्षीव॑न्तं॒-यः ँ। 20) क॒क्षीव॑न्त॒मिति॑ क॒क्षी - व॒न्त॒म् । 21) य औ॑शि॒ज मौ॑शि॒जं-योँ य औ॑शि॒जम् । 22) औ॒शि॒जमित्यौ॑शि॒जम् । 23) क॒दा च॒न च॒न क॒दा क॒दा च॒न । 24) च॒न स्त॒री-स्स्त॒रीश्च॒न च॒न स्त॒रीः । 25) स्त॒रीर॑स्यसि स्त॒री-स्स्त॒रीर॑सि । 26) अ॒सि॒ न नास्य॑सि॒ न । 27) ने न्द्रे᳚ न्द्र॒ न ने न्द्र॑ । 28) इ॒न्द्र॒ स॒श्च॒सि॒ स॒श्च॒सी॒न्द्रे॒ न्द्र॒ स॒श्च॒सि॒ । 29) स॒श्च॒सि॒ दा॒शुषे॑ दा॒शुषे॑ सश्चसि सश्चसि दा॒शुषे᳚ । 30) दा॒शुष॒ इति॑ दा॒शुषे᳚ । 31) उपो॒पे दिदुपो॒पोपो॒पे त् । 31) उपो॒पेत्युप॑ - उ॒प॒ । 32) इ-न्नु न्विदि-न्नु । 33) नु म॑घव-न्मघव॒-न्नु नु म॑घवन्न् । 34) म॒घ॒व॒-न्भूयो॒ भूयो॑ मघव-न्मघव॒-न्भूयः॑ । 34) म॒घ॒व॒न्निति॑ मघ - व॒न्न् । 35) भूय॒ इदि-द्भूयो॒ भूय॒ इत् । 36) इ-न्नु न्विदि-न्नु । 37) नु ते॑ ते॒ नु नु ते᳚ । 38) ते॒ दान॒-न्दान॑-न्ते ते॒ दान᳚म् । 39) दान॑-न्दे॒वस्य॑ दे॒वस्य॒ दान॒-न्दान॑-न्दे॒वस्य॑ । 40) दे॒वस्य॑ पृच्यते पृच्यते दे॒वस्य॑ दे॒वस्य॑ पृच्यते । 41) पृ॒च्य॒त॒ इति॑ पृच्यते । 42) परि॑ त्वा त्वा॒ परि॒ परि॑ त्वा । 43) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ । 44) अ॒ग्ने॒ पुर॒-म्पुर॑ मग्ने ऽग्ने॒ पुर᳚म् । 45) पुरं॑-वँ॒यं-वँ॒य-म्पुर॒-म्पुरं॑-वँ॒यम् । 46) व॒यं-विँप्रं॒-विँप्रं॑-वँ॒यं-वँ॒यं-विँप्र᳚म् । 47) विप्र(ग्म्॑) सहस्य सहस्य॒ विप्रं॒-विँप्र(ग्म्॑) सहस्य । 48) स॒ह॒स्य॒ धी॒म॒हि॒ धी॒म॒हि॒ स॒ह॒स्य॒ स॒ह॒स्य॒ धी॒म॒हि॒ । 49) धी॒म॒हीति॑ धीमहि । 50) धृ॒षद्व॑र्ण-न्दि॒वेदि॑वे दि॒वेदि॑वे धृ॒षद्व॑र्ण-न्धृ॒षद्व॑र्ण-न्दि॒वेदि॑वे । 50) धृ॒षद्व॑र्ण॒मिति॑ धृ॒षत् - व॒र्ण॒म् । 51) दि॒वेदि॑वे भे॒त्तार॑-म्भे॒त्तार॑-न्दि॒वेदि॑वे दि॒वेदि॑वे भे॒त्तार᳚म् । 51) दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒वे॒ । 52) भे॒त्तार॑-म्भङ्गु॒राव॑तो भङ्गु॒राव॑तो भे॒त्तार॑-म्भे॒त्तार॑-म्भङ्गु॒राव॑तः । 53) भ॒ङ्गु॒राव॑त॒ इति॑ भङ्गु॒र - व॒तः॒ । 54) अग्ने॑ गृहपते गृहप॒ते ऽग्ने ऽग्ने॑ गृहपते । 55) गृ॒ह॒प॒ते॒ सु॒गृ॒ह॒प॒ति-स्सु॑गृहप॒ति-र्गृ॑हपते गृहपते सुगृहप॒तिः । 55) गृ॒ह॒प॒त॒ इति॑ गृह - प॒ते॒ । 56) सु॒गृ॒ह॒प॒तिर॒ह म॒हग्ं सु॑गृहप॒ति-स्सु॑गृहप॒तिर॒हम् । 56) सु॒गृ॒ह॒प॒तिरिति॑ सु - गृ॒ह॒प॒तिः । 57) अ॒ह-न्त्वया॒ त्वया॒ ऽह म॒ह-न्त्वया᳚ । 58) त्वया॑ गृ॒हप॑तिना गृ॒हप॑तिना॒ त्वया॒ त्वया॑ गृ॒हप॑तिना । 59) गृ॒हप॑तिना भूयास-म्भूयास-ङ्गृ॒हप॑तिना गृ॒हप॑तिना भूयासम् । 59) गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ । 60) भू॒या॒स॒(ग्म्॒) सु॒गृ॒ह॒प॒ति-स्सु॑गृहप॒ति-र्भू॑यास-म्भूयासग्ं सुगृहप॒तिः । 61) सु॒गृ॒ह॒प॒ति-र्मया॒ मया॑ सुगृहप॒ति-स्सु॑गृहप॒ति-र्मया᳚ । 61) सु॒गृ॒ह॒प॒तिरिति॑ सु - गृ॒ह॒प॒तिः । 62) मया॒ त्व-न्त्व-म्मया॒ मया॒ त्वम् । 63) त्व-ङ्गृ॒हप॑तिना गृ॒हप॑तिना॒ त्व-न्त्व-ङ्गृ॒हप॑तिना । 64) गृ॒हप॑तिना भूया भूया गृ॒हप॑तिना गृ॒हप॑तिना भूयाः । 64) गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ । 65) भू॒या॒-श्श॒तग्ं श॒त-म्भू॑या भूया-श्श॒तम् । 66) श॒तग्ं हिमा॒ हिमा᳚-श्श॒तग्ं श॒तग्ं हिमाः᳚ । 67) हिमा॒स्ता-न्ताग्ं हिमा॒ हिमा॒स्ताम् । 68) ता मा॒शिष॑ मा॒शिष॒-न्ता-न्ता मा॒शिष᳚म् । 69) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा । 69) आ॒शिष॒मित्या᳚ - शिष᳚म् । 70) आ शा॑से शास॒ आ शा॑से । 71) शा॒से॒ तन्त॑वे॒ तन्त॑वे शासे शासे॒ तन्त॑वे । 72) तन्त॑वे॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒-न्तन्त॑वे॒ तन्त॑वे॒ ज्योति॑ष्मतीम् । 73) ज्योति॑ष्मती॒-न्ता-न्ता-ञ्ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒-न्ताम् । 74) ता मा॒शिष॑ मा॒शिष॒-न्ता-न्ता मा॒शिष᳚म् । 75) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा । 75) आ॒शिष॒मित्या᳚ - शिष᳚म् । 76) आ शा॑से शास॒ आ शा॑से । 77) शा॒से॒ ऽमुष्मा॑ अ॒मुष्मै॑ शासे शासे॒ ऽमुष्मै᳚ । 78) अ॒मुष्मै॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती म॒मुष्मा॑ अ॒मुष्मै॒ ज्योति॑ष्मतीम् । 79) ज्योति॑ष्मती॒मिति॒ ज्योति॑ष्मतीम् । ॥ 24 ॥ (79/91) ॥ अ. 6 ॥
1) अय॑ज्ञो॒ वै वा अय॒ज्ञो ऽय॑ज्ञो॒ वै । 2) वा ए॒ष ए॒ष वै वा ए॒षः । 3) ए॒ष यो य ए॒ष ए॒षो यः । 4) यो॑ ऽसा॒मा ऽसा॒मा यो यो॑ ऽसा॒मा । 5) अ॒सा॒मोप॑प्र॒यन्त॑ उपप्र॒यन्तो॑ ऽसा॒मा ऽसा॒मोप॑प्र॒यन्तः॑ । 6) उ॒प॒प्र॒यन्तो॑ अद्ध्व॒र म॑द्ध्व॒र मु॑पप्र॒यन्त॑ उपप्र॒यन्तो॑ अद्ध्व॒रम् । 6) उ॒प॒प्र॒यन्त॒ इत्यु॑प - प्र॒यन्तः॑ । 7) अ॒द्ध्व॒र मितीत्य॑द्ध्व॒र म॑द्ध्व॒र मिति॑ । 8) इत्या॑हा॒हे तीत्या॑ह । 9) आ॒ह॒ स्तोम॒(ग्ग्॒) स्तोम॑ माहाह॒ स्तोम᳚म् । 10) स्तोम॑ मे॒वैव स्तोम॒(ग्ग्॒) स्तोम॑ मे॒व । 11) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 12) अ॒स्मै॒ यु॒न॒क्ति॒ यु॒न॒क्त्य॒स्मा॒ अ॒स्मै॒ यु॒न॒क्ति॒ । 13) यु॒न॒क्त्युपोप॑ युनक्ति युन॒क्त्युप॑ । 14) उपे तीत्युपोपे ति॑ । 15) इत्या॑हा॒हे तीत्या॑ह । 16) आ॒ह॒ प्र॒जा प्र॒जा ऽऽहा॑ह प्र॒जा । 17) प्र॒जा वै वै प्र॒जा प्र॒जा वै । 17) प्र॒जेति॑ प्र - जा । 18) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ । 19) प॒शव॒ उपोप॑ प॒शवः॑ प॒शव॒ उप॑ । 20) उपे॒ म मि॒म मुपोपे॒ मम् । 21) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् । 22) लो॒क-म्प्र॒जा-म्प्र॒जाम् ँलो॒कम् ँलो॒क-म्प्र॒जाम् । 23) प्र॒जा मे॒वैव प्र॒जा-म्प्र॒जा मे॒व । 23) प्र॒जामिति॑ प्र - जाम् । 24) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 25) प॒शू नि॒म मि॒म-म्प॒शू-न्प॒शू नि॒मम् । 26) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् । 27) लो॒क मुपोप॑ लो॒कम् ँलो॒क मुप॑ । 28) उपै᳚त्ये॒त्युपोपै॑ति । 29) ए॒त्य॒स्यास्यैत्ये᳚त्य॒स्य । 30) अ॒स्य प्र॒त्ना-म्प्र॒त्ना म॒स्यास्य प्र॒त्नाम् । 31) प्र॒त्ना मन्वनु॑ प्र॒त्ना-म्प्र॒त्ना मनु॑ । 32) अनु॒ द्युत॒-न्द्युत॒ मन्वनु॒ द्युत᳚म् । 33) द्युत॒ मितीति॒ द्युत॒-न्द्युत॒ मिति॑ । 34) इत्या॑हा॒हे तीत्या॑ह । 35) आ॒ह॒ सु॒व॒र्ग-स्सु॑व॒र्ग आ॑हाह सुव॒र्गः । 36) सु॒व॒र्गो वै वै सु॑व॒र्ग-स्सु॑व॒र्गो वै । 36) सु॒व॒र्ग इति॑ सुवः - गः । 37) वै लो॒को लो॒को वै वै लो॒कः । 38) लो॒कः प्र॒त्नः प्र॒त्नो लो॒को लो॒कः प्र॒त्नः । 39) प्र॒त्न-स्सु॑व॒र्गग्ं सु॑व॒र्ग-म्प्र॒त्नः प्र॒त्न-स्सु॑व॒र्गम् । 40) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व । 40) सु॒व॒र्गमिति॑ सुवः - गम् । 41) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् । 42) लो॒कग्ं स॒मारो॑हति स॒मारो॑हति लो॒कम् ँलो॒कग्ं स॒मारो॑हति । 43) स॒मारो॑हत्य॒ग्निर॒ग्नि-स्स॒मारो॑हति स॒मारो॑हत्य॒ग्निः । 43) स॒मारो॑ह॒तीति॑ सं - आरो॑हति । 44) अ॒ग्नि-र्मू॒र्धा मू॒र्धा ऽग्निर॒ग्नि-र्मू॒र्धा । 45) मू॒र्धा दि॒वो दि॒वो मू॒र्धा मू॒र्धा दि॒वः । 46) दि॒वः क॒कु-त्क॒कु-द्दि॒वो दि॒वः क॒कुत् । 47) क॒कुदितीति॑ क॒कु-त्क॒कुदिति॑ । 48) इत्या॑हा॒हे तीत्या॑ह । 49) आ॒ह॒ मू॒र्धान॑-म्मू॒र्धान॑ माहाह मू॒र्धान᳚म् । 50) मू॒र्धान॑ मे॒वैव मू॒र्धान॑-म्मू॒र्धान॑ मे॒व । ॥ 25 ॥ (50/56)
1) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 2) ए॒न॒(ग्म्॒) स॒मा॒नाना(ग्म्॑) समा॒नाना॑ मेन मेनग्ं समा॒नाना᳚म् । 3) स॒मा॒नाना᳚-ङ्करोति करोति समा॒नाना(ग्म्॑) समा॒नाना᳚-ङ्करोति । 4) क॒रो॒त्यथो॒ अथो॑ करोति करो॒त्यथो᳚ । 5) अथो॑ देवलो॒का-द्दे॑वलो॒कादथो॒ अथो॑ देवलो॒कात् । 5) अथो॒ इत्यथो᳚ । 6) दे॒व॒लो॒कादे॒वैव दे॑वलो॒का-द्दे॑वलो॒कादे॒व । 6) दे॒व॒लो॒कादिति॑ देव - लो॒कात् । 7) ए॒व म॑नुष्यलो॒के म॑नुष्यलो॒क ए॒वैव म॑नुष्यलो॒के । 8) म॒नु॒ष्य॒लो॒के प्रति॒ प्रति॑ मनुष्यलो॒के म॑नुष्यलो॒के प्रति॑ । 8) म॒नु॒ष्य॒लो॒क इति॑ मनुष्य - लो॒के । 9) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 10) ति॒ष्ठ॒त्य॒य म॒य-न्ति॑ष्ठति तिष्ठत्य॒यम् । 11) अ॒य मि॒हे हाय म॒य मि॒ह । 12) इ॒ह प्र॑थ॒मः प्र॑थ॒म इ॒हे ह प्र॑थ॒मः । 13) प्र॒थ॒मो धा॑यि धायि प्रथ॒मः प्र॑थ॒मो धा॑यि । 14) धा॒यि॒ धा॒तृभि॑-र्धा॒तृभि॑-र्धायि धायि धा॒तृभिः॑ । 15) धा॒तृभि॒रितीति॑ धा॒तृभि॑-र्धा॒तृभि॒रिति॑ । 15) धा॒तृभि॒रिति॑ धा॒तृ - भिः॒ । 16) इत्या॑हा॒हे तीत्या॑ह । 17) आ॒ह॒ मुख्य॒-म्मुख्य॑ माहाह॒ मुख्य᳚म् । 18) मुख्य॑ मे॒वैव मुख्य॒-म्मुख्य॑ मे॒व । 19) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 20) ए॒न॒-ङ्क॒रो॒ति॒ क॒रो॒त्ये॒न॒ मे॒न॒-ङ्क॒रो॒ति॒ । 21) क॒रो॒त्यु॒भोभा क॑रोति करोत्यु॒भा । 22) उ॒भा वां᳚-वाँ मु॒भोभा वा᳚म् । 23) वा॒ मि॒न्द्रा॒ग्नी॒ इ॒न्द्रा॒ग्नी॒ वां॒-वाँ॒ मि॒न्द्रा॒ग्नी॒ । 24) इ॒न्द्रा॒ग्नी॒ आ॒हु॒वद्ध्या॑ आहु॒वद्ध्या॑ इन्द्राग्नी इन्द्राग्नी आहु॒वद्ध्यै᳚ । 24) इ॒न्द्रा॒ग्नी॒ इती᳚न्द्र - अ॒ग्नी॒ । 25) आ॒हु॒वद्ध्या॒ इतीत्या॑हु॒वद्ध्या॑ आहु॒वद्ध्या॒ इति॑ । 26) इत्या॑हा॒हे तीत्या॑ह । 27) आ॒हौज॒ ओज॑ आहा॒हौजः॑ । 28) ओजो॒ बल॒-म्बल॒ मोज॒ ओजो॒ बल᳚म् । 29) बल॑ मे॒वैव बल॒-म्बल॑ मे॒व । 30) ए॒वावावै॒वैवाव॑ । 31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 32) रु॒न्धे॒ ऽय म॒यग्ं रु॑न्धे रुन्धे॒ ऽयम् । 33) अ॒य-न्ते॑ ते॒ ऽय म॒य-न्ते᳚ । 34) ते॒ योनि॒-र्योनि॑स्ते ते॒ योनिः॑ । 35) योनि॑र्-ऋ॒त्विय॑ ऋ॒त्वियो॒ योनि॒-र्योनि॑र्-ऋ॒त्वियः॑ । 36) ऋ॒त्विय॒ इतीत्यृ॒त्विय॑ ऋ॒त्विय॒ इति॑ । 37) इत्या॑हा॒हे तीत्या॑ह । 38) आ॒ह॒ प॒शवः॑ प॒शव॑ आहाह प॒शवः॑ । 39) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 40) वै र॒यी र॒यि-र्वै वै र॒यिः । 41) र॒यिः प॒शू-न्प॒शू-न्र॒यी र॒यिः प॒शून् । 42) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व । 43) ए॒वावावै॒वैवाव॑ । 44) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 45) रु॒न्धे॒ ष॒ड्भि ष्ष॒ड्भी रु॑न्धे रुन्धे ष॒ड्भिः । 46) ष॒ड्भिरुपोप॑ ष॒ड्भि ष्ष॒ड्भिरुप॑ । 46) ष॒ड्भिरिति॑ षट् - भिः । 47) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 48) ति॒ष्ठ॒ते॒ षट् -थ्ष-ट्ति॑ष्ठते तिष्ठते॒ षट् । 49) ष-ड्वै वै षट् -थ्ष-ड्वै । 50) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । ॥ 26 ॥ (50/56)
