Kanda 1 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) स-न्त्वा᳚ त्वा॒ सग्ं स-न्त्वा᳚ । 2) त्वा॒ सि॒ञ्चा॒मि॒ सि॒ञ्चा॒मि॒ त्वा॒ त्वा॒ सि॒ञ्चा॒मि॒ । 3) सि॒ञ्चा॒मि॒ यजु॑षा॒ यजु॑षा सिञ्चामि सिञ्चामि॒ यजु॑षा । 4) यजु॑षा प्र॒जा-म्प्र॒जां-यँजु॑षा॒ यजु॑षा प्र॒जाम् । 5) प्र॒जा मायु॒रायुः॑ प्र॒जा-म्प्र॒जा मायुः॑ । 5) प्र॒जामिति॑ प्र - जाम् । 6) आयु॒-र्धन॒-न्धन॒ मायु॒रायु॒-र्धन᳚म् । 7) धन॑-ञ्च च॒ धन॒-न्धन॑-ञ्च । 8) चेति॑ च । 9) बृह॒स्पति॑प्रसूतो॒ यज॑मानो॒ यज॑मानो॒ बृह॒स्पति॑प्रसूतो॒ बृह॒स्पति॑प्रसूतो॒ यज॑मानः । 9) बृह॒स्पति॑प्रसूत॒ इति॒ बृह॒स्पति॑ - प्र॒सू॒तः॒ । 10) यज॑मान इ॒हे ह यज॑मानो॒ यज॑मान इ॒ह । 11) इ॒ह मा मेहे ह मा । 12) मा रि॑ष-द्रिष॒-न्मा मा रि॑षत् । 13) रि॒ष॒दिति॑ रिषत् । 14) आज्य॑ मस्य॒ स्याज्य॒ माज्य॑ मसि । 15) अ॒सि॒ स॒त्यग्ं स॒त्य म॑स्यसि स॒त्यम् । 16) स॒त्य म॑स्यसि स॒त्यग्ं स॒त्य म॑सि । 17) अ॒सि॒ स॒त्यस्य॑ स॒त्यस्या᳚ स्यसि स॒त्यस्य॑ । 18) स॒त्यस्या द्ध्य॑क्ष॒ मद्ध्य॑क्षग्ं स॒त्यस्य॑ स॒त्यस्या द्ध्य॑क्षम् । 19) अद्ध्य॑क्ष मस्य॒स्य-द्ध्य॑क्ष॒ मद्ध्य॑क्ष मसि । 19) अद्ध्य॑क्ष॒मित्यधि॑ - अ॒क्ष॒म् । 20) अ॒सि॒ ह॒विर्-ह॒विर॑स्यसि ह॒विः । 21) ह॒वि र॑स्यसि ह॒विर्-ह॒विर॑सि । 22) अ॒सि॒ वै॒श्वा॒न॒रं-वैँ᳚श्वान॒र म॑स्यसि वैश्वान॒रम् । 23) वै॒श्वा॒न॒रं-वैँ᳚श्वदे॒वं-वैँ᳚श्वदे॒वं-वैँ᳚श्वान॒रं-वैँ᳚श्वान॒रं-वैँ᳚श्वदे॒वम् । 24) वै॒श्व॒दे॒व मुत्पू॑तशुष्म॒ मुत्पू॑तशुष्मं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व मुत्पू॑तशुष्मम् । 24) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 25) उत्पू॑तशुष्मग्ं स॒त्यौजा᳚-स्स॒त्यौजा॒ उत्पू॑तशुष्म॒ मुत्पू॑तशुष्मग्ं स॒त्यौजाः᳚ । 25) उत्पू॑तशुष्म॒मित्युत्पू॑त - शु॒ष्म॒म् । 26) स॒त्यौजा॒-स्सह॒-स्सह॑-स्स॒त्यौजा᳚-स्स॒त्यौजा॒-स्सहः॑ । 26) स॒त्यौजा॒ इति॑ स॒त्य - ओ॒जाः॒ । 27) सहो᳚ ऽस्यसि॒ सह॒-स्सहो॑ ऽसि । 28) अ॒सि॒ सह॑मान॒(ग्म्॒) सह॑मान मस्यसि॒ सह॑मानम् । 29) सह॑मान मस्यसि॒ सह॑मान॒(ग्म्॒) सह॑मान मसि । 30) अ॒सि॒ सह॑स्व॒ सह॑स्वा स्यसि॒ सह॑स्व । 31) सह॒स्वा रा॑ती॒ररा॑ती॒-स्सह॑स्व॒ सह॒स्वारा॑तीः । 32) अरा॑ती॒-स्सह॑स्व॒ सह॒स्वा रा॑ती॒ररा॑ती॒-स्सह॑स्व । 33) सह॑स्वा रातीय॒तो॑ ऽरातीय॒त-स्सह॑स्व॒ सह॑स्वा रातीय॒तः । 34) अ॒रा॒ती॒य॒त-स्सह॑स्व॒ सह॑स्वा रातीय॒तो॑ ऽरातीय॒त-स्सह॑स्व । 35) सह॑स्व॒ पृत॑नाः॒ पृत॑ना॒-स्सह॑स्व॒ सह॑स्व॒ पृत॑नाः । 36) पृत॑ना॒-स्सह॑स्व॒ सह॑स्व॒ पृत॑नाः॒ पृत॑ना॒-स्सह॑स्व । 37) सह॑स्व पृतन्य॒तः पृ॑तन्य॒त-स्सह॑स्व॒ सह॑स्व पृतन्य॒तः । 38) पृ॒त॒न्य॒त इति॑ पृतन्य॒तः । 39) स॒हस्र॑वीर्य मस्यसि स॒हस्र॑वीर्यग्ं स॒हस्र॑वीर्य मसि । 39) स॒हस्र॑वीर्य॒मिति॑ स॒हस्र॑ - वी॒र्य॒म् । 40) अ॒सि॒ त-त्तद॑स्यसि॒ तत् । 41) त-न्मा॑ मा॒ त-त्त-न्मा᳚ । 42) मा॒ जि॒न्व॒ जि॒न्व॒ मा॒ मा॒ जि॒न्व॒ । 43) जि॒न्वाज्य॒ स्याज्य॑स्य जिन्व जि॒न्वाज्य॑स्य । 44) आज्य॒स्याज्य॒ माज्य॒ माज्य॒ स्याज्य॒ स्याज्य᳚म् । 45) आज्य॑ मस्य॒ स्याज्य॒ माज्य॑ मसि । 46) अ॒सि॒ स॒त्यस्य॑ स॒त्यस्या᳚ स्यसि स॒त्यस्य॑ । 47) स॒त्यस्य॑ स॒त्यग्ं स॒त्यग्ं स॒त्यस्य॑ स॒त्यस्य॑ स॒त्यम् । 48) स॒त्य म॑स्यसि स॒त्यग्ं स॒त्य म॑सि । 49) अ॒सि॒ स॒त्यायु॑-स्स॒त्यायु॑ रस्यसि स॒त्यायुः॑ । 50) स॒त्यायु॑ रस्यसि स॒त्यायु॑-स्स॒त्यायु॑रसि । 50) स॒त्यायु॒रिति॑ स॒त्य - आ॒युः॒ । ॥ 1 ॥ (50/58)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) अ॒सि॒ स॒त्यशु॑ष्मग्ं स॒त्यशु॑ष्म मस्यसि स॒त्यशु॑ष्मम् । 2) स॒त्यशु॑ष्म मस्यसि स॒त्यशु॑ष्मग्ं स॒त्यशु॑ष्म मसि । 2) स॒त्यशु॑ष्म॒मिति॑ स॒त्य - शु॒ष्म॒म् । 3) अ॒सि॒ स॒त्येन॑ स॒त्येना᳚स्यसि स॒त्येन॑ । 4) स॒त्येन॑ त्वा त्वा स॒त्येन॑ स॒त्येन॑ त्वा । 5) त्वा॒ ऽभ्य॑भि त्वा᳚ त्वा॒ ऽभि । 6) अ॒भि घा॑रयामि घारया म्य॒भ्य॑भि घा॑रयामि । 7) घा॒र॒या॒मि॒ तस्य॒ तस्य॑ घारयामि घारयामि॒ तस्य॑ । 8) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते । 9) ते॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ ते॒ ते॒ भ॒क्षी॒य॒ । 10) भ॒क्षी॒य॒ प॒ञ्चा॒ना-म्प॑ञ्चा॒ना-म्भ॑क्षीय भक्षीय पञ्चा॒नाम् । 11) प॒ञ्चा॒ना-न्त्वा᳚ त्वा पञ्चा॒ना-म्प॑ञ्चा॒ना-न्त्वा᳚ । 12) त्वा॒ वाता॑नां॒-वाँता॑ना-न्त्वा त्वा॒ वाता॑नाम् । 13) वाता॑नां-यँ॒न्त्राय॑ य॒न्त्राय॒ वाता॑नां॒-वाँता॑नां-यँ॒न्त्राय॑ । 14) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ । 15) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि । 16) गृ॒ह्णा॒मि॒ प॒ञ्चा॒ना-म्प॑ञ्चा॒ना-ङ्गृ॑ह्णामि गृह्णामि पञ्चा॒नाम् । 17) प॒ञ्चा॒ना-न्त्वा᳚ त्वा पञ्चा॒ना-म्प॑ञ्चा॒ना-न्त्वा᳚ । 18) त्व॒र्तू॒ना मृ॑तू॒ना-न्त्वा᳚ त्वर्तू॒नाम् । 19) ऋ॒तू॒नां-यँ॒न्त्राय॑ य॒न्त्राय॑ र्तू॒ना मृ॑तू॒नां-यँ॒न्त्राय॑ । 20) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ । 21) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि । 22) गृ॒ह्णा॒मि॒ प॒ञ्चा॒ना-म्प॑ञ्चा॒ना-ङ्गृ॑ह्णामि गृह्णामि पञ्चा॒नाम् । 23) प॒ञ्चा॒ना-न्त्वा᳚ त्वा पञ्चा॒ना-म्प॑ञ्चा॒ना-न्त्वा᳚ । 24) त्वा॒ दि॒शा-न्दि॒शा-न्त्वा᳚ त्वा दि॒शाम् । 25) दि॒शां-यँ॒न्त्राय॑ य॒न्त्राय॑ दि॒शा-न्दि॒शां-यँ॒न्त्राय॑ । 26) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ । 27) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि । 28) गृ॒ह्णा॒मि॒ प॒ञ्चा॒ना-म्प॑ञ्चा॒ना-ङ्गृ॑ह्णामि गृह्णामि पञ्चा॒नाम् । 29) प॒ञ्चा॒ना-न्त्वा᳚ त्वा पञ्चा॒ना-म्प॑ञ्चा॒ना-न्त्वा᳚ । 30) त्वा॒ प॒ञ्च॒ज॒नाना᳚-म्पञ्चज॒नाना᳚-न्त्वा त्वा पञ्चज॒नाना᳚म् । 31) प॒ञ्च॒ज॒नानां᳚-यँ॒न्त्राय॑ य॒न्त्राय॑ पञ्चज॒नाना᳚-म्पञ्चज॒नानां᳚-यँ॒न्त्राय॑ । 31) प॒ञ्च॒ज॒नाना॒मिति॑ पञ्च - ज॒नाना᳚म् । 32) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ । 33) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि । 34) गृ॒ह्णा॒मि॒ च॒रो श्च॒रो-र्गृ॑ह्णामि गृह्णामि च॒रोः । 35) च॒रो स्त्वा᳚ त्वा च॒रो श्च॒रो स्त्वा᳚ । 36) त्वा॒ पञ्च॑बिलस्य॒ पञ्च॑बिलस्य त्वा त्वा॒ पञ्च॑बिलस्य । 37) पञ्च॑बिलस्य य॒न्त्राय॑ य॒न्त्राय॒ पञ्च॑बिलस्य॒ पञ्च॑बिलस्य य॒न्त्राय॑ । 37) पञ्च॑बिल॒स्येति॒ पञ्च॑ - बि॒ल॒स्य॒ । 38) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ । 39) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि । 40) गृ॒ह्णा॒मि॒ ब्रह्म॑णो॒ ब्रह्म॑णो गृह्णामि गृह्णामि॒ ब्रह्म॑णः । 41) ब्रह्म॑ण स्त्वा त्वा॒ ब्रह्म॑णो॒ ब्रह्म॑ण स्त्वा । 42) त्वा॒ तेज॑से॒ तेज॑से त्वा त्वा॒ तेज॑से । 43) तेज॑से य॒न्त्राय॑ य॒न्त्राय॒ तेज॑से॒ तेज॑से य॒न्त्राय॑ । 44) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ । 45) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि । 46) गृ॒ह्णा॒मि॒ क्ष॒त्रस्य॑ क्ष॒त्रस्य॑ गृह्णामि गृह्णामि क्ष॒त्रस्य॑ । 47) क्ष॒त्रस्य॑ त्वा त्वा क्ष॒त्रस्य॑ क्ष॒त्रस्य॑ त्वा । 48) त्वौज॑स॒ ओज॑से त्वा॒ त्वौज॑से । 49) ओज॑से य॒न्त्राय॑ य॒न्त्रा यौज॑स॒ ओज॑से य॒न्त्राय॑ । 50) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ । ॥ 2 ॥ (50/53)
1) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि । 2) गृ॒ह्णा॒मि॒ वि॒शे वि॒शे गृ॑ह्णामि गृह्णामि वि॒शे । 3) वि॒शे त्वा᳚ त्वा वि॒शे वि॒शे त्वा᳚ । 4) त्वा॒ य॒न्त्राय॑ य॒न्त्राय॑ त्वा त्वा य॒न्त्राय॑ । 5) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ । 6) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि । 7) गृ॒ह्णा॒मि॒ सु॒वीर्या॑य सु॒वीर्या॑य गृह्णामि गृह्णामि सु॒वीर्या॑य । 8) सु॒वीर्या॑य त्वा त्वा सु॒वीर्या॑य सु॒वीर्या॑य त्वा । 8) सु॒वीर्या॒येति॑ सु - वीर्या॑य । 9) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ । 10) गृ॒ह्णा॒मि॒ सु॒प्र॒जा॒स्त्वाय॑ सुप्रजा॒स्त्वाय॑ गृह्णामि गृह्णामि सुप्रजा॒स्त्वाय॑ । 11) सु॒प्र॒जा॒स्त्वाय॑ त्वा त्वा सुप्रजा॒स्त्वाय॑ सुप्रजा॒स्त्वाय॑ त्वा । 11) सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः - त्वाय॑ । 12) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ । 13) गृ॒ह्णा॒मि॒ रा॒यो रा॒यो गृ॑ह्णामि गृह्णामि रा॒यः । 14) रा॒य स्पोषा॑य॒ पोषा॑य रा॒यो रा॒य स्पोषा॑य । 15) पोषा॑य त्वा त्वा॒ पोषा॑य॒ पोषा॑य त्वा । 16) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ । 17) गृ॒ह्णा॒मि॒ ब्र॒ह्म॒व॒र्च॒साय॑ ब्रह्मवर्च॒साय॑ गृह्णामि गृह्णामि ब्रह्मवर्च॒साय॑ । 18) ब्र॒ह्म॒व॒र्च॒साय॑ त्वा त्वा ब्रह्मवर्च॒साय॑ ब्रह्मवर्च॒साय॑ त्वा । 18) ब्र॒ह्म॒व॒र्च॒सायेति॑ ब्रह्म - व॒र्च॒साय॑ । 19) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ । 20) गृ॒ह्णा॒मि॒ भू-र्भू-र्गृ॑ह्णामि गृह्णामि॒ भूः । 21) भू र॒स्माक॑ म॒स्माक॒-म्भू-र्भू र॒स्माक᳚म् । 22) अ॒स्माक(ग्म्॑) ह॒विर्-ह॒वि र॒स्माक॑ म॒स्माक(ग्म्॑) ह॒विः । 23) ह॒वि-र्दे॒वाना᳚-न्दे॒वाना(ग्म्॑) ह॒विर्-ह॒वि-र्दे॒वाना᳚म् । 24) दे॒वाना॑ मा॒शिष॑ आ॒शिषो॑ दे॒वाना᳚-न्दे॒वाना॑ मा॒शिषः॑ । 25) आ॒शिषो॒ यज॑मानस्य॒ यज॑मा नस्या॒शिष॑ आ॒शिषो॒ यज॑मानस्य । 25) आ॒शिष॒ इत्या᳚ - शिषः॑ । 26) यज॑मानस्य दे॒वाना᳚-न्दे॒वानां॒-यँज॑मानस्य॒ यज॑मानस्य दे॒वाना᳚म् । 27) दे॒वाना᳚-न्त्वा त्वा दे॒वाना᳚-न्दे॒वाना᳚-न्त्वा । 28) त्वा॒ दे॒वता᳚भ्यो दे॒वता᳚भ्य स्त्वा त्वा दे॒वता᳚भ्यः । 29) दे॒वता᳚भ्यो गृह्णामि गृह्णामि दे॒वता᳚भ्यो दे॒वता᳚भ्यो गृह्णामि । 30) गृ॒ह्णा॒मि॒ कामा॑य॒ कामा॑य गृह्णामि गृह्णामि॒ कामा॑य । 31) कामा॑य त्वा त्वा॒ कामा॑य॒ कामा॑य त्वा । 32) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ । 33) गृ॒ह्णा॒मीति॑ गृह्णामि । ॥ 3 ॥ (33/37) ॥ अ. 1 ॥