1) ऋ॒तव॑ ऋ॒तुष॒ र्तुष॒ र्तव॑ ऋ॒तव॑ ऋ॒तुषु॑ । 2) ऋ॒तु ष्वे॒वैव र्तुष॒ र्तुष्वे॒व । 3) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ । 4) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 5) ति॒ष्ठ॒ति॒ ष॒ड्भि ष्ष॒ड्भि स्ति॑ष्ठति तिष्ठति ष॒ड्भिः । 6) ष॒ड्भि रुत्त॑राभि॒ रुत्त॑राभि ष्ष॒ड्भि ष्ष॒ड्भि रुत्त॑राभिः । 6) ष॒ड्भिरिति॑ षट् - भिः । 7) उत्त॑राभि॒ रुपोपोत्त॑राभि॒ रुत्त॑राभि॒रुप॑ । 7) उत्त॑राभि॒रित्युत् - त॒रा॒भिः॒ । 8) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 9) ति॒ष्ठ॒ते॒ द्वाद॑श॒ द्वाद॑श तिष्ठते तिष्ठते॒ द्वाद॑श । 10) द्वाद॑श॒ सग्ं स-न्द्वाद॑श॒ द्वाद॑श॒ सम् । 11) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 12) प॒द्य॒न्ते॒ द्वाद॑श॒ द्वाद॑श पद्यन्ते पद्यन्ते॒ द्वाद॑श । 13) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 14) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 15) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रे सं॑वँथ्स॒रे सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रे । 15) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 16) सं॒वँ॒थ्स॒र ए॒वैव सं॑वँथ्स॒रे सं॑वँथ्स॒र ए॒व । 16) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 17) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ । 18) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 19) ति॒ष्ठ॒ति॒ यथा॒ यथा॑ तिष्ठति तिष्ठति॒ यथा᳚ । 20) यथा॒ वै वै यथा॒ यथा॒ वै । 21) वै पुरु॑षः॒ पुरु॑षो॒ वै वै पुरु॑षः । 22) पुरु॒षो ऽश्वो ऽश्वः॒ पुरु॑षः॒ पुरु॒षो ऽश्वः॑ । 23) अश्वो॒ गौ-र्गौरश्वो ऽश्वो॒ गौः । 24) गौ-र्जीर्य॑ति॒ जीर्य॑ति॒ गौ-र्गौ-र्जीर्य॑ति । 25) जीर्य॑त्ये॒व मे॒व-ञ्जीर्य॑ति॒ जीर्य॑त्ये॒वम् । 26) ए॒व म॒ग्निर॒ग्निरे॒व मे॒व म॒ग्निः । 27) अ॒ग्निराहि॑त॒ आहि॑तो॒ ऽग्निर॒ग्निराहि॑तः । 28) आहि॑तो जीर्यति जीर्य॒त्याहि॑त॒ आहि॑तो जीर्यति । 28) आहि॑त॒ इत्या - हि॒तः॒ । 29) जी॒र्य॒ति॒ सं॒वँ॒थ्स॒रस्य॑ संवँथ्स॒रस्य॑ जीर्यति जीर्यति संवँथ्स॒रस्य॑ । 30) सं॒वँ॒थ्स॒रस्य॑ प॒रस्ता᳚-त्प॒रस्ता᳚-थ्संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॑ प॒रस्ता᳚त् । 30) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 31) प॒रस्ता॑ दाग्निपावमा॒नीभि॑ राग्निपावमा॒नीभिः॑ प॒रस्ता᳚-त्प॒रस्ता॑ दाग्निपावमा॒नीभिः॑ । 32) आ॒ग्नि॒पा॒व॒मा॒नीभि॒ रुपोपा᳚ग्निपावमा॒नीभि॑ राग्निपावमा॒नीभि॒रुप॑ । 32) आ॒ग्नि॒पा॒व॒मा॒नीभि॒रित्या᳚ग्नि - पा॒व॒मा॒नीभिः॑ । 33) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 34) ति॒ष्ठ॒ते॒ पु॒न॒र्न॒व-म्पु॑नर्न॒व-न्ति॑ष्ठते तिष्ठते पुनर्न॒वम् । 35) पु॒न॒र्न॒व मे॒वैव पु॑नर्न॒व-म्पु॑नर्न॒व मे॒व । 35) पु॒न॒र्न॒वमिति॑ पुनः - न॒वम् । 36) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 37) ए॒न॒ म॒जर॑ म॒जर॑ मेन मेन म॒जर᳚म् । 38) अ॒जर॑-ङ्करोति करोत्य॒जर॑ म॒जर॑-ङ्करोति । 39) क॒रो॒त्यथो॒ अथो॑ करोति करो॒त्यथो᳚ । 40) अथो॑ पु॒नाति॑ पु॒नात्यथो॒ अथो॑ पु॒नाति॑ । 40) अथो॒ इत्यथो᳚ । 41) पु॒नात्ये॒वैव पु॒नाति॑ पु॒नात्ये॒व । 42) ए॒वोपोपै॒वैवोप॑ । 43) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 44) ति॒ष्ठ॒ते॒ योगो॒ योग॑स्तिष्ठते तिष्ठते॒ योगः॑ । 45) योग॑ ए॒वैव योगो॒ योग॑ ए॒व । 46) ए॒वास्या᳚स्यै॒वैवास्य॑ । 47) अ॒स्यै॒ष ए॒षो᳚-ऽस्यास्यै॒षः । 48) ए॒ष उपोपै॒ष ए॒ष उप॑ । 49) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 50) ति॒ष्ठ॒ते॒ दमो॒ दम॑स्तिष्ठते तिष्ठते॒ दमः॑ । ॥ 27 ॥ (50/59)
1) दम॑ ए॒वैव दमो॒ दम॑ ए॒व । 2) ए॒वास्या᳚स्यै॒वैवास्य॑ । 3) अ॒स्यै॒ष ए॒षो᳚-ऽस्यास्यै॒षः । 4) ए॒ष उपोपै॒ष ए॒ष उप॑ । 5) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 6) ति॒ष्ठ॒ते॒ या॒चंआ या॒चंआ ति॑ष्ठते तिष्ठते या॒चंआ । 7) या॒चंऐवैव या॒चंआ या॒चंऐव । 8) ए॒वास्या᳚स्यै॒वैवास्य॑ । 9) अ॒स्यै॒षैषा ऽस्या᳚स्यै॒षा । 10) ए॒षोपोपै॒षैषोप॑ । 11) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 12) ति॒ष्ठ॒ते॒ यथा॒ यथा॑ तिष्ठते तिष्ठते॒ यथा᳚ । 13) यथा॒ पापी॑या॒-न्पापी॑या॒न्॒. यथा॒ यथा॒ पापी॑यान् । 14) पापी॑या॒-ञ्छ्रेय॑से॒ श्रेय॑से॒ पापी॑या॒-न्पापी॑या॒-ञ्छ्रेय॑से । 15) श्रेय॑स आ॒हृत्या॒हृत्य॒ श्रेय॑से॒ श्रेय॑स आ॒हृत्य॑ । 16) आ॒हृत्य॑ नम॒स्यति॑ नम॒स्यत्या॒हृत्या॒हृत्य॑ नम॒स्यति॑ । 16) आ॒हृत्येत्या᳚ - हृत्य॑ । 17) न॒म॒स्यति॑ ता॒दृ-क्ता॒दृ-न्न॑म॒स्यति॑ नम॒स्यति॑ ता॒दृक् । 18) ता॒दृगे॒वैव ता॒दृ-क्ता॒दृगे॒व । 19) ए॒व त-त्तदे॒वैव तत् । 20) तदा॑यु॒र्दा आ॑यु॒र्दास्त-त्तदा॑यु॒र्दाः । 21) आ॒यु॒र्दा अ॑ग्ने अग्न आयु॒र्दा आ॑यु॒र्दा अ॑ग्ने । 21) आ॒यु॒र्दा इत्या॑युः - दाः । 22) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ अ॒ग्ने॒ ऽसि॒ । 23) अ॒स्यायु॒ रायु॑ रस्य॒स्यायुः॑ । 24) आयु॑-र्मे म॒ आयु॒रायु॑-र्मे । 25) मे॒ दे॒हि॒ दे॒हि॒ मे॒ मे॒ दे॒हि॒ । 26) दे॒हीतीति॑ देहि दे॒हीति॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒हा॒यु॒र्दा आ॑यु॒र्दा आ॑हाहायु॒र्दाः । 29) आ॒यु॒र्दा हि ह्या॑यु॒र्दा आ॑यु॒र्दा हि । 29) आ॒यु॒र्दा इत्या॑युः - दाः । 30) ह्ये॑ष ए॒ष हि ह्ये॑षः । 31) ए॒ष व॑र्चो॒दा व॑र्चो॒दा ए॒ष ए॒ष व॑र्चो॒दाः । 32) व॒र्चो॒दा अ॑ग्ने अग्ने वर्चो॒दा व॑र्चो॒दा अ॑ग्ने । 32) व॒र्चो॒दा इति॑ वर्चः - दाः । 33) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ अ॒ग्ने॒ ऽसि॒ । 34) अ॒सि॒ वर्चो॒ वर्चो᳚ ऽस्यसि॒ वर्चः॑ । 35) वर्चो॑ मे मे॒ वर्चो॒ वर्चो॑ मे । 36) मे॒ दे॒हि॒ दे॒हि॒ मे॒ मे॒ दे॒हि॒ । 37) दे॒हीतीति॑ देहि दे॒हीति॑ । 38) इत्या॑हा॒हे तीत्या॑ह । 39) आ॒ह॒ व॒र्चो॒दा व॑र्चो॒दा आ॑हाह वर्चो॒दाः । 40) व॒र्चो॒दा हि हि व॑र्चो॒दा व॑र्चो॒दा हि । 40) व॒र्चो॒दा इति॑ वर्चः - दाः । 41) ह्ये॑ष ए॒ष हि ह्ये॑षः । 42) ए॒ष त॑नू॒पा स्त॑नू॒पा ए॒ष ए॒ष त॑नू॒पाः । 43) त॒नू॒पा अ॑ग्ने अग्ने तनू॒पा स्त॑नू॒पा अ॑ग्ने । 43) त॒नू॒पा इति॑ तनू - पाः । 44) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ अ॒ग्ने॒ ऽसि॒ । 45) अ॒सि॒ त॒नुव॑-न्त॒नुव॑ मस्यसि त॒नुव᳚म् । 46) त॒नुव॑-म्मे मे त॒नुव॑-न्त॒नुव॑-म्मे । 47) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ । 48) पा॒हीतीति॑ पाहि पा॒हीति॑ । 49) इत्या॑हा॒हे तीत्या॑ह । 50) आ॒ह॒ त॒नू॒पा स्त॑नू॒पा आ॑हाह तनू॒पाः । ॥ 28 ॥ (50/56)
1) त॒नू॒पा हि हि त॑नू॒पा स्त॑नू॒पा हि । 1) त॒नू॒पा इति॑ तनू - पाः । 2) ह्ये॑ष ए॒ष हि ह्ये॑षः । 3) ए॒षो-ऽग्ने ऽग्न॑ ए॒ष ए॒षो-ऽग्ने᳚ । 4) अग्ने॒ य-द्यदग्ने ऽग्ने॒ यत् । 5) य-न्मे॑ मे॒ य-द्य-न्मे᳚ । 6) मे॒ त॒नुवा᳚ स्त॒नुवा॑ मे मे त॒नुवाः᳚ । 7) त॒नुवा॑ ऊ॒न मू॒न-न्त॒नुवा᳚ स्त॒नुवा॑ ऊ॒नम् । 8) ऊ॒न-न्त-त्तदू॒न मू॒न-न्तत् । 9) त-न्मे॑ मे॒ त-त्त-न्मे᳚ । 10) म॒ आ मे॑ म॒ आ । 11) आ पृ॑ण पृ॒णा पृ॑ण । 12) पृ॒णे तीति॑ पृण पृ॒णे ति॑ । 13) इत्या॑हा॒हे तीत्या॑ह । 14) आ॒ह॒ य-द्यदा॑हाह॒ यत् । 15) य-न्मे॑ मे॒ य-द्य-न्मे᳚ । 16) मे॒ प्र॒जायै᳚ प्र॒जायै॑ मे मे प्र॒जायै᳚ । 17) प्र॒जायै॑ पशू॒ना-म्प॑शू॒ना-म्प्र॒जायै᳚ प्र॒जायै॑ पशू॒नाम् । 17) प्र॒जाया॒ इति॑ प्र - जायै᳚ । 18) प॒शू॒ना मू॒न मू॒न-म्प॑शू॒ना-म्प॑शू॒ना मू॒नम् । 19) ऊ॒न-न्त-त्तदू॒न मू॒न-न्तत् । 20) त-न्मे॑ मे॒ त-त्त-न्मे᳚ । 21) म॒ आ मे॑ म॒ आ । 22) आ पू॑रय पूर॒या पू॑रय । 23) पू॒र॒ये तीति॑ पूरय पूर॒ये ति॑ । 24) इति॒ वाव वावे तीति॒ वाव । 25) वावैतदे॒त-द्वाव वावैतत् । 26) ए॒तदा॑हाहै॒तदे॒तदा॑ह । 27) आ॒ह॒ चित्रा॑वसो॒ चित्रा॑वसो आहाह॒ चित्रा॑वसो । 28) चित्रा॑वसो स्व॒स्ति स्व॒स्ति चित्रा॑वसो॒ चित्रा॑वसो स्व॒स्ति । 28) चित्रा॑वसो॒ इति॒ चित्र॑ - व॒सो॒ । 29) स्व॒स्ति ते॑ ते स्व॒स्ति स्व॒स्ति ते᳚ । 30) ते॒ पा॒र-म्पा॒र-न्ते॑ ते पा॒रम् । 31) पा॒र म॑शीयाशीय पा॒र-म्पा॒र म॑शीय । 32) अ॒शी॒ये तीत्य॑शीयाशी॒ये ति॑ । 33) इत्या॑हा॒हे तीत्या॑ह । 34) आ॒ह॒ रात्री॒ रात्रि॑राहाह॒ रात्रिः॑ । 35) रात्रि॒-र्वै वै रात्री॒ रात्रि॒-र्वै । 36) वै चि॒त्राव॑सु श्चि॒त्राव॑सु॒-र्वै वै चि॒त्राव॑सुः । 37) चि॒त्राव॑सु॒ रव्यु॑ष्ट्या॒ अव्यु॑ष्ट्यै चि॒त्राव॑सु श्चि॒त्राव॑सु॒ रव्यु॑ष्ट्यै । 37) चि॒त्राव॑सु॒रिति॑ चि॒त्र - व॒सुः॒ । 38) अव्यु॑ष्ट्यै॒ वै वा अव्यु॑ष्ट्या॒ अव्यु॑ष्ट्यै॒ वै । 38) अव्यु॑ष्ट्या॒ इत्यवि॑ - उ॒ष्ट्यै॒ । 39) वा ए॒तस्या॑ ए॒तस्यै॒ वै वा ए॒तस्यै᳚ । 40) ए॒तस्यै॑ पु॒रा पु॒रैतस्या॑ ए॒तस्यै॑ पु॒रा । 41) पु॒रा ब्रा᳚ह्म॒णा ब्रा᳚ह्म॒णाः पु॒रा पु॒रा ब्रा᳚ह्म॒णाः । 42) ब्रा॒ह्म॒णा अ॑भैषु रभैषु-र्ब्राह्म॒णा ब्रा᳚ह्म॒णा अ॑भैषुः । 43) अ॒भै॒षु॒-र्व्यु॑ष्टिं॒-व्युँ॑ष्टि मभैषु रभैषु॒-र्व्यु॑ष्टिम् । 44) व्यु॑ष्टि मे॒वैव व्यु॑ष्टिं॒-व्युँ॑ष्टि मे॒व । 44) व्यु॑ष्टि॒मिति॒ वि - उ॒ष्टि॒म् । 45) ए॒वावावै॒वैवाव॑ । 46) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 47) रु॒न्ध॒ इन्धा॑ना॒ इन्धा॑ना रुन्धे रुन्ध॒ इन्धा॑नाः । 48) इन्धा॑ना स्त्वा॒ त्वेन्धा॑ना॒ इन्धा॑ना स्त्वा । 49) त्वा॒ श॒तग्ं श॒त-न्त्वा᳚ त्वा श॒तम् । 50) श॒तग्ं हिमा॒ हिमा᳚-श्श॒तग्ं श॒तग्ं हिमाः᳚ । ॥ 29 ॥ (50/56)
1) हिमा॒ इतीति॒ हिमा॒ हिमा॒ इति॑ । 2) इत्या॑हा॒हे तीत्या॑ह । 3) आ॒ह॒ श॒तायु॑-श्श॒तायु॑राहाह श॒तायुः॑ । 4) श॒तायुः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तायु॑-श्श॒तायुः॒ पुरु॑षः । 4) श॒तायु॒रिति॑ श॒त - आ॒युः॒ । 5) पुरु॑ष-श्श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑यः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । 6) श॒तेन्द्रि॑य॒ आयु॒ष्यायु॑षि श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑य॒ आयु॑षि । 6) श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ । 7) आयु॑ष्ये॒वैवायु॒ष्यायु॑ष्ये॒व । 8) ए॒वे न्द्रि॒य इ॑न्द्रि॒य ए॒वैवे न्द्रि॒ये । 9) इ॒न्द्रि॒ये प्रति॒ प्रती᳚न्द्रि॒य इ॑न्द्रि॒ये प्रति॑ । 10) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 11) ति॒ष्ठ॒त्ये॒षैषा ति॑ष्ठति तिष्ठत्ये॒षा । 12) ए॒षा वै वा ए॒षैषा वै । 13) वै सू॒र्मी सू॒र्मी वै वै सू॒र्मी । 14) सू॒र्मी कर्ण॑कावती॒ कर्ण॑कावती सू॒र्मी सू॒र्मी कर्ण॑कावती । 15) कर्ण॑कावत्ये॒तयै॒तया॒ कर्ण॑कावती॒ कर्ण॑कावत्ये॒तया᳚ । 15) कर्ण॑काव॒तीति॒ कर्ण॑क - व॒ती॒ । 16) ए॒तया॑ ह है॒तयै॒तया॑ ह । 17) ह॒ स्म॒ स्म॒ ह॒ ह॒ स्म॒ । 18) स्म॒ वै वै स्म॑ स्म॒ वै । 19) वै दे॒वा दे॒वा वै वै दे॒वाः । 20) दे॒वा असु॑राणा॒ मसु॑राणा-न्दे॒वा दे॒वा असु॑राणाम् । 21) असु॑राणाग्ं शतत॒र्॒हा-ञ्छ॑तत॒र्॒हा नसु॑राणा॒ मसु॑राणाग्ं शतत॒र्॒हान् । 22) श॒त॒त॒र्॒हाग्स् तृ(ग्म्॑)हन्ति तृग्ंहन्ति शतत॒र्॒हा-ञ्छ॑तत॒र्॒हाग्स् तृ(ग्म्॑)हन्ति । 22) श॒त॒त॒र्॒हानिति॑ शत - त॒र्॒हान् । 23) तृ॒(ग्म्॒)ह॒न्ति॒ य-द्य-त्तृ(ग्म्॑)हन्ति तृग्ंहन्ति॒ यत् । 24) यदे॒तयै॒तया॒ य-द्यदे॒तया᳚ । 25) ए॒तया॑ स॒मिध(ग्म्॑) स॒मिध॑ मे॒तयै॒तया॑ स॒मिध᳚म् । 26) स॒मिध॑ मा॒दधा᳚त्या॒दधा॑ति स॒मिध(ग्म्॑) स॒मिध॑ मा॒दधा॑ति । 26) स॒मिध॒मिति॑ सं - इध᳚म् । 27) आ॒दधा॑ति॒ वज्रं॒-वँज्र॑ मा॒दधा᳚त्या॒दधा॑ति॒ वज्र᳚म् । 27) आ॒दधा॒तीत्या᳚ - दधा॑ति । 28) वज्र॑ मे॒वैव वज्रं॒-वँज्र॑ मे॒व । 29) ए॒वैतदे॒तदे॒वैवैतत् । 30) ए॒तच्छ॑त॒घ्नीग्ं श॑त॒घ्नी मे॒तदे॒तच्छ॑त॒घ्नीम् । 31) श॒त॒घ्नीं-यँज॑मानो॒ यज॑मान-श्शत॒घ्नीग्ं श॑त॒घ्नीं-यँज॑मानः । 31) श॒त॒घ्नीमिति॑ शत - घ्नीम् । 32) यज॑मानो॒ भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्याय । 33) भ्रातृ॑व्याय॒ प्र प्र भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ प्र । 34) प्र ह॑रति हरति॒ प्र प्र ह॑रति । 35) ह॒र॒ति॒ स्तृत्यै॒ स्तृत्यै॑ हरति हरति॒ स्तृत्यै᳚ । 36) स्तृत्या॒ अछ॑म्बट्कार॒ मछ॑म्बट्कार॒(ग्ग्॒) स्तृत्यै॒ स्तृत्या॒ अछ॑म्बट्कारम् । 37) अछ॑म्बट्कार॒(ग्म्॒) सग्ं स मछ॑म्बट्कार॒ मछ॑म्बट्कार॒(ग्म्॒) सम् । 37) अछ॑म्बट्कार॒मित्यछ॑म्बट् - का॒र॒म् । 38) स-न्त्व-न्त्वग्ं सग्ं स-न्त्वम् । 39) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने । 40) अ॒ग्ने॒ सूर्य॑स्य॒ सूर्य॑स्याग्ने अग्ने॒ सूर्य॑स्य । 41) सूर्य॑स्य॒ वर्च॑सा॒ वर्च॑सा॒ सूर्य॑स्य॒ सूर्य॑स्य॒ वर्च॑सा । 42) वर्च॑सा ऽगथा अगथा॒ वर्च॑सा॒ वर्च॑सा ऽगथाः । 43) अ॒ग॒था॒ इतीत्य॑गथा अगथा॒ इति॑ । 44) इत्या॑हा॒हे तीत्या॑ह । 45) आ॒है॒तदे॒तदा॑हाहै॒तत् । 46) ए॒त-त्त्व-न्त्व मे॒तदे॒त-त्त्वम् । 47) त्व मस्यसि॒ त्व-न्त्व मसि॑ । 48) असी॒द मि॒द मस्यसी॒दम् । 49) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 50) अ॒ह-म्भू॑यास-म्भूयास म॒ह म॒ह-म्भू॑यासम् । 51) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ । 52) इति॒ वाव वावे तीति॒ वाव । 53) वावैतदे॒त-द्वाव वावैतत् । 54) ए॒तदा॑हाहै॒तदे॒तदा॑ह । 55) आ॒ह॒ त्व-न्त्व मा॑हाह॒ त्वम् । 56) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने । 57) अ॒ग्ने॒ सूर्य॑वर्चा॒-स्सूर्य॑वर्चा अग्ने अग्ने॒ सूर्य॑वर्चाः । 58) सूर्य॑वर्चा अस्यसि॒ सूर्य॑वर्चा॒-स्सूर्य॑वर्चा असि । 58) सूर्य॑वर्चा॒ इति॒ सूर्य॑ - व॒र्चाः॒ । 59) अ॒सीतीत्य॑स्य॒सीति॑ । 60) इत्या॑हा॒हे तीत्या॑ह । 61) आ॒हा॒शिष॑ मा॒शिष॑ माहाहा॒शिष᳚म् । 62) आ॒शिष॑ मे॒वैवाशिष॑ मा॒शिष॑ मे॒व । 62) आ॒शिष॒मित्या᳚ - शिष᳚म् । 63) ए॒वैता मे॒ता मे॒वैवैताम् । 64) ए॒ता मैता मे॒ता मा । 65) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते । 66) शा॒स्त॒ इति॑ शास्ते । ॥ 30 ॥ (66/76) ॥ अ. 7 ॥
1) स-म्प॑श्यामि पश्यामि॒ सग्ं स-म्प॑श्यामि । 2) प॒श्या॒मि॒ प्र॒जाः प्र॒जाः प॑श्यामि पश्यामि प्र॒जाः । 3) प्र॒जा अ॒ह म॒ह-म्प्र॒जाः प्र॒जा अ॒हम् । 3) प्र॒जा इति॑ प्र - जाः । 4) अ॒ह मितीत्य॒ह म॒ह मिति॑ । 5) इत्या॑हा॒हे तीत्या॑ह । 6) आ॒ह॒ याव॑न्तो॒ याव॑न्त आहाह॒ याव॑न्तः । 7) याव॑न्त ए॒वैव याव॑न्तो॒ याव॑न्त ए॒व । 8) ए॒व ग्रा॒म्या ग्रा॒म्या ए॒वैव ग्रा॒म्याः । 9) ग्रा॒म्याः प॒शवः॑ प॒शवो᳚ ग्रा॒म्या ग्रा॒म्याः प॒शवः॑ । 10) प॒शव॒स्ताग् स्ता-न्प॒शवः॑ प॒शव॒स्तान् । 11) ता ने॒वैव ताग् स्ता ने॒व । 12) ए॒वावावै॒वैवाव॑ । 13) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 14) रु॒न्धें ऽभों ऽभो॑ रुन्धे रु॒न्धें ऽभः॑ । 15) अम्भ॑-स्स्थ॒ स्था-म्भों ऽभ॑-स्स्थ । 16) स्थाम्भो-म्भ॑-स्स्थ॒ स्थाम्भः॑ । 17) अम्भो॑ वो॒ वो-म्भो-म्भो॑ वः । 18) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ । 19) भ॒क्षी॒ये तीति॑ भक्षीय भक्षी॒ये ति॑ । 20) इत्या॑हा॒हे तीत्या॑ह । 21) आ॒हाम्भों ऽभ॑ आहा॒हाम्भः॑ । 22) अम्भो॒ हि ह्यम्भो-म्भो॒ हि । 23) ह्ये॑ता ए॒ता हि ह्ये॑ताः । 24) ए॒ता महो॒ मह॑ ए॒ता ए॒ता महः॑ । 25) मह॑-स्स्थ स्थ॒ महो॒ मह॑-स्स्थ । 26) स्थ॒ महो॒ मह॑-स्स्थ स्थ॒ महः॑ । 27) महो॑ वो वो॒ महो॒ महो॑ वः । 28) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ । 29) भ॒क्षी॒ये तीति॑ भक्षीय भक्षी॒ये ति॑ । 30) इत्या॑हा॒हे तीत्या॑ह । 31) आ॒ह॒ महो॒ मह॑ आहाह॒ महः॑ । 32) महो॒ हि हि महो॒ महो॒ हि । 33) ह्ये॑ता ए॒ता हि ह्ये॑ताः । 34) ए॒ता-स्सह॒-स्सह॑ ए॒ता ए॒ता-स्सहः॑ । 35) सह॑-स्स्थ स्थ॒ सह॒-स्सह॑-स्स्थ । 36) स्थ॒ सह॒-स्सह॑-स्स्थ स्थ॒ सहः॑ । 37) सहो॑ वो व॒-स्सह॒-स्सहो॑ वः । 38) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ । 39) भ॒क्षी॒ये तीति॑ भक्षीय भक्षी॒ये ति॑ । 40) इत्या॑हा॒हे तीत्या॑ह । 41) आ॒ह॒ सह॒-स्सह॑ आहाह॒ सहः॑ । 42) सहो॒ हि हि सह॒-स्सहो॒ हि । 43) ह्ये॑ता ए॒ता हि ह्ये॑ताः । 44) ए॒ता ऊर्ज॒ ऊर्ज॑ ए॒ता ए॒ता ऊर्जः॑ । 45) ऊर्ज॑-स्स्थ॒ स्थोर्ज॒ ऊर्ज॑-स्स्थ । 46) स्थोर्ज॒ मूर्ज(ग्ग्॑) स्थ॒ स्थोर्ज᳚म् । 47) ऊर्जं॑-वोँ व॒ ऊर्ज॒ मूर्जं॑-वः ँ। 48) वो॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ वो॒ वो॒ भ॒क्षी॒य॒ । 49) भ॒क्षी॒ये तीति॑ भक्षीय भक्षी॒ये ति॑ । 50) इत्या॑हा॒हे तीत्या॑ह । ॥ 31 ॥ (50/51)
1) आ॒होर्ज॒ ऊर्ज॑ आहा॒होर्जः॑ । 2) ऊर्जो॒ हि ह्यूर्ज॒ ऊर्जो॒ हि । 3) ह्ये॑ता ए॒ता हि ह्ये॑ताः । 4) ए॒ता रेव॑ती॒ रेव॑तीरे॒ता ए॒ता रेव॑तीः । 5) रेव॑ती॒ रम॑द्ध्व॒(ग्म्॒) रम॑द्ध्व॒(ग्म्॒) रेव॑ती॒ रेव॑ती॒ रम॑द्ध्वम् । 6) रम॑द्ध्व॒ मितीति॒ रम॑द्ध्व॒(ग्म्॒) रम॑द्ध्व॒ मिति॑ । 7) इत्या॑हा॒हे तीत्या॑ह । 8) आ॒ह॒ प॒शवः॑ प॒शव॑ आहाह प॒शवः॑ । 9) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 10) वै रे॒वती॑ रे॒वती॒-र्वै वै रे॒वतीः᳚ । 11) रे॒वतीः᳚ प॒शू-न्प॒शू-न्रे॒वती॑ रे॒वतीः᳚ प॒शून् । 12) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व । 13) ए॒वात्म न्ना॒त्म न्ने॒वैवात्मन्न् । 14) आ॒त्म-न्र॑मयते रमयत आ॒त्मन्ना॒त्म-न्र॑मयते । 15) र॒म॒य॒त॒ इ॒हे ह र॑मयते रमयत इ॒ह । 16) इ॒हैवैवे हे हैव । 17) ए॒व स्त॑ स्तै॒वैव स्त॑ । 18) स्ते॒ त इ॒त-स्स्त॑ स्ते॒ तः । 19) इ॒तो मा मेत इ॒तो मा । 20) मा ऽपाप॒ मा मा ऽप॑ । 21) अप॑ गात गा॒तापाप॑ गात । 22) गा॒ते तीति॑ गात गा॒ते ति॑ । 23) इत्या॑हा॒हे तीत्या॑ह । 24) आ॒ह॒ ध्रु॒वा ध्रु॒वा आ॑हाह ध्रु॒वाः । 25) ध्रु॒वा ए॒वैव ध्रु॒वा ध्रु॒वा ए॒व । 26) ए॒वैना॑ एना ए॒वैवैनाः᳚ । 27) ए॒ना॒ अन॑पगा॒ अन॑पगा एना एना॒ अन॑पगाः । 28) अन॑पगाः कुरुते कुरु॒ते ऽन॑पगा॒ अन॑पगाः कुरुते । 28) अन॑पगा॒ इत्यन॑प - गाः॒ । 29) कु॒रु॒त॒ इ॒ष्ट॒क॒चि दि॑ष्टक॒चि-त्कु॑रुते कुरुत इष्टक॒चित् । 30) इ॒ष्ट॒क॒चि-द्वै वा इ॑ष्टक॒चि दि॑ष्टक॒चि-द्वै । 30) इ॒ष्ट॒क॒चिदिती᳚ष्टक - चित् । 30) 33) 1.5.8.2 (31)- वै । अ॒न्यः । (घ्श1.5-52) 30) वा अ॒न्यो᳚ ऽन्यो वै वा अ॒न्यः । 32) अ॒न्यो᳚ ऽग्नि र॒ग्निर॒न्यो᳚(1॒) ऽन्यो᳚ ऽग्निः । 33) अ॒ग्निः प॑शु॒चि-त्प॑शु॒चि द॒ग्निर॒ग्निः प॑शु॒चित् । 34) प॒शु॒चिद॒न्यो᳚ ऽन्यः प॑शु॒चि-त्प॑शु॒चिद॒न्यः । 34) प॒शु॒चिदिति॑ पशु - चित् । 35) अ॒न्य-स्स(ग्म्॑)हि॒ता स(ग्म्॑)हि॒ता ऽन्यो᳚ ऽन्य-स्स(ग्म्॑)हि॒ता । 36) स॒(ग्म्॒)हि॒ता ऽस्य॑सि सग्ंहि॒ता स(ग्म्॑)हि॒ता ऽसि॑ । 36) स॒(ग्म्॒)हि॒तेति॑ सं - हि॒ता । 37) अ॒सि॒ वि॒श्व॒रू॒पी-र्वि॑श्वरू॒पी र॑स्यसि विश्वरू॒पीः । 38) वि॒श्व॒रू॒पीरितीति॑ विश्वरू॒पी-र्वि॑श्वरू॒पीरिति॑ । 38) वि॒श्व॒रू॒पीरिति॑ विश्व - रू॒पीः । 39) इति॑ व॒थ्सं-वँ॒थ्स मितीति॑ व॒थ्सम् । 40) व॒थ्स म॒भ्य॑भि व॒थ्सं-वँ॒थ्स म॒भि । 41) अ॒भि मृ॑शति मृशत्य॒भ्य॑भि मृ॑शति । 42) मृ॒श॒त्युपोप॑ मृशति मृश॒त्युप॑ । 43) उपै॒वैवोपोपै॒व । 44) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 45) ए॒न॒-न्ध॒त्ते॒ ध॒त्त॒ ए॒न॒ मे॒न॒-न्ध॒त्ते॒ । 46) ध॒त्ते॒ प॒शु॒चित॑-म्पशु॒चित॑-न्धत्ते धत्ते पशु॒चित᳚म् । 47) प॒शु॒चित॑ मेन मेन-म्पशु॒चित॑-म्पशु॒चित॑ मेनम् । 47) प॒शु॒चित॒मिति॑ पशु - चित᳚म् । 48) ए॒न॒-ङ्कु॒रु॒ते॒ कु॒रु॒त॒ ए॒न॒ मे॒न॒-ङ्कु॒रु॒ते॒ । 49) कु॒रु॒ते॒ प्र प्र कु॑रुते कुरुते॒ प्र । 50) प्र वै वै प्र प्र वै । ॥ 32 ॥ (50/56)
1) वा ए॒ष ए॒ष वै वा ए॒षः । 2) ए॒षो᳚-ऽस्मा द॒स्मादे॒ष ए॒षो᳚-ऽस्मात् । 3) अ॒स्मा ल्लो॒का ल्लो॒का द॒स्मा द॒स्मा ल्लो॒कात् । 4) लो॒काच् च्य॑वते च्यवते लो॒का ल्लो॒काच् च्य॑वते । 5) च्य॒व॒ते॒ यो यश्च्य॑वते च्यवते॒ यः । 6) य आ॑हव॒नीय॑ माहव॒नीयं॒-योँ य आ॑हव॒नीय᳚म् । 7) आ॒ह॒व॒नीय॑ मुप॒तिष्ठ॑त उप॒तिष्ठ॑त आहव॒नीय॑ माहव॒नीय॑ मुप॒तिष्ठ॑ते । 7) आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् । 8) उ॒प॒तिष्ठ॑ते॒ गार्ह॑पत्य॒-ङ्गार्ह॑पत्य मुप॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ गार्ह॑पत्यम् । 8) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । 9) गार्ह॑पत्य॒ मुपोप॒ गार्ह॑पत्य॒-ङ्गार्ह॑पत्य॒ मुप॑ । 9) गार्ह॑पत्य॒मिति॒ गार्ह॑ - प॒त्य॒म् । 10) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 11) ति॒ष्ठ॒ते॒ ऽस्मिन्न॒स्मि-न्ति॑ष्ठते तिष्ठते॒ ऽस्मिन्न् । 12) अ॒स्मि न्ने॒वैवास्मि न्न॒स्मिन्ने॒व । 13) ए॒व लो॒के लो॒क ए॒वैव लो॒के । 14) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ । 15) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 16) ति॒ष्ठ॒त्यथो॒ अथो॑ तिष्ठति तिष्ठ॒त्यथो᳚ । 17) अथो॒ गार्ह॑पत्याय॒ गार्ह॑पत्या॒याथो॒ अथो॒ गार्ह॑पत्याय । 17) अथो॒ इत्यथो᳚ । 18) गार्ह॑पत्यायै॒वैव गार्ह॑पत्याय॒ गार्ह॑पत्यायै॒व । 18) गार्ह॑पत्या॒येति॒ गार्ह॑ - प॒त्या॒य॒ । 19) ए॒व नि न्ये॑वैव नि । 20) नि ह्नु॑ते ह्नुते॒ नि नि ह्नु॑ते । 21) ह्नु॒ते॒ गा॒य॒त्रीभि॑-र्गाय॒त्रीभि॑र्-ह्नुते ह्नुते गाय॒त्रीभिः॑ । 22) गा॒य॒त्रीभि॒रुपोप॑ गाय॒त्रीभि॑-र्गाय॒त्रीभि॒रुप॑ । 23) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 24) ति॒ष्ठ॒ते॒ तेज॒ स्तेज॑ स्तिष्ठते तिष्ठते॒ तेजः॑ । 25) तेजो॒ वै वै तेज॒स्तेजो॒ वै । 26) वै गा॑य॒त्री गा॑य॒त्री वै वै गा॑य॒त्री । 27) गा॒य॒त्री तेज॒स्तेजो॑ गाय॒त्री गा॑य॒त्री तेजः॑ । 28) तेज॑ ए॒वैव तेज॒स्तेज॑ ए॒व । 29) ए॒वात्म न्ना॒त्म न्ने॒वैवात्मन्न् । 30) आ॒त्म-न्ध॑त्ते धत्त आ॒त्मन्ना॒त्म-न्ध॑त्ते । 31) ध॒त्ते ऽथो॒ अथो॑ धत्ते ध॒त्ते ऽथो᳚ । 32) अथो॒ य-द्यदथो॒ अथो॒ यत् । 32) अथो॒ इत्यथो᳚ । 33) यदे॒त मे॒तं-यँ-द्यदे॒तम् । 34) ए॒त-न्तृ॒च-न्तृ॒च मे॒त मे॒त-न्तृ॒चम् । 35) तृ॒च म॒न्वाहा॒न्वाह॑ तृ॒च-न्तृ॒च म॒न्वाह॑ । 36) अ॒न्वाह॒ सन्त॑त्यै॒ सन्त॑त्या अ॒न्वाहा॒न्वाह॒ सन्त॑त्यै । 36) अ॒न्वाहेत्य॑नु - आह॑ । 37) सन्त॑त्यै॒ गार्ह॑पत्य॒-ङ्गार्ह॑पत्य॒(ग्म्॒) सन्त॑त्यै॒ सन्त॑त्यै॒ गार्ह॑पत्यम् । 37) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । 38) गार्ह॑पत्यं॒-वैँ वै गार्ह॑पत्य॒-ङ्गार्ह॑पत्यं॒-वैँ । 38) गार्ह॑पत्य॒मिति॒ गार्ह॑ - प॒त्य॒म् । 39) वा अन्वनु॒ वै वा अनु॑ । 40) अनु॑ द्वि॒पादो᳚ द्वि॒पादो ऽन्वनु॑ द्वि॒पादः॑ । 41) द्वि॒पादो॑ वी॒रा वी॒रा द्वि॒पादो᳚ द्वि॒पादो॑ वी॒राः । 41) द्वि॒पाद॒ इति॑ द्वि - पादः॑ । 42) वी॒राः प्र प्र वी॒रा वी॒राः प्र । 43) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते । 44) जा॒य॒न्ते॒ यो यो जा॑यन्ते जायन्ते॒ यः । 45) य ए॒व मे॒वं-योँ य ए॒वम् । 46) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 47) वि॒द्वा-न्द्वि॒पदा॑भि-र्द्वि॒पदा॑भि-र्वि॒द्वान्. वि॒द्वा-न्द्वि॒पदा॑भिः । 48) द्वि॒पदा॑भि॒-र्गार्ह॑पत्य॒-ङ्गार्ह॑पत्य-न्द्वि॒पदा॑भि-र्द्वि॒पदा॑भि॒-र्गार्ह॑पत्यम् । 48) द्वि॒पदा॑भि॒रिति॑ द्वि - पदा॑भिः । 49) गार्ह॑पत्य मुप॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ गार्ह॑पत्य॒-ङ्गार्ह॑पत्य मुप॒तिष्ठ॑ते । 49) गार्ह॑पत्य॒मिति॒ गार्ह॑ - प॒त्य॒म् । 50) उ॒प॒तिष्ठ॑त॒ ओप॒तिष्ठ॑त उप॒तिष्ठ॑त॒ आ । 50) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । ॥ 33 ॥ (50/63)
1) आ ऽस्या॒स्या ऽस्य॑ । 2) अ॒स्य॒ वी॒रो वी॒रो᳚ ऽस्यास्य वी॒रः । 3) वी॒रो जा॑यते जायते वी॒रो वी॒रो जा॑यते । 4) जा॒य॒त॒ ऊ॒र्जोर्जा जा॑यते जायत ऊ॒र्जा । 5) ऊ॒र्जा वो॑ व ऊ॒र्जोर्जा वः॑ । 6) वः॒ प॒श्या॒मि॒ प॒श्या॒मि॒ वो॒ वः॒ प॒श्या॒मि॒ । 7) प॒श्या॒म्यू॒र्जोर्जा प॑श्यामि पश्याम्यू॒र्जा । 8) ऊ॒र्जा मा॑ मो॒र्जोर्जा मा᳚ । 9) मा॒ प॒श्य॒त॒ प॒श्य॒त॒ मा॒ मा॒ प॒श्य॒त॒ । 10) प॒श्य॒ते तीति॑ पश्यत पश्य॒ते ति॑ । 11) इत्या॑हा॒हे तीत्या॑ह । 12) आ॒हा॒शिष॑ मा॒शिष॑ माहाहा॒शिष᳚म् । 13) आ॒शिष॑ मे॒वैवाशिष॑ मा॒शिष॑ मे॒व । 13) आ॒शिष॒मित्या᳚ - शिष᳚म् । 14) ए॒वैता मे॒ता मे॒वैवैताम् । 15) ए॒ता मैता मे॒ता मा । 16) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते । 17) शा॒स्ते॒ त-त्तच्छा᳚स्ते शास्ते॒ तत् । 18) त-थ्स॑वि॒तु-स्स॑वि॒तु स्त-त्त-थ्स॑वि॒तुः । 19) स॒वि॒तु-र्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तु-र्वरे᳚ण्यम् । 20) वरे᳚ण्य॒ मितीति॒ वरे᳚ण्यं॒-वँरे᳚ण्य॒ मिति॑ । 21) इत्या॑हा॒हे तीत्या॑ह । 22) आ॒ह॒ प्रसू᳚त्यै॒ प्रसू᳚त्या आहाह॒ प्रसू᳚त्यै । 23) प्रसू᳚त्यै सो॒मान(ग्म्॑) सो॒मान॒-म्प्रसू᳚त्यै॒ प्रसू᳚त्यै सो॒मान᳚म् । 23) प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । 24) सो॒मान॒(ग्ग्॒) स्वर॑ण॒(ग्ग्॒) स्वर॑णग्ं सो॒मान(ग्म्॑) सो॒मान॒(ग्ग्॒) स्वर॑णम् । 25) स्वर॑ण॒ मितीति॒ स्वर॑ण॒(ग्ग्॒) स्वर॑ण॒ मिति॑ । 26) इत्या॑हा॒हे तीत्या॑ह । 27) आ॒ह॒ सो॒म॒पी॒थग्ं सो॑मपी॒थ मा॑हाह सोमपी॒थम् । 28) सो॒म॒पी॒थ मे॒वैव सो॑मपी॒थग्ं सो॑मपी॒थ मे॒व । 28) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । 29) ए॒वावावै॒वैवाव॑ । 30) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 31) रु॒न्धे॒ कृ॒णु॒हि कृ॑णु॒हि रु॑न्धे रुन्धे कृणु॒हि । 32) कृ॒णु॒हि ब्र॑ह्मणो ब्रह्मणः कृणु॒हि कृ॑णु॒हि ब्र॑ह्मणः । 33) ब्र॒ह्म॒ण॒ स्प॒ते॒ प॒ते॒ ब्र॒ह्म॒णो॒ ब्र॒ह्म॒ण॒ स्प॒ते॒ । 34) प॒त॒ इतीति॑ पते पत॒ इति॑ । 35) इत्या॑हा॒हे तीत्या॑ह । 36) आ॒ह॒ ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स मा॑हाह ब्रह्मवर्च॒सम् । 37) ब्र॒ह्म॒व॒र्च॒स मे॒वैव ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒व । 37) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 38) ए॒वावावै॒वैवाव॑ । 39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 40) रु॒न्धे॒ क॒दा क॒दा रु॑न्धे रुन्धे क॒दा । 41) क॒दा च॒न च॒न क॒दा क॒दा च॒न । 42) च॒न स्त॒री-स्स्त॒री श्च॒न च॒न स्त॒रीः । 43) स्त॒री र॑स्यसि स्त॒री-स्स्त॒री र॑सि । 44) अ॒सीतीत्य॑स्य॒सीति॑ । 45) इत्या॑हा॒हे तीत्या॑ह । 46) आ॒ह॒ न नाहा॑ह॒ न । 47) न स्त॒रीग् स्त॒रीन्न न स्त॒रीम् । 48) स्त॒रीग्ं रात्रि॒(ग्म्॒) रात्रि(ग्ग्॑) स्त॒रीग् स्त॒रीग्ं रात्रि᳚म् । 49) रात्रिं॑-वँसति वसति॒ रात्रि॒(ग्म्॒) रात्रिं॑-वँसति । 50) व॒स॒ति॒ यो यो व॑सति वसति॒ यः । ॥ 34 ॥ (50/54)