1) ध्रु॒वो᳚ ऽस्यसि ध्रु॒वो ध्रु॒वो॑ ऽसि । 2) अ॒सि॒ ध्रु॒वो ध्रु॒वो᳚ ऽस्यसि ध्रु॒वः । 3) ध्रु॒वो॑ ऽह म॒ह-न्ध्रु॒वो ध्रु॒वो॑ ऽहम् । 4) अ॒हग्ं स॑जा॒तेषु॑ सजा॒तेष्व॒ह म॒हग्ं स॑जा॒तेषु॑ । 5) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् । 5) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । 6) भू॒या॒स॒-न्धीरो॒ धीरो॑ भूयास-म्भूयास॒-न्धीरः॑ । 7) धीर॒ श्चेत्ता॒ चेत्ता॒ धीरो॒ धीर॒ श्चेत्ता᳚ । 8) चेत्ता॑ वसु॒वि-द्व॑सु॒विच् चेत्ता॒ चेत्ता॑ वसु॒वित् । 9) व॒सु॒विदु॒ग्र उ॒ग्रो व॑सु॒वि-द्व॑सु॒विदु॒ग्रः । 9) व॒सु॒विदिति॑ वसु - वित् । 10) उ॒ग्रो᳚ ऽस्यस्यु॒ग्र उ॒ग्रो॑ ऽसि । 11) अ॒स्यु॒ग्र उ॒ग्रो᳚ ऽस्यस्यु॒ग्रः । 12) उ॒ग्रो॑ ऽह म॒ह मु॒ग्र उ॒ग्रो॑ ऽहम् । 13) अ॒हग्ं स॑जा॒तेषु॑ सजा॒ते ष्व॒ह म॒हग्ं स॑जा॒तेषु॑ । 14) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् । 14) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । 15) भू॒या॒स॒ मु॒ग्र उ॒ग्रो भू॑यास-म्भूयास मु॒ग्रः । 16) उ॒ग्र श्चेत्ता॒ चेत्तो॒ग्र उ॒ग्र श्चेत्ता᳚ । 17) चेत्ता॑ वसु॒वि-द्व॑सु॒विच् चेत्ता॒ चेत्ता॑ वसु॒वित् । 18) व॒सु॒वि द॑भि॒भू र॑भि॒भू-र्व॑सु॒वि-द्व॑सु॒वि द॑भि॒भूः । 18) व॒सु॒विदिति॑ वसु - वित् । 19) अ॒भि॒भू र॑स्य स्यभि॒भू र॑भि॒भूर॑सि । 19) अ॒भि॒भूरित्य॑भि - भूः । 20) अ॒स्य॒भि॒भू र॑भि॒भू र॑स्य स्यभि॒भूः । 21) अ॒भि॒भू र॒ह म॒ह म॑भि॒भू र॑भि॒भूर॒हम् । 21) अ॒भि॒भूरित्य॑भि - भूः । 22) अ॒हग्ं स॑जा॒तेषु॑ सजा॒तेष्व॒ह म॒हग्ं स॑जा॒तेषु॑ । 23) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् । 23) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । 24) भू॒या॒स॒ म॒भि॒भू र॑भि॒भू-र्भू॑यास-म्भूयास मभि॒भूः । 25) अ॒भि॒भू श्चेत्ता॒ चेत्ता॑ ऽभि॒भू र॑भि॒भू श्चेत्ता᳚ । 25) अ॒भि॒भूरित्य॑भि - भूः । 26) चेत्ता॑ वसु॒वि-द्व॑सु॒विच् चेत्ता॒ चेत्ता॑ वसु॒वित् । 27) व॒सु॒वि-द्यु॒नज्मि॑ यु॒नज्मि॑ वसु॒वि-द्व॑सु॒वि-द्यु॒नज्मि॑ । 27) व॒सु॒विदिति॑ वसु - वित् । 28) यु॒नज्मि॑ त्वा त्वा यु॒नज्मि॑ यु॒नज्मि॑ त्वा । 29) त्वा॒ ब्रह्म॑णा॒ ब्रह्म॑णा त्वा त्वा॒ ब्रह्म॑णा । 30) ब्रह्म॑णा॒ दैव्ये॑न॒ दैव्ये॑न॒ ब्रह्म॑णा॒ ब्रह्म॑णा॒ दैव्ये॑न । 31) दैव्ये॑न ह॒व्याय॑ ह॒व्याय॒ दैव्ये॑न॒ दैव्ये॑न ह॒व्याय॑ । 32) ह॒व्याया॒स्मा अ॒स्मै ह॒व्याय॑ ह॒व्याया॒स्मै । 33) अ॒स्मै वोढ॒वे वोढ॒वे᳚ ऽस्मा अ॒स्मै वोढ॒वे । 34) वोढ॒वे जा॑तवेदो जातवे॒दो वोढ॒वे वोढ॒वे जा॑तवेदः । 35) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । 36) इन्धा॑ना स्त्वा॒ त्वेन्धा॑ना॒ इन्धा॑ना स्त्वा । 37) त्वा॒ सु॒प्र॒जस॑-स्सुप्र॒जस॑ स्त्वा त्वा सुप्र॒जसः॑ । 38) सु॒प्र॒जस॑-स्सु॒वीरा᳚-स्सु॒वीरा᳚-स्सुप्र॒जस॑-स्सुप्र॒जस॑-स्सु॒वीराः᳚ । 38) सु॒प्र॒जस॒ इति॑ सु - प्र॒जसः॑ । 39) सु॒वीरा॒ ज्योग् ज्यो-ख्सु॒वीरा᳚-स्सु॒वीरा॒ ज्योक् । 39) सु॒वीरा॒ इति॑ सु - वीराः᳚ । 40) ज्योग् जी॑वेम जीवेम॒ ज्योग् ज्योग् जी॑वेम । 41) जी॒वे॒म॒ ब॒लि॒हृतो॑ बलि॒हृतो॑ जीवेम जीवेम बलि॒हृतः॑ । 42) ब॒लि॒हृतो॑ व॒यं-वँ॒य-म्ब॑लि॒हृतो॑ बलि॒हृतो॑ व॒यम् । 42) ब॒लि॒हृत॒ इति॑ बलि - हृतः॑ । 43) व॒य-न्ते॑ ते व॒यं-वँ॒य-न्ते᳚ । 44) त॒ इति॑ ते । 45) य-न्मे॑ मे॒ य-द्य-न्मे᳚ । 46) मे॒ अ॒ग्ने॒ ऽग्ने॒ मे॒ मे॒ अ॒ग्ने॒ । 47) अ॒ग्ने॒ अ॒स्यास्याग्ने᳚ ऽग्ने अ॒स्य । 48) अ॒स्य य॒ज्ञस्य॑ य॒ज्ञ स्या॒स्यास्य य॒ज्ञस्य॑ । 49) य॒ज्ञस्य॒ रिष्या॒-द्रिष्या᳚-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ रिष्या᳚त् । 50) रिष्या॒-द्य-द्य-द्रिष्या॒-द्रिष्या॒-द्यत् । ॥ 4 ॥ (50/62)
1) य-द्वा॑ वा॒ य-द्य-द्वा᳚ । 2) वा॒ स्कन्दा॒-थ्स्कन्दा᳚-द्वा वा॒ स्कन्दा᳚त् । 3) स्कन्दा॒ दाज्य॒ स्याज्य॑स्य॒ स्कन्दा॒-थ्स्कन्दा॒ दाज्य॑स्य । 4) आज्य॑ स्यो॒तो ताज्य॒ स्याज्य॑स्यो॒त । 5) उ॒त वि॑ष्णो विष्णो उ॒तोत वि॑ष्णो । 6) वि॒ष्णो॒ इति॑ विष्णो । 7) तेन॑ हन्मि हन्मि॒ तेन॒ तेन॑ हन्मि । 8) ह॒न्मि॒ स॒पत्न(ग्म्॑) स॒पत्न(ग्म्॑) हन्मि हन्मि स॒पत्न᳚म् । 9) स॒पत्न॑-न्दुर्मरा॒यु-न्दु॑र्मरा॒युग्ं स॒पत्न(ग्म्॑) स॒पत्न॑-न्दुर्मरा॒युम् । 10) दु॒र्म॒रा॒यु मा दु॑र्मरा॒यु-न्दु॑र्मरा॒यु मा । 10) दु॒र्म॒रा॒युमिति॑ दुः - म॒रा॒युम् । 11) ऐन॑ मेन॒ मैन᳚म् । 12) ए॒न॒-न्द॒धा॒मि॒ द॒धा॒म्ये॒न॒ मे॒न॒-न्द॒धा॒मि॒ । 13) द॒धा॒मि॒ निर्-ऋ॑त्या॒ निर्-ऋ॑त्या दधामि दधामि॒ निर्-ऋ॑त्याः । 14) निर्-ऋ॑त्या उ॒पस्थ॑ उ॒पस्थे॒ निर्-ऋ॑त्या॒ निर्-ऋ॑त्या उ॒पस्थे᳚ । 14) निर्-ऋ॑त्या॒ इति॒ निः - ऋ॒त्याः॒ । 15) उ॒पस्थ॒ इत्यु॒प - स्थे॒ । 16) भू-र्भुवो॒ भुवो॒ भू-र्भू-र्भुवः॑ । 17) भुव॒-स्सुव॒-स्सुव॒-र्भुवो॒ भुव॒-स्सुवः॑ । 18) सुव॒ रुच्छु॑ष्म॒ उच्छु॑ष्म॒-स्सुव॒-स्सुव॒ रुच्छु॑ष्मः । 19) उच्छु॑ष्मो अग्ने ऽग्न॒ उच्छु॑ष्म॒ उच्छु॑ष्मो अग्ने । 19) उच्छु॑ष्म॒ इत्युत् - शु॒ष्मः॒ । 20) अ॒ग्ने॒ यज॑मानाय॒ यज॑मानायाग्ने ऽग्ने॒ यज॑मानाय । 21) यज॑माना यैध्येधि॒ यज॑मानाय॒ यज॑माना यैधि । 22) ए॒धि॒ निशु॑ष्मो॒ निशु॑ष्म एध्येधि॒ निशु॑ष्मः । 23) निशु॑ष्मो अभि॒दास॑ते ऽभि॒दास॑ते॒ निशु॑ष्मो॒ निशु॑ष्मो अभि॒दास॑ते । 23) निशु॑ष्म॒ इति॒ नि - शु॒ष्मः॒ । 24) अ॒भि॒दास॑त॒ इत्य॑भि - दास॑ते । 25) अग्ने॒ देवे᳚द्ध॒ देवे॒द्धाग्ने ऽग्ने॒ देवे᳚द्ध । 26) देवे᳚द्ध॒ मन्वि॑द्ध॒ मन्वि॑द्ध॒ देवे᳚द्ध॒ देवे᳚द्ध॒ मन्वि॑द्ध । 26) देवे॒द्धेति॒ देव॑ - इ॒द्ध॒ । 27) मन्वि॑द्ध॒ मन्द्र॑जिह्व॒ मन्द्र॑जिह्व॒ मन्वि॑द्ध॒ मन्वि॑द्ध॒ मन्द्र॑जिह्व । 27) मन्वि॒द्धेति॒ मनु॑ - इ॒द्ध॒ । 28) मन्द्र॑जि॒ह्वा म॑र्त्य॒स्याम॑र्त्यस्य॒ मन्द्र॑जिह्व॒ मन्द्र॑जि॒ह्वा म॑र्त्यस्य । 28) मन्द्र॑जि॒ह्वेति॒ मन्द्र॑ - जि॒ह्व॒ । 29) अम॑र्त्यस्य ते॒ ते ऽम॑र्त्य॒स्या म॑र्त्यस्य ते । 30) ते॒ हो॒त॒र्॒ हो॒त॒स्ते॒ ते॒ हो॒तः॒ । 31) हो॒त॒-र्मू॒र्ध-न्मू॒र्धन्. हो॑तर्-होत-र्मू॒र्धन्न् । 32) मू॒र्ध-न्ना मू॒र्ध-न्मू॒र्ध-न्ना । 33) आ जि॑घर्मि जिघ॒र्म्या जि॑घर्मि । 34) जि॒घ॒र्मि॒ रा॒यो रा॒यो जि॑घर्मि जिघर्मि रा॒यः । 35) रा॒य स्पोषा॑य॒ पोषा॑य रा॒यो रा॒य स्पोषा॑य । 36) पोषा॑य सुप्रजा॒स्त्वाय॑ सुप्रजा॒स्त्वाय॒ पोषा॑य॒ पोषा॑य सुप्रजा॒स्त्वाय॑ । 37) सु॒प्र॒जा॒स्त्वाय॑ सु॒वीर्या॑य सु॒वीर्या॑य सुप्रजा॒स्त्वाय॑ सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । 37) सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः - त्वाय॑ । 38) सु॒वीर्या॑य॒ मनो॒ मन॑-स्सु॒वीर्या॑य सु॒वीर्या॑य॒ मनः॑ । 38) सु॒वीर्या॒येति॑ सु - वीर्या॑य । 39) मनो᳚ ऽस्यसि॒ मनो॒ मनो॑ ऽसि । 40) अ॒सि॒ प्रा॒जा॒प॒त्य-म्प्रा॑जाप॒त्य म॑स्यसि प्राजाप॒त्यम् । 41) प्रा॒जा॒प॒त्य-म्मन॑सा॒ मन॑सा प्राजाप॒त्य-म्प्रा॑जाप॒त्य-म्मन॑सा । 41) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । 42) मन॑सा मा मा॒ मन॑सा॒ मन॑सा मा । 43) मा॒ भू॒तेन॑ भू॒तेन॑ मा मा भू॒तेन॑ । 44) भू॒तेना भू॒तेन॑ भू॒तेना । 45) आ वि॑श वि॒शा वि॑श । 46) वि॒श॒ वाग् वाग् वि॑श विश॒ वाक् । 47) वाग॑स्यसि॒ वाग् वाग॑सि । 48) अ॒स्यै॒न्द्र्यै᳚(1॒)न्द्र्य॑स्य स्यै॒न्द्री । 49) ऐ॒न्द्री स॑पत्न॒क्षय॑णी सपत्न॒क्षय॑ण्यै॒न्द्र्यै᳚न्द्री स॑पत्न॒क्षय॑णी । 50) स॒प॒त्न॒क्षय॑णी वा॒चा वा॒चा स॑पत्न॒क्षय॑णी सपत्न॒क्षय॑णी वा॒चा । 50) स॒प॒त्न॒क्षय॒णीति॑ सपत्न - क्षय॑णी । ॥ 5 ॥ (50/61)
1) वा॒चा मा॑ मा वा॒चा वा॒चा मा᳚ । 2) मे॒न्द्रि॒येणे᳚ न्द्रि॒येण॑ मा मेन्द्रि॒येण॑ । 3) इ॒न्द्रि॒येणेन्द्रि॒येणे᳚ न्द्रि॒येणा । 4) आ वि॑श वि॒शा वि॑श । 5) वि॒श॒ व॒स॒न्तं-वँ॑स॒न्तं-विँ॑श विश वस॒न्तम् । 6) व॒स॒न्त मृ॑तू॒ना मृ॑तू॒नां-वँ॑स॒न्तं-वँ॑स॒न्त मृ॑तू॒नाम् । 7) ऋ॒तू॒ना-म्प्री॑णामि प्रीणाम्यृतू॒ना मृ॑तू॒ना-म्प्री॑णामि । 8) प्री॒णा॒मि॒ स स प्री॑णामि प्रीणामि॒ सः । 9) स मा॑ मा॒ स स मा᳚ । 10) मा॒ प्री॒तः प्री॒तो मा॑ मा प्री॒तः । 11) प्री॒तः प्री॑णातु प्रीणातु प्री॒तः प्री॒तः प्री॑णातु । 12) प्री॒णा॒तु॒ ग्री॒ष्म-ङ्ग्री॒ष्म-म्प्री॑णातु प्रीणातु ग्री॒ष्मम् । 13) ग्री॒ष्म मृ॑तू॒ना मृ॑तू॒ना-ङ्ग्री॒ष्म-ङ्ग्री॒ष्म मृ॑तू॒नाम् । 14) ऋ॒तू॒ना-म्प्री॑णामि प्रीणा म्यृतू॒ना मृ॑तू॒ना-म्प्री॑णामि । 15) प्री॒णा॒मि॒ स स प्री॑णामि प्रीणामि॒ सः । 16) स मा॑ मा॒ स स मा᳚ । 17) मा॒ प्री॒तः प्री॒तो मा॑ मा प्री॒तः । 18) प्री॒तः प्री॑णातु प्रीणातु प्री॒तः प्री॒तः प्री॑णातु । 19) प्री॒णा॒तु॒ व॒र्॒षा व॒र्॒षाः प्री॑णातु प्रीणातु व॒र्॒षाः । 20) व॒र्॒षा ऋ॑तू॒ना मृ॑तू॒नां-वँ॒र्॒षा व॒र्॒षा ऋ॑तू॒नाम् । 21) ऋ॒तू॒ना-म्प्री॑णामि प्रीणा म्यृतू॒ना मृ॑तू॒ना-म्प्री॑णामि । 22) प्री॒णा॒मि॒ तास्ताः प्री॑णामि प्रीणामि॒ ताः । 23) ता मा॑ मा॒ तास्ता मा᳚ । 24) मा॒ प्री॒ताः प्री॒ता मा॑ मा प्री॒ताः । 25) प्री॒ताः प्री॑णन्तु प्रीणन्तु प्री॒ताः प्री॒ताः प्री॑णन्तु । 26) प्री॒ण॒न्तु॒ श॒रद(ग्म्॑) श॒रद॑-म्प्रीणन्तु प्रीणन्तु श॒रद᳚म् । 27) श॒रद॑ मृतू॒ना मृ॑तू॒नाग्ं श॒रद(ग्म्॑) श॒रद॑ मृतू॒नाम् । 28) ऋ॒तू॒ना-म्प्री॑णामि प्रीणा म्यृतू॒ना मृ॑तू॒ना-म्प्री॑णामि । 29) प्री॒णा॒मि॒ सा सा प्री॑णामि प्रीणामि॒ सा । 30) सा मा॑ मा॒ सा सा मा᳚ । 31) मा॒ प्री॒ता प्री॒ता मा॑ मा प्री॒ता । 32) प्री॒ता प्री॑णातु प्रीणातु प्री॒ता प्री॒ता प्री॑णातु । 33) प्री॒णा॒तु॒ हे॒म॒न्त॒शि॒शि॒रौ हे॑मन्तशिशि॒रौ प्री॑णातु प्रीणातु हेमन्तशिशि॒रौ । 34) हे॒म॒न्त॒शि॒शि॒रा वृ॑तू॒ना मृ॑तू॒नाग्ं हे॑मन्तशिशि॒रौ हे॑मन्तशिशि॒रा वृ॑तू॒नाम् । 34) हे॒म॒न्त॒शि॒शि॒राविति॑ हेमन्त - शि॒शि॒रौ । 35) ऋ॒तू॒ना-म्प्री॑णामि प्रीणा म्यृतू॒ना मृ॑तू॒ना-म्प्री॑णामि । 36) प्री॒णा॒मि॒ तौ तौ प्री॑णामि प्रीणामि॒ तौ । 37) तौ मा॑ मा॒ तौ तौ मा᳚ । 38) मा॒ प्री॒तौ प्री॒तौ मा॑ मा प्री॒तौ । 39) प्री॒तौ प्री॑णीता-म्प्रीणीता-म्प्री॒तौ प्री॒तौ प्री॑णीताम् । 40) प्री॒णी॒ता॒ म॒ग्नीषोम॑यो र॒ग्नीषोम॑योः प्रीणीता-म्प्रीणीता म॒ग्नीषोम॑योः । 41) अ॒ग्नीषोम॑यो र॒ह म॒ह म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो र॒हम् । 41) अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः । 42) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 43) दे॒व॒य॒ज्यया॒ चक्षु॑ष्मा॒(ग्ग्॒) श्चक्षु॑ष्मा-न्देवय॒ज्यया॑ देवय॒ज्यया॒ चक्षु॑ष्मान् । 43) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 44) चक्षु॑ष्मा-न्भूयास-म्भूयास॒-ञ्चक्षु॑ष्मा॒(ग्ग्॒) श्चक्षु॑ष्मा-न्भूयासम् । 45) भू॒या॒स॒ म॒ग्ने र॒ग्ने-र्भू॑यास-म्भूयास म॒ग्नेः । 46) अ॒ग्ने र॒ह म॒ह म॒ग्ने र॒ग्ने र॒हम् । 47) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 48) दे॒व॒य॒ज्यया᳚ ऽन्ना॒दो᳚ ऽन्ना॒दो दे॑वय॒ज्यया॑ देवय॒ज्यया᳚ ऽन्ना॒दः । 48) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 49) अ॒न्ना॒दो भू॑यास-म्भूयास मन्ना॒दो᳚ ऽन्ना॒दो भू॑यासम् । 49) अ॒न्ना॒द इत्य॑न्न - अ॒दः । 50) भू॒या॒स॒-न्दब्धि॒-र्दब्धि॑-र्भूयास-म्भूयास॒-न्दब्धिः॑ । ॥ 6 ॥ (50/55)