1) य ए॒व मे॒वं-योँ य ए॒वम् । 2) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 3) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् । 4) अ॒ग्नि मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ ऽग्नि म॒ग्नि मु॑प॒तिष्ठ॑ते । 5) उ॒प॒तिष्ठ॑ते॒ परि॒ पर्यु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ परि॑ । 5) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । 6) परि॑ त्वा त्वा॒ परि॒ परि॑ त्वा । 7) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ । 8) अ॒ग्ने॒ पुर॒-म्पुर॑ मग्ने ऽग्ने॒ पुर᳚म् । 9) पुरं॑-वँ॒यं-वँ॒य-म्पुर॒-म्पुरं॑-वँ॒यम् । 10) व॒य मितीति॑ व॒यं-वँ॒य मिति॑ । 11) इत्या॑हा॒हे तीत्या॑ह । 12) आ॒ह॒ प॒रि॒धि-म्प॑रि॒धि मा॑हाह परि॒धिम् । 13) प॒रि॒धि मे॒वैव प॑रि॒धि-म्प॑रि॒धि मे॒व । 13) प॒रि॒धिमिति॑ परि - धिम् । 14) ए॒वैत मे॒त मे॒वैवैतम् । 15) ए॒त-म्परि॒ पर्ये॒त मे॒त-म्परि॑ । 16) परि॑ दधाति दधाति॒ परि॒ परि॑ दधाति । 17) द॒धा॒त्यस्क॑न्दा॒यास्क॑न्दाय दधाति दधा॒त्यस्क॑न्दाय । 18) अस्क॑न्दा॒याग्ने ऽग्ने ऽस्क॑न्दा॒यास्क॑न्दा॒याग्ने᳚ । 19) अग्ने॑ गृहपते गृहप॒ते ऽग्ने ऽग्ने॑ गृहपते । 20) गृ॒ह॒प॒त॒ इतीति॑ गृहपते गृहपत॒ इति॑ । 20) गृ॒ह॒प॒त॒ इति॑ गृह - प॒ते॒ । 21) इत्या॑हा॒हे तीत्या॑ह । 22) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जुरा॑हाह यथाय॒जुः । 23) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जुरे॒व । 23) य॒था॒य॒जुरिति॑ यथा - य॒जुः । 24) ए॒वैतदे॒तदे॒वैवैतत् । 25) ए॒तच्छ॒तग्ं श॒त मे॒तदे॒तच्छ॒तम् । 26) श॒तग्ं हिमा॒ हिमा᳚-श्श॒तग्ं श॒तग्ं हिमाः᳚ । 27) हिमा॒ इतीति॒ हिमा॒ हिमा॒ इति॑ । 28) इत्या॑हा॒हे तीत्या॑ह । 29) आ॒ह॒ श॒तग्ं श॒त मा॑हाह श॒तम् । 30) श॒त-न्त्वा᳚ त्वा श॒तग्ं श॒त-न्त्वा᳚ । 31) त्वा॒ हे॒म॒न्तान्. हे॑म॒न्ता-न्त्वा᳚ त्वा हेम॒न्तान् । 32) हे॒म॒न्ता नि॑न्धिषीये न्धिषीय हेम॒न्तान्. हे॑म॒न्ता नि॑न्धिषीय । 33) इ॒न्धि॒षी॒ये तीती᳚न्धिषीये न्धिषी॒ये ति॑ । 34) इति॒ वाव वावे तीति॒ वाव । 35) वावैतदे॒त-द्वाव वावैतत् । 36) ए॒तदा॑हाहै॒तदे॒तदा॑ह । 37) आ॒ह॒ पु॒त्रस्य॑ पु॒त्रस्या॑हाह पु॒त्रस्य॑ । 38) पु॒त्रस्य॒ नाम॒ नाम॑ पु॒त्रस्य॑ पु॒त्रस्य॒ नाम॑ । 39) नाम॑ गृह्णाति गृह्णाति॒ नाम॒ नाम॑ गृह्णाति । 40) गृ॒ह्णा॒त्य॒न्ना॒द म॑न्ना॒द-ङ्गृ॑ह्णाति गृह्णात्यन्ना॒दम् । 41) अ॒न्ना॒द मे॒वैवान्ना॒द म॑न्ना॒द मे॒व । 41) अ॒न्ना॒दमित्य॑न्न - अ॒दम् । 42) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 43) ए॒न॒-ङ्क॒रो॒ति॒ क॒रो॒त्ये॒न॒ मे॒न॒-ङ्क॒रो॒ति॒ । 44) क॒रो॒ति॒ ता-न्ता-ङ्क॑रोति करोति॒ ताम् । 45) ता मा॒शिष॑ मा॒शिष॒-न्ता-न्ता मा॒शिष᳚म् । 46) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा । 46) आ॒शिष॒मित्या᳚ - शिष᳚म् । 47) आ शा॑से शास॒ आ शा॑से । 48) शा॒से॒ तन्त॑वे॒ तन्त॑वे शासे शासे॒ तन्त॑वे । 49) तन्त॑वे॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒-न्तन्त॑वे॒ तन्त॑वे॒ ज्योति॑ष्मतीम् । 50) ज्योति॑ष्मती॒ मितीति॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒ मिति॑ । 51) इति॑ ब्रूया-द्ब्रूया॒दितीति॑ ब्रूयात् । 52) ब्रू॒या॒-द्यस्य॒ यस्य॑ ब्रूया-द्ब्रूया॒-द्यस्य॑ । 53) यस्य॑ पु॒त्रः पु॒त्रो यस्य॒ यस्य॑ पु॒त्रः । 54) पु॒त्रो ऽजा॒तो ऽजा॑तः पु॒त्रः पु॒त्रो ऽजा॑तः । 55) अजा॑त॒-स्स्या-थ्स्यादजा॒तो ऽजा॑त॒-स्स्यात् । 56) स्या-त्ते॑ज॒स्वी ते॑ज॒स्वी स्या-थ्स्या-त्ते॑ज॒स्वी । 57) ते॒ज॒स्व्ये॑वैव ते॑ज॒स्वी ते॑ज॒स्व्ये॑व । 58) ए॒वास्या᳚स्यै॒वैवास्य॑ । 59) अ॒स्य॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒स्य॑स्यास्य ब्रह्मवर्च॒सी । 60) ब्र॒ह्म॒व॒र्च॒सी पु॒त्रः पु॒त्रो ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒सी पु॒त्रः । 60) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । 61) पु॒त्रो जा॑यते जायते पु॒त्रः पु॒त्रो जा॑यते । 62) जा॒य॒ते॒ ता-न्ता-ञ्जा॑यते जायते॒ ताम् । 63) ता मा॒शिष॑ मा॒शिष॒-न्ता-न्ता मा॒शिष᳚म् । 64) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा । 64) आ॒शिष॒मित्या᳚ - शिष᳚म् । 65) आ शा॑से शास॒ आ शा॑से । 66) शा॒से॒ ऽमुष्मा॑ अ॒मुष्मै॑ शासे शासे॒ ऽमुष्मै᳚ । 67) अ॒मुष्मै॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती म॒मुष्मा॑ अ॒मुष्मै॒ ज्योति॑ष्मतीम् । 68) ज्योति॑ष्मती॒ मितीति॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒ मिति॑ । 69) इति॑ ब्रूया-द्ब्रूया॒दितीति॑ ब्रूयात् । 70) ब्रू॒या॒-द्यस्य॒ यस्य॑ ब्रूया-द्ब्रूया॒-द्यस्य॑ । 71) यस्य॑ पु॒त्रः पु॒त्रो यस्य॒ यस्य॑ पु॒त्रः । 72) पु॒त्रो जा॒तो जा॒तः पु॒त्रः पु॒त्रो जा॒तः । 73) जा॒त-स्स्या-थ्स्याज् जा॒तो जा॒त-स्स्यात् । 74) स्या-त्तेज॒स्तेज॒-स्स्या-थ्स्या-त्तेजः॑ । 75) तेज॑ ए॒वैव तेज॒स्तेज॑ ए॒व । 76) ए॒वास्मि॑ न्नस्मि न्ने॒वैवास्मिन्न्॑ । 77) अ॒स्मि॒-न्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मिन्नस्मि-न्ब्रह्मवर्च॒सम् । 78) ब्र॒ह्म॒व॒र्च॒स-न्द॑धाति दधाति ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्द॑धाति । 78) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 79) द॒धा॒तीति॑ दधाति । ॥ 35 ॥ (79/88) ॥ अ. 8 ॥
1) अ॒ग्नि॒हो॒त्र-ञ्जु॑होति जुहोत्यग्निहो॒त्र म॑ग्निहो॒त्र-ञ्जु॑होति । 1) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । 2) जु॒हो॒ति॒ य-द्यज् जु॑होति जुहोति॒ यत् । 3) यदे॒वैव य-द्यदे॒व । 4) ए॒व कि-ङ्कि मे॒वैव किम् । 5) कि-ञ्च॑ च॒ कि-ङ्कि-ञ्च॑ । 6) च॒ यज॑मानस्य॒ यज॑मानस्य च च॒ यज॑मानस्य । 7) यज॑मानस्य॒ स्वग्ग् स्वं-यँज॑मानस्य॒ यज॑मानस्य॒ स्वम् । 8) स्व-न्तस्य॒ तस्य॒ स्वग्ग् स्व-न्तस्य॑ । 9) तस्यै॒वैव तस्य॒ तस्यै॒व । 10) ए॒व त-त्तदे॒वैव तत् । 11) त-द्रेतो॒ रेत॒स्त-त्त-द्रेतः॑ । 12) रेत॑-स्सिञ्चति सिञ्चति॒ रेतो॒ रेत॑-स्सिञ्चति । 13) सि॒ञ्च॒ति॒ प्र॒जन॑ने प्र॒जन॑ने सिञ्चति सिञ्चति प्र॒जन॑ने । 14) प्र॒जन॑ने प्र॒जन॑न-म्प्र॒जन॑न-म्प्र॒जन॑ने प्र॒जन॑ने प्र॒जन॑नम् । 14) प्र॒जन॑न॒ इति॑ प्र - जन॑ने । 15) प्र॒जन॑न॒(ग्म्॒) हि हि प्र॒जन॑न-म्प्र॒जन॑न॒(ग्म्॒) हि । 15) प्र॒जन॑न॒मिति॑ प्र - जन॑नम् । 16) हि वै वै हि हि वै । 17) वा अ॒ग्निर॒ग्नि-र्वै वा अ॒ग्निः । 18) अ॒ग्नि रथाथा॒ग्नि र॒ग्निरथ॑ । 19) अथौष॑धी॒ रोष॑धी॒ रथाथौष॑धीः । 20) ओष॑धी॒ रन्त॑गता॒ अन्त॑गता॒ ओष॑धी॒ रोष॑धी॒ रन्त॑गताः । 21) अन्त॑गता दहति दह॒त्यन्त॑गता॒ अन्त॑गता दहति । 21) अन्त॑गता॒ इत्यन्त॑ - ग॒ताः॒ । 22) द॒ह॒ति॒ तास्ता द॑हति दहति॒ ताः । 23) ता स्तत॒ स्तत॒ स्तास्ता स्ततः॑ । 24) ततो॒ भूय॑सी॒-र्भूय॑सी॒ स्तत॒स्ततो॒ भूय॑सीः । 25) भूय॑सीः॒ प्र प्र भूय॑सी॒-र्भूय॑सीः॒ प्र । 26) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते । 27) जा॒य॒न्ते॒ य-द्यज् जा॑यन्ते जायन्ते॒ यत् । 28) य-थ्सा॒यग्ं सा॒यं-यँ-द्य-थ्सा॒यम् । 29) सा॒य-ञ्जु॒होति॑ जु॒होति॑ सा॒यग्ं सा॒य-ञ्जु॒होति॑ । 30) जु॒होति॒ रेतो॒ रेतो॑ जु॒होति॑ जु॒होति॒ रेतः॑ । 31) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व । 32) ए॒व त-त्तदे॒वैव तत् । 33) त-थ्सि॑ञ्चति सिञ्चति॒ त-त्त-थ्सि॑ञ्चति । 34) सि॒ञ्च॒ति॒ प्र प्र सि॑ञ्चति सिञ्चति॒ प्र । 35) प्रैवैव प्र प्रैव । 36) ए॒व प्रा॑त॒स्तने॑न प्रात॒स्तने॑नै॒वैव प्रा॑त॒स्तने॑न । 37) प्रा॒त॒स्तने॑न जनयति जनयति प्रात॒स्तने॑न प्रात॒स्तने॑न जनयति । 37) प्रा॒त॒स्तने॒नेति॑ प्रातः - तने॑न । 38) ज॒न॒य॒ति॒ त-त्तज् ज॑नयति जनयति॒ तत् । 39) त-द्रेतो॒ रेत॒स्त-त्त-द्रेतः॑ । 40) रेत॑-स्सि॒क्तग्ं सि॒क्तग्ं रेतो॒ रेत॑-स्सि॒क्तम् । 41) सि॒क्तन्न न सि॒क्तग्ं सि॒क्तन्न । 42) न त्वष्ट्रा॒ त्वष्ट्रा॒ न न त्वष्ट्रा᳚ । 43) त्वष्ट्रा ऽवि॑कृत॒ मवि॑कृत॒-न्त्वष्ट्रा॒ त्वष्ट्रा ऽवि॑कृतम् । 44) अवि॑कृत॒-म्प्र प्रावि॑कृत॒ मवि॑कृत॒-म्प्र । 44) अवि॑कृत॒मित्यवि॑ - कृ॒त॒म् । 45) प्र जा॑यते जायते॒ प्र प्र जा॑यते । 46) जा॒य॒ते॒ या॒व॒च्छो या॑व॒च्छो जा॑यते जायते याव॒च्छः । 47) या॒व॒च्छो वै वै या॑व॒च्छो या॑व॒च्छो वै । 47) या॒व॒च्छ इति॑ यावत् - शः । 48) वै रेत॑सो॒ रेत॑सो॒वै वै रेत॑सः । 49) रेत॑स-स्सि॒क्तस्य॑ सि॒क्तस्य॒ रेत॑सो॒ रेत॑स-स्सि॒क्तस्य॑ । 50) सि॒क्तस्य॒ त्वष्टा॒ त्वष्टा॑ सि॒क्तस्य॑ सि॒क्तस्य॒ त्वष्टा᳚ । ॥ 36 ॥ (50/57)
1) त्वष्टा॑ रू॒पाणि॑ रू॒पाणि॒ त्वष्टा॒ त्वष्टा॑ रू॒पाणि॑ । 2) रू॒पाणि॑ विक॒रोति॑ विक॒रोति॑ रू॒पाणि॑ रू॒पाणि॑ विक॒रोति॑ । 3) वि॒क॒रोति॑ ताव॒च्छ स्ता॑व॒च्छो वि॑क॒रोति॑ विक॒रोति॑ ताव॒च्छः । 3) वि॒क॒रोतीति॑ वि - क॒रोति॑ । 4) ता॒व॒च्छो वै वै ता॑व॒च्छ स्ता॑व॒च्छो वै । 4) ता॒व॒च्छ इति॑ तावत् - शः । 5) वै त-त्त-द्वै वै तत् । 6) त-त्प्र प्र त-त्त-त्प्र । 7) प्र जा॑यते जायते॒ प्र प्र जा॑यते । 8) जा॒य॒त॒ ए॒ष ए॒ष जा॑यते जायत ए॒षः । 9) ए॒ष वै वा ए॒ष ए॒ष वै । 10) वै दैव्यो॒ दैव्यो॒ वै वै दैव्यः॑ । 11) दैव्य॒ स्त्वष्टा॒ त्वष्टा॒ दैव्यो॒ दैव्य॒ स्त्वष्टा᳚ । 12) त्वष्टा॒ यो यस्त्वष्टा॒ त्वष्टा॒ यः । 13) यो यज॑ते॒ यज॑ते॒ यो यो यज॑ते । 14) यज॑ते ब॒ह्वीभि॑-र्ब॒ह्वीभि॒-र्यज॑ते॒ यज॑ते ब॒ह्वीभिः॑ । 15) ब॒ह्वीभि॒ रुपोप॑ ब॒ह्वीभि॑-र्ब॒ह्वीभि॒रुप॑ । 16) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 17) ति॒ष्ठ॒ते॒ रेत॑सो॒ रेत॑स स्तिष्ठते तिष्ठते॒ रेत॑सः । 18) रेत॑स ए॒वैव रेत॑सो॒ रेत॑स ए॒व । 19) ए॒व सि॒क्तस्य॑ सि॒क्तस्यै॒वैव सि॒क्तस्य॑ । 20) सि॒क्तस्य॑ बहु॒शो ब॑हु॒श-स्सि॒क्तस्य॑ सि॒क्तस्य॑ बहु॒शः । 21) ब॒हु॒शो रू॒पाणि॑ रू॒पाणि॑ बहु॒शो ब॑हु॒शो रू॒पाणि॑ । 21) ब॒हु॒श इति॑ बहु - शः । 22) रू॒पाणि॒ वि वि रू॒पाणि॑ रू॒पाणि॒ वि । 23) वि क॑रोति करोति॒ वि वि क॑रोति । 24) क॒रो॒ति॒ स स क॑रोति करोति॒ सः । 25) स प्र प्र स स प्र । 26) प्रैवैव प्र प्रैव । 27) ए॒व जा॑यते जायत ए॒वैव जा॑यते । 28) जा॒य॒ते॒ श्वस्श्व॒-श्श्वस्श्वो॑ जायते जायते॒ श्वस्श्वः॑ । 29) श्वस्श्वो॒ भूया॒-न्भूया॒-ञ्छ्वस्श्व॒-श्श्वस्श्वो॒ भूयान्॑ । 29) श्वस्श्व॒ इति॒ श्वः - श्वः॒ । 30) भूया᳚-न्भवति भवति॒ भूया॒-न्भूया᳚-न्भवति । 31) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 32) य ए॒व मे॒वं-योँ य ए॒वम् । 33) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 34) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् । 35) अ॒ग्नि मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ ऽग्नि म॒ग्नि मु॑प॒तिष्ठ॑ते । 36) उ॒प॒तिष्ठ॒ते ऽह॒ रह॑ रुप॒तिष्ठ॑त उप॒तिष्ठ॒ते ऽहः॑ । 36) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । 37) अह॑-र्दे॒वाना᳚-न्दे॒वाना॒ मह॒ रह॑-र्दे॒वाना᳚म् । 38) दे॒वाना॒ मासी॒दासी᳚-द्दे॒वाना᳚-न्दे॒वाना॒ मासी᳚त् । 39) आसी॒-द्रात्री॒ रात्रि॒रासी॒ दासी॒-द्रात्रिः॑ । 40) रात्रि॒रसु॑राणा॒ मसु॑राणा॒(ग्म्॒) रात्री॒ रात्रि॒रसु॑राणाम् । 41) असु॑राणा॒-न्ते ते ऽसु॑राणा॒ मसु॑राणा॒-न्ते । 42) ते ऽसु॑रा॒ असु॑रा॒स्ते ते ऽसु॑राः । 43) असु॑रा॒ य-द्यदसु॑रा॒ असु॑रा॒ यत् । 44) य-द्दे॒वाना᳚-न्दे॒वानां॒-यँ-द्य-द्दे॒वाना᳚म् । 45) दे॒वानां᳚-विँ॒त्तं-विँ॒त्त-न्दे॒वाना᳚-न्दे॒वानां᳚-विँ॒त्तम् । 46) वि॒त्तं-वेँद्यं॒-वेँद्यं॑-विँ॒त्तं-विँ॒त्तं-वेँद्य᳚म् । 47) वेद्य॒ मासी॒दासी॒-द्वेद्यं॒-वेँद्य॒ मासी᳚त् । 48) आसी॒-त्तेन॒ तेनासी॒ दासी॒-त्तेन॑ । 49) तेन॑ स॒ह स॒ह तेन॒ तेन॑ स॒ह । 50) स॒ह रात्रि॒(ग्म्॒) रात्रि(ग्म्॑) स॒ह स॒ह रात्रि᳚म् । ॥ 37 ॥ (50/55)
1) रात्रि॒-म्प्र प्र रात्रि॒(ग्म्॒) रात्रि॒-म्प्र । 2) प्रावि॑शन्नविश॒-न्प्र प्रावि॑शन्न् । 3) अ॒वि॒श॒-न्ते ते॑ ऽविशन्नविश॒-न्ते । 4) ते दे॒वा दे॒वास्ते ते दे॒वाः । 5) दे॒वा ही॒ना ही॒ना दे॒वा दे॒वा ही॒नाः । 6) ही॒ना अ॑मन्यन्तामन्यन्त ही॒ना ही॒ना अ॑मन्यन्त । 7) अ॒म॒न्य॒न्त॒ ते ते॑ ऽमन्यन्तामन्यन्त॒ ते । 8) ते॑ ऽपश्यन्नपश्य॒-न्ते ते॑ ऽपश्यन्न् । 9) अ॒प॒श्य॒ न्ना॒ग्ने॒य्या᳚ग्ने॒य्य॑पश्य न्नपश्यन्नाग्ने॒यी । 10) आ॒ग्ने॒यी रात्री॒ रात्रि॑राग्ने॒य्या᳚ग्ने॒यी रात्रिः॑ । 11) रात्रि॑राग्ने॒या आ᳚ग्ने॒या रात्री॒ रात्रि॑राग्ने॒याः । 12) आ॒ग्ने॒याः प॒शवः॑ प॒शव॑ आग्ने॒या आ᳚ग्ने॒याः प॒शवः॑ । 13) प॒शव॑ इ॒म मि॒म-म्प॒शवः॑ प॒शव॑ इ॒मम् । 14) इ॒म मे॒वैवे म मि॒म मे॒व । 15) ए॒वाग्नि म॒ग्नि मे॒वैवाग्निम् । 16) अ॒ग्निग्ग् स्त॑वाम स्तवामा॒ग्नि म॒ग्निग्ग् स्त॑वाम । 17) स्त॒वा॒म॒ स स स्त॑वाम स्तवाम॒ सः । 18) स नो॑ न॒-स्स स नः॑ । 19) न॒-स्स्तु॒त-स्स्तु॒तो नो॑ न-स्स्तु॒तः । 20) स्तु॒तः प॒शू-न्प॒शू-न्थ्स्तु॒त-स्स्तु॒तः प॒शून् । 21) प॒शू-न्पुनः॒ पुनः॑ प॒शू-न्प॒शू-न्पुनः॑ । 22) पुन॑-र्दास्यति दास्यति॒ पुनः॒ पुन॑-र्दास्यति । 23) दा॒स्य॒तीतीति॑ दास्यति दास्य॒तीति॑ । 24) इति॒ ते त इतीति॒ ते । 25) ते᳚ ऽग्नि म॒ग्नि-न्ते ते᳚ ऽग्निम् । 26) अ॒ग्नि म॑स्तुव न्नस्तुवन्न॒ग्नि म॒ग्नि म॑स्तुवन्न् । 27) अ॒स्तु॒व॒-न्थ्स सो᳚ ऽस्तुवन्नस्तुव॒-न्थ्सः । 28) स ए᳚भ्य एभ्य॒-स्स स ए᳚भ्यः । 29) ए॒भ्य॒-स्स्तु॒त-स्स्तु॒त ए᳚भ्य एभ्य-स्स्तु॒तः । 30) स्तु॒तो रात्रि॑या॒ रात्रि॑या-स्स्तु॒त-स्स्तु॒तो रात्रि॑याः । 31) रात्रि॑या॒ अध्यधि॒ रात्रि॑या॒ रात्रि॑या॒ अधि॑ । 32) अध्यह॒ रह॒ रध्यध्यहः॑ । 33) अह॑ र॒भ्य॑भ्यह॒ रह॑ र॒भि । 34) अ॒भि प॒शू-न्प॒शू न॒भ्य॑भि प॒शून् । 35) प॒शू-न्नि-र्णिष् प॒शू-न्प॒शू-न्निः । 36) निरा᳚र्जदार्ज॒-न्नि-र्णिरा᳚र्जत् । 37) आ॒र्ज॒-त्ते त आ᳚र्जदार्ज॒-त्ते । 38) ते दे॒वा दे॒वास्ते ते दे॒वाः । 39) दे॒वाः प॒शू-न्प॒शू-न्दे॒वा दे॒वाः प॒शून् । 40) प॒शून्. वि॒त्त्वा वि॒त्त्वा प॒शू-न्प॒शून्. वि॒त्त्वा । 41) वि॒त्त्वा कामा॒न् कामान्॑. वि॒त्त्वा वि॒त्त्वा कामान्॑ । 42) कामा(ग्म्॑) अकुर्वताकुर्वत॒ कामा॒न् कामा(ग्म्॑) अकुर्वत । 43) अ॒कु॒र्व॒त॒ यो यो॑ ऽकुर्वताकुर्वत॒ यः । 44) य ए॒व मे॒वं-योँ य ए॒वम् । 45) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 46) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् । 47) अ॒ग्नि मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ ऽग्नि म॒ग्नि मु॑प॒तिष्ठ॑ते । 48) उ॒प॒तिष्ठ॑ते पशु॒मा-न्प॑शु॒मा नु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते पशु॒मान् । 48) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । 49) प॒शु॒मा-न्भ॑वति भवति पशु॒मा-न्प॑शु॒मा-न्भ॑वति । 49) प॒शु॒मानिति॑ पशु - मान् । 50) भ॒व॒त्या॒दि॒त्य आ॑दि॒त्यो भ॑वति भवत्यादि॒त्यः । ॥ 38 ॥ (50/52)
1) आ॒दि॒त्यो वै वा आ॑दि॒त्य आ॑दि॒त्यो वै । 2) वा अ॒स्माद॒स्मा-द्वै वा अ॒स्मात् । 3) अ॒स्मा ल्लो॒का ल्लो॒का द॒स्मा द॒स्मा ल्लो॒कात् । 4) लो॒काद॒मु म॒मुम् ँलो॒का ल्लो॒काद॒मुम् । 5) अ॒मुम् ँलो॒कम् ँलो॒क म॒मु म॒मुम् ँलो॒कम् । 6) लो॒क मै॑दैल्लो॒कम् ँलो॒क मै᳚त् । 7) ऐ॒-थ्स स ऐ॑दै॒-थ्सः । 8) सो॑ ऽमु म॒मुग्ं स सो॑ ऽमुम् । 9) अ॒मुम् ँलो॒कम् ँलो॒क म॒मु म॒मुम् ँलो॒कम् । 10) लो॒क-ङ्ग॒त्वा ग॒त्वा लो॒कम् ँलो॒क-ङ्ग॒त्वा । 11) ग॒त्वा पुनः॒ पुन॑-र्ग॒त्वा ग॒त्वा पुनः॑ । 12) पुन॑ रि॒म मि॒म-म्पुनः॒ पुन॑ रि॒मम् । 13) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् । 14) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि । 15) अ॒भ्य॑द्ध्याय दद्ध्यायद॒भ्या᳚(1॒)भ्य॑द्ध्यायत् । 16) अ॒द्ध्या॒य॒-थ्स सो᳚ ऽद्ध्याय दद्ध्याय॒-थ्सः । 17) स इ॒म मि॒मग्ं स स इ॒मम् । 18) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् । 19) लो॒क मा॒गत्या॒गत्य॑ लो॒कम् ँलो॒क मा॒गत्य॑ । 20) आ॒गत्य॑ मृ॒त्यो-र्मृ॒त्योरा॒गत्या॒गत्य॑ मृ॒त्योः । 20) आ॒गत्येत्या᳚ - गत्य॑ । 21) मृ॒त्यो र॑बिभेदबिभे-न्मृ॒त्यो-र्मृ॒त्योर॑बिभेत् । 22) अ॒बि॒भे॒-न्मृ॒त्युसं॑युँतो मृ॒त्युसं॑युँतो ऽबिभेदबिभे-न्मृ॒त्युसं॑युँतः । 23) मृ॒त्युसं॑युँत इवे व मृ॒त्युसं॑युँतो मृ॒त्युसं॑युँत इव । 23) मृ॒त्युसं॑युँत॒ इति॑ मृ॒त्यु - सं॒युँ॒तः॒ । 24) इ॒व॒ हि हीवे॑ व॒ हि । 25) ह्य॑य म॒यग्ं हि ह्य॑यम् । 26) अ॒यम् ँलो॒को लो॒को॑ ऽय म॒यम् ँलो॒कः । 27) लो॒क-स्स स लो॒को लो॒क-स्सः । 28) सो॑ ऽमन्यतामन्यत॒ स सो॑ ऽमन्यत । 29) अ॒म॒न्य॒ते॒ म मि॒म म॑मन्यतामन्यते॒ मम् । 30) इ॒म मे॒वैवे म मि॒म मे॒व । 31) ए॒वाग्नि म॒ग्नि मे॒वैवाग्निम् । 32) अ॒ग्निग्ग् स्त॑वानि स्तवान्य॒ग्नि म॒ग्निग्ग् स्त॑वानि । 33) स्त॒वा॒नि॒ स स स्त॑वानि स्तवानि॒ सः । 34) स मा॑ मा॒ स स मा᳚ । 35) मा॒ स्तु॒त-स्स्तु॒तो मा॑ मा स्तु॒तः । 36) स्तु॒त-स्सु॑व॒र्गग्ं सु॑व॒र्गग्ग् स्तु॒त-स्स्तु॒त-स्सु॑व॒र्गम् । 37) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 37) सु॒व॒र्गमिति॑ सुवः - गम् । 38) लो॒क-ङ्ग॑मयिष्यति गमयिष्यति लो॒कम् ँलो॒क-ङ्ग॑मयिष्यति । 39) ग॒म॒यि॒ष्य॒तीतीति॑ गमयिष्यति गमयिष्य॒तीति॑ । 40) इति॒ स स इतीति॒ सः । 41) सो᳚ ऽग्नि म॒ग्निग्ं स सो᳚ ऽग्निम् । 42) अ॒ग्नि म॑स्तौ दस्तौद॒ग्नि म॒ग्नि म॑स्तौत् । 43) अ॒स्तौ॒-थ्स सो᳚ ऽस्तौदस्तौ॒-थ्सः । 44) स ए॑न मेन॒(ग्म्॒) स स ए॑नम् । 45) ए॒न॒(ग्ग्॒) स्तु॒त-स्स्तु॒त ए॑न मेनग्ग् स्तु॒तः । 46) स्तु॒त-स्सु॑व॒र्गग्ं सु॑व॒र्गग्ग् स्तु॒त-स्स्तु॒त-स्सु॑व॒र्गम् । 47) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 47) सु॒व॒र्गमिति॑ सुवः - गम् । 48) लो॒क म॑गमय दगमय ल्लो॒कम् ँलो॒क म॑गमयत् । 49) अ॒ग॒म॒य॒-द्यो यो॑ ऽगमयदगमय॒-द्यः । 50) य ए॒व मे॒वं-योँ य ए॒वम् । ॥ 39 ॥ (50/54)
1) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 2) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् । 3) अ॒ग्नि मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ ऽग्नि म॒ग्नि मु॑प॒तिष्ठ॑ते । 4) उ॒प॒तिष्ठ॑ते सुव॒र्गग्ं सु॑व॒र्ग मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते सुव॒र्गम् । 4) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । 5) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व । 5) सु॒व॒र्गमिति॑ सुवः - गम् । 6) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् । 7) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 8) ए॒ति॒ सर्व॒(ग्म्॒) सर्व॑ मेत्येति॒ सर्व᳚म् । 9) सर्व॒ मायु॒रायु॒-स्सर्व॒(ग्म्॒) सर्व॒ मायुः॑ । 10) आयु॑रेत्ये॒त्यायु॒रायु॑रेति । 11) ए॒त्य॒भ्या᳚(1॒)भ्ये᳚त्येत्य॒भि । 12) अ॒भि वै वा अ॒भ्य॑भि वै । 13) वा ए॒ष ए॒ष वै वा ए॒षः । 14) ए॒षो᳚-ऽग्नी अ॒ग्नी ए॒ष ए॒षो᳚-ऽग्नी । 15) अ॒ग्नी आ ऽग्नी अ॒ग्नी आ । 15) अ॒ग्नी इत्य॒ग्नी । 16) आ रो॑हति रोह॒त्या रो॑हति । 17) रो॒ह॒ति॒ यो यो रो॑हति रोहति॒ यः । 18) य ए॑ना वेनौ॒ यो य ए॑नौ । 19) ए॒ना॒ वु॒प॒तिष्ठ॑त उप॒तिष्ठ॑त एना वेना वुप॒तिष्ठ॑ते । 20) उ॒प॒तिष्ठ॑ते॒ यथा॒ यथो॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ यथा᳚ । 20) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । 21) यथा॒ खलु॒ खलु॒ यथा॒ यथा॒ खलु॑ । 22) खलु॒ वै वै खलु॒ खलु॒ वै । 23) वै श्रेया॒-ञ्छ्रेया॒न्॒. वै वै श्रेयान्॑ । 24) श्रेया॑ न॒भ्यारू॑ढो॒ ऽभ्यारू॑ढ॒-श्श्रेया॒-ञ्छ्रेया॑ न॒भ्यारू॑ढः । 25) अ॒भ्यारू॑ढः का॒मय॑ते का॒मय॑ते॒ ऽभ्यारू॑ढो॒ ऽभ्यारू॑ढः का॒मय॑ते । 25) अ॒भ्यारू॑ढ॒ इत्य॑भि - आरू॑ढः । 26) का॒मय॑ते॒ तथा॒ तथा॑ का॒मय॑ते का॒मय॑ते॒ तथा᳚ । 27) तथा॑ करोति करोति॒ तथा॒ तथा॑ करोति । 28) क॒रो॒ति॒ नक्त॒न्नक्त॑-ङ्करोति करोति॒ नक्त᳚म् । 29) नक्त॒ मुपोप॒ नक्त॒न्नक्त॒ मुप॑ । 30) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 31) ति॒ष्ठ॒ते॒ न न ति॑ष्ठते तिष्ठते॒ न । 32) न प्रा॒तः प्रा॒त-र्न न प्रा॒तः । 33) प्रा॒त-स्सग्ं स-म्प्रा॒तः प्रा॒त-स्सम् । 34) सग्ं हि हि सग्ं सग्ं हि । 35) हि नक्त॒न्नक्त॒(ग्म्॒) हि हि नक्त᳚म् । 36) नक्तं॑-व्रँ॒तानि॑ व्र॒तानि॒ नक्त॒न्नक्तं॑-व्रँ॒तानि॑ । 37) व्र॒तानि॑ सृ॒ज्यन्ते॑ सृ॒ज्यन्ते᳚ व्र॒तानि॑ व्र॒तानि॑ सृ॒ज्यन्ते᳚ । 38) सृ॒ज्यन्ते॑ स॒ह स॒ह सृ॒ज्यन्ते॑ सृ॒ज्यन्ते॑ स॒ह । 39) स॒ह श्रेया॒-ञ्छ्रेया᳚-न्थ्स॒ह स॒ह श्रेयान्॑ । 40) श्रेया(ग्ग्॑)श्च च॒ श्रेया॒-ञ्छ्रेया(ग्ग्॑)श्च । 41) च॒ पापी॑या॒-न्पापी॑याग्श्च च॒ पापी॑यान् । 42) पापी॑याग्श्च च॒ पापी॑या॒-न्पापी॑याग्श्च । 43) चा॒सा॒ते॒ आ॒सा॒ते॒ च॒ चा॒सा॒ते॒ । 44) आ॒सा॒ते॒ ज्योति॒-र्ज्योति॑रासाते आसाते॒ ज्योतिः॑ । 44) आ॒सा॒ते॒ इत्या॑साते । 45) ज्योति॒-र्वै वै ज्योति॒-र्ज्योति॒-र्वै । 46) वा अ॒ग्निर॒ग्नि-र्वै वा अ॒ग्निः । 47) अ॒ग्नि स्तम॒ स्तमो॒ ऽग्नि र॒ग्निस्तमः॑ । 48) तमो॒ रात्री॒ रात्रि॒ स्तम॒स्तमो॒ रात्रिः॑ । 49) रात्रि॒-र्य-द्य-द्रात्री॒ रात्रि॒-र्यत् । 50) य-न्नक्त॒न्नक्तं॒-यँ-द्य-न्नक्त᳚म् । ॥ 40 ॥ (50/56)
1) नक्त॑ मुप॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ नक्त॒न्नक्त॑ मुप॒तिष्ठ॑ते । 2) उ॒प॒तिष्ठ॑ते॒ ज्योति॑षा॒ ज्योति॑षोप॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ ज्योति॑षा । 2) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । 3) ज्योति॑षै॒वैव ज्योति॑षा॒ ज्योति॑षै॒व । 4) ए॒व तम॒स्तम॑ ए॒वैव तमः॑ । 5) तम॑ स्तरति तरति॒ तम॒ स्तम॑स्तरति । 6) त॒र॒त्यु॒प॒स्थेय॑ उप॒स्थेय॑स्तरति तरत्युप॒स्थेयः॑ । 7) उ॒प॒स्थेयो॒ ऽग्नी(3) र॒ग्नी(3) रु॑प॒स्थेय॑ उप॒स्थेयो॒ ऽग्नी(3)ः । 7) उ॒प॒स्थेय॒ इत्यु॑प - स्थेयः॑ । 8) अ॒ग्नी(3)-र्न नाग्नी(3) र॒ग्नी(3)-र्न । 9) नोप॒स्थेया(3) उ॑प॒स्थेया(3) न नोप॒स्थेया(3)ः । 10) उ॒प॒स्थेया(3) इतीत्यु॑प॒स्थेया(3) उ॑प॒स्थेया(3) इति॑ । 10) उ॒प॒स्थेया(3) इत्यु॑प - स्थेया(3)ः । 11) इत्या॑हु राहु॒ रितीत्या॑हुः । 12) आ॒हु॒-र्म॒नु॒ष्या॑य मनु॒ष्या॑याहुराहु-र्मनु॒ष्या॑य । 13) म॒नु॒ष्या॑ये दि-न्म॑नु॒ष्या॑य मनु॒ष्या॑ये त् । 14) इ-न्नु न्विदि-न्नु । 15) न्वै वै नुन्वै । 16) वै यो यो वै वै यः । 17) यो ऽह॑रह॒ रह॑रह॒-र्यो यो ऽह॑रहः । 18) अह॑रह रा॒हृत्या॒हृत्याह॑रह॒ रह॑रह रा॒हृत्य॑ । 18) अह॑रह॒रित्यहः॑ - अ॒हः॒ । 19) आ॒हृत्या थाथा॒हृत्या॒हृत्याथ॑ । 19) आ॒हृत्येत्या᳚ - हृत्य॑ । 20) अथै॑न मेन॒ मथाथै॑नम् । 21) ए॒नं॒-याँच॑ति॒ याच॑त्येन मेनं॒-याँच॑ति । 22) याच॑ति॒ स स याच॑ति॒ याच॑ति॒ सः । 23) स इदि-थ्स स इत् । 24) इ-न्नु न्विदि-न्नु । 25) न्वै वै नु न्वै । 26) वै त-न्तं-वैँ वै तम् । 27) त मुपोप॒ त-न्त मुप॑ । 28) उपा᳚-र्च्छत्यृच्छ॒त्युपोपा᳚-र्च्छति । 29) ऋ॒च्छ॒त्यथाथ॑ र्च्छत्यृच्छ॒त्यथ॑ । 30) अथ॒ कः को ऽथाथ॒ कः । 31) को दे॒वा-न्दे॒वान् कः को दे॒वान् । 32) दे॒वा नह॑रह॒ रह॑रह-र्दे॒वा-न्दे॒वा नह॑रहः । 33) अह॑रह-र्याचिष्यति याचिष्य॒त्यह॑रह॒ रह॑रह-र्याचिष्यति । 33) अह॑रह॒रित्यहः॑ - अ॒हः॒ । 34) या॒चि॒ष्य॒तीतीति॑ याचिष्यति याचिष्य॒तीति॑ । 35) इति॒ तस्मा॒-त्तस्मा॒दितीति॒ तस्मा᳚त् । 36) तस्मा॒-न्न न तस्मा॒-त्तस्मा॒-न्न । 37) नोप॒स्थेय॑ उप॒स्थेयो॒ न नोप॒स्थेयः॑ । 38) उ॒प॒स्थेयो ऽथो॒ अथो॑ उप॒स्थेय॑ उप॒स्थेयो ऽथो᳚ । 38) उ॒प॒स्थेय॒ इत्यु॑प - स्थेयः॑ । 39) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 39) अथो॒ इत्यथो᳚ । 40) खल्वा॑हुराहुः॒ खलु॒ खल्वा॑हुः । 41) आ॒हु॒रा॒शिष॑ आ॒शिष॑ आहुराहुरा॒शिषे᳚ । 42) आ॒शिषे॒ वै वा आ॒शिष॑ आ॒शिषे॒ वै । 42) आ॒शिष॒ इत्या᳚ - शिषे᳚ । 43) वै क-ङ्कं-वैँ वै कम् । 44) कं-यँज॑मानो॒ यज॑मानः॒ क-ङ्कं-यँज॑मानः । 45) यज॑मानो यजते यजते॒ यज॑मानो॒ यज॑मानो यजते । 46) य॒ज॒त॒ इतीति॑ यजते यजत॒ इति॑ । 47) इत्ये॒षैषेतीत्ये॒षा । 48) ए॒षा खलु॒ खल्वे॒षैषा खलु॑ । 49) खलु॒ वै वै खलु॒ खलु॒ वै । 50) वा आहि॑ताग्ने॒ राहि॑ताग्ने॒-र्वै वा आहि॑ताग्नेः । ॥ 41 ॥ (50/59)