1) दब्धि॑ रस्यसि॒ दब्धि॒-र्दब्धि॑रसि । 2) अ॒स्यद॒ब्धो ऽद॑ब्धो ऽस्य॒स्यद॑ब्धः । 3) अद॑ब्धो भूयास-म्भूयास॒ मद॒ब्धो ऽद॑ब्धो भूयासम् । 4) भू॒या॒स॒ म॒मु म॒मु-म्भू॑यास-म्भूयास म॒मुम् । 5) अ॒मु-न्द॑भेय-न्दभेय म॒मु म॒मु-न्द॑भेयम् । 6) द॒भे॒य॒ म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो-र्दभेय-न्दभेय म॒ग्नीषोम॑योः । 7) अ॒ग्नीषोम॑योर॒ह म॒ह म॒ग्नीषोम॑यो र॒ग्नीषोम॑योर॒हम् । 7) अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः । 8) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 9) दे॒व॒य॒ज्यया॑ वृत्र॒हा वृ॑त्र॒हा दे॑वय॒ज्यया॑ देवय॒ज्यया॑ वृत्र॒हा । 9) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 10) वृ॒त्र॒हा भू॑यास-म्भूयासं-वृँत्र॒हा वृ॑त्र॒हा भू॑यासम् । 10) वृ॒त्र॒हेति॑ वृत्र - हा । 11) भू॒या॒स॒ मि॒न्द्रा॒ग्नि॒यो रि॑न्द्राग्नि॒यो-र्भू॑यास-म्भूयास मिन्द्राग्नि॒योः । 12) इ॒न्द्रा॒ग्नि॒योर॒ह म॒ह मि॑न्द्राग्नि॒यो रि॑न्द्राग्नि॒योर॒हम् । 12) इ॒न्द्रा॒ग्नि॒योरिती᳚न्द्र - अ॒ग्नि॒योः । 13) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 14) दे॒व॒य॒ज्य ये᳚न्द्रिया॒वीन्द्रि॑या॒वी दे॑वय॒ज्यया॑ देवय॒ज्य ये᳚न्द्रिया॒वी । 14) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 15) इ॒न्द्रि॒या॒ व्य॑न्ना॒दो᳚ ऽन्ना॒द इ॑न्द्रिया॒ वीन्द्रि॑या॒ व्य॑न्ना॒दः । 16) अ॒न्ना॒दो भू॑यास-म्भूयास मन्ना॒दो᳚ ऽन्ना॒दो भू॑यासम् । 16) अ॒न्ना॒द इत्य॑न्न - अ॒दः । 17) भू॒या॒स॒ मिन्द्र॒स्ये न्द्र॑स्य भूयास-म्भूयास॒ मिन्द्र॑स्य । 18) इन्द्र॑स्या॒ह म॒ह मिन्द्र॒स्ये न्द्र॑स्या॒हम् । 19) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 20) दे॒व॒य॒ज्य ये᳚न्द्रिया॒ वीन्द्रि॑या॒वी दे॑वय॒ज्यया॑ देवय॒ज्य ये᳚न्द्रिया॒वी । 20) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 21) इ॒न्द्रि॒या॒वी भू॑यास-म्भूयास मिन्द्रिया॒ वीन्द्रि॑या॒वी भू॑यासम् । 22) भू॒या॒स॒-म्म॒हे॒न्द्रस्य॑ महे॒न्द्रस्य॑ भूयास-म्भूयास-म्महे॒न्द्रस्य॑ । 23) म॒हे॒न्द्रस्या॒ह म॒ह-म्म॑हे॒न्द्रस्य॑ महे॒न्द्रस्या॒हम् । 23) म॒हे॒न्द्रस्येति॑ महा - इ॒न्द्रस्य॑ । 24) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 25) दे॒व॒य॒ज्यया॑ जे॒मान॑-ञ्जे॒मान॑-न्देवय॒ज्यया॑ देवय॒ज्यया॑ जे॒मान᳚म् । 25) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 26) जे॒मान॑-म्महि॒मान॑-म्महि॒मान॑-ञ्जे॒मान॑-ञ्जे॒मान॑-म्महि॒मान᳚म् । 27) म॒हि॒मान॑-ङ्गमेय-ङ्गमेय-म्महि॒मान॑-म्महि॒मान॑-ङ्गमेयम् । 28) ग॒मे॒य॒ म॒ग्ने र॒ग्ने-र्ग॑मेय-ङ्गमेय म॒ग्नेः । 29) अ॒ग्ने-स्स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽग्नेर॒ग्ने-स्स्वि॑ष्ट॒कृतः॑ । 30) स्वि॒ष्ट॒कृतो॒ ऽह म॒हग्ग् स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽहम् । 30) स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ । 31) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 32) दे॒व॒य॒ज्यया ऽऽयु॑ष्मा॒ नायु॑ष्मा-न्देवय॒ज्यया॑ देवय॒ज्यया ऽऽयु॑ष्मान् । 32) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 33) आयु॑ष्मान्. य॒ज्ञेन॑ य॒ज्ञेनायु॑ष्मा॒ नायु॑ष्मान्. य॒ज्ञेन॑ । 34) य॒ज्ञेन॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒ष्ठाम् । 35) प्र॒ति॒ष्ठा-ङ्ग॑मेय-ङ्गमेय-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मेयम् । 35) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 36) ग॒मे॒य॒मिति॑ गमेयम् । ॥ 7 ॥ (36/48) ॥ अ. 2 ॥
1) अ॒ग्नि-र्मा॑ मा॒ ऽग्नि र॒ग्नि-र्मा᳚ । 2) मा॒ दुरि॑ष्टा॒-द्दुरि॑ष्टा-न्मा मा॒ दुरि॑ष्टात् । 3) दुरि॑ष्टा-त्पातु पातु॒ दुरि॑ष्टा॒-द्दुरि॑ष्टा-त्पातु । 3) दुरि॑ष्टा॒दिति॒ दुः - इ॒ष्टा॒त् । 4) पा॒तु॒ स॒वि॒ता स॑वि॒ता पा॑तु पातु सवि॒ता । 5) स॒वि॒ता ऽघश(ग्म्॑)सा द॒घश(ग्म्॑)सा-थ्सवि॒ता स॑वि॒ता ऽघश(ग्म्॑)सात् । 6) अ॒घश(ग्म्॑)सा॒-द्यो यो॑ ऽघश(ग्म्॑)सा द॒घश(ग्म्॑)सा॒-द्यः । 6) अ॒घश(ग्म्॑)सा॒दित्य॒घ - श॒(ग्म्॒)सा॒त् । 7) यो मे॑ मे॒ यो यो मे᳚ । 8) मे ऽन्त्यन्ति॑ मे॒ मे ऽन्ति॑ । 9) अन्ति॑ दू॒रे दू॒रे ऽन्त्यन्ति॑ दू॒रे । 10) दू॒रे॑ ऽराती॒यत्य॑ राती॒यति॑ दू॒रे दू॒रे॑ ऽराती॒यति॑ । 11) अ॒रा॒ती॒यति॒ त-न्त म॑राती॒य त्य॑राती॒यति॒ तम् । 12) त मे॒ते नै॒तेन॒ त-न्त मे॒तेन॑ । 13) ए॒तेन॑ जेष-ञ्जेष मे॒ते नै॒तेन॑ जेषम् । 14) जे॒ष॒(ग्म्॒) सुरू॑पवर्षवर्णे॒ सुरू॑पवर्षवर्णे जेष-ञ्जेष॒(ग्म्॒) सुरू॑पवर्षवर्णे । 15) सुरू॑पवर्षवर्ण॒ आ सुरू॑पवर्षवर्णे॒ सुरू॑पवर्षवर्ण॒ आ । 15) सुरू॑पवर्षवर्ण॒ इति॒ सुरू॑प - व॒र्॒ष॒व॒र्णे॒ । 16) एही॒ह्येहि॑ । 17) इ॒ही॒मा नि॒मा नि॑हीही॒मान् । 18) इ॒मा-न्भ॒द्रा-न्भ॒द्रा नि॒मा नि॒मा-न्भ॒द्रान् । 19) भ॒द्रा-न्दुर्या॒-न्दुर्या᳚-न्भ॒द्रा-न्भ॒द्रा-न्दुर्यान्॑ । 20) दुर्या(ग्म्॑) अ॒भ्य॑भि दुर्या॒-न्दुर्या(ग्म्॑) अ॒भि । 21) अ॒भ्या ऽभ्य॑भ्या । 22) एही॒ह्येहि॑ । 23) इ॒हि॒ मा-म्मा मि॑हीहि॒ माम् । 24) मा मनु॑व्र॒ता ऽनु॑व्रता॒ मा-म्मा मनु॑व्रता । 25) अनु॑व्रता॒ नि न्यनु॑व्र॒ता ऽनु॑व्रता॒ नि । 25) अनु॑व्र॒तेत्यनु॑ - व्र॒ता॒ । 26) न्यु॑ वु॒ नि न्यु॑ । 27) उ॒ शी॒र्॒षाणि॑ शी॒र्॒षाण्यु॑ वु शी॒र्॒षाणि॑ । 28) शी॒र्॒षाणि॑ मृढ्व-म्मृढ्वग्ं शी॒र्॒षाणि॑ शी॒र्॒षाणि॑ मृढ्वम् । 29) मृ॒ढ्व॒ मिड॒ इडे॑ मृढ्व-म्मृढ्व॒ मिडे᳚ । 30) इड॒ एड॒ इड॒ आ । 31) एही॒ह्येहि॑ । 32) इ॒ह्यदि॒ते ऽदि॑त इही॒ह्यदि॑ते । 33) अदि॑त॒ आ ऽदि॒ते ऽदि॑त॒ आ । 34) एही॒ह्येहि॑ । 35) इ॒हि॒ सर॑स्वति॒ सर॑स्वतीहीहि॒ सर॑स्वति । 36) सर॑स्व॒त्या सर॑स्वति॒ सर॑स्व॒त्या । 37) एही॒ह्येहि॑ । 38) इ॒हि॒ रन्ती॒ रन्ति॑ रिहीहि॒ रन्तिः॑ । 39) रन्ति॑ रस्यसि॒ रन्ती॒ रन्ति॑रसि । 40) अ॒सि॒ रम॑ती॒ रम॑ति रस्यसि॒ रम॑तिः । 41) रम॑ति रस्यसि॒ रम॑ती॒ रम॑तिरसि । 42) अ॒सि॒ सू॒नरी॑ सू॒नर्य॑स्यसि सू॒नरी᳚ । 43) सू॒नर्य॑स्यसि सू॒नरी॑ सू॒नर्य॑सि । 44) अ॒सि॒ जुष्टे॒ जुष्टे᳚ ऽस्यसि॒ जुष्टे᳚ । 45) जुष्टे॒ जुष्टि॒-ञ्जुष्टि॒-ञ्जुष्टे॒ जुष्टे॒ जुष्टि᳚म् । 46) जुष्टि॑-न्ते ते॒ जुष्टि॒-ञ्जुष्टि॑-न्ते । 47) ते॒ ऽशी॒या॒शी॒य॒ ते॒ ते॒ ऽशी॒य॒ । 48) अ॒शी॒योप॑हूत॒ उप॑हूते ऽशीया शी॒योप॑हूते । 49) उप॑हूत उपह॒व मु॑पह॒व मुप॑हूत॒ उप॑हूत उपह॒वम् । 49) उप॑हूत॒ इत्युप॑ - हू॒ते॒ । 50) उ॒प॒ह॒व-न्ते॑ त उपह॒व मु॑पह॒व-न्ते᳚ । 50) उ॒प॒ह॒वमित्यु॑प - ह॒वम् । ॥ 8 ॥ (50/56)
1) ते॒ ऽशी॒या॒शी॒य॒ ते॒ ते॒ ऽशी॒य॒ । 2) अ॒शी॒य॒ सा सा ऽशी॑याशीय॒ सा । 3) सा मे॑ मे॒ सा सा मे᳚ । 4) मे॒ स॒त्या स॒त्या मे॑ मे स॒त्या । 5) स॒त्या ऽऽशीरा॒शी-स्स॒त्या स॒त्या ऽऽशीः । 6) आ॒शी र॒स्यास्या शीरा॒शी र॒स्य । 6) आ॒शीरित्या᳚ - शीः । 7) अ॒स्य य॒ज्ञस्य॑ य॒ज्ञ स्या॒स्यास्य य॒ज्ञस्य॑ । 8) य॒ज्ञस्य॑ भूया-द्भूया-द्य॒ज्ञस्य॑ य॒ज्ञस्य॑ भूयात् । 9) भू॒या॒द रे॑ड॒ता ऽरे॑डता भूया-द्भूया॒द रे॑डता । 10) अरे॑डता॒ मन॑सा॒ मन॒सा ऽरे॑ड॒ता ऽरे॑डता॒ मन॑सा । 11) मन॑सा॒ त-त्त-न्मन॑सा॒ मन॑सा॒ तत् । 12) तच्छ॑केयग्ं शकेय॒-न्त-त्तच्छ॑केयम् । 13) श॒के॒यं॒-यँ॒ज्ञो य॒ज्ञ-श्श॑केयग्ं शकेयं-यँ॒ज्ञः । 14) य॒ज्ञो दिव॒-न्दिवं॑-यँ॒ज्ञो य॒ज्ञो दिव᳚म् । 15) दिव(ग्म्॑) रोहतु रोहतु॒ दिव॒-न्दिव(ग्म्॑) रोहतु । 16) रो॒ह॒तु॒ य॒ज्ञो य॒ज्ञो रो॑हतु रोहतु य॒ज्ञः । 17) य॒ज्ञो दिव॒-न्दिवं॑-यँ॒ज्ञो य॒ज्ञो दिव᳚म् । 18) दिव॑-ङ्गच्छतु गच्छतु॒ दिव॒-न्दिव॑-ङ्गच्छतु । 19) ग॒च्छ॒तु॒ यो यो ग॑च्छतु गच्छतु॒ यः । 20) यो दे॑व॒यानो॑ देव॒यानो॒ यो यो दे॑व॒यानः॑ । 21) दे॒व॒यानः॒ पन्थाः॒ पन्था॑ देव॒यानो॑ देव॒यानः॒ पन्थाः᳚ । 21) दे॒व॒यान॒ इति॑ देव - यानः॑ । 22) पन्था॒ स्तेन॒ तेन॒ पन्थाः॒ पन्था॒ स्तेन॑ । 23) तेन॑ य॒ज्ञो य॒ज्ञ स्तेन॒ तेन॑ य॒ज्ञः । 24) य॒ज्ञो दे॒वा-न्दे॒वान्. य॒ज्ञो य॒ज्ञो दे॒वान् । 25) दे॒वाग्ं अप्यपि॑ दे॒वा-न्दे॒वाग्ं अपि॑ । 26) अप्ये᳚ त्वे॒त्व प्यप्ये॑तु । 27) ए॒त्व॒ स्मास्व॒स्मा स्वे᳚त्वे त्व॒स्मासु॑ । 28) अ॒स्मा स्विन्द्र॒ इन्द्रो॒ ऽस्मास्व॒स्मा स्विन्द्रः॑ । 29) इन्द्र॑ इन्द्रि॒य मि॑न्द्रि॒य मिन्द्र॒ इन्द्र॑ इन्द्रि॒यम् । 30) इ॒न्द्रि॒य-न्द॑धातु दधात्विन्द्रि॒य मि॑न्द्रि॒य-न्द॑धातु । 31) द॒धा॒त्व॒स्मा न॒स्मा-न्द॑धातु दधात्व॒स्मान् । 32) अ॒स्मा-न्रायो॒ रायो॒ ऽस्मा न॒स्मा-न्रायः॑ । 33) राय॑ उ॒तोत रायो॒ राय॑ उ॒त । 34) उ॒त य॒ज्ञा य॒ज्ञा उ॒तोत य॒ज्ञाः । 35) य॒ज्ञा-स्स॑चन्ताग्ं सचन्तां-यँ॒ज्ञा य॒ज्ञा-स्स॑चन्ताम् । 36) स॒च॒न्ता॒ म॒स्मा स्व॒स्मासु॑ सचन्ताग्ं सचन्ता म॒स्मासु॑ । 37) अ॒स्मासु॑ सन्तु सन्त्व॒ स्मास्व॒स्मासु॑ सन्तु । 38) स॒न्त्वा॒शिष॑ आ॒शिष॑-स्सन्तु सन्त्वा॒शिषः॑ । 39) आ॒शिष॒-स्सा सा ऽऽशिष॑ आ॒शिष॒-स्सा । 39) आ॒शिष॒ इत्या᳚ - शिषः॑ । 40) सा नो॑ न॒-स्सा सा नः॑ । 41) नः॒ प्रि॒या प्रि॒या नो॑ नः प्रि॒या । 42) प्रि॒या सु॒प्रतू᳚र्ति-स्सु॒प्रतू᳚र्तिः प्रि॒या प्रि॒या सु॒प्रतू᳚र्तिः । 43) सु॒प्रतू᳚र्ति-र्म॒घोनी॑ म॒घोनी॑ सु॒प्रतू᳚र्ति-स्सु॒प्रतू᳚र्ति-र्म॒घोनी᳚ । 43) सु॒प्रतू᳚र्ति॒रिति॑ सु - प्रतू᳚र्तिः । 44) म॒घोनी॒ जुष्टि॒-र्जुष्टि॑-र्म॒घोनी॑ म॒घोनी॒ जुष्टिः॑ । 45) जुष्टि॑रस्यसि॒ जुष्टि॒-र्जुष्टि॑रसि । 46) अ॒सि॒ जु॒षस्व॑ जु॒षस्वा᳚स्यसि जु॒षस्व॑ । 47) जु॒षस्व॑ नो नो जु॒षस्व॑ जु॒षस्व॑ नः । 48) नो॒ जुष्टा॒ जुष्टा॑ नो नो॒ जुष्टा᳚ । 49) जुष्टा॑ नो नो॒ जुष्टा॒ जुष्टा॑ नः । 50) नो॒ ऽस्य॒सि॒ नो॒ नो॒ ऽसि॒ । ॥ 9 ॥ (50/54)