1) आहि॑ताग्ने रा॒शी रा॒शी राहि॑ताग्ने॒ राहि॑ताग्ने रा॒शीः । 1) आहि॑ताग्ने॒रित्याहि॑त - अ॒ग्नेः॒ । 2) आ॒शी-र्य-द्यदा॒शीरा॒शी-र्यत् । 2) आ॒शीरित्या᳚ - शीः । 3) यद॒ग्नि म॒ग्निं-यँ-द्यद॒ग्निम् । 4) अ॒ग्नि मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ ऽग्नि म॒ग्नि मु॑प॒तिष्ठ॑ते । 5) उ॒प॒तिष्ठ॑ते॒ तस्मा॒-त्तस्मा॑ दुप॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ तस्मा᳚त् । 5) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । 6) तस्मा॑ दुप॒स्थेय॑ उप॒स्थेय॒ स्तस्मा॒-त्तस्मा॑दुप॒स्थेयः॑ । 7) उ॒प॒स्थेयः॑ प्र॒जाप॑तिः प्र॒जाप॑ति रुप॒स्थेय॑ उप॒स्थेयः॑ प्र॒जाप॑तिः । 7) उ॒प॒स्थेय॒ इत्यु॑प - स्थेयः॑ । 8) प्र॒जाप॑तिः प॒शू-न्प॒शू-न्प्र॒जाप॑तिः प्र॒जाप॑तिः प॒शून् । 8) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 9) प॒शू न॑सृजतासृजत प॒शू-न्प॒शू न॑सृजत । 10) अ॒सृ॒ज॒त॒ ते ते॑ ऽसृजतासृजत॒ ते । 11) ते सृ॒ष्टा-स्सृ॒ष्टास्ते ते सृ॒ष्टाः । 12) सृ॒ष्टा अ॑होरा॒त्रे अ॑होरा॒त्रे सृ॒ष्टा-स्सृ॒ष्टा अ॑होरा॒त्रे । 13) अ॒हो॒रा॒त्रे प्र प्राहो॑रा॒त्रे अ॑होरा॒त्रे प्र । 13) अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । 14) प्रावि॑शन्नविश॒-न्प्र प्रावि॑शन्न् । 15) अ॒वि॒श॒-न्ताग्स्ता न॑विशन्नविश॒-न्तान् । 16) तान् छन्दो॑भि॒ श्छन्दो॑भि॒ स्ताग् स्तान् छन्दो॑भिः । 17) छन्दो॑भि॒ रन्वनु॒ छन्दो॑भि॒ श्छन्दो॑भि॒रनु॑ । 17) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 18) अन्व॑विन्द दविन्द॒ दन्वन्व॑विन्दत् । 19) अ॒वि॒न्द॒-द्य-द्यद॑विन्ददविन्द॒-द्यत् । 20) यछ् चन्दो॑भि॒ श्छन्दो॑भि॒-र्य-द्यछ् चन्दो॑भिः । 21) छन्दो॑भि रुप॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ छन्दो॑भि॒ श्छन्दो॑भि रुप॒तिष्ठ॑ते । 21) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 22) उ॒प॒तिष्ठ॑ते॒ स्वग्ग् स्व मु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ स्वम् । 22) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । 23) स्व मे॒वैव स्वग्ग् स्व मे॒व । 24) ए॒व त-त्तदे॒वैव तत् । 25) तदन्वनु॒ त-त्तदनु॑ । 26) अन्वि॑च्छतीच्छ॒ त्यन्वन्वि॑च्छति । 27) इ॒च्छ॒ति॒ न ने च्छ॑तीच्छति॒ न । 28) न तत्र॒ तत्र॒ न न तत्र॑ । 29) तत्र॑ जा॒मि जा॒मि तत्र॒ तत्र॑ जा॒मि । 30) जा॒म्य॑स्त्यस्ति जा॒मि जा॒म्य॑स्ति । 31) अ॒स्तीतीत्य॑स्त्य॒स्तीति॑ । 32) इत्या॑हु राहु॒ रितीत्या॑हुः । 33) आ॒हु॒-र्यो य आ॑हुराहु॒-र्यः । 34) यो ऽह॑रह॒ रह॑रह॒-र्यो यो ऽह॑रहः । 35) अह॑रह रुप॒तिष्ठ॑त उप॒तिष्ठ॒ते ऽह॑रह॒ रह॑रह रुप॒तिष्ठ॑ते । 35) अह॑रह॒रित्यहः॑ - अ॒हः॒ । 36) उ॒प॒तिष्ठ॑त॒ इतीत्यु॑प॒तिष्ठ॑त उप॒तिष्ठ॑त॒ इति॑ । 36) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । 37) इति॒ यो य इतीति॒ यः । 38) यो वै वै यो यो वै । 39) वा अ॒ग्नि म॒ग्निं-वैँ वा अ॒ग्निम् । 40) अ॒ग्नि-म्प्र॒त्य-म्प्र॒त्यं ंअ॒ग्नि म॒ग्नि-म्प्र॒त्यम्म् । 41) प्र॒त्यं ंउ॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते प्र॒त्य-म्प्र॒त्यं ंउ॑प॒तिष्ठ॑ते । 42) उ॒प॒तिष्ठ॑ते॒ प्रति॒ प्रत्यु॑प॒तिष्ठ॑त उप॒तिष्ठ॑ते॒ प्रति॑ । 42) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । 43) प्रत्ये॑न मेन॒-म्प्रति॒ प्रत्ये॑नम् । 44) ए॒न॒ मो॒ष॒त्यो॒ष॒त्ये॒न॒ मे॒न॒ मो॒ष॒ति॒ । 45) ओ॒ष॒ति॒ यो य ओ॑षत्योषति॒ यः । 46) यः परा॒-म्परां॒-योँ यः परां॑ । 47) परां॒-विँष्वं॒॒. विष्व॒-म्परा॒-म्परां॒-विँष्वङ्ङ्॑ । 48) विष्वं॑ प्र॒जया᳚ प्र॒जया॒ विष्वं॒॒. विष्व॑-म्प्र॒जया᳚ । 49) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 49) प्र॒जयेति॑ प्र - जया᳚ । 50) प॒शुभि॑ रेत्येति प॒शुभिः॑ प॒शुभि॑रेति । 50) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 51) ए॒ति॒ कवा॑तिर्य॒-ङ्कवा॑तिर्यं ंएत्येति॒ कवा॑तिर्यम्म् । 52) कवा॑तिर्यं ंइवेव॒ कवा॑तिर्य॒-ङ्कवा॑तिर्यंइव । 52) कवा॑तिर्यं॒ ंइति॒ कवा᳚ - ति॒र्य॒म्म् । 53) इ॒वोपोपे॑ वे॒ वोप॑ । 54) उप॑ तिष्ठेत तिष्ठे॒तोपोप॑ तिष्ठेत । 55) ति॒ष्ठे॒त॒ न न ति॑ष्ठेत तिष्ठेत॒ न । 56) नैन॑ मेन॒न्न नैन᳚म् । 57) ए॒न॒-म्प्र॒त्योष॑ति प्र॒त्योष॑त्येन मेन-म्प्र॒त्योष॑ति । 58) प्र॒त्योष॑ति॒ न न प्र॒त्योष॑ति प्र॒त्योष॑ति॒ न । 58) प्र॒त्योष॒तीति॑ प्रति - ओष॑ति । 59) न विष्वं॒॒. विष्व॒-न्न न विष्वङ्ङ्॑ । 60) विष्व॑-म्प्र॒जया᳚ प्र॒जया॒ विष्वं॒॒. विष्व॑-म्प्र॒जया᳚ । 61) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 61) प्र॒जयेति॑ प्र - जया᳚ । 62) प॒शुभि॑रेत्येति प॒शुभिः॑ प॒शुभि॑रेति । 62) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 63) ए॒तीत्ये॑ति । ॥ 42 ॥ (63/81) ॥ अ. 9 ॥
1) मम॒ नाम॒ नाम॒ मम॒ मम॒ नाम॑ । 2) नाम॑ प्रथ॒म-म्प्र॑थ॒मन्नाम॒ नाम॑ प्रथ॒मम् । 3) प्र॒थ॒म-ञ्जा॑तवेदो जातवेदः प्रथ॒म-म्प्र॑थ॒म-ञ्जा॑तवेदः । 4) जा॒त॒वे॒दः॒ पि॒ता पि॒ता जा॑तवेदो जातवेदः पि॒ता । 4) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । 5) पि॒ता मा॒ता मा॒ता पि॒ता पि॒ता मा॒ता । 6) मा॒ता च॑ च मा॒ता मा॒ता च॑ । 7) च॒ द॒ध॒तु॒-र्द॒ध॒तु॒श्च॒ च॒ द॒ध॒तुः॒ । 8) द॒ध॒तु॒-र्य-द्य-द्द॑धतु-र्दधतु॒-र्यत् । 9) यदग्रे ऽग्रे॒ य-द्यदग्रे᳚ । 10) अग्र॒ इत्यग्रे᳚ । 11) त-त्त्व-न्त्व-न्त-त्त-त्त्वम् । 12) त्व-म्बि॑भृहि बिभृहि॒ त्व-न्त्व-म्बि॑भृहि । 13) बि॒भृ॒हि॒ पुनः॒ पुन॑-र्बिभृहि बिभृहि॒ पुनः॑ । 14) पुन॒ रा पुनः॒ पुन॒ रा । 15) आ म-न्मदा मत् । 16) मदैतो॒रैतो॒-र्म-न्मदैतोः᳚ । 17) ऐतो॒ स्तव॒ तवै॑तो॒ रैतो॒स्तव॑ । 17) ऐतो॒रित्या - ए॒तोः॒ । 18) तवा॒ह म॒ह-न्तव॒ तवा॒हम् । 19) अ॒हन्नाम॒ नामा॒ह म॒हन्नाम॑ । 20) नाम॑ बिभराणि बिभराणि॒ नाम॒ नाम॑ बिभराणि । 21) बि॒भ॒रा॒ण्य॒ग्ने॒ ऽग्ने॒ बि॒भ॒रा॒णि॒ बि॒भ॒रा॒ण्य॒ग्ने॒ । 22) अ॒ग्न॒ इत्य॑ग्ने । 23) मम॒ नाम॒ नाम॒ मम॒ मम॒ नाम॑ । 24) नाम॒ तव॒ तव॒ नाम॒ नाम॒ तव॑ । 25) तव॑ च च॒ तव॒ तव॑ च । 26) च॒ जा॒त॒वे॒दो॒ जा॒त॒वे॒द॒श्च॒ च॒ जा॒त॒वे॒दः॒ । 27) जा॒त॒वे॒दो॒ वास॑सी॒ वास॑सी जातवेदो जातवेदो॒ वास॑सी । 27) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । 28) वास॑सी इवे व॒ वास॑सी॒ वास॑सी इव । 28) वास॑सी॒ इति॒ वास॑सी । 29) इ॒व॒ वि॒वसा॑नौ वि॒वसा॑ना विवे व वि॒वसा॑नौ । 30) वि॒वसा॑नौ॒ ये ये वि॒वसा॑नौ वि॒वसा॑नौ॒ ये । 30) वि॒वसा॑ना॒विति॑ वि - वसा॑नौ । 31) ये चरा॑व॒ श्चरा॑वो॒ ये ये चरा॑वः । 31) ये इति॒ ये । 32) चरा॑व॒ इति॒ चरा॑वः । 33) आयु॑षे॒ त्व-न्त्व मायु॑ष॒ आयु॑षे॒ त्वम् । 34) त्व-ञ्जी॒वसे॑ जी॒वसे॒ त्व-न्त्व-ञ्जी॒वसे᳚ । 35) जी॒वसे॑ व॒यं-वँ॒य-ञ्जी॒वसे॑ जी॒वसे॑ व॒यम् । 36) व॒यं-यँ॑थाय॒थं-यँ॑थाय॒थं-वँ॒यं-वँ॒यं-यँ॑थाय॒थम् । 37) य॒था॒य॒थं-विँ वि य॑थाय॒थं-यँ॑थाय॒थं-विँ । 37) य॒था॒य॒थमिति॑ यथा - य॒थम् । 38) वि परि॒ परि॒ वि वि परि॑ । 39) परि॑ दधावहै दधावहै॒ परि॒ परि॑ दधावहै । 40) द॒धा॒व॒है॒ पुनः॒ पुन॑-र्दधावहै दधावहै॒ पुनः॑ । 41) पुन॒स्ते ते पुनः॒ पुन॒स्ते । 42) ते इति॒ ते । 43) नमो॒ ऽग्नये॒ ऽग्नये॒ नमो॒ नमो॒ ऽग्नये᳚ । 44) अ॒ग्नये ऽप्र॑तिविद्धा॒याप्र॑तिविद्धाया॒ग्नये॒ ऽग्नये ऽप्र॑तिविद्धाय । 45) अप्र॑तिविद्धाय॒ नमो॒ नमो ऽप्र॑तिविद्धा॒याप्र॑तिविद्धाय॒ नमः॑ । 45) अप्र॑तिविद्धा॒येत्यप्र॑ति - वि॒द्धा॒य॒ । 46) नमो ऽना॑धृष्टा॒याना॑धृष्टाय॒ नमो॒ नमो ऽना॑धृष्टाय । 47) अना॑धृष्टाय॒ नमो॒ नमो ऽना॑धृष्टा॒याना॑धृष्टाय॒ नमः॑ । 47) अना॑धृष्टा॒येत्यना᳚ - धृ॒ष्टा॒य॒ । 48) नम॑-स्स॒म्राजे॑ स॒म्राजे॒ नमो॒ नम॑-स्स॒म्राजे᳚ । 49) स॒म्राज॒ इति॑ सं - राजे᳚ । 50) अषा॑ढो अ॒ग्नि र॒ग्निरषा॑ढो॒ अषा॑ढो अ॒ग्निः । ॥ 43 ॥ (50/59)
1) अ॒ग्नि-र्बृ॒हद्व॑या बृ॒हद्व॑या अ॒ग्निर॒ग्नि-र्बृ॒हद्व॑याः । 2) बृ॒हद्व॑या विश्व॒जि-द्वि॑श्व॒जि-द्बृ॒हद्व॑या बृ॒हद्व॑या विश्व॒जित् । 2) बृ॒हद्व॑या॒ इति॑ बृ॒हत् - व॒याः॒ । 3) वि॒श्व॒जि-थ्सह॑न्त्य॒-स्सह॑न्त्यो विश्व॒जि-द्वि॑श्व॒जि-थ्सह॑न्त्यः । 3) वि॒श्व॒जिदिति॑ विश्व - जित् । 4) सह॑न्त्य॒-श्श्रेष्ठ॒-श्श्रेष्ठ॒-स्सह॑न्त्य॒-स्सह॑न्त्य॒-श्श्रेष्ठः॑ । 5) श्रेष्ठो॑ गन्ध॒र्वो ग॑न्ध॒र्व-श्श्रेष्ठ॒-श्श्रेष्ठो॑ गन्ध॒र्वः । 6) ग॒न्ध॒र्व इति॑ गन्ध॒र्वः । 7) त्वत्पि॑तारो अग्ने ऽग्ने॒ त्वत्पि॑तार॒ स्त्वत्पि॑तारो अग्ने । 7) त्वत्पि॑तार॒ इति॒ त्वत् - पि॒ता॒रः॒ । 8) अ॒ग्ने॒ दे॒वा दे॒वा अ॑ग्ने ऽग्ने दे॒वाः । 9) दे॒वा स्त्वामा॑हुतय॒ स्त्वामा॑हुतयो दे॒वा दे॒वा स्त्वामा॑हुतयः । 10) त्वामा॑हुतय॒ स्त्वद्वि॑वाचना॒ स्त्वद्वि॑वाचना॒ स्त्वामा॑हुतय॒ स्त्वामा॑हुतय॒ स्त्वद्वि॑वाचनाः । 10) त्वामा॑हुतय॒ इति॒ त्वाम् - आ॒हु॒त॒यः॒ । 11) त्वद्वि॑वाचना॒ इति॒ त्वत् - वि॒वा॒च॒नाः॒ । 12) स-म्मा-म्माग्ं सग्ं स-म्माम् । 13) मा मायु॒षा ऽऽयु॑षा॒ मा-म्मा मायु॑षा । 14) आयु॑षा॒ सग्ं स मायु॒षा ऽऽयु॑षा॒ सम् । 15) स-ङ्गौ॑प॒त्येन॑ गौप॒त्येन॒ सग्ं स-ङ्गौ॑प॒त्येन॑ । 16) गौ॒प॒त्येन॒ सुहि॑ते॒ सुहि॑ते गौप॒त्येन॑ गौप॒त्येन॒ सुहि॑ते । 17) सुहि॑ते मा मा॒ सुहि॑ते॒ सुहि॑ते मा । 17) सुहि॑त॒ इति॒ सु - हि॒ते॒ । 18) मा॒ धा॒ धा॒ मा॒ मा॒ धाः॒ । 19) धा॒ इति॑ धाः । 20) अ॒य म॒ग्नि र॒ग्निर॒य म॒य म॒ग्निः । 21) अ॒ग्नि-श्श्रेष्ठ॑तम॒-श्श्रेष्ठ॑तमो॒ ऽग्निर॒ग्नि-श्श्रेष्ठ॑तमः । 22) श्रेष्ठ॑तमो॒ ऽय म॒यग्ग् श्रेष्ठ॑तम॒-श्श्रेष्ठ॑तमो॒ ऽयम् । 22) श्रेष्ठ॑तम॒ इति॒ श्रेष्ठ॑ - त॒मः॒ । 23) अ॒य-म्भग॑वत्तमो॒ भग॑वत्तमो॒ ऽय म॒य-म्भग॑वत्तमः । 24) भग॑वत्तमो॒ ऽय म॒य-म्भग॑वत्तमो॒ भग॑वत्तमो॒ ऽयम् । 24) भग॑वत्तम॒ इति॒ भग॑वत् - त॒मः॒ । 25) अ॒यग्ं स॑हस्र॒सात॑म-स्सहस्र॒सात॑मो॒ ऽय म॒यग्ं स॑हस्र॒सात॑मः । 26) स॒ह॒स्र॒सात॑म॒ इति॑ सहस्र - सात॑मः । 27) अ॒स्मा अ॑स्त्वस्त्व॒स्मा अ॒स्मा अ॑स्तु । 28) अ॒स्तु॒ सु॒वीर्य(ग्म्॑) सु॒वीर्य॑ मस्त्वस्तु सु॒वीर्य᳚म् । 29) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । 30) मनो॒ ज्योति॒-र्ज्योति॒-र्मनो॒ मनो॒ ज्योतिः॑ । 31) ज्योति॑-र्जुषता-ञ्जुषता॒-ञ्ज्योति॒-र्ज्योति॑-र्जुषताम् । 32) जु॒ष॒ता॒ माज्य॒ माज्य॑-ञ्जुषता-ञ्जुषता॒ माज्य᳚म् । 33) आज्यं॒-विँच्छि॑न्नं॒-विँच्छि॑न्न॒ माज्य॒ माज्यं॒-विँच्छि॑न्नम् । 34) विच्छि॑न्नं-यँ॒ज्ञं-यँ॒ज्ञं-विँच्छि॑न्नं॒-विँच्छि॑न्नं-यँ॒ज्ञम् । 34) विच्छि॑न्न॒मिति॒ वि - छि॒न्न॒म् । 35) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् । 36) स मि॒म मि॒मग्ं सग्ं स मि॒मम् । 37) इ॒म-न्द॑धातु दधात्वि॒म मि॒म-न्द॑धातु । 38) द॒धा॒त्विति॑ दधातु । 39) या इ॒ष्टा इ॒ष्टा या या इ॒ष्टाः । 40) इ॒ष्टा उ॒षस॑ उ॒षस॑ इ॒ष्टा इ॒ष्टा उ॒षसः॑ । 41) उ॒षसो॑ नि॒म्रुचो॑ नि॒म्रुच॑ उ॒षस॑ उ॒षसो॑ नि॒म्रुचः॑ । 42) नि॒म्रुच॑श्च च नि॒म्रुचो॑ नि॒म्रुच॑श्च । 42) नि॒म्रुच॒ इति॑ नि - म्रुचः॑ । 43) च॒ तास्ताश्च॑ च॒ ताः । 44) ता-स्सग्ं स-न्तास्ता-स्सम् । 45) स-न्द॑धामि दधामि॒ सग्ं स-न्द॑धामि । 46) द॒धा॒मि॒ ह॒विषा॑ ह॒विषा॑ दधामि दधामि ह॒विषा᳚ । 47) ह॒विषा॑ घृ॒तेन॑ घृ॒तेन॑ ह॒विषा॑ ह॒विषा॑ घृ॒तेन॑ । 48) घृ॒तेनेति॑ घृ॒तेन॑ । 49) पय॑स्वती॒ रोष॑धय॒ ओष॑धयः॒ पय॑स्वतीः॒ पय॑स्वती॒ रोष॑धयः । 50) ओष॑धयः॒ पय॑स्व॒-त्पय॑स्व॒दोष॑धय॒ ओष॑धयः॒ पय॑स्वत् । ॥ 44 ॥ (50/59)