1) अ॒सि॒ जुष्टि॒-ञ्जुष्टि॑ मस्यसि॒ जुष्टि᳚म् । 2) जुष्टि॑-न्ते ते॒ जुष्टि॒-ञ्जुष्टि॑-न्ते । 3) ते॒ ग॒मे॒य॒-ङ्ग॒मे॒य॒-न्ते॒ ते॒ ग॒मे॒य॒म् । 4) ग॒मे॒य॒-म्मनो॒ मनो॑ गमेय-ङ्गमेय॒-म्मनः॑ । 5) मनो॒ ज्योति॒-र्ज्योति॒-र्मनो॒ मनो॒ ज्योतिः॑ । 6) ज्योति॑-र्जुषता-ञ्जुषता॒-ञ्ज्योति॒-र्ज्योति॑-र्जुषताम् । 7) जु॒ष॒ता॒ माज्य॒ माज्य॑-ञ्जुषता-ञ्जुषता॒ माज्य᳚म् । 8) आज्यं॒-विँच्छि॑न्नं॒-विँच्छि॑न्न॒ माज्य॒ माज्यं॒-विँच्छि॑न्नम् । 9) विच्छि॑न्नं-यँ॒ज्ञं-यँ॒ज्ञं-विँच्छि॑न्नं॒-विँच्छि॑न्नं-यँ॒ज्ञम् । 9) विच्छि॑न्न॒मिति॒ वि - छि॒न्न॒म् । 10) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् । 11) स मि॒म मि॒मग्ं सग्ं स मि॒मम् । 12) इ॒म-न्द॑धातु दधात्वि॒म मि॒म-न्द॑धातु । 13) द॒धा॒त्विति॑ दधातु । 14) बृह॒स्पति॑ स्तनुता-न्तनुता॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑ स्तनुताम् । 15) त॒नु॒ता॒ मि॒म मि॒म-न्त॑नुता-न्तनुता मि॒मम् । 16) इ॒म-न्नो॑ न इ॒म मि॒म-न्नः॑ । 17) नो॒ विश्वे॒ विश्वे॑ नो नो॒ विश्वे᳚ । 18) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः । 19) दे॒वा इ॒हे ह दे॒वा दे॒वा इ॒ह । 20) इ॒ह मा॑दयन्ता-म्मादयन्ता मि॒हे ह मा॑दयन्ताम् । 21) मा॒द॒य॒न्ता॒मिति॑ मादयन्ताम् । 22) ब्रद्ध्न॒ पिन्व॑स्व॒ पिन्व॑स्व॒ ब्रद्ध्न॒ ब्रद्ध्न॒ पिन्व॑स्व । 23) पिन्व॑स्व॒ दद॑तो॒ दद॑तः॒ पिन्व॑स्व॒ पिन्व॑स्व॒ दद॑तः । 24) दद॑तो मे मे॒ दद॑तो॒ दद॑तो मे । 25) मे॒ मा मा मे॑ मे॒ मा । 26) मा क्षा॑यि क्षायि॒ मा मा क्षा॑यि । 27) क्षा॒यि॒ कु॒र्व॒तः कु॑र्व॒तः, क्षा॑यि क्षायि कुर्व॒तः । 28) कु॒र्व॒तो मे॑ मे कुर्व॒तः कु॑र्व॒तो मे᳚ । 29) मे॒ मा मा मे॑ मे॒ मा । 30) मोपोप॒ मा मोप॑ । 31) उप॑ दस-द्दस॒ दुपोप॑ दसत् । 32) द॒स॒-त्प्र॒जाप॑तेः प्र॒जाप॑ते-र्दस-द्दस-त्प्र॒जाप॑तेः । 33) प्र॒जाप॑ते-र्भा॒गो भा॒गः प्र॒जाप॑तेः प्र॒जाप॑ते-र्भा॒गः । 33) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 34) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । 35) अ॒स्यूर्ज॑स्वा॒ नूर्ज॑स्वा नस्य॒ स्यूर्ज॑स्वान् । 36) ऊर्ज॑स्वा॒-न्पय॑स्वा॒-न्पय॑स्वा॒ नूर्ज॑स्वा॒ नूर्ज॑स्वा॒-न्पय॑स्वान् । 37) पय॑स्वा-न्प्राणापा॒नौ प्रा॑णापा॒नौ पय॑स्वा॒-न्पय॑स्वा-न्प्राणापा॒नौ । 38) प्रा॒णा॒पा॒नौ मे॑ मे प्राणापा॒नौ प्रा॑णापा॒नौ मे᳚ । 38) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । 39) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ । 40) पा॒हि॒ स॒मा॒न॒व्या॒नौ स॑मानव्या॒नौ पा॑हि पाहि समानव्या॒नौ । 41) स॒मा॒न॒व्या॒नौ मे॑ मे समानव्या॒नौ स॑मानव्या॒नौ मे᳚ । 41) स॒मा॒न॒व्या॒नाविति॑ समान - व्या॒नौ । 42) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ । 43) पा॒ ह्यु॒दा॒न॒व्या॒ना वु॑दानव्या॒नौ पा॑हि पा ह्युदानव्या॒नौ । 44) उ॒दा॒न॒व्या॒नौ मे॑ म उदानव्या॒ना वु॑दानव्या॒नौ मे᳚ । 44) उ॒दा॒न॒व्या॒नावित्यु॑दान - व्या॒नौ । 45) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ । 46) पा॒ह्यक्षि॒तो ऽक्षि॑तः पाहि पा॒ह्यक्षि॑तः । 47) अक्षि॑तो ऽस्य॒स्यक्षि॒तो ऽक्षि॑तो ऽसि । 48) अ॒स्यक्षि॑त्या॒ अक्षि॑त्या अस्य॒स्यक्षि॑त्यै । 49) अक्षि॑त्यै त्वा॒ त्वा ऽक्षि॑त्या॒ अक्षि॑त्यै त्वा । 50) त्वा॒ मा मा त्वा᳚ त्वा॒ मा । 51) मा मे॑ मे॒ मा मा मे᳚ । 52) मे॒ क्षे॒ष्ठाः॒, क्षे॒ष्ठा॒ मे॒ मे॒ क्षे॒ष्ठाः॒ । 53) क्षे॒ष्ठा॒ अ॒मुत्रा॒मुत्र॑ क्षेष्ठाः, क्षेष्ठा अ॒मुत्र॑ । 54) अ॒मुत्रा॒मुष्मि॑-न्न॒मुष्मि॑-न्न॒मुत्रा॒ मुत्रा॒मुष्मिन्न्॑ । 55) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 56) लो॒क इति॑ लो॒के । ॥ 10 ॥ (56/61) ॥ अ. 3 ॥
1) ब॒र्॒हिषो॒ ऽह म॒ह-म्ब॒र्॒हिषो॑ ब॒र्॒हिषो॒ ऽहम् । 2) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 3) दे॒व॒य॒ज्यया᳚ प्र॒जावा᳚-न्प्र॒जावा᳚-न्देवय॒ज्यया॑ देवय॒ज्यया᳚ प्र॒जावान्॑ । 3) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 4) प्र॒जावा᳚-न्भूयास-म्भूयास-म्प्र॒जावा᳚-न्प्र॒जावा᳚-न्भूयासम् । 4) प्र॒जावा॒निति॑ प्र॒जा - वा॒न् । 5) भू॒या॒स॒-न्नरा॒शग्ंस॑स्य॒ नरा॒शग्ंस॑स्य भूयास-म्भूयास॒-न्नरा॒शग्ंस॑स्य । 6) नरा॒शग्ंस॑स्या॒ह म॒ह-न्नरा॒शग्ंस॑स्य॒ नरा॒शग्ंस॑स्या॒हम् । 7) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 8) दे॒व॒य॒ज्यया॑ पशु॒मा-न्प॑शु॒मा-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॑ पशु॒मान् । 8) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 9) प॒शु॒मा-न्भू॑यास-म्भूयास-म्पशु॒मा-न्प॑शु॒मा-न्भू॑यासम् । 9) प॒शु॒मानिति॑ पशु - मान् । 10) भू॒या॒स॒ म॒ग्ने र॒ग्ने-र्भू॑यास-म्भूयास म॒ग्नेः । 11) अ॒ग्ने-स्स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽग्ने र॒ग्ने-स्स्वि॑ष्ट॒कृतः॑ । 12) स्वि॒ष्ट॒कृतो॒ ऽह म॒हग्ग् स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽहम् । 12) स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ । 13) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 14) दे॒व॒य॒ज्यया ऽऽयु॑ष्मा॒ नायु॑ष्मा-न्देवय॒ज्यया॑ देवय॒ज्यया ऽऽयु॑ष्मान् । 14) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 15) आयु॑ष्मान्. य॒ज्ञेन॑ य॒ज्ञेनायु॑ष्मा॒ नायु॑ष्मान्. य॒ज्ञेन॑ । 16) य॒ज्ञेन॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒ष्ठाम् । 17) प्र॒ति॒ष्ठा-ङ्ग॑मेय-ङ्गमेय-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मेयम् । 17) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 18) ग॒मे॒य॒ म॒ग्ने र॒ग्ने-र्ग॑मेय-ङ्गमेय म॒ग्नेः । 19) अ॒ग्ने र॒ह म॒ह म॒ग्ने र॒ग्नेर॒हम् । 20) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् । 21) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ । 21) उज्जि॑ति॒मित्युत् - जि॒ति॒म् । 22) अनू दुदन्वनूत् । 23) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् । 24) जे॒ष॒(ग्म्॒) सोम॑स्य॒ सोम॑स्य जेष-ञ्जेष॒(ग्म्॒) सोम॑स्य । 25) सोम॑स्या॒ह म॒हग्ं सोम॑स्य॒ सोम॑स्या॒हम् । 26) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् । 27) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ । 27) उज्जि॑ति॒मित्युत् - जि॒ति॒म् । 28) अनू दुदन्वनूत् । 29) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् । 30) जे॒ष॒ म॒ग्ने र॒ग्ने-र्जे॑ष-ञ्जेष म॒ग्नेः । 31) अ॒ग्ने र॒ह म॒ह म॒ग्ने र॒ग्नेर॒हम् । 32) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् । 33) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ । 33) उज्जि॑ति॒मित्युत् - जि॒ति॒म् । 34) अनू दुदन्वनूत् । 35) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् । 36) जे॒ष॒ म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो-र्जेष-ञ्जेष म॒ग्नीषोम॑योः । 37) अ॒ग्नीषोम॑यो र॒ह म॒ह म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो र॒हम् । 37) अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः । 38) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् । 39) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ । 39) उज्जि॑ति॒मित्युत् - जि॒ति॒म् । 40) अनू दुदन्वनूत् । 41) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् । 42) जे॒ष॒ मि॒न्द्रा॒ग्नि॒यो रि॑न्द्राग्नि॒यो-र्जे॑ष-ञ्जेष मिन्द्राग्नि॒योः । 43) इ॒न्द्रा॒ग्नि॒यो र॒ह म॒ह मि॑न्द्राग्नि॒यो रि॑न्द्राग्नि॒यो र॒हम् । 43) इ॒न्द्रा॒ग्नि॒योरिती᳚न्द्र - अ॒ग्नि॒योः । 44) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् । 45) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ । 45) उज्जि॑ति॒मित्युत् - जि॒ति॒म् । 46) अनू दुदन्वनूत् । 47) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् । 48) जे॒ष॒ मिन्द्र॒स्ये न्द्र॑स्य जेष-ञ्जेष॒ मिन्द्र॑स्य । 49) इन्द्र॑स्या॒ह म॒ह मिन्द्र॒स्ये न्द्र॑स्या॒हम् । 50) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् । ॥ 11 ॥ (50/64)
1) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ । 1) उज्जि॑ति॒मित्युत् - जि॒ति॒म् । 2) अनू दुदन्वनूत् । 3) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् । 4) जे॒ष॒-म्म॒हे॒न्द्रस्य॑ महे॒न्द्रस्य॑ जेष-ञ्जेष-म्महे॒न्द्रस्य॑ । 5) म॒हे॒न्द्रस्या॒ह म॒ह-म्म॑हे॒न्द्रस्य॑ महे॒न्द्रस्या॒हम् । 5) म॒हे॒न्द्रस्येति॑ महा - इ॒न्द्रस्य॑ । 6) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् । 7) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ । 7) उज्जि॑ति॒मित्युत् - जि॒ति॒म् । 8) अनू दुदन्वनूत् । 9) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् । 10) जे॒ष॒ म॒ग्ने र॒ग्ने-र्जे॑ष-ञ्जेष म॒ग्नेः । 11) अ॒ग्ने-स्स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽग्नेर॒ग्ने-स्स्वि॑ष्ट॒कृतः॑ । 12) स्वि॒ष्ट॒कृतो॒ ऽह म॒हग्ग् स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽहम् । 12) स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ । 13) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् । 14) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ । 14) उज्जि॑ति॒मित्युत् - जि॒ति॒म् । 15) अनू दुदन्वनूत् । 16) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् । 17) जे॒षं॒-वाँज॑स्य॒ वाज॑स्य जेष-ञ्जेषं॒-वाँज॑स्य । 18) वाज॑स्य मा मा॒ वाज॑स्य॒ वाज॑स्य मा । 19) मा॒ प्र॒स॒वेन॑ प्रस॒वेन॑ मा मा प्रस॒वेन॑ । 20) प्र॒स॒वे नो᳚द्ग्रा॒भे णो᳚द्ग्रा॒भेण॑ प्रस॒वेन॑ प्रस॒वे नो᳚द्ग्रा॒भेण॑ । 20) प्र॒स॒वेनेति॑ प्र - स॒वेन॑ । 21) उ॒द्ग्रा॒भे णोदुदु॑द्ग्रा॒भे णो᳚द्ग्रा॒भेणोत् । 21) उ॒द्ग्रा॒भेणेत्यु॑त् - ग्रा॒भेण॑ । 22) उद॑ग्रभी दग्रभी॒ दुदु द॑ग्रभीत् । 23) अ॒ग्र॒भी॒दित्य॑ग्रभीत् । 24) अथा॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒(ग्म्॒) अथाथा॑ स॒पत्नान्॑ । 25) स॒पत्ना॒(ग्म्॒) इन्द्र॒ इन्द्र॑-स्स॒पत्ना᳚-न्थ्स॒पत्ना॒(ग्म्॒) इन्द्रः॑ । 26) इन्द्रो॑ मे म॒ इन्द्र॒ इन्द्रो॑ मे । 27) मे॒ नि॒ग्रा॒भेण॑ निग्रा॒भेण॑ मे मे निग्रा॒भेण॑ । 28) नि॒ग्रा॒भेणाध॑रा॒(ग्म्॒) अध॑रा-न्निग्रा॒भेण॑ निग्रा॒भेणाध॑रान् । 28) नि॒ग्रा॒भेणेति॑ नि - ग्रा॒भेण॑ । 29) अध॑राग्ं अक रक॒ रध॑ रा॒(ग्म्॒) अध॑राग्ं अकः । 30) अ॒क॒रित्य॑कः । 31) उ॒द्ग्रा॒भ-ञ्च॑ चोद्ग्रा॒भ मु॑द्ग्रा॒भ-ञ्च॑ । 31) उ॒द्ग्रा॒भमित्यु॑त् - ग्रा॒भम् । 32) च॒ नि॒ग्रा॒भ-न्नि॑ग्रा॒भ-ञ्च॑ च निग्रा॒भम् । 33) नि॒ग्रा॒भ-ञ्च॑ च निग्रा॒भ-न्नि॑ग्रा॒भ-ञ्च॑ । 33) नि॒ग्रा॒भमिति॑ नि - ग्रा॒भम् । 34) च॒ ब्रह्म॒ ब्रह्म॑ च च॒ ब्रह्म॑ । 35) ब्रह्म॑ दे॒वा दे॒वा ब्रह्म॒ ब्रह्म॑ दे॒वाः । 36) दे॒वा अ॑वीवृध-न्नवीवृध-न्दे॒वा दे॒वा अ॑वीवृधन्न् । 37) अ॒वी॒वृ॒ध॒न्नित्य॑वीवृधन्न् । 38) अथा॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒ नथाथा॑ स॒पत्नान्॑ । 39) स॒पत्ना॑ निन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी स॒पत्ना᳚-न्थ्स॒पत्ना॑ निन्द्रा॒ग्नी । 40) इ॒न्द्रा॒ग्नी मे॑ म इन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी मे᳚ । 40) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । 41) मे॒ वि॒षू॒चीनान्॑. विषू॒चीना᳚-न्मे मे विषू॒चीनान्॑ । 42) वि॒षू॒चीना॒न्॒. वि वि वि॑षू॒चीनान्॑. विषू॒चीना॒न्॒. वि । 43) व्य॑स्यता मस्यतां॒-विँ व्य॑स्यताम् । 44) अ॒स्य॒ता॒मित्य॑स्यताम् । 45) एमा इ॒मा एमाः । 46) इ॒मा अ॑ग्म-न्नग्म-न्नि॒मा इ॒मा अ॑ग्मन्न् । 47) अ॒ग्म॒-न्ना॒शिष॑ आ॒शिषो᳚ ऽग्म-न्नग्म-न्ना॒शिषः॑ । 48) आ॒शिषो॒ दोह॑कामा॒ दोह॑कामा आ॒शिष॑ आ॒शिषो॒ दोह॑कामाः । 48) आ॒शिष॒ इत्या᳚ - शिषः॑ । 49) दोह॑कामा॒ इन्द्र॑वन्त॒ इन्द्र॑वन्तो॒ दोह॑कामा॒ दोह॑कामा॒ इन्द्र॑वन्तः । 49) दोह॑कामा॒ इति॒ दोह॑ - का॒माः॒ । 50) इन्द्र॑वन्तो वनामहे वनामह॒ इन्द्र॑वन्त॒ इन्द्र॑वन्तो वनामहे । 50) इन्द्र॑वन्त॒ इतीन्द्र॑ - व॒न्तः॒ । ॥ 12 ॥ (50/64)
1) व॒ना॒म॒हे॒ धु॒क्षी॒महि॑ धुक्षी॒महि॑ वनामहे वनामहे धुक्षी॒महि॑ । 2) धु॒क्षी॒महि॑ प्र॒जा-म्प्र॒जा-न्धु॑क्षी॒महि॑ धुक्षी॒महि॑ प्र॒जाम् । 3) प्र॒जा मिष॒ मिष॑-म्प्र॒जा-म्प्र॒जा मिष᳚म् । 3) प्र॒जामिति॑ प्र - जाम् । 4) इष॒मितीष᳚म् । 5) रोहि॑तेन त्वा त्वा॒ रोहि॑तेन॒ रोहि॑तेन त्वा । 6) त्वा॒ ऽग्नि र॒ग्नि स्त्वा᳚ त्वा॒ ऽग्निः । 7) अ॒ग्नि-र्दे॒वता᳚-न्दे॒वता॑ म॒ग्नि र॒ग्नि-र्दे॒वता᳚म् । 8) दे॒वता᳚-ङ्गमयतु गमयतु दे॒वता᳚-न्दे॒वता᳚-ङ्गमयतु । 9) ग॒म॒य॒तु॒ हरि॑भ्या॒(ग्म्॒) हरि॑भ्या-ङ्गमयतु गमयतु॒ हरि॑भ्याम् । 10) हरि॑भ्या-न्त्वा त्वा॒ हरि॑भ्या॒(ग्म्॒) हरि॑भ्या-न्त्वा । 10) हरि॑भ्या॒मिति॒ हरि॑ - भ्या॒म् । 11) त्वेन्द्र॒ इन्द्र॑ स्त्वा॒ त्वेन्द्रः॑ । 12) इन्द्रो॑ दे॒वता᳚-न्दे॒वता॒ मिन्द्र॒ इन्द्रो॑ दे॒वता᳚म् । 13) दे॒वता᳚-ङ्गमयतु गमयतु दे॒वता᳚-न्दे॒वता᳚-ङ्गमयतु । 14) ग॒म॒य॒ त्वेत॑शे॒ नैत॑शेन गमयतु गमय॒ त्वेत॑शेन । 15) एत॑शेन त्वा॒ त्वैत॑शे॒ नैत॑शेन त्वा । 16) त्वा॒ सूर्य॒-स्सूर्य॑ स्त्वा त्वा॒ सूर्यः॑ । 17) सूर्यो॑ दे॒वता᳚-न्दे॒वता॒(ग्म्॒) सूर्य॒-स्सूर्यो॑ दे॒वता᳚म् । 18) दे॒वता᳚-ङ्गमयतु गमयतु दे॒वता᳚-न्दे॒वता᳚-ङ्गमयतु । 19) ग॒म॒य॒तु॒ वि वि ग॑मयतु गमयतु॒ वि । 20) वि ते॑ ते॒ वि वि ते᳚ । 21) ते॒ मु॒ञ्चा॒मि॒ मु॒ञ्चा॒मि॒ ते॒ ते॒ मु॒ञ्चा॒मि॒ । 22) मु॒ञ्चा॒मि॒ र॒श॒ना र॑श॒ना मु॑ञ्चामि मुञ्चामि रश॒नाः । 23) र॒श॒ना वि वि र॑श॒ना र॑श॒ना वि । 24) वि र॒श्मी-न्र॒श्मीन्. वि वि र॒श्मीन् । 25) र॒श्मीन्. वि वि र॒श्मी-न्र॒श्मीन्. वि । 26) वि योक्त्रा॒ योक्त्रा॒ वि वि योक्त्रा᳚ । 27) योक्त्रा॒ यानि॒ यानि॒ योक्त्रा॒ योक्त्रा॒ यानि॑ । 28) यानि॑ परि॒चर्त॑नानि परि॒चर्त॑नानि॒ यानि॒ यानि॑ परि॒चर्त॑नानि । 29) प॒रि॒चर्त॑नानि ध॒त्ता-द्ध॒त्ता-त्प॑रि॒चर्त॑नानि परि॒चर्त॑नानि ध॒त्तात् । 29) प॒रि॒चर्त॑ना॒नीति॑ परि - चर्त॑नानि । 30) ध॒त्ता द॒स्मा स्व॒स्मासु॑ ध॒त्ता-द्ध॒त्ता द॒स्मासु॑ । 31) अ॒स्मासु॒ द्रवि॑ण॒-न्द्रवि॑ण म॒स्मा स्व॒स्मासु॒ द्रवि॑णम् । 32) द्रवि॑णं॒-यँ-द्य-द्द्रवि॑ण॒-न्द्रवि॑णं॒-यँत् । 33) यच् च॑ च॒ य-द्यच् च॑ । 34) च॒ भ॒द्र-म्भ॒द्र-ञ्च॑ च भ॒द्रम् । 35) भ॒द्र-म्प्र प्र भ॒द्र-म्भ॒द्र-म्प्र । 36) प्र णो॑ नः॒ प्र प्र णः॑ । 37) नो॒ ब्रू॒ता॒-द्ब्रू॒ता॒-न्नो॒ नो॒ ब्रू॒ता॒त् । 38) ब्रू॒ता॒-द्भा॒ग॒धा-न्भा॑ग॒धा-न्ब्रू॑ता-द्ब्रूता-द्भाग॒धान् । 39) भा॒ग॒धा-न्दे॒वता॑सु दे॒वता॑सु भाग॒धा-न्भा॑ग॒धा-न्दे॒वता॑सु । 39) भा॒ग॒धानिति॑ भाग - धान् । 40) दे॒वता॒स्विति॑ दे॒वता॑सु । 41) विष्णो᳚-श्शं॒योँ-श्शं॒योँ-र्विष्णो॒-र्विष्णो᳚-श्शं॒योँः । 42) शं॒योँ र॒ह म॒हग्ं शं॒योँ-श्शं॒योँ र॒हम् । 42) शं॒योँरिति॑ शं - योः । 43) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 44) दे॒व॒य॒ज्यया॑ य॒ज्ञेन॑ य॒ज्ञेन॑ देवय॒ज्यया॑ देवय॒ज्यया॑ य॒ज्ञेन॑ । 44) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 45) य॒ज्ञेन॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒ष्ठाम् । 46) प्र॒ति॒ष्ठा-ङ्ग॑मेय-ङ्गमेय-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मेयम् । 46) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 47) ग॒मे॒य॒(ग्म्॒) सोम॑स्य॒ सोम॑स्य गमेय-ङ्गमेय॒(ग्म्॒) सोम॑स्य । 48) सोम॑स्या॒ह म॒हग्ं सोम॑स्य॒ सोम॑स्या॒हम् । 49) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 50) दे॒व॒य॒ज्यया॑ सु॒रेता᳚-स्सु॒रेता॑ देवय॒ज्यया॑ देवय॒ज्यया॑ सु॒रेताः᳚ । 50) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । ॥ 13 ॥ (50/58)
1) सु॒रेता॒ रेतो॒ रेत॑-स्सु॒रेता᳚-स्सु॒रेता॒ रेतः॑ । 1) सु॒रेता॒ इति॑ सु - रेताः᳚ । 2) रेतो॑ धिषीय धिषीय॒ रेतो॒ रेतो॑ धिषीय । 3) धि॒षी॒य॒ त्वष्टु॒ स्त्वष्टु॑-र्धिषीय धिषीय॒ त्वष्टुः॑ । 4) त्वष्टु॑र॒ह म॒ह-न्त्वष्टु॒ स्त्वष्टु॑ र॒हम् । 5) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 6) दे॒व॒य॒ज्यया॑ पशू॒ना-म्प॑शू॒ना-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॑ पशू॒नाम् । 6) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 7) प॒शू॒नाग्ं रू॒पग्ं रू॒प-म्प॑शू॒ना-म्प॑शू॒नाग्ं रू॒पम् । 8) रू॒प-म्पु॑षेय-म्पुषेयग्ं रू॒पग्ं रू॒प-म्पु॑षेयम् । 9) पु॒षे॒य॒-न्दे॒वाना᳚-न्दे॒वाना᳚-म्पुषेय-म्पुषेय-न्दे॒वाना᳚म् । 10) दे॒वाना॒-म्पत्नीः॒ पत्नी᳚-र्दे॒वाना᳚-न्दे॒वाना॒-म्पत्नीः᳚ । 11) पत्नी॑ र॒ग्निर॒ग्निः पत्नीः॒ पत्नी॑र॒ग्निः । 12) अ॒ग्नि-र्गृ॒हप॑ति-र्गृ॒हप॑ति र॒ग्नि र॒ग्नि-र्गृ॒हप॑तिः । 13) गृ॒हप॑ति-र्य॒ज्ञस्य॑ य॒ज्ञस्य॑ गृ॒हप॑ति-र्गृ॒हप॑ति-र्य॒ज्ञस्य॑ । 13) गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ । 14) य॒ज्ञस्य॑ मिथु॒न-म्मि॑थु॒नं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ मिथु॒नम् । 15) मि॒थु॒न-न्तयो॒स्तयो᳚-र्मिथु॒न-म्मि॑थु॒न-न्तयोः᳚ । 16) तयो॑र॒ह म॒ह-न्तयो॒ स्तयो॑ र॒हम् । 17) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 18) दे॒व॒य॒ज्यया॑ मिथु॒नेन॑ मिथु॒नेन॑ देवय॒ज्यया॑ देवय॒ज्यया॑ मिथु॒नेन॑ । 18) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 19) मि॒थु॒नेन॒ प्र प्र मि॑थु॒नेन॑ मिथु॒नेन॒ प्र । 20) प्र भू॑यास-म्भूयास॒-म्प्र प्र भू॑यासम् । 21) भू॒या॒सं॒-वेँ॒दो वे॒दो भू॑यास-म्भूयासं-वेँ॒दः । 22) वे॒दो᳚ ऽस्यसि वे॒दो वे॒दो॑ ऽसि । 23) अ॒सि॒ वित्ति॒-र्वित्ति॑ रस्यसि॒ वित्तिः॑ । 24) वित्ति॑ रस्यसि॒ वित्ति॒-र्वित्ति॑ रसि । 25) अ॒सि॒ वि॒देय॑ वि॒देया᳚ स्यसि वि॒देय॑ । 26) वि॒देय॒ कर्म॒ कर्म॑ वि॒देय॑ वि॒देय॒ कर्म॑ । 27) कर्मा᳚स्यसि॒ कर्म॒ कर्मा॑सि । 28) अ॒सि॒ क॒रुण॑-ङ्क॒रुण॑ मस्यसि क॒रुण᳚म् । 29) क॒रुण॑ मस्यसि क॒रुण॑-ङ्क॒रुण॑ मसि । 30) अ॒सि॒ क्रि॒यास॑-ङ्क्रि॒यास॑ मस्यसि क्रि॒यास᳚म् । 31) क्रि॒यास(ग्म्॑) स॒नि-स्स॒निः क्रि॒यास॑-ङ्क्रि॒यास(ग्म्॑) स॒निः । 32) स॒नि र॑स्यसि स॒नि-स्स॒नि र॑सि । 33) अ॒सि॒ स॒नि॒ता स॑नि॒ता ऽस्य॑सि सनि॒ता । 34) स॒नि॒ता ऽस्य॑सि सनि॒ता स॑नि॒ता ऽसि॑ । 35) अ॒सि॒ स॒नेय(ग्म्॑) स॒नेय॑ मस्यसि स॒नेय᳚म् । 36) स॒नेय॑-ङ्घृ॒तव॑न्त-ङ्घृ॒तव॑न्तग्ं स॒नेय(ग्म्॑) स॒नेय॑-ङ्घृ॒तव॑न्तम् । 37) घृ॒तव॑न्त-ङ्कुला॒यिन॑-ङ्कुला॒यिन॑-ङ्घृ॒तव॑न्त-ङ्घृ॒तव॑न्त-ङ्कुला॒यिन᳚म् । 37) घृ॒तव॑न्त॒मिति॑ घृ॒त - व॒न्त॒म् । 38) कु॒ला॒यिन(ग्म्॑) रा॒यो रा॒यः कु॑ला॒यिन॑-ङ्कुला॒यिन(ग्म्॑) रा॒यः । 39) रा॒य स्पोष॒-म्पोष(ग्म्॑) रा॒यो रा॒य स्पोष᳚म् । 40) पोष(ग्म्॑) सह॒स्रिण(ग्म्॑) सह॒स्रिण॒-म्पोष॒-म्पोष(ग्म्॑) सह॒स्रिण᳚म् । 41) स॒ह॒स्रिणं॑-वेँ॒दो वे॒द-स्स॑ह॒स्रिण(ग्म्॑) सह॒स्रिणं॑-वेँ॒दः । 42) वे॒दो द॑दातु ददातु वे॒दो वे॒दो द॑दातु । 43) द॒दा॒तु॒ वा॒जिनं॑-वाँ॒जिन॑-न्ददातु ददातु वा॒जिन᳚म् । 44) वा॒जिन॒मिति॑ वा॒जिन᳚म् । ॥ 14 ॥ (44/49) ॥ अ. 4 ॥
1) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् । 2) प्या॒य॒ता॒-न्ध्रु॒वा ध्रु॒वा प्या॑यता-म्प्यायता-न्ध्रु॒वा । 3) ध्रु॒वा घृ॒तेन॑ घृ॒तेन॑ ध्रु॒वा ध्रु॒वा घृ॒तेन॑ । 4) घृ॒तेन॑ य॒ज्ञंयँ॑ज्ञं-यँ॒ज्ञंयँ॑ज्ञ-ङ्घृ॒तेन॑ घृ॒तेन॑ य॒ज्ञंयँ॑ज्ञम् । 5) य॒ज्ञंयँ॑ज्ञ॒-म्प्रति॒ प्रति॑ य॒ज्ञंयँ॑ज्ञं-यँ॒ज्ञंयँ॑ज्ञ॒-म्प्रति॑ । 5) य॒ज्ञंयँ॑ज्ञ॒मिति॑ य॒ज्ञम् - य॒ज्ञ॒म् । 6) प्रति॑ देव॒यद्भ्यो॑ देव॒यद्भ्यः॒ प्रति॒ प्रति॑ देव॒यद्भ्यः॑ । 7) दे॒व॒यद्भ्य॒ इति॑ देव॒यत् - भ्यः॒ । 8) सू॒र्याया॒ ऊध॒ ऊध॑-स्सू॒र्याया᳚-स्सू॒र्याया॒ ऊधः॑ । 9) ऊधो ऽदि॑त्या॒ अदि॑त्या॒ ऊध॒ ऊधो ऽदि॑त्याः । 10) अदि॑त्या उ॒पस्थ॑ उ॒पस्थे ऽदि॑त्या॒ अदि॑त्या उ॒पस्थे᳚ । 11) उ॒पस्थ॑ उ॒रुधा॑रो॒ रुधा॑रो॒ पस्थ॑ उ॒पस्थ॑ उ॒रुधा॑रा । 11) उ॒पस्थ॒ इत्यु॒प - स्थे॒ । 12) उ॒रुधा॑रा पृथि॒वी पृ॑थि॒ व्यु॑रुधा॑रो॒ रुधा॑रा पृथि॒वी । 12) उ॒रुधा॒रेत्यु॒रु - धा॒रा॒ । 13) पृ॒थि॒वी य॒ज्ञे य॒ज्ञे पृ॑थि॒वी पृ॑थि॒वी य॒ज्ञे । 14) य॒ज्ञे अ॒स्मि-न्न॒स्मिन्. य॒ज्ञे य॒ज्ञे अ॒स्मिन्न् । 15) अ॒स्मिन्नित्य॒स्मिन्न् । 16) प्र॒जाप॑ते-र्वि॒भान्. वि॒भा-न्प्र॒जाप॑तेः प्र॒जाप॑ते-र्वि॒भान् । 16) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 17) वि॒भा-न्नाम॒ नाम॑ वि॒भान्. वि॒भा-न्नाम॑ । 17) वि॒भानिति॑ वि - भान् । 18) नाम॑ लो॒को लो॒को नाम॒ नाम॑ लो॒कः । 19) लो॒क स्तस्मि॒(ग्ग्॒) स्तस्मि॑न्न् ँलो॒को लो॒क स्तस्मिन्न्॑ । 20) तस्मि(ग्ग्॑) स्त्वा त्वा॒ तस्मि॒(ग्ग्॒) स्तस्मि(ग्ग्॑) स्त्वा । 21) त्वा॒ द॒धा॒मि॒ द॒धा॒मि॒ त्वा॒ त्वा॒ द॒धा॒मि॒ । 22) द॒धा॒मि॒ स॒ह स॒ह द॑धामि दधामि स॒ह । 23) स॒ह यज॑मानेन॒ यज॑मानेन स॒ह स॒ह यज॑मानेन । 24) यज॑मानेन॒ स-थ्स-द्यज॑मानेन॒ यज॑मानेन॒ सत् । 25) सद॑स्यसि॒ स-थ्सद॑सि । 26) अ॒सि॒ स-थ्सद॑स्यसि॒ सत् । 27) स-न्मे॑ मे॒ स-थ्स-न्मे᳚ । 28) मे॒ भू॒या॒ भू॒या॒ मे॒ मे॒ भू॒याः॒ । 29) भू॒या॒-स्सर्व॒(ग्म्॒) सर्व॑-म्भूया भूया॒-स्सर्व᳚म् । 30) सर्व॑ मस्यसि॒ सर्व॒(ग्म्॒) सर्व॑ मसि । 31) अ॒सि॒ सर्व॒(ग्म्॒) सर्व॑ मस्यसि॒ सर्व᳚म् । 32) सर्व॑-म्मे मे॒ सर्व॒(ग्म्॒) सर्व॑-म्मे । 33) मे॒ भू॒या॒ भू॒या॒ मे॒ मे॒ भू॒याः॒ । 34) भू॒याः॒ पू॒र्ण-म्पू॒र्ण-म्भू॑या भूयाः पू॒र्णम् । 35) पू॒र्ण म॑स्यसि पू॒र्ण-म्पू॒र्ण म॑सि । 36) अ॒सि॒ पू॒र्ण-म्पू॒र्ण म॑स्यसि पू॒र्णम् । 37) पू॒र्ण-म्मे॑ मे पू॒र्ण-म्पू॒र्ण-म्मे᳚ । 38) मे॒ भू॒या॒ भू॒या॒ मे॒ मे॒ भू॒याः॒ । 39) भू॒या॒ अक्षि॑त॒ मक्षि॑त-म्भूया भूया॒ अक्षि॑तम् । 40) अक्षि॑त मस्य॒ स्यक्षि॑त॒ मक्षि॑त मसि । 41) अ॒सि॒ मा मा ऽस्य॑सि॒ मा । 42) मा मे॑ मे॒ मा मा मे᳚ । 43) मे॒ क्षे॒ष्ठाः॒, क्षे॒ष्ठा॒ मे॒ मे॒ क्षे॒ष्ठाः॒ । 44) क्षे॒ष्ठाः॒ प्राच्या॒-म्प्राच्या᳚-ङ्क्षेष्ठाः, क्षेष्ठाः॒ प्राच्या᳚म् । 45) प्राच्या᳚-न्दि॒शि दि॒शि प्राच्या॒-म्प्राच्या᳚-न्दि॒शि । 46) दि॒शि दे॒वा दे॒वा दि॒शि दि॒शि दे॒वाः । 47) दे॒वा ऋ॒त्विज॑ ऋ॒त्विजो॑ दे॒वा दे॒वा ऋ॒त्विजः॑ । 48) ऋ॒त्विजो॑ मार्जयन्ता-म्मार्जयन्ता मृ॒त्विज॑ ऋ॒त्विजो॑ मार्जयन्ताम् । 49) मा॒र्ज॒य॒न्ता॒-न्दक्षि॑णाया॒-न्दक्षि॑णाया-म्मार्जयन्ता-म्मार्जयन्ता॒-न्दक्षि॑णायाम् । 50) दक्षि॑णाया-न्दि॒शि दि॒शि दक्षि॑णाया॒-न्दक्षि॑णाया-न्दि॒शि । ॥ 15 ॥ (50/55)
1) दि॒शि मासा॒ मासा॑ दि॒शि दि॒शि मासाः᳚ । 2) मासाः᳚ पि॒तरः॑ पि॒तरो॒ मासा॒ मासाः᳚ पि॒तरः॑ । 3) पि॒तरो॑ मार्जयन्ता-म्मार्जयन्ता-म्पि॒तरः॑ पि॒तरो॑ मार्जयन्ताम् । 4) मा॒र्ज॒य॒न्ता॒-म्प्र॒तीच्या᳚-म्प्र॒तीच्या᳚-म्मार्जयन्ता-म्मार्जयन्ता-म्प्र॒तीच्या᳚म् । 5) प्र॒तीच्या᳚-न्दि॒शि दि॒शि प्र॒तीच्या᳚-म्प्र॒तीच्या᳚-न्दि॒शि । 6) दि॒शि गृ॒हा गृ॒हा दि॒शि दि॒शि गृ॒हाः । 7) गृ॒हाः प॒शवः॑ प॒शवो॑ गृ॒हा गृ॒हाः प॒शवः॑ । 8) प॒शवो॑ मार्जयन्ता-म्मार्जयन्ता-म्प॒शवः॑ प॒शवो॑ मार्जयन्ताम् । 9) मा॒र्ज॒य॒न्ता॒ मुदी᳚च्या॒ मुदी᳚च्या-म्मार्जयन्ता-म्मार्जयन्ता॒ मुदी᳚च्याम् । 10) उदी᳚च्या-न्दि॒शि दि॒श्युदी᳚च्या॒ मुदी᳚च्या-न्दि॒शि । 11) दि॒श्याप॒ आपो॑ दि॒शि दि॒श्यापः॑ । 12) आप॒ ओष॑धय॒ ओष॑धय॒ आप॒ आप॒ ओष॑धयः । 13) ओष॑धयो॒ वन॒स्पत॑यो॒ वन॒स्पत॑य॒ ओष॑धय॒ ओष॑धयो॒ वन॒स्पत॑यः । 14) वन॒स्पत॑यो मार्जयन्ता-म्मार्जयन्तां॒-वँन॒स्पत॑यो॒ वन॒स्पत॑यो मार्जयन्ताम् । 15) मा॒र्ज॒य॒न्ता॒ मू॒र्ध्वाया॑ मू॒र्ध्वाया᳚-म्मार्जयन्ता-म्मार्जयन्ता मू॒र्ध्वाया᳚म् । 16) ऊ॒र्ध्वाया᳚-न्दि॒शि दि॒श्यू᳚र्ध्वाया॑ मू॒र्ध्वाया᳚-न्दि॒शि । 17) दि॒शि य॒ज्ञो य॒ज्ञो दि॒शि दि॒शि य॒ज्ञः । 18) य॒ज्ञ-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो य॒ज्ञो य॒ज्ञ-स्संवँ॑थ्सरः । 19) सं॒वँ॒थ्स॒रो य॒ज्ञप॑ति-र्य॒ज्ञप॑ति॒-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो य॒ज्ञप॑तिः । 19) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 20) य॒ज्ञप॑ति-र्मार्जयन्ता-म्मार्जयन्तां-यँ॒ज्ञप॑ति-र्य॒ज्ञप॑ति-र्मार्जयन्ताम् । 20) य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ - प॒तिः॒ । 21) मा॒र्ज॒य॒न्तां॒-विँष्णो॒-र्विष्णो᳚-र्मार्जयन्ता-म्मार्जयन्तां॒-विँष्णोः᳚ । 22) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ । 23) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि । 24) अ॒स्य॒भि॒मा॒ति॒हा ऽभि॑माति॒हा ऽस्य॑ स्यभिमाति॒हा । 25) अ॒भि॒मा॒ति॒हा गा॑य॒त्रेण॑ गाय॒त्रे णा॑भिमाति॒हा ऽभि॑माति॒हा गा॑य॒त्रेण॑ । 25) अ॒भि॒मा॒ति॒हेत्य॑भिमाति - हा । 26) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा । 27) छन्द॑सा पृथि॒वी-म्पृ॑थि॒वी-ञ्छन्द॑सा॒ छन्द॑सा पृथि॒वीम् । 28) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ । 29) अनु॒ वि व्यन्वनु॒ वि । 30) वि क्र॑मे क्रमे॒ वि वि क्र॑मे । 31) क्र॒मे॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमे क्रमे॒ निर्भ॑क्तः । 32) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः । 32) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । 33) स यं-यँग्ं स स यम् । 34) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः । 35) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ । 36) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ । 37) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि । 38) अ॒स्य॒भि॒श॒स्ति॒हा ऽभि॑शस्ति॒हा ऽस्य॑ स्यभिशस्ति॒हा । 39) अ॒भि॒श॒स्ति॒हा त्रैष्टु॑भेन॒ त्रैष्टु॑भे नाभिशस्ति॒हा ऽभि॑शस्ति॒हा त्रैष्टु॑भेन । 39) अ॒भि॒श॒स्ति॒हेत्य॑भिशस्ति - हा । 40) त्रैष्टु॑भेन॒ छन्द॑सा॒ छन्द॑सा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ छन्द॑सा । 41) छन्द॑सा॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्छन्द॑सा॒ छन्द॑सा॒ ऽन्तरि॑क्षम् । 42) अ॒न्तरि॑क्ष॒ मन्व न्व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ । 43) अनु॒ वि व्यन्वनु॒ वि । 44) वि क्र॑मे क्रमे॒ वि वि क्र॑मे । 45) क्र॒मे॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमे क्रमे॒ निर्भ॑क्तः । 46) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः । 46) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । 47) स यं-यँग्ं स स यम् । 48) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः । 49) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ । 50) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ । 51) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि । 52) अ॒स्य॒रा॒ती॒य॒तो॑ ऽरातीय॒तो᳚ ऽस्य स्यरातीय॒तः । 53) अ॒रा॒ती॒य॒तो ह॒न्ता ह॒न्ता ऽरा॑तीय॒तो॑ ऽरातीय॒तो ह॒न्ता । 54) ह॒न्ता जाग॑तेन॒ जाग॑तेन ह॒न्ता ह॒न्ता जाग॑तेन । 55) जाग॑तेन॒ छन्द॑सा॒ छन्द॑सा॒ जाग॑तेन॒ जाग॑तेन॒ छन्द॑सा । 56) छन्द॑सा॒ दिव॒-न्दिव॒-ञ्छन्द॑सा॒ छन्द॑सा॒ दिव᳚म् । 57) दिव॒ मन्वनु॒ दिव॒-न्दिव॒ मनु॑ । 58) अनु॒ वि व्यन्वनु॒ वि । 59) वि क्र॑मे क्रमे॒ वि वि क्र॑मे । 60) क्र॒मे॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमे क्रमे॒ निर्भ॑क्तः । 61) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः । 61) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । 62) स यं-यँग्ं स स यम् । 63) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः । 64) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ । 65) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ । 66) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि । 67) अ॒सि॒ श॒त्रू॒य॒त-श्श॑त्रूय॒तो᳚ ऽस्यसि शत्रूय॒तः । 68) श॒त्रू॒य॒तो ह॒न्ता ह॒न्ता श॑त्रूय॒त-श्श॑त्रूय॒तो ह॒न्ता । 68) श॒त्रू॒य॒त इति॑ शत्रु - य॒तः । 69) ह॒न्ता ऽऽनु॑ष्टुभे॒ नानु॑ष्टुभेन ह॒न्ता ह॒न्ता ऽऽनु॑ष्टुभेन । 70) आनु॑ष्टुभेन॒ छन्द॑सा॒ छन्द॒सा ऽऽनु॑ष्टुभे॒ नानु॑ष्टुभेन॒ छन्द॑सा । 70) आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ । 71) छन्द॑सा॒ दिशो॒ दिश॒ श्छन्द॑सा॒ छन्द॑सा॒ दिशः॑ । 72) दिशो ऽन्वनु॒ दिशो॒ दिशो ऽनु॑ । 73) अनु॒ वि व्यन्वनु॒ वि । 74) वि क्र॑मे क्रमे॒ वि वि क्र॑मे । 75) क्र॒मे॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमे क्रमे॒ निर्भ॑क्तः । 76) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः । 76) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । 77) स यं-यँग्ं स स यम् । 78) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः । 79) द्वि॒ष्म इति॑ द्वि॒ष्मः । ॥ 16 ॥ (79/89) ॥ अ. 5 ॥
1) अग॑न्म॒ सुव॒-स्सुव॒ रग॒न्मा ग॑न्म॒ सुवः॑ । 2) सुव॒-स्सुवः॑ । 3) सुव॑ रगन्मा गन्म॒ सुव॒-स्सुव॑ रगन्म । 4) अ॒ग॒न्म॒ स॒न्दृश॑-स्स॒न्दृशो॑ ऽगन्मा गन्म स॒न्दृशः॑ । 5) स॒न्दृश॑ स्ते ते स॒न्दृश॑-स्स॒न्दृश॑ स्ते । 5) स॒न्दृश॒ इति॑ सं - दृशः॑ । 6) ते॒ मा मा ते॑ ते॒ मा । 7) मा छि॑थ्सि छिथ्सि॒ मा मा छि॑थ्सि । 8) छि॒थ्सि॒ य-द्यछ् चि॑थ्सि छिथ्सि॒ यत् । 9) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 10) ते॒ तप॒ स्तप॑ स्ते ते॒ तपः॑ । 11) तप॒ स्तस्मै॒ तस्मै॒ तप॒ स्तप॒ स्तस्मै᳚ । 12) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते । 13) ते॒ मा मा ते॑ ते॒ मा । 14) मा ऽऽवृ॑क्षि वृ॒क्ष्या मा मा ऽऽवृ॑क्षि । 15) आ वृ॑क्षि वृ॒क्ष्या वृ॑क्षि । 16) वृ॒क्षि॒ सु॒भू-स्सु॒भू-र्वृ॑क्षि वृक्षि सु॒भूः । 17) सु॒भू र॑स्यसि सु॒भू-स्सु॒भू र॑सि । 17) सु॒भूरिति॑ सु - भूः । 18) अ॒सि॒ श्रेष्ठ॒-श्श्रेष्ठो᳚ ऽस्यसि॒ श्रेष्ठः॑ । 19) श्रेष्ठो॑ रश्मी॒नाग्ं र॑श्मी॒नाग् श्रेष्ठ॒-श्श्रेष्ठो॑ रश्मी॒नाम् । 20) र॒श्मी॒ना मा॑यु॒र्धा आ॑यु॒र्धा र॑श्मी॒नाग्ं र॑श्मी॒ना मा॑यु॒र्धाः । 21) आ॒यु॒र्धा अ॑स्यस्यायु॒र्धा आ॑यु॒र्धा अ॑सि । 21) आ॒यु॒र्धा इत्या॑युः - धाः । 22) अ॒स्यायु॒ रायु॑ रस्य॒ स्यायुः॑ । 23) आयु॑-र्मे म॒ आयु॒ रायु॑-र्मे । 24) मे॒ धे॒हि॒ धे॒हि॒ मे॒ मे॒ धे॒हि॒ । 25) धे॒हि॒ व॒र्चो॒धा व॑र्चो॒धा धे॑हि धेहि वर्चो॒धाः । 26) व॒र्चो॒धा अ॑स्यसि वर्चो॒धा व॑र्चो॒धा अ॑सि । 26) व॒र्चो॒धा इति॑ वर्चः - धाः । 27) अ॒सि॒ वर्चो॒ वर्चो᳚ ऽस्यसि॒ वर्चः॑ । 28) वर्चो॒ मयि॒ मयि॒ वर्चो॒ वर्चो॒ मयि॑ । 29) मयि॑ धेहि धेहि॒ मयि॒ मयि॑ धेहि । 30) धे॒ही॒द मि॒द-न्धे॑हि धेही॒दम् । 31) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 32) अ॒ह म॒मु म॒मु म॒ह म॒ह म॒मुम् । 33) अ॒मु-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य म॒मु म॒मु-म्भ्रातृ॑व्यम् । 34) भ्रातृ॑व्य मा॒भ्य आ॒भ्यो भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मा॒भ्यः । 35) आ॒भ्यो दि॒ग्भ्यो दि॒ग्भ्य आ॒भ्य आ॒भ्यो दि॒ग्भ्यः । 36) दि॒ग्भ्यो᳚ ऽस्या अ॒स्यै दि॒ग्भ्यो दि॒ग्भ्यो᳚ ऽस्यै । 36) दि॒ग्भ्य इति॑ दिक् - भ्यः । 37) अ॒स्यै दि॒वो दि॒वो᳚ ऽस्या अ॒स्यै दि॒वः । 38) दि॒वो᳚ ऽस्मा द॒स्मा-द्दि॒वो दि॒वो᳚ ऽस्मात् । 39) अ॒स्मा द॒न्तरि॑क्षा द॒न्तरि॑क्षा द॒स्मा द॒स्मा द॒न्तरि॑क्षात् । 40) अ॒न्तरि॑क्षा द॒स्या अ॒स्या अ॒न्तरि॑क्षा द॒न्तरि॑क्षा द॒स्यै । 41) अ॒स्यै पृ॑थि॒व्याः पृ॑थि॒व्या अ॒स्या अ॒स्यै पृ॑थि॒व्याः । 42) पृ॒थि॒व्या अ॒स्मा द॒स्मा-त्पृ॑थि॒व्याः पृ॑थि॒व्या अ॒स्मात् । 43) अ॒स्मा द॒न्नाद्या॑ द॒न्नाद्या॑ द॒स्मा द॒स्मा द॒न्नाद्या᳚त् । 44) अ॒न्नाद्या॒-न्नि-र्णिर॒ न्नाद्या॑ द॒न्नाद्या॒-न्निः । 44) अ॒न्नाद्या॒दित्य॑न्न - अद्या᳚त् । 45) नि-र्भ॑जामि भजामि॒ नि-र्णि-र्भ॑जामि । 46) भ॒जा॒मि॒ निर्भ॑क्तो॒ निर्भ॑क्तो भजामि भजामि॒ निर्भ॑क्तः । 47) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः । 47) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । 48) स यं-यँग्ं स स यम् । 49) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः । 50) द्वि॒ष्म इति॑ द्वि॒ष्मः । ॥ 17 ॥ (50/57)
1) स-ञ्ज्योति॑षा॒ ज्योति॑षा॒ सग्ं स-ञ्ज्योति॑षा । 2) ज्योति॑षा ऽभूव मभूव॒-ञ्ज्योति॑षा॒ ज्योति॑षा ऽभूवम् । 3) अ॒भू॒व॒ मै॒न्द्री मै॒न्द्री म॑भूव मभूव मै॒न्द्रीम् । 4) ऐ॒न्द्री मा॒वृत॑ मा॒वृत॑ मै॒न्द्री मै॒न्द्री मा॒वृत᳚म् । 5) आ॒वृत॑ म॒न्वाव॑र्ते॒ ऽन्वाव॑र्त आ॒वृत॑ मा॒वृत॑ म॒न्वाव॑र्ते । 5) आ॒वृत॒मित्या᳚ - वृत᳚म् । 6) अ॒न्वाव॑र्ते॒ सग्ं स म॒न्वाव॑र्ते॒ ऽन्वाव॑र्ते॒ सम् । 6) अ॒न्वाव॑र्त॒ इत्य॑नु - आव॑र्ते । 7) स म॒ह म॒हग्ं सग्ं स म॒हम् । 8) अ॒ह-म्प्र॒जया᳚ प्र॒जया॒ ऽह म॒ह-म्प्र॒जया᳚ । 9) प्र॒जया॒ सग्ं स-म्प्र॒जया᳚ प्र॒जया॒ सम् । 9) प्र॒जयेति॑ प्र - जया᳚ । 10) स-म्मया॒ मया॒ सग्ं स-म्मया᳚ । 11) मया᳚ प्र॒जा प्र॒जा मया॒ मया᳚ प्र॒जा । 12) प्र॒जा सग्ं स-म्प्र॒जा प्र॒जा सम् । 12) प्र॒जेति॑ प्र - जा । 13) स म॒ह म॒हग्ं सग्ं स म॒हम् । 14) अ॒हग्ं रा॒यो रा॒यो॑ ऽह म॒हग्ं रा॒यः । 15) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण । 16) पोषे॑ण॒ सग्ं स-म्पोषे॑ण॒ पोषे॑ण॒ सम् । 17) स-म्मया॒ मया॒ सग्ं स-म्मया᳚ । 18) मया॑ रा॒यो रा॒यो मया॒ मया॑ रा॒यः । 19) रा॒य स्पोषः॒ पोषो॑ रा॒यो रा॒य स्पोषः॑ । 20) पोष॒-स्समि॑द्ध॒-स्समि॑द्धः॒ पोषः॒ पोष॒-स्समि॑द्धः । 21) समि॑द्धो अग्ने ऽग्ने॒ समि॑द्ध॒-स्समि॑द्धो अग्ने । 21) समि॑द्ध॒ इति॒ सम् - इ॒द्धः॒ । 22) अ॒ग्ने॒ मे॒ मे॒ अ॒ग्ने॒ ऽग्ने॒ मे॒ । 23) मे॒ दी॒दि॒हि॒ दी॒दि॒हि॒ मे॒ मे॒ दी॒दि॒हि॒ । 24) दी॒दि॒हि॒ स॒मे॒द्धा स॑मे॒द्धा दी॑दिहि दीदिहि समे॒द्धा । 25) स॒मे॒द्धा ते॑ ते समे॒द्धा स॑मे॒द्धा ते᳚ । 25) स॒मे॒द्धेति॑ सम् - ए॒द्धा । 26) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 27) अ॒ग्ने॒ दी॒द्या॒स॒-न्दी॒द्या॒स॒ म॒ग्ने॒ ऽग्ने॒ दी॒द्या॒स॒म् । 28) दी॒द्या॒सं॒-वँसु॑मा॒न्॒. वसु॑मा-न्दीद्यास-न्दीद्यासं॒-वँसु॑मान् । 29) वसु॑मान्. य॒ज्ञो य॒ज्ञो वसु॑मा॒न्॒. वसु॑मान्. य॒ज्ञः । 29) वसु॑मा॒निति॒ वसु॑ - मा॒न् । 30) य॒ज्ञो वसी॑या॒न्॒. वसी॑यान्. य॒ज्ञो य॒ज्ञो वसी॑यान् । 31) वसी॑या-न्भूयास-म्भूयासं॒-वँसी॑या॒न्॒. वसी॑या-न्भूयासम् । 32) भू॒या॒स॒ मग्ने ऽग्ने॑ भूयास-म्भूयास॒ मग्ने᳚ । 33) अग्न॒ आयू॒(ग्ग्॒) ष्यायू॒(ग्ग्॒) ष्यग्ने ऽग्न॒ आयू(ग्म्॑)षि । 34) आयू(ग्म्॑)षि पवसे पवस॒ आयू॒(ग्ग्॒) ष्यायू(ग्म्॑)षि पवसे । 35) प॒व॒स॒ आ प॑वसे पवस॒ आ । 36) आ सु॑व सु॒वा सु॑व । 37) सु॒वोर्ज॒ मूर्ज(ग्म्॑) सुव सु॒वोर्ज᳚म् । 38) ऊर्ज॒ मिष॒ मिष॒ मूर्ज॒ मूर्ज॒ मिष᳚म् । 39) इष॑-ञ्च॒ चे ष॒ मिष॑-ञ्च । 40) च॒ नो॒ न॒श्च॒ च॒ नः॒ । 41) न॒ इति॑ नः॒ । 42) आ॒रे बा॑धस्व बाधस्वा॒र आ॒रे बा॑धस्व । 43) बा॒ध॒स्व॒ दु॒च्छुना᳚-न्दु॒च्छुना᳚-म्बाधस्व बाधस्व दु॒च्छुना᳚म् । 44) दु॒च्छुना॒मिति॑ दु॒च्छुना᳚म् । 45) अग्ने॒ पव॑स्व॒ पव॒स्वाग्ने ऽग्ने॒ पव॑स्व । 46) पव॑स्व॒ स्वपा॒-स्स्वपाः॒ पव॑स्व॒ पव॑स्व॒ स्वपाः᳚ । 47) स्वपा॑ अ॒स्मे अ॒स्मे स्वपा॒-स्स्वपा॑ अ॒स्मे । 47) स्वपा॒ इति॑ सु - अपाः᳚ । 48) अ॒स्मे वर्चो॒ वर्चो॑ अ॒स्मे अ॒स्मे वर्चः॑ । 48) अ॒स्मे इत्य॒स्मे । 49) वर्च॑-स्सु॒वीर्य(ग्म्॑) सु॒वीर्यं॒-वँर्चो॒ वर्च॑-स्सु॒वीर्य᳚म् । 50) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । ॥ 18 ॥ (50/59)
1) दध॒-त्पोष॒-म्पोष॒-न्दध॒-द्दध॒-त्पोष᳚म् । 2) पोष(ग्म्॑) र॒यिग्ं र॒यि-म्पोष॒-म्पोष(ग्म्॑) र॒यिम् । 3) र॒यि-म्मयि॒ मयि॑ र॒यिग्ं र॒यि-म्मयि॑ । 4) मयीति॒ मयि॑ । 5) अग्ने॑ गृहपते गृहप॒ते ऽग्ने ऽग्ने॑ गृहपते । 6) गृ॒ह॒प॒ते॒ सु॒गृ॒ह॒प॒ति-स्सु॑गृहप॒ति-र्गृ॑हपते गृहपते सुगृहप॒तिः । 6) गृ॒ह॒प॒त॒ इति॑ गृह - प॒ते॒ । 7) सु॒गृ॒ह॒प॒ति र॒ह म॒हग्ं सु॑गृहप॒ति-स्सु॑गृहप॒ति र॒हम् । 7) सु॒गृ॒ह॒प॒तिरिति॑ सु - गृ॒ह॒प॒तिः । 8) अ॒ह-न्त्वया॒ त्वया॒ ऽह म॒ह-न्त्वया᳚ । 9) त्वया॑ गृ॒हप॑तिना गृ॒हप॑तिना॒ त्वया॒ त्वया॑ गृ॒हप॑तिना । 10) गृ॒हप॑तिना भूयास-म्भूयास-ङ्गृ॒हप॑तिना गृ॒हप॑तिना भूयासम् । 10) गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ । 11) भू॒या॒स॒(ग्म्॒) सु॒गृ॒ह॒प॒ति-स्सु॑गृहप॒ति-र्भू॑यास-म्भूयासग्ं सुगृहप॒तिः । 12) सु॒गृ॒ह॒प॒ति-र्मया॒ मया॑ सुगृहप॒ति-स्सु॑गृहप॒ति-र्मया᳚ । 12) सु॒गृ॒ह॒प॒तिरिति॑ सु - गृ॒ह॒प॒तिः । 13) मया॒ त्व-न्त्व-म्मया॒ मया॒ त्वम् । 14) त्व-ङ्गृ॒हप॑तिना गृ॒हप॑तिना॒ त्व-न्त्व-ङ्गृ॒हप॑तिना । 15) गृ॒हप॑तिना भूया भूया गृ॒हप॑तिना गृ॒हप॑तिना भूयाः । 15) गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ । 16) भू॒या॒-श्श॒तग्ं श॒त-म्भू॑या भूया-श्श॒तम् । 17) श॒तग्ं हिमा॒ हिमा᳚-श्श॒तग्ं श॒तग्ं हिमाः᳚ । 18) हिमा॒ स्ता-न्ताग्ं हिमा॒ हिमा॒ स्ताम् । 19) ता मा॒शिष॑ मा॒शिष॒-न्ता-न्ता मा॒शिष᳚म् । 20) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा । 20) आ॒शिष॒मित्या᳚ - शिष᳚म् । 21) आ शा॑से शास॒ आ शा॑से । 22) शा॒से॒ तन्त॑वे॒ तन्त॑वे शासे शासे॒ तन्त॑वे । 23) तन्त॑वे॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒-न्तन्त॑वे॒ तन्त॑वे॒ ज्योति॑ष्मतीम् । 24) ज्योति॑ष्मती॒-न्ता-न्ता-ञ्ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒-न्ताम् । 25) ता मा॒शिष॑ मा॒शिष॒-न्ता-न्ता मा॒शिष᳚म् । 26) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा । 26) आ॒शिष॒मित्या᳚ - शिष᳚म् । 27) आ शा॑से शास॒ आ शा॑से । 28) शा॒से॒ ऽमुष्मा॑ अ॒मुष्मै॑ शासे शासे॒ ऽमुष्मै᳚ । 29) अ॒मुष्मै॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती म॒मुष्मा॑ अ॒मुष्मै॒ ज्योति॑ष्मतीम् । 30) ज्योति॑ष्मती॒-ङ्कः को ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒-ङ्कः । 31) क स्त्वा᳚ त्वा॒ कः क स्त्वा᳚ । 32) त्वा॒ यु॒न॒क्ति॒ यु॒न॒क्ति॒ त्वा॒ त्वा॒ यु॒न॒क्ति॒ । 33) यु॒न॒क्ति॒ स स यु॑नक्ति युनक्ति॒ सः । 34) स त्वा᳚ त्वा॒ स स त्वा᳚ । 35) त्वा॒ वि वि त्वा᳚ त्वा॒ वि । 36) वि मु॑ञ्चतु मुञ्चतु॒ वि वि मु॑ञ्चतु । 37) मु॒ञ्च॒ त्वग्ने ऽग्ने॑ मुञ्चतु मुञ्च॒ त्वग्ने᳚ । 38) अग्ने᳚ व्रतपते व्रतप॒ते ऽग्ने ऽग्ने᳚ व्रतपते । 39) व्र॒त॒प॒ते॒ व्र॒तं-व्रँ॒तं-व्रँ॑तपते व्रतपते व्र॒तम् । 39) व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ । 40) व्र॒त म॑चारिष मचारिषं-व्रँ॒तं-व्रँ॒त म॑चारिषम् । 41) अ॒चा॒रि॒ष॒-न्त-त्तद॑चारिष मचारिष॒-न्तत् । 42) तद॑शक मशक॒-न्त-त्तद॑शकम् । 43) अ॒श॒क॒-न्त-त्तद॑शक मशक॒-न्तत् । 44) त-न्मे॑ मे॒ त-त्त-न्मे᳚ । 45) मे॒ ऽरा॒ध्य॒ रा॒धि॒ मे॒ मे॒ ऽरा॒धि॒ । 46) अ॒रा॒धि॒ य॒ज्ञो य॒ज्ञो॑ ऽराध्य राधि य॒ज्ञः । 47) य॒ज्ञो ब॑भूव बभूव य॒ज्ञो य॒ज्ञो ब॑भूव । 48) ब॒भू॒व॒ स स ब॑भूव बभूव॒ सः । 49) स आ स स आ । 50) आ ब॑भूव बभू॒वा ब॑भूव । ॥ 19 ॥ (50/58)
1) ब॒भू॒व॒ स स ब॑भूव बभूव॒ सः । 2) स प्र प्र स स प्र । 3) प्र ज॑ज्ञे जज्ञे॒ प्र प्र ज॑ज्ञे । 4) ज॒ज्ञे॒ स स ज॑ज्ञे जज्ञे॒ सः । 5) स वा॑वृधे वावृधे॒ स स वा॑वृधे । 6) वा॒वृ॒ध॒ इति॑ वावृधे । 7) स दे॒वाना᳚-न्दे॒वाना॒(ग्म्॒) स स दे॒वाना᳚म् । 8) दे॒वाना॒ मधि॑पति॒ रधि॑पति-र्दे॒वाना᳚-न्दे॒वाना॒ मधि॑पतिः । 9) अधि॑पति-र्बभूव बभू॒वाधि॑पति॒ रधि॑पति-र्बभूव । 9) अधि॑पति॒रित्यधि॑ - प॒तिः॒ । 10) ब॒भू॒व॒ स स ब॑भूव बभूव॒ सः । 11) सो अ॒स्माग्ं अ॒स्मा-न्थ्स सो अ॒स्मान् । 12) अ॒स्माग्ं अधि॑पती॒ नधि॑पती न॒स्माग्ं अ॒स्माग्ं अधि॑पतीन् । 13) अधि॑पतीन् करोतु करो॒ त्वधि॑पती॒ नधि॑पतीन् करोतु । 13) अधि॑पती॒नित्यधि॑ - प॒ती॒न् । 14) क॒रो॒तु॒ व॒यं-वँ॒य-ङ्क॑रोतु करोतु व॒यम् । 15) व॒यग्ग् स्या॑म स्याम व॒यं-वँ॒यग्ग् स्या॑म । 16) स्या॒म॒ पत॑यः॒ पत॑य-स्स्याम स्याम॒ पत॑यः । 17) पत॑यो रयी॒णाग्ं र॑यी॒णा-म्पत॑यः॒ पत॑यो रयी॒णाम् । 18) र॒यी॒णामिति॑ रयी॒णाम् । 19) गोमा(ग्म्॑) अग्ने ऽग्ने॒ गोमा॒-न्गोमा(ग्म्॑) अग्ने । 19) गोमा॒निति॒ गो - मा॒न् । 20) अ॒ग्ने ऽवि॑मा॒(ग्म्॒) अवि॑माग्ं अग्ने॒ ऽग्ने ऽवि॑मान् । 21) अवि॑माग्ं अ॒श्व्य॑ श्व्यवि॑मा॒(ग्म्॒) अवि॑माग्ं अ॒श्वी । 21) अवि॑मा॒नित्यवि॑ - मा॒न् । 22) अ॒श्वी य॒ज्ञो य॒ज्ञो᳚(1॒) ऽश्व्य॑श्वी य॒ज्ञः । 23) य॒ज्ञो नृ॒वथ्स॑खा नृ॒वथ्स॑खा य॒ज्ञो य॒ज्ञो नृ॒वथ्स॑खा । 24) नृ॒वथ्स॑खा॒ सद॒(ग्म्॒) सद॑-न्नृ॒वथ्स॑खा नृ॒वथ्स॑खा॒ सद᳚म् । 24) नृ॒वथ्स॒खेति॑ नृ॒वत् - स॒खा॒ । 25) सद॒ मिदि-थ्सद॒(ग्म्॒) सद॒ मित् । 26) इद॑प्रमृ॒ष्यो᳚ ऽप्रमृ॒ष्य इदि द॑प्रमृ॒ष्यः । 27) अ॒प्र॒मृ॒ष्य इत्य॑प्र - मृ॒ष्यः । 28) इडा॑वाग्ं ए॒ष ए॒ष इडा॑वा॒(ग्म्॒) इडा॑वाग्ं ए॒षः । 28) इडा॑वा॒नितीडा᳚ - वा॒न् । 29) ए॒षो असु॑रा सुरै॒ष ए॒षो असु॑र । 30) अ॒सु॒र॒ प्र॒जावा᳚-न्प्र॒जावा॑ नसुरासुर प्र॒जावान्॑ । 31) प्र॒जावा᳚-न्दी॒र्घो दी॒र्घः प्र॒जावा᳚-न्प्र॒जावा᳚-न्दी॒र्घः । 31) प्र॒जावा॒निति॑ प्र॒जा - वा॒न् । 32) दी॒र्घो र॒यी र॒यि-र्दी॒र्घो दी॒र्घो र॒यिः । 33) र॒यिः पृ॑थुबु॒द्ध्नः पृ॑थुबु॒द्ध्नो र॒यी र॒यिः पृ॑थुबु॒द्ध्नः । 34) पृ॒थु॒बु॒द्ध्न-स्स॒भावा᳚-न्थ्स॒भावा᳚-न्पृथुबु॒द्ध्नः पृ॑थुबु॒द्ध्न-स्स॒भावान्॑ । 34) पृ॒थु॒बु॒द्ध्न इति॑ पृथु - बु॒द्ध्नः । 35) स॒भावा॒निति॑ स॒भा - वा॒न् । ॥ 20 ॥ (35/43) ॥ अ. 6 ॥
1) यथा॒ वै वै यथा॒ यथा॒ वै । 2) वै स॑मृतसो॒मा-स्स॑मृतसो॒मा वै वै स॑मृतसो॒माः । 3) स॒मृ॒त॒सो॒मा ए॒व मे॒वग्ं स॑मृतसो॒मा-स्स॑मृतसो॒मा ए॒वम् । 3) स॒मृ॒त॒सो॒मा इति॑ समृत - सो॒माः । 4) ए॒वं-वैँ वा ए॒व मे॒वं-वैँ । 5) वा ए॒त ए॒ते वै वा ए॒ते । 6) ए॒ते स॑मृतय॒ज्ञा-स्स॑मृतय॒ज्ञा ए॒त ए॒ते स॑मृतय॒ज्ञाः । 7) स॒मृ॒त॒य॒ज्ञा य-द्य-थ्स॑मृतय॒ज्ञा-स्स॑मृतय॒ज्ञा यत् । 7) स॒मृ॒त॒य॒ज्ञा इति॑ समृत - य॒ज्ञाः । 8) य-द्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ य-द्य-द्द॑र्शपूर्णमा॒सौ । 9) द॒र्॒श॒पू॒र्ण॒मा॒सौ कस्य॒ कस्य॑ दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ कस्य॑ । 9) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 10) कस्य॑ वा वा॒ कस्य॒ कस्य॑ वा । 11) वा ऽहाह॑ वा॒ वा ऽह॑ । 12) अह॑ दे॒वा दे॒वा अहाह॑ दे॒वाः । 13) दे॒वा य॒ज्ञं-यँ॒ज्ञ-न्दे॒वा दे॒वा य॒ज्ञम् । 14) य॒ज्ञ मा॒गच्छ॑-न्त्या॒गच्छ॑न्ति य॒ज्ञं-यँ॒ज्ञ मा॒गच्छ॑न्ति । 15) आ॒गच्छ॑न्ति॒ कस्य॒ कस्या॒गच्छ॑-न्त्या॒गच्छ॑न्ति॒ कस्य॑ । 15) आ॒गच्छ॒न्तीत्या᳚ - गच्छ॑न्ति । 16) कस्य॑ वा वा॒ कस्य॒ कस्य॑ वा । 17) वा॒ न न वा॑ वा॒ न । 18) न ब॑हू॒ना-म्ब॑हू॒ना-न्न न ब॑हू॒नाम् । 19) ब॒हू॒नां-यँज॑मानानां॒-यँज॑मानाना-म्बहू॒ना-म्ब॑हू॒नां-यँज॑मानानाम् । 20) यज॑मानानां॒-योँ यो यज॑मानानां॒-यँज॑मानानां॒-यः ँ। 21) यो वै वै यो यो वै । 22) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ । 23) दे॒वताः॒ पूर्वः॒ पूर्वो॑ दे॒वता॑ दे॒वताः॒ पूर्वः॑ । 24) पूर्वः॑ परिगृ॒ह्णाति॑ परिगृ॒ह्णाति॒ पूर्वः॒ पूर्वः॑ परिगृ॒ह्णाति॑ । 25) प॒रि॒गृ॒ह्णाति॒ स स प॑रिगृ॒ह्णाति॑ परिगृ॒ह्णाति॒ सः । 25) प॒रि॒गृ॒ह्णातीति॑ परि - गृ॒ह्णाति॑ । 26) स ए॑ना एना॒-स्स स ए॑नाः । 27) ए॒ना॒-श्श्व-श्श्व ए॑ना एना॒-श्श्वः । 28) श्वो भू॒ते भू॒ते श्व-श्श्वो भू॒ते । 29) भू॒ते य॑जते यजते भू॒ते भू॒ते य॑जते । 30) य॒ज॒त॒ ए॒त दे॒त-द्य॑जते यजत ए॒तत् । 31) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 32) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 33) दे॒वाना॑ मा॒यत॑न मा॒यत॑न-न्दे॒वाना᳚-न्दे॒वाना॑ मा॒यत॑नम् । 34) आ॒यत॑नं॒-यँ-द्यदा॒यत॑न मा॒यत॑नं॒-यँत् । 34) आ॒यत॑न॒मित्या᳚ - यत॑नम् । 35) यदा॑हव॒नीय॑ आहव॒नीयो॒ य-द्यदा॑हव॒नीयः॑ । 36) आ॒ह॒व॒नीयो᳚ ऽन्त॒रा ऽन्त॒रा ऽऽह॑व॒नीय॑ आहव॒नीयो᳚ ऽन्त॒रा । 36) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । 37) अ॒न्त॒रा ऽग्नी अ॒ग्नी अ॑न्त॒रा ऽन्त॒रा ऽग्नी । 38) अ॒ग्नी प॑शू॒ना-म्प॑शू॒ना म॒ग्नी अ॒ग्नी प॑शू॒नाम् । 38) अ॒ग्नी इत्य॒ग्नी । 39) प॒शू॒ना-ङ्गार्ह॑पत्यो॒ गार्ह॑पत्यः पशू॒ना-म्प॑शू॒ना-ङ्गार्ह॑पत्यः । 40) गार्ह॑पत्यो मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒-ङ्गार्ह॑पत्यो॒ गार्ह॑पत्यो मनु॒ष्या॑णाम् । 40) गार्ह॑पत्य॒ इति॒ गार्ह॑ - प॒त्यः॒ । 41) म॒नु॒ष्या॑णा मन्वाहार्य॒पच॑नो ऽन्वाहार्य॒पच॑नो मनु॒ष्या॑णा-म्मनु॒ष्या॑णा मन्वाहार्य॒पच॑नः । 42) अ॒न्वा॒हा॒र्य॒पच॑नः पितृ॒णा-म्पि॑तृ॒णा म॑न्वाहार्य॒पच॑नो ऽन्वाहार्य॒पच॑नः पितृ॒णाम् । 42) अ॒न्वा॒हा॒र्य॒पच॑न॒ इत्य॑न्वाहार्य - पच॑नः । 43) पि॒तृ॒णा म॒ग्नि म॒ग्नि-म्पि॑तृ॒णा-म्पि॑तृ॒णा म॒ग्निम् । 44) अ॒ग्नि-ङ्गृ॑ह्णाति गृह्णा त्य॒ग्नि म॒ग्नि-ङ्गृ॑ह्णाति । 45) गृ॒ह्णा॒ति॒ स्वे स्वे गृ॑ह्णाति गृह्णाति॒ स्वे । 46) स्व ए॒वैव स्वे स्व ए॒व । 47) ए॒वायत॑न आ॒यत॑न ए॒वैवायत॑ने । 48) आ॒यत॑ने दे॒वता॑ दे॒वता॑ आ॒यत॑न आ॒यत॑ने दे॒वताः᳚ । 48) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 49) दे॒वताः॒ परि॒ परि॑ दे॒वता॑ दे॒वताः॒ परि॑ । 50) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति । ॥ 21 ॥ (50/61)
1) गृ॒ह्णा॒ति॒ तास्ता गृ॑ह्णाति गृह्णाति॒ ताः । 2) ता-श्श्व-श्श्व स्ता स्ता-श्श्वः । 3) श्वो भू॒ते भू॒ते श्व-श्श्वो भू॒ते । 4) भू॒ते य॑जते यजते भू॒ते भू॒ते य॑जते । 5) य॒ज॒ते॒ व्र॒तेन॑ व्र॒तेन॑ यजते यजते व्र॒तेन॑ । 6) व्र॒तेन॒ वै वै व्र॒तेन॑ व्र॒तेन॒ वै । 7) वै मेद्ध्यो॒ मेद्ध्यो॒ वै वै मेद्ध्यः॑ । 8) मेद्ध्यो॒ ऽग्नि र॒ग्नि-र्मेद्ध्यो॒ मेद्ध्यो॒ ऽग्निः । 9) अ॒ग्नि-र्व्र॒तप॑ति-र्व्र॒तप॑ति र॒ग्नि र॒ग्नि-र्व्र॒तप॑तिः । 10) व्र॒तप॑ति-र्ब्राह्म॒णो ब्रा᳚ह्म॒णो व्र॒तप॑ति-र्व्र॒तप॑ति-र्ब्राह्म॒णः । 10) व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ । 11) ब्रा॒ह्म॒णो व्र॑त॒भृ-द्व्र॑त॒भृ-द्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो व्र॑त॒भृत् । 12) व्र॒त॒भृ-द्व्र॒तं-व्रँ॒तं-व्रँ॑त॒भृ-द्व्र॑त॒भृ-द्व्र॒तम् । 12) व्र॒त॒भृदिति॑ व्रत - भृत् । 13) व्र॒त मु॑पै॒ष्य-न्नु॑पै॒ष्यन् व्र॒तं-व्रँ॒त मु॑पै॒ष्यन्न् । 14) उ॒पै॒ष्य-न्ब्रू॑या-द्ब्रूया दुपै॒ष्य-न्नु॑पै॒ष्य-न्ब्रू॑यात् । 14) उ॒पै॒ष्यन्नित्यु॑प - ए॒ष्यन्न् । 15) ब्रू॒या॒दग्ने ऽग्ने᳚ ब्रूया-द्ब्रूया॒दग्ने᳚ । 16) अग्ने᳚ व्रतपते व्रतप॒ते ऽग्ने ऽग्ने᳚ व्रतपते । 17) व्र॒त॒प॒ते॒ व्र॒तं-व्रँ॒तं-व्रँ॑तपते व्रतपते व्र॒तम् । 17) व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ । 18) व्र॒त-ञ्च॑रिष्यामि चरिष्यामि व्र॒तं-व्रँ॒त-ञ्च॑रिष्यामि । 19) च॒रि॒ष्या॒ मीतीति॑ चरिष्यामि चरिष्या॒ मीति॑ । 20) इत्य॒ग्नि र॒ग्नि रिती त्य॒ग्निः । 21) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै । 22) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 23) दे॒वानां᳚-व्रँ॒तप॑ति-र्व्र॒तप॑ति-र्दे॒वाना᳚-न्दे॒वानां᳚-व्रँ॒तप॑तिः । 24) व्र॒तप॑ति॒ स्तस्मै॒ तस्मै᳚ व्र॒तप॑ति-र्व्र॒तप॑ति॒ स्तस्मै᳚ । 24) व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ । 25) तस्मा॑ ए॒वैव तस्मै॒ तस्मा॑ ए॒व । 26) ए॒व प्र॑ति॒प्रोच्य॑ प्रति॒प्रो च्यै॒वैव प्र॑ति॒प्रोच्य॑ । 27) प्र॒ति॒प्रोच्य॑ व्र॒तं-व्रँ॒त-म्प्र॑ति॒प्रोच्य॑ प्रति॒प्रोच्य॑ व्र॒तम् । 27) प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । 28) व्र॒त मा व्र॒तं-व्रँ॒त मा । 29) आ ल॑भते लभत॒ आ ल॑भते । 30) ल॒भ॒ते॒ ब॒र्॒हिषा॑ ब॒र्॒हिषा॑ लभते लभते ब॒र्॒हिषा᳚ । 31) ब॒र्॒हिषा॑ पू॒र्णमा॑से पू॒र्णमा॑से ब॒र्॒हिषा॑ ब॒र्॒हिषा॑ पू॒र्णमा॑से । 32) पू॒र्णमा॑से व्र॒तं-व्रँ॒त-म्पू॒र्णमा॑से पू॒र्णमा॑से व्र॒तम् । 32) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । 33) व्र॒त मुपोप॑ व्र॒तं-व्रँ॒त मुप॑ । 34) उपै᳚त्ये॒त्युपोपै॑ति । 35) ए॒ति॒ व॒थ्सै-र्व॒थ्सै रे᳚त्येति व॒थ्सैः । 36) व॒थ्सै र॑मावा॒स्या॑या ममावा॒स्या॑यां-वँ॒थ्सै-र्व॒थ्सै र॑मावा॒स्या॑याम् । 37) अ॒मा॒वा॒स्या॑या मे॒त दे॒त द॑मावा॒स्या॑या ममावा॒स्या॑या मे॒तत् । 37) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । 38) ए॒तद्धि ह्ये॑त दे॒तद्धि । 39) ह्ये॑तयो॑ रे॒तयो॒र्॒ हि ह्ये॑तयोः᳚ । 40) ए॒तयो॑ रा॒यत॑न मा॒यत॑न मे॒तयो॑ रे॒तयो॑ रा॒यत॑नम् । 41) आ॒यत॑न मुप॒स्तीर्य॑ उप॒स्तीर्य॑ आ॒यत॑न मा॒यत॑न मुप॒स्तीर्यः॑ । 41) आ॒यत॑न॒मित्या᳚ - यत॑नम् । 42) उ॒प॒स्तीर्यः॒ पूर्वः॒ पूर्व॑ उप॒स्तीर्य॑ उप॒स्तीर्यः॒ पूर्वः॑ । 42) उ॒प॒स्तीर्य॒ इत्यु॑प - स्तीर्यः॑ । 43) पूर्व॑ श्च च॒ पूर्वः॒ पूर्व॑ श्च । 44) चा॒ग्नि र॒ग्निश्च॑ चा॒ग्निः । 45) अ॒ग्नि रप॒रो ऽप॑रो॒ ऽग्नि र॒ग्नि रप॑रः । 46) अप॑रश्च॒ चाप॒रो ऽप॑रश्च । 47) चे तीति॑ च॒ चे ति॑ । 48) इत्या॑हु राहु॒ रिती त्या॑हुः । 49) आ॒हु॒-र्म॒नु॒ष्या॑ मनु॒ष्या॑ आहु राहु-र्मनु॒ष्याः᳚ । 50) म॒नु॒ष्या॑ इदि-न्म॑नु॒ष्या॑ मनु॒ष्या॑ इत् । ॥ 22 ॥ (50/60)
1) इ-न्नु न्विदि-न्नु । 2) न्वै वै नु न्वै । 3) वा उप॑स्तीर्ण॒ मुप॑स्तीर्णं॒-वैँ वा उप॑स्तीर्णम् । 4) उप॑स्तीर्ण मि॒च्छन्ती॒ च्छन्त्युप॑स्तीर्ण॒ मुप॑स्तीर्ण मि॒च्छन्ति॑ । 4) उप॑स्तीर्ण॒मियुप॑ - स्ती॒र्ण॒म् । 5) इ॒च्छन्ति॒ कि-ङ्कि मि॒च्छन्ती॒ च्छन्ति॒ किम् । 6) कि मु॑ वु॒ कि-ङ्कि मु॑ । 7) उ॒ दे॒वा दे॒वा उ॑ वु दे॒वाः । 8) दे॒वा येषां॒-येँषा᳚-न्दे॒वा दे॒वा येषा᳚म् । 9) येषा॒-न्नवा॑वसान॒-न्नवा॑वसानं॒-येँषां॒-येँषा॒-न्नवा॑वसानम् । 10) नवा॑वसान॒ मुपोप॒ नवा॑वसान॒-न्नवा॑वसान॒ मुप॑ । 10) नवा॑वसान॒मिति॒ नव॑ - अ॒व॒सा॒न॒म् । 11) उपा᳚स्मि-न्नस्मि॒-न्नुपोपा᳚स्मिन्न् । 12) अ॒स्मि॒-ञ्छ्व-श्श्वो᳚ ऽस्मि-न्नस्मि॒-ञ्छ्वः । 13) श्वो य॒क्ष्यमा॑णे य॒क्ष्यमा॑णे॒ श्व-श्श्वो य॒क्ष्यमा॑णे । 14) य॒क्ष्यमा॑णे दे॒वता॑ दे॒वता॑ य॒क्ष्यमा॑णे य॒क्ष्यमा॑णे दे॒वताः᳚ । 15) दे॒वता॑ वसन्ति वसन्ति दे॒वता॑ दे॒वता॑ वसन्ति । 16) व॒स॒न्ति॒ यो यो व॑सन्ति वसन्ति॒ यः । 17) य ए॒व मे॒वं-योँ य ए॒वम् । 18) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 19) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् । 20) अ॒ग्नि मु॑पस्तृ॒णा त्यु॑पस्तृ॒णा त्य॒ग्नि म॒ग्नि मु॑पस्तृ॒णाति॑ । 21) उ॒प॒स्तृ॒णाति॒ यज॑मानेन॒ यज॑माने नोपस्तृ॒णा त्यु॑पस्तृ॒णाति॒ यज॑मानेन । 21) उ॒प॒स्तृ॒णातीत्यु॑प - स्तृ॒णाति॑ । 22) यज॑मानेन ग्रा॒म्या ग्रा॒म्या यज॑मानेन॒ यज॑मानेन ग्रा॒म्याः । 23) ग्रा॒म्याश्च॑ च ग्रा॒म्या ग्रा॒म्याश्च॑ । 24) च॒ प॒शवः॑ प॒शव॑श्च च प॒शवः॑ । 25) प॒शवो॑ ऽव॒रुद्ध्या॑ अव॒रुद्ध्याः᳚ प॒शवः॑ प॒शवो॑ ऽव॒रुद्ध्याः᳚ । 26) अ॒व॒रुद्ध्या॑ आर॒ण्या आ॑र॒ण्या अ॑व॒रुद्ध्या॑ अव॒रुद्ध्या॑ आर॒ण्याः । 26) अ॒व॒रुद्ध्या॒ इत्य॑व - रुद्ध्याः᳚ । 27) आ॒र॒ण्याश्च॑ चार॒ण्या आ॑र॒ण्याश्च॑ । 28) चे तीति॑ च॒ चे ति॑ । 29) इत्या॑हु राहु॒ रिती त्या॑हुः । 30) आ॒हु॒-र्य-द्यदा॑हु राहु॒-र्यत् । 31) य-द्ग्रा॒म्या-न्ग्रा॒म्यान्. य-द्य-द्ग्रा॒म्यान् । 32) ग्रा॒म्या नु॑प॒वस॑ त्युप॒वस॑ति ग्रा॒म्या-न्ग्रा॒म्या नु॑प॒वस॑ति । 33) उ॒प॒वस॑ति॒ तेन॒ तेनो॑प॒वस॑ त्युप॒वस॑ति॒ तेन॑ । 33) उ