1) पय॑स्व-द्वी॒रुधां᳚-वीँ॒रुधा॒-म्पय॑स्व॒-त्पय॑स्व-द्वी॒रुधा᳚म् । 2) वी॒रुधा॒-म्पयः॒ पयो॑ वी॒रुधां᳚-वीँ॒रुधा॒-म्पयः॑ । 3) पय॒ इति॒ पयः॑ । 4) अ॒पा-म्पय॑सः॒ पय॑सो॒ ऽपा म॒पा-म्पय॑सः । 5) पय॑सो॒ य-द्य-त्पय॑सः॒ पय॑सो॒ यत् । 6) य-त्पयः॒ पयो॒ य-द्य-त्पयः॑ । 7) पय॒स्तेन॒ तेन॒ पयः॒ पय॒स्तेन॑ । 8) तेन॒ मा-म्मा-न्तेन॒ तेन॒ माम् । 9) मा मि॑न्द्रे न्द्र॒ मा-म्मा मि॑न्द्र । 10) इ॒न्द्र॒ सग्ं स मि॑न्द्रे न्द्र॒ सम् । 11) सग्ं सृ॑ज सृज॒ सग्ं सग्ं सृ॑ज । 12) सृ॒जेति॑ सृज । 13) अग्ने᳚ व्रतपते व्रतप॒ते ऽग्ने ऽग्ने᳚ व्रतपते । 14) व्र॒त॒प॒ते॒ व्र॒तं-व्रँ॒तं-व्रँ॑तपते व्रतपते व्र॒तम् । 14) व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ । 15) व्र॒त-ञ्च॑रिष्यामि चरिष्यामि व्र॒तं-व्रँ॒त-ञ्च॑रिष्यामि । 16) च॒रि॒ष्या॒मि॒ त-त्तच् च॑रिष्यामि चरिष्यामि॒ तत् । 17) तच्छ॑केयग्ं शकेय॒-न्त-त्तच्छ॑केयम् । 18) श॒के॒य॒-न्त-त्तच्छ॑केयग्ं शकेय॒-न्तत् । 19) त-न्मे॑ मे॒ त-त्त-न्मे᳚ । 20) मे॒ रा॒द्ध्य॒ता॒(ग्म्॒) रा॒द्ध्य॒ता॒-म्मे॒ मे॒ रा॒द्ध्य॒ता॒म् । 21) रा॒द्ध्य॒ता॒मिति॑ राद्ध्यताम् । 22) अ॒ग्निग्ं होता॑र॒(ग्म्॒) होता॑र म॒ग्नि म॒ग्निग्ं होता॑रम् । 23) होता॑र मि॒हे ह होता॑र॒(ग्म्॒) होता॑र मि॒ह । 24) इ॒ह त-न्त मि॒हे ह तम् । 25) तग्ं हु॑वे हुवे॒ त-न्तग्ं हु॑वे । 26) हु॒वे॒ दे॒वा-न्दे॒वान्. हु॑वे हुवे दे॒वान् । 27) दे॒वान्. य॒ज्ञियान्॑. य॒ज्ञिया᳚-न्दे॒वा-न्दे॒वान्. य॒ज्ञियान्॑ । 28) य॒ज्ञिया॑ नि॒हे ह य॒ज्ञियान्॑. य॒ज्ञिया॑ नि॒ह । 29) इ॒ह यान्. या नि॒हे ह यान् । 30) यान्. हवा॑महे॒ हवा॑महे॒ यान्. यान्. हवा॑महे । 31) हवा॑मह॒ इति॒ हवा॑महे । 32) आ य॑न्तु य॒न्त्वा य॑न्तु । 33) य॒न्तु॒ दे॒वा दे॒वा य॑न्तु यन्तु दे॒वाः । 34) दे॒वा-स्सु॑मन॒स्यमा॑ना-स्सुमन॒स्यमा॑ना दे॒वा दे॒वा-स्सु॑मन॒स्यमा॑नाः । 35) सु॒म॒न॒स्यमा॑ना वि॒यन्तु॑ वि॒यन्तु॑ सुमन॒स्यमा॑ना-स्सुमन॒स्यमा॑ना वि॒यन्तु॑ । 35) सु॒म॒न॒स्यमा॑ना॒ इति॑ सु - म॒न॒स्यमा॑नाः । 36) वि॒यन्तु॑ दे॒वा दे॒वा वि॒यन्तु॑ वि॒यन्तु॑ दे॒वाः । 37) दे॒वा ह॒विषो॑ ह॒विषो॑ दे॒वा दे॒वा ह॒विषः॑ । 38) ह॒विषो॑ मे मे ह॒विषो॑ ह॒विषो॑ मे । 39) मे॒ अ॒स्यास्य मे॑ मे अ॒स्य । 40) अ॒स्येत्य॒स्य । 41) कस्त्वा᳚ त्वा॒ कः कस्त्वा᳚ । 42) त्वा॒ यु॒न॒क्ति॒ यु॒न॒क्ति॒ त्वा॒ त्वा॒ यु॒न॒क्ति॒ । 43) यु॒न॒क्ति॒ स स यु॑नक्ति युनक्ति॒ सः । 44) स त्वा᳚ त्वा॒ स स त्वा᳚ । 45) त्वा॒ यु॒न॒क्तु॒ यु॒न॒क्तु॒ त्वा॒ त्वा॒ यु॒न॒क्तु॒ । 46) यु॒न॒क्तु॒ यानि॒ यानि॑ युनक्तु युनक्तु॒ यानि॑ । 47) यानि॑ घ॒र्मे घ॒र्मे यानि॒ यानि॑ घ॒र्मे । 48) घ॒र्मे क॒पाला॑नि क॒पाला॑नि घ॒र्मे घ॒र्मे क॒पाला॑नि । 49) क॒पाला᳚ न्युपचि॒न्व न्त्यु॑पचि॒न्वन्ति॑ क॒पाला॑नि क॒पाला᳚ न्युपचि॒न्वन्ति॑ । 50) उ॒प॒चि॒न्वन्ति॑ वे॒धसो॑वे॒धस॑ उपचि॒न्व न्त्यु॑पचि॒न्वन्ति॑ वे॒धसः॑ । 50) उ॒प॒चि॒न्वन्तीत्यु॑प - चि॒न्वन्ति॑ । ॥ 45 ॥ (50/53)
1) वे॒धस॒ इति॑ वे॒धसः॑ । 2) पू॒ष्णस्तानि॒ तानि॑ पू॒ष्णः पू॒ष्णस्तानि॑ । 3) तान्यप्यपि॒ तानि॒ तान्यपि॑ । 4) अपि॑ व्र॒ते व्र॒ते ऽप्यपि॑ व्र॒ते । 5) व्र॒त इ॑न्द्रवा॒यू इ॑न्द्रवा॒यू व्र॒ते व्र॒त इ॑न्द्रवा॒यू । 6) इ॒न्द्र॒वा॒यू वि वीन्द्र॑वा॒यू इ॑न्द्रवा॒यू वि । 6) इ॒न्द्र॒वा॒यू इती᳚न्द्र - वा॒यू । 7) वि मु॑ञ्चता-म्मुञ्चतां॒-विँ वि मु॑ञ्चताम् । 8) मु॒ञ्च॒ता॒मिति॑ मुञ्चताम् । 9) अभि॑न्नो घ॒र्मो घ॒र्मो ऽभि॒न्नो ऽभि॑न्नो घ॒र्मः । 10) घ॒र्मो जी॒रदा॑नु-र्जी॒रदा॑नु-र्घ॒र्मो घ॒र्मो जी॒रदा॑नुः । 11) जी॒रदा॑नु॒-र्यतो॒ यतो॑ जी॒रदा॑नु-र्जी॒रदा॑नु॒-र्यतः॑ । 11) जी॒रदा॑नु॒रिति॑ जी॒र - दा॒नुः॒ । 12) यत॒ आत्त॒ आत्तो॒ यतो॒ यत॒ आत्तः॑ । 13) आत्त॒स्त-त्तदात्त॒ आत्त॒स्तत् । 14) तद॑गन्नग॒-न्त-त्तद॑गन्न् । 15) अ॒ग॒-न्पुनः॒ पुन॑ रगन्नग॒-न्पुनः॑ । 16) पुन॒रिति॒ पुनः॑ । 17) इ॒द्ध्मो वेदि॒-र्वेदि॑रि॒द्ध्म इ॒द्ध्मो वेदिः॑ । 18) वेदिः॑ परि॒धयः॑ परि॒धयो॑ वेदि॒-र्वेदिः॑ परि॒धयः॑ । 19) प॒रि॒धय॑श्च च परि॒धयः॑ परि॒धय॑श्च । 19) प॒रि॒धय॒ इति॑ परि - धयः॑ । 20) च॒ सर्वे॒ सर्वे॑ च च॒ सर्वे᳚ । 21) सर्वे॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ सर्वे॒ सर्वे॑ य॒ज्ञस्य॑ । 22) य॒ज्ञस्यायु॒रायु॑-र्य॒ज्ञस्य॑ य॒ज्ञस्यायुः॑ । 23) आयु॒ रन्वन्वायु॒ रायु॒रनु॑ । 24) अनु॒ सग्ं स मन्वनु॒ सम् । 25) स-ञ्च॑रन्ति चरन्ति॒ सग्ं स-ञ्च॑रन्ति । 26) च॒र॒न्तीति॑ चरन्ति । 27) त्रय॑स्त्रिग्ंश॒-त्तन्त॑व॒ स्तन्त॑व॒ स्त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश॒-त्तन्त॑वः । 27) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒(ग्म्॒)श॒त् । 28) तन्त॑वो॒ ये ये तन्त॑व॒ स्तन्त॑वो॒ ये । 29) ये वि॑तत्नि॒रे वि॑तत्नि॒रे ये ये वि॑तत्नि॒रे । 30) वि॒त॒त्नि॒रे ये ये वि॑तत्नि॒रे वि॑तत्नि॒रे ये । 30) वि॒त॒त्नि॒र इति॑ वि - त॒त्नि॒रे । 31) य इ॒म मि॒मं-येँ य इ॒मम् । 32) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् । 33) य॒ज्ञग्ग् स्व॒धया᳚ स्व॒धया॑ य॒ज्ञं-यँ॒ज्ञग्ग् स्व॒धया᳚ । 34) स्व॒धया॒ दद॑न्ते॒ दद॑न्ते स्व॒धया᳚ स्व॒धया॒ दद॑न्ते । 34) स्व॒धयेति॑ स्व - धया᳚ । 35) दद॑न्ते॒ तेषा॒-न्तेषा॒-न्दद॑न्ते॒ दद॑न्ते॒ तेषा᳚म् । 36) तेषा᳚-ञ्छि॒न्न-ञ्छि॒न्न-न्तेषा॒-न्तेषा᳚-ञ्छि॒न्नम् । 37) छि॒न्न-म्प्रति॒ प्रति॑च् छि॒न्न-ञ्छि॒न्न-म्प्रति॑ । 38) प्रत्ये॒तदे॒त-त्प्रति॒ प्रत्ये॒तत् । 39) ए॒त-द्द॑धामि दधाम्ये॒तदे॒त-द्द॑धामि । 40) द॒धा॒मि॒ स्वाहा॒ स्वाहा॑ दधामि दधामि॒ स्वाहा᳚ । 41) स्वाहा॑ घ॒र्मो घ॒र्म-स्स्वाहा॒ स्वाहा॑ घ॒र्मः । 42) घ॒र्मो दे॒वा-न्दे॒वा-न्घ॒र्मो घ॒र्मो दे॒वान् । 43) दे॒वाग्ं अप्यपि॑ दे॒वा-न्दे॒वाग्ं अपि॑ । 44) अप्ये᳚त्वे॒त्वप्यप्ये॑तु । 45) ए॒त्वित्ये॑तु । ॥ 46 ॥ (45/51) ॥ अ. 10 ॥
1) वै॒श्वा॒न॒रो नो॑ नो वैश्वान॒रो वै᳚श्वान॒रो नः॑ । 2) न॒ ऊ॒त्योत्या नो॑ न ऊ॒त्या । 3) ऊ॒त्या ऽऽप्र प्रोत्योत्या ऽऽप्र । 4) आ प्र प्रा प्र । 5) प्र या॑तु यातु॒ प्र प्र या॑तु । 6) या॒तु॒ प॒रा॒वतः॑ परा॒वतो॑ यातु यातु परा॒वतः॑ । 7) प॒रा॒वत॒ इति॑ परा - वतः॑ । 8) अ॒ग्नि रु॒क्थेनो॒क्थे ना॒ग्नि र॒ग्निरु॒क्थेन॑ । 9) उ॒क्थेन॒ वाह॑सा॒ वाह॑सो॒क्थेनो॒क्थेन॒ वाह॑सा । 10) वाह॒सेति॒ वाह॑सा । 11) ऋ॒तावा॑नं-वैँश्वान॒रं-वैँ᳚श्वान॒र मृ॒तावा॑न मृ॒तावा॑नं-वैँश्वान॒रम् । 11) ऋ॒तावा॑न॒मित्यृ॒त - वा॒न॒म् । 12) वै॒श्वा॒न॒र मृ॒तस्य॒ र्तस्य॑ वैश्वान॒रं-वैँ᳚श्वान॒र मृ॒तस्य॑ । 13) ऋ॒तस्य॒ ज्योति॑षो॒ ज्योति॑ष ऋ॒तस्य॒ र्तस्य॒ ज्योति॑षः । 14) ज्योति॑ष॒ स्पति॒-म्पति॒-ञ्ज्योति॑षो॒ ज्योति॑ष॒ स्पति᳚म् । 15) पति॒मिति॒ पति᳚म् । 16) अज॑स्र-ङ्घ॒र्म-ङ्घ॒र्म मज॑स्र॒ मज॑स्र-ङ्घ॒र्मम् । 17) घ॒र्म मी॑मह ईमहे घ॒र्म-ङ्घ॒र्म मी॑महे । 18) ई॒म॒ह॒ इती॑महे । 19) वै॒श्वा॒न॒रस्य॑ द॒(ग्म्॒)सना᳚भ्यो द॒(ग्म्॒)सना᳚भ्यो वैश्वान॒रस्य॑ वैश्वान॒रस्य॑ द॒(ग्म्॒)सना᳚भ्यः । 20) द॒(ग्म्॒)सना᳚भ्यो बृ॒ह-द्बृ॒ह-द्द॒(ग्म्॒)सना᳚भ्यो द॒(ग्म्॒)सना᳚भ्यो बृ॒हत् । 21) बृ॒ह दरि॑णा॒दरि॑णा-द्बृ॒ह-द्बृ॒हदरि॑णात् । 22) अरि॑णा॒देक॒ एको॒ अरि॑णा॒ दरि॑णा॒देकः॑ । 23) एक॑-स्स्वप॒स्य॑या स्वप॒स्य॑यैक॒ एक॑-स्स्वप॒स्य॑या । 24) स्व॒प॒स्य॑या क॒विः क॒वि-स्स्व॑प॒स्य॑या स्वप॒स्य॑या क॒विः । 24) स्व॒प॒स्य॑येति॑ सु - अ॒प॒स्य॑या । 25) क॒विरिति॑ क॒विः । 26) उ॒भा पि॒तरा॑ पि॒तरो॒भोभा पि॒तरा᳚ । 27) पि॒तरा॑ म॒हय॑-न्म॒हय॑-न्पि॒तरा॑ पि॒तरा॑ म॒हयन्न्॑ । 28) म॒हय॑ न्नजायताजायत म॒हय॑-न्म॒हय॑न्नजायत । 29) अ॒जा॒य॒ता॒ग्नि र॒ग्नि र॑जायताजायता॒ग्निः । 30) अ॒ग्नि-र्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॒ग्निर॒ग्नि-र्द्यावा॑पृथि॒वी । 31) द्यावा॑पृथि॒वी भूरि॑रेतसा॒ भूरि॑रेतसा॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी भूरि॑रेतसा । 31) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 32) भूरि॑रेत॒सेति॒ भूरि॑ - रे॒त॒सा॒ । 33) पृ॒ष्टो दि॒वि दि॒वि पृ॒ष्टः पृ॒ष्टो दि॒वि । 34) दि॒वि पृ॒ष्टः पृ॒ष्टो दि॒वि दि॒वि पृ॒ष्टः । 35) पृ॒ष्टो अ॒ग्निर॒ग्निः पृ॒ष्टः पृ॒ष्टो अ॒ग्निः । 36) अ॒ग्निः पृ॑थि॒व्या-म्पृ॑थि॒व्या म॒ग्निर॒ग्निः पृ॑थि॒व्याम् । 37) पृ॒थि॒व्या-म्पृ॒ष्टः पृ॒ष्टः पृ॑थि॒व्या-म्पृ॑थि॒व्या-म्पृ॒ष्टः । 38) पृ॒ष्टो विश्वा॒ विश्वाः᳚ पृ॒ष्टः पृ॒ष्टो विश्वाः᳚ । 39) विश्वा॒ ओष॑धी॒ रोष॑धी॒-र्विश्वा॒ विश्वा॒ ओष॑धीः । 40) ओष॑धी॒ रौष॑धी॒ रोष॑धी॒रा । 41) आ वि॑वेश विवे॒शा वि॑वेश । 42) वि॒वे॒शेति॑ विवेश । 43) वै॒श्वा॒न॒र-स्सह॑सा॒ सह॑सा वैश्वान॒रो वै᳚श्वान॒र-स्सह॑सा । 44) सह॑सा पृ॒ष्टः पृ॒ष्ट-स्सह॑सा॒ सह॑सा पृ॒ष्टः । 45) पृ॒ष्टो अ॒ग्निर॒ग्निः पृ॒ष्टः पृ॒ष्टो अ॒ग्निः । 46) अ॒ग्नि-स्स सो अ॒ग्निर॒ग्नि-स्सः । 47) स नो॑ न॒-स्स स नः॑ । 48) नो॒ दिवा॒ दिवा॑ नो नो॒ दिवा᳚ । 49) दिवा॒ स स दिवा॒ दिवा॒ सः । 50) स रि॒षो रि॒ष-स्स स रि॒षः । ॥ 47 ॥ (50/53)
1) रि॒षः पा॑तु पातु रि॒षो रि॒षः पा॑तु । 2) पा॒तु॒ नक्त॒न्नक्त॑-म्पातु पातु॒ नक्त᳚म् । 3) नक्त॒मिति॒ नक्त᳚म् । 4) जा॒तो य-द्यज् जा॒तो जा॒तो यत् । 5) यद॑ग्ने अग्ने॒ य-द्यद॑ग्ने । 6) अ॒ग्ने॒ भुव॑ना॒ भुव॑ना ऽग्ने अग्ने॒ भुव॑ना । 7) भुव॑ना॒ व्यख्यो॒ व्यख्यो॒ भुव॑ना॒ भुव॑ना॒ व्यख्यः॑ । 8) व्यख्यः॑ प॒शु-म्प॒शुं-व्यँख्यो॒ व्यख्यः॑ प॒शुम् । 8) व्यख्य॒ इति॑ वि - अख्यः॑ । 9) प॒शुन्न न प॒शु-म्प॒शुन्न । 10) न गो॒पा गो॒पा न न गो॒पाः । 11) गो॒पा इर्य॒ इर्यो॑ गो॒पा गो॒पा इर्यः॑ । 11) गो॒पा इति॑ गो - पाः । 12) इर्यः॒ परि॑ज्मा॒ परि॒ज्मेर्य॒ इर्यः॒ परि॑ज्मा । 13) परि॒ज्मेति॒ परि॑ - ज्मा॒ । 14) वैश्वा॑नर॒ ब्रह्म॑णे॒ ब्रह्म॑णे॒ वैश्वा॑नर॒ वैश्वा॑नर॒ ब्रह्म॑णे । 15) ब्रह्म॑णे विन्द विन्द॒ ब्रह्म॑णे॒ ब्रह्म॑णे विन्द । 16) वि॒न्द॒ गा॒तु-ङ्गा॒तुं-विँ॑न्द विन्द गा॒तुम् । 17) गा॒तुं-यूँ॒यं-यूँ॒य-ङ्गा॒तु-ङ्गा॒तुं-यूँ॒यम् । 18) यू॒य-म्पा॑त पात यू॒यं-यूँ॒य-म्पा॑त । 19) पा॒त॒ स्व॒स्तिभि॑-स्स्व॒स्तिभिः॑ पात पात स्व॒स्तिभिः॑ । 20) स्व॒स्तिभि॒-स्सदा॒ सदा᳚ स्व॒स्तिभि॑-स्स्व॒स्तिभि॒-स्सदा᳚ । 20) स्व॒स्तिभि॒रिति॑ स्व॒स्ति - भिः॒ । 21) सदा॑ नो न॒-स्सदा॒ सदा॑ नः । 22) न॒ इति॑ नः । 23) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने । 24) अ॒ग्ने॒ शो॒चिषा॑ शो॒चिषा᳚ ऽग्ने अग्ने शो॒चिषा᳚ । 25) शो॒चिषा॒ शोशु॑चान॒-श्शोशु॑चान-श्शो॒चिषा॑ शो॒चिषा॒ शोशु॑चानः । 26) शोशु॑चान॒ आ शोशु॑चान॒-श्शोशु॑चान॒ आ । 27) आ रोद॑सी॒ रोद॑सी॒ आ रोद॑सी । 28) रोद॑सी अपृणा अपृणा॒ रोद॑सी॒ रोद॑सी अपृणाः । 28) रोद॑सी॒ इति॒ रोद॑सी । 29) अ॒पृ॒णा॒ जाय॑मानो॒ जाय॑मानो ऽपृणा अपृणा॒ जाय॑मानः । 30) जाय॑मान॒ इति॒ जाय॑मानः । 31) त्व-न्दे॒वा-न्दे॒वा-न्त्व-न्त्व-न्दे॒वान् । 32) दे॒वाग्ं अ॒भिश॑स्ते र॒भिश॑स्ते-र्दे॒वा-न्दे॒वाग्ं अ॒भिश॑स्तेः । 33) अ॒भिश॑स्ते रमुञ्चो अमुञ्चो अ॒भिश॑स्ते र॒भिश॑स्ते रमुञ्चः । 33) अ॒भिश॑स्ते॒रित्य॒भि - श॒स्तेः॒ । 34) अ॒मु॒ञ्चो॒ वैश्वा॑नर॒ वैश्वा॑नरामुञ्चो अमुञ्चो॒ वैश्वा॑नर । 35) वैश्वा॑नर जातवेदो जातवेदो॒ वैश्वा॑नर॒ वैश्वा॑नर जातवेदः । 36) जा॒त॒वे॒दो॒ म॒हि॒त्वा म॑हि॒त्वा जा॑तवेदो जातवेदो महि॒त्वा । 36) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । 37) म॒हि॒त्वेति॑ महि - त्वा । 38) अ॒स्माक॑ मग्ने अग्ने॒ ऽस्माक॑ म॒स्माक॑ मग्ने । 39) अ॒ग्ने॒ म॒घव॑थ्सु म॒घव॑थ्स्वग्ने अग्ने म॒घव॑थ्सु । 40) म॒घव॑थ्सु धारय धारय म॒घव॑थ्सु म॒घव॑थ्सु धारय । 40) म॒घव॒थ्स्विति॑ म॒घव॑त् - सु॒ । 41) धा॒र॒याना॒म्यना॑मि धारय धार॒याना॑मि । 42) अना॑मि क्ष॒त्र-ङ्क्ष॒त्र मना॒म्यना॑मि क्ष॒त्रम् । 43) क्ष॒त्र म॒जर॑ म॒जर॑-ङ्क्ष॒त्र-ङ्क्ष॒त्र म॒जर᳚म् । 44) अ॒जर(ग्म्॑) सु॒वीर्य(ग्म्॑) सु॒वीर्य॑ म॒जर॑ म॒जर(ग्म्॑) सु॒वीर्य᳚म् । 45) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । 46) व॒य-ञ्ज॑येम जयेम व॒यं-वँ॒य-ञ्ज॑येम । 47) ज॒ये॒म॒ श॒तिन(ग्म्॑) श॒तिन॑-ञ्जयेम जयेम श॒तिन᳚म् । 48) श॒तिन(ग्म्॑) सह॒स्रिण(ग्म्॑) सह॒स्रिण(ग्म्॑) श॒तिन(ग्म्॑) श॒तिन(ग्म्॑) सह॒स्रिण᳚म् । 49) स॒ह॒स्रिणं॒-वैँश्वा॑नर॒ वैश्वा॑नर सह॒स्रिण(ग्म्॑) सह॒स्रिणं॒-वैँश्वा॑नर । 50) वैश्वा॑नर॒ वाजं॒-वाँजं॒-वैँश्वा॑नर॒ वैश्वा॑नर॒ वाज᳚म् । ॥ 48 ॥ (50/57)
1) वाज॑ मग्ने अग्ने॒ वाजं॒-वाँज॑ मग्ने । 2) अ॒ग्ने॒ तव॒ तवा᳚ग्ने अग्ने॒ तव॑ । 3) तवो॒तिभि॑ रू॒तिभि॒ स्तव॒ तवो॒तिभिः॑ । 4) ऊ॒तिभि॒रित्यू॒ति - भिः॒ । 5) वै॒श्वा॒न॒रस्य॑ सुम॒तौ सु॑म॒तौ वै᳚श्वान॒रस्य॑ वैश्वान॒रस्य॑ सुम॒तौ । 6) सु॒म॒तौ स्या॑म स्याम सुम॒तौ सु॑म॒तौ स्या॑म । 6) सु॒म॒ताविति॑ सु - म॒तौ । 7) स्या॒म॒ राजा॒ राजा᳚ स्याम स्याम॒ राजा᳚ । 8) राजा॒ हिक॒(ग्म्॒) हिक॒(ग्म्॒) राजा॒ राजा॒ हिक᳚म् । 9) हिक॒-म्भुव॑नाना॒-म्भुव॑नाना॒(ग्म्॒) हिक॒(ग्म्॒) हिक॒-म्भुव॑नानाम् । 10) भुव॑नाना मभि॒श्री र॑भि॒श्री-र्भुव॑नाना॒-म्भुव॑नाना मभि॒श्रीः । 11) अ॒भि॒श्रीरित्य॑भि - श्रीः । 12) इ॒तो जा॒तो जा॒त इ॒त इ॒तो जा॒तः । 13) जा॒तो विश्वं॒-विँश्व॑-ञ्जा॒तो जा॒तो विश्व᳚म् । 14) विश्व॑ मि॒द मि॒दं-विँश्वं॒-विँश्व॑ मि॒दम् । 15) इ॒दं-विँ वीद मि॒दं-विँ । 16) वि च॑ष्टे चष्टे॒ वि वि च॑ष्टे । 17) च॒ष्टे॒ वै॒श्वा॒न॒रो वै᳚श्वान॒रश्च॑ष्टे चष्टे वैश्वान॒रः । 18) वै॒श्वा॒न॒रो य॑तते यतते वैश्वान॒रो वै᳚श्वान॒रो य॑तते । 19) य॒त॒ते॒ सूर्ये॑ण॒ सूर्ये॑ण यतते यतते॒ सूर्ये॑ण । 20) सूर्ये॒णेति॒ सूर्ये॑ण । 21) अव॑ ते॒ ते ऽवाव॑ ते । 22) ते॒ हेडो॒ हेड॑स्ते ते॒ हेडः॑ । 23) हेडो॑ वरुण वरुण॒ हेडो॒ हेडो॑ वरुण । 24) व॒रु॒ण॒ नमो॑भि॒-र्नमो॑भि-र्वरुण वरुण॒ नमो॑भिः । 25) नमो॑भि॒रवाव॒ नमो॑भि॒-र्नमो॑भि॒रव॑ । 25) नमो॑भि॒रिति॒ नमः॑ - भिः॒ । 26) अव॑ य॒ज्ञेभि॑-र्य॒ज्ञेभि॒रवाव॑ य॒ज्ञेभिः॑ । 27) य॒ज्ञेभि॑रीमह ईमहे य॒ज्ञेभि॑-र्य॒ज्ञेभि॑रीमहे । 28) ई॒म॒हे॒ ह॒विर्भि॑र्-ह॒विर्भि॑रीमह ईमहे ह॒विर्भिः॑ । 29) ह॒विर्भि॒रिति॑ ह॒विः - भिः॒ । 30) क्षय॑न्न॒स्मभ्य॑ म॒स्मभ्य॒-ङ्क्षय॒न् क्षय॑न्न॒स्मभ्य᳚म् । 31) अ॒स्मभ्य॑ मसुरासुरा॒स्मभ्य॑ म॒स्मभ्य॑ मसुर । 31) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । 32) अ॒सु॒र॒ प्र॒चे॒तः॒ प्र॒चे॒तो॒ अ॒सु॒रा॒सु॒र॒ प्र॒चे॒तः॒ । 33) प्र॒चे॒तो॒ राज॒-न्राज॑-न्प्रचेतः प्रचेतो॒ राजन्न्॑ । 33) प्र॒चे॒त॒ इति॑ प्र - चे॒तः॒ । 34) राज॒न्नेना॒(ग्ग्॒) स्येना(ग्म्॑)सि॒ राज॒-न्राज॒न्नेना(ग्म्॑)सि । 35) एना(ग्म्॑)सि शिश्रथ-श्शिश्रथ॒ एना॒(ग्ग्॒) स्येना(ग्म्॑)सि शिश्रथः । 36) शि॒श्र॒थः॒ कृ॒तानि॑ कृ॒तानि॑ शिश्रथ-श्शिश्रथः कृ॒तानि॑ । 37) कृ॒तानीति॑ कृ॒तानि॑ । 38) उदु॑त्त॒म मु॑त्त॒म मुदुदु॑त्त॒मम् । 39) उ॒त्त॒मं-वँ॑रुण वरुणोत्त॒म मु॑त्त॒मं-वँ॑रुण । 39) उ॒त्त॒ममित्यु॑त् - त॒मम् । 40) व॒रु॒ण॒ पाश॒-म्पाशं॑-वँरुण वरुण॒ पाश᳚म् । 41) पाश॑ म॒स्मद॒स्म-त्पाश॒-म्पाश॑ म॒स्मत् । 42) अ॒स्म दवावा॒स्म द॒स्मदव॑ । 43) अवा॑ध॒म म॑ध॒म मवावा॑ध॒मम् । 44) अ॒ध॒मं-विँ व्य॑ध॒म म॑ध॒मं-विँ । 45) वि म॑द्ध्य॒म-म्म॑द्ध्य॒मं-विँ वि म॑द्ध्य॒मम् । 46) म॒द्ध्य॒मग्ग् श्र॑थाय श्रथाय मद्ध्य॒म-म्म॑द्ध्य॒मग्ग् श्र॑थाय । 47) श्र॒था॒येति॑ श्रथाय । 48) अथा॑ व॒यं-वँ॒य मथाथा॑ व॒यम् । 49) व॒य मा॑दित्यादित्य व॒यं-वँ॒य मा॑दित्य । 50) आ॒दि॒त्य॒ व्र॒ते व्र॒त आ॑दित्यादित्य व्र॒ते । ॥ 49 ॥ (50/55)
1) व्र॒ते तव॒ तव॑ व्र॒ते व्र॒ते तव॑ । 2) तवाना॑ग॒सो ऽना॑गस॒स्तव॒ तवाना॑गसः । 3) अना॑गसो॒ अदि॑तये॒ अदि॑त॒ये ऽना॑ग॒सो ऽना॑गसो॒ अदि॑तये । 4) अदि॑तये स्याम स्या॒मादि॑तये॒ अदि॑तये स्याम । 5) स्या॒मेति॑ स्याम । 6) द॒धि॒क्राव्.ण्णो॑ अकारिष मकारिष-न्दधि॒क्राव्.ण्णो॑ दधि॒क्राव्.ण्णो॑ अकारिषम् । 6) द॒धि॒क्राव्.ण्ण॒ इति॑ दधि - क्राव्.ण्णः॑ । 7) अ॒का॒रि॒ष॒-ञ्जि॒ष्णो-र्जि॒ष्णोर॑कारिष मकारिष-ञ्जि॒ष्णोः । 8) जि॒ष्णो रश्व॒स्याश्व॑स्य जि॒ष्णो-र्जि॒ष्णो रश्व॑स्य । 9) अश्व॑स्य वा॒जिनो॑ वा॒जिनो॒ अश्व॒स्याश्व॑स्य वा॒जिनः॑ । 10) वा॒जिन॒ इति॑ वा॒जिनः॑ । 11) सु॒र॒भि नो॑ न-स्सुर॒भि सु॑र॒भि नः॑ । 12) नो॒ मुखा॒ मुखा॑ नो नो॒ मुखा᳚ । 13) मुखा॑ कर-त्कर॒-न्मुखा॒ मुखा॑ करत् । 14) क॒र॒-त्प्र प्र क॑र-त्कर॒-त्प्र । 15) प्र णो॑ नः॒ प्र प्र णः॑ । 16) न॒ आयू॒(ग्ग्॒) ष्यायू(ग्म्॑)षि नो न॒ आयू(ग्म्॑)षि । 17) आयू(ग्म्॑)षि तारिष-त्तारिष॒दायू॒(ग्ग्॒) ष्यायू(ग्म्॑)षि तारिषत् । 18) ता॒रि॒ष॒दिति॑ तारिषत् । 19) आ द॑धि॒क्रा द॑धि॒क्रा आ द॑धि॒क्राः । 20) द॒धि॒क्रा-श्शव॑सा॒ शव॑सा दधि॒क्रा द॑धि॒क्रा-श्शव॑सा । 20) द॒धि॒क्रा इति॑ दधि - क्राः । 21) शव॑सा॒ पञ्च॒ पञ्च॒ शव॑सा॒ शव॑सा॒ पञ्च॑ । 22) पञ्च॑ कृ॒ष्टीः कृ॒ष्टीः पञ्च॒ पञ्च॑ कृ॒ष्टीः । 23) कृ॒ष्टी-स्सूर्य॒-स्सूर्यः॑ कृ॒ष्टीः कृ॒ष्टी-स्सूर्यः॑ । 24) सूर्य॑ इवे व॒ सूर्य॒-स्सूर्य॑ इव । 25) इ॒व॒ ज्योति॑षा॒ ज्योति॑षेवे व॒ ज्योति॑षा । 26) ज्योति॑षा॒ ऽपो अ॒पो ज्योति॑षा॒ ज्योति॑षा॒ ऽपः । 27) अ॒पस्त॑तान तताना॒पो अ॒पस्त॑तान । 28) त॒ता॒नेति॑ ततान । 29) स॒ह॒स्र॒सा-श्श॑त॒सा-श्श॑त॒सा-स्स॑हस्र॒सा-स्स॑हस्र॒सा-श्श॑त॒साः । 29) स॒ह॒स्र॒सा इति॑ सहस्र - साः । 30) श॒त॒सा वा॒जी वा॒जी श॑त॒सा-श्श॑त॒सा वा॒जी । 30) श॒त॒सा इति॑ शत - साः । 31) वा॒ज्यर्वा ऽर्वा॑ वा॒जी वा॒ज्यर्वा᳚ । 32) अर्वा॑ पृ॒णक्तु॑ पृ॒णक्त्वर्वा ऽर्वा॑ पृ॒णक्तु॑ । 33) पृ॒णक्तु॒ मद्ध्वा॒ मद्ध्वा॑ पृ॒णक्तु॑ पृ॒णक्तु॒ मद्ध्वा᳚ । 34) मद्ध्वा॒ सग्ं स-म्मद्ध्वा॒ मद्ध्वा॒ सम् । 35) स मि॒मेमा सग्ं स मि॒मा । 36) इ॒मा वचा(ग्म्॑)सि॒ वचा(ग्म्॑)सी॒मेमा वचा(ग्म्॑)सि । 37) वचा॒(ग्म्॒)सीति॒ वचा(ग्म्॑)सि । 38) अ॒ग्नि-र्मू॒र्धा मू॒र्धा ऽग्निर॒ग्नि-र्मू॒र्धा । 39) मू॒र्धा भुवो॒ भुवो॑ मू॒र्धा मू॒र्धा भुवः॑ । 40) भुव॒ इति॒ भुवः॑ । 41) मरु॑तो॒ य-द्य-न्मरु॑तो॒ मरु॑तो॒ यत् । 42) यद्ध॑ ह॒ य-द्यद्ध॑ । 43) ह॒ वो॒ वो॒ ह॒ ह॒ वः॒ । 44) वो॒ दि॒वो दि॒वो वो॑ वो दि॒वः । 45) दि॒व-स्सु॑म्ना॒यन्त॑-स्सुम्ना॒यन्तो॑ दि॒वो दि॒व-स्सु॑म्ना॒यन्तः॑ । 46) सु॒म्ना॒यन्तो॒ हवा॑महे॒ हवा॑महे सुम्ना॒यन्त॑-स्सुम्ना॒यन्तो॒ हवा॑महे । 46) सु॒म्ना॒यन्त॒ इति॑ सुम्न - यन्तः॑ । 47) हवा॑मह॒ इति॒ हवा॑महे । 48) आ तु त्वा तु । 49) तू नो॑ न॒स्तु तू नः॑ । 50) न॒ उपोप॑ नो न॒ उप॑ । ॥ 50 ॥ (50/55)
1) उप॑ गन्तन गन्त॒नोपोप॑ गन्तन । 2) ग॒न्त॒नेति॑ गन्तन । 3) या वो॑ वो॒ या या वः॑ । 4) व॒-श्शर्म॒ शर्म॑ वो व॒-श्शर्म॑ । 5) शर्म॑ शशमा॒नाय॑ शशमा॒नाय॒ शर्म॒ शर्म॑ शशमा॒नाय॑ । 6) श॒श॒मा॒नाय॒ सन्ति॒ सन्ति॑ शशमा॒नाय॑ शशमा॒नाय॒ सन्ति॑ । 7) सन्ति॑ त्रि॒धातू॑नि त्रि॒धातू॑नि॒ सन्ति॒ सन्ति॑ त्रि॒धातू॑नि । 8) त्रि॒धातू॑नि दा॒शुषे॑ दा॒शुषे᳚ त्रि॒धातू॑नि त्रि॒धातू॑नि दा॒शुषे᳚ । 8) त्रि॒धातू॒नीति॑ त्रि - धातू॑नि । 9) दा॒शुषे॑ यच्छत यच्छत दा॒शुषे॑ दा॒शुषे॑ यच्छत । 10) य॒च्छ॒ताध्यधि॑ यच्छत यच्छ॒ताधि॑ । 11) अधीत्यधि॑ । 12) अ॒स्मभ्य॒-न्तानि॒ तान्य॒स्मभ्य॑ म॒स्मभ्य॒-न्तानि॑ । 12) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । 13) तानि॑ मरुतो मरुत॒स्तानि॒ तानि॑ मरुतः । 14) म॒रु॒तो॒ वि वि म॑रुतो मरुतो॒ वि । 15) वि य॑न्त यन्त॒ वि वि य॑न्त । 16) य॒न्त॒ र॒यिग्ं र॒यिं-यँ॑न्त यन्त र॒यिम् । 17) र॒यिन्नो॑ नो र॒यिग्ं र॒यिन्नः॑ । 18) नो॒ ध॒त्त॒ ध॒त्त॒ नो॒ नो॒ ध॒त्त॒ । 19) ध॒त्त॒ वृ॒ष॒णो॒ वृ॒ष॒णो॒ ध॒त्त॒ ध॒त्त॒ वृ॒ष॒णः॒ । 20) वृ॒ष॒ण॒-स्सु॒वीर(ग्म्॑) सु॒वीरं॑-वृँषणो वृषण-स्सु॒वीर᳚म् । 21) सु॒वीर॒मिति॑ सु - वीर᳚म् । 22) अदि॑ति-र्नो नो॒ अदि॑ति॒रदि॑ति-र्नः । 23) न॒ उ॒रु॒ष्य॒तू॒रु॒ष्य॒तु॒ नो॒ न॒ उ॒रु॒ष्य॒तु॒ । 24) उ॒रु॒ष्य॒ त्वदि॑ति॒ रदि॑ति रुरुष्यतूरुष्य॒त्वदि॑तिः । 25) अदि॑ति॒-श्शर्म॒ शर्मादि॑ति॒रदि॑ति॒-श्शर्म॑ । 26) शर्म॑ यच्छतु यच्छतु॒ शर्म॒ शर्म॑ यच्छतु । 27) य॒च्छ॒त्विति॑ यच्छतु । 28) अदि॑तिः पातु पा॒त्वदि॑ति॒रदि॑तिः पातु । 29) पा॒त्वग्ंह॑सो॒ अग्ंह॑स स्पातु पा॒त्वग्ंह॑सः । 30) अग्ंह॑स॒ इत्यग्ंह॑सः । 31) म॒ही मु॑ वु म॒ही-म्म॒ही मु॑ । 32) ऊ॒ षु सू॑ षु । 33) सु मा॒तर॑-म्मा॒तर॒(ग्म्॒) सु सु मा॒तर᳚म् । 34) मा॒तर(ग्म्॑) सुव्र॒ताना(ग्म्॑) सुव्र॒ताना᳚-म्मा॒तर॑-म्मा॒तर(ग्म्॑) सुव्र॒ताना᳚म् । 35) सु॒व्र॒ताना॑ मृ॒तस्य॒ र्तस्य॑ सुव्र॒ताना(ग्म्॑) सुव्र॒ताना॑ मृ॒तस्य॑ । 35) सु॒व्र॒ताना॒मिति॑ सु - व्र॒ताना᳚म् । 36) ऋ॒तस्य॒ पत्नी॒-म्पत्नी॑ मृ॒तस्य॒ र्तस्य॒ पत्नी᳚म् । 37) पत्नी॒ मव॒से ऽव॑से॒ पत्नी॒-म्पत्नी॒ मव॑से । 38) अव॑से हुवेम हुवे॒माव॒से ऽव॑से हुवेम । 39) हु॒वे॒मेति॑ हुवेम । 40) तु॒वि॒क्ष॒त्रा म॒जर॑न्ती म॒जर॑न्ती-न्तुविक्ष॒त्रा-न्तु॑विक्ष॒त्रा म॒जर॑न्तीम् । 40) तु॒वि॒क्ष॒त्रामिति॑ तुवि - क्ष॒त्राम् । 41) अ॒जर॑न्ती मुरू॒ची मु॑रू॒ची म॒जर॑न्ती म॒जर॑न्ती मुरू॒चीम् । 42) उ॒रू॒चीग्ं सु॒शर्मा॑णग्ं सु॒शर्मा॑ण मुरू॒ची मु॑रू॒चीग्ं सु॒शर्मा॑णम् । 43) सु॒शर्मा॑ण॒ मदि॑ति॒ मदि॑तिग्ं सु॒शर्मा॑णग्ं सु॒शर्मा॑ण॒ मदि॑तिम् । 43) सु॒शर्मा॑ण॒मिति॑ सु - शर्मा॑णम् । 44) अदि॑तिग्ं सु॒प्रणी॑तिग्ं सु॒प्रणी॑ति॒ मदि॑ति॒ मदि॑तिग्ं सु॒प्रणी॑तिम् । 45) सु॒प्रणी॑ति॒मिति॑ सु - प्रणी॑तिम् । 46) सु॒त्रामा॑ण-म्पृथि॒वी-म्पृ॑थि॒वीग्ं सु॒त्रामा॑णग्ं सु॒त्रामा॑ण-म्पृथि॒वीम् । 46) सु॒त्रामा॑ण॒मिति॑ सु - त्रामा॑णम् । 47) पृ॒थि॒वी-न्द्या-न्द्या-म्पृ॑थि॒वी-म्पृ॑थि॒वी-न्द्याम् । 48) द्या म॑ने॒हस॑ मने॒हस॒-न्द्या-न्द्या म॑ने॒हस᳚म् । 49) अ॒ने॒हस(ग्म्॑) सु॒शर्मा॑णग्ं सु॒शर्मा॑ण मने॒हस॑ मने॒हस(ग्म्॑) सु॒शर्मा॑णम् । 50) सु॒शर्मा॑ण॒ मदि॑ति॒ मदि॑तिग्ं सु॒शर्मा॑णग्ं सु॒शर्मा॑ण॒ मदि॑तिम् । 50) सु॒शर्मा॑ण॒मिति॑ सु - शर्मा॑णम् । 51) अदि॑तिग्ं सु॒प्रणी॑तिग्ं सु॒प्रणी॑ति॒ मदि॑ति॒ मदि॑तिग्ं सु॒प्रणी॑तिम् । 52) सु॒प्रणी॑ति॒मिति॑ सु - प्रणी॑तिम् । 53) दैवी॒न्नाव॒न्नाव॒-न्दैवी॒-न्दैवी॒न्नाव᳚म् । 54) नाव(ग्ग्॑) स्वरि॒त्राग् स्व॑रि॒त्रान्नाव॒न्नाव(ग्ग्॑) स्वरि॒त्राम् । 55) स्व॒रि॒त्रा मना॑गस॒ मना॑गसग्ग् स्वरि॒त्राग् स्व॑रि॒त्रा मना॑गसम् । 55) स्व॒रि॒त्रामिति॑ सु - अ॒रि॒त्राम् । 56) अना॑गस॒ मस्र॑वन्ती॒ मस्र॑वन्ती॒ मना॑गस॒ मना॑गस॒ मस्र॑वन्तीम् । 57) अस्र॑वन्ती॒ मा ऽस्र॑वन्ती॒ मस्र॑वन्ती॒ मा । 58) आ रु॑हेम रुहे॒मा रु॑हेम । 59) रु॒हे॒मा॒ स्व॒स्तये᳚ स्व॒स्तये॑ रुहेम रुहेमा स्व॒स्तये᳚ । 60) स्व॒स्तय॒ इति॑ स्व॒स्तये᳚ । 61) इ॒माग्ं सु स्वि॑मा मि॒माग्ं सु । 62) सु नाव॒न्नाव॒(ग्म्॒) सु सु नाव᳚म् । 63) नाव॒ मा नाव॒न्नाव॒ मा । 64) आ ऽरु॑ह मरुह॒ मा ऽरु॑हम् । 65) अ॒रु॒ह॒(ग्म्॒) श॒तारि॑त्राग्ं श॒तारि॑त्रा मरुह मरुहग्ं श॒तारि॑त्राम् । 66) श॒तारि॑त्राग्ं श॒तस्फ्या(ग्म्॑) श॒तस्फ्या(ग्म्॑) श॒तारि॑त्राग्ं श॒तारि॑त्राग्ं श॒तस्फ्या᳚म् । 66) श॒तारि॑त्रा॒मिति॑ श॒त - अ॒रि॒त्रा॒म् । 67) श॒तस्फ्या॒मिति॑ श॒त - स्फ्या॒म् । 68) अच्छि॑द्रा-म्पारयि॒ष्णु-म्पा॑रयि॒ष्णु मच्छि॑द्रा॒ मच्छि॑द्रा-म्पारयि॒ष्णुम् । 69) पा॒र॒यि॒ष्णुमिति॑ पारयि॒ष्णुम् । ॥ 51 ॥ (69, 78)
॥ अ. 11 ॥
Browse Related Categories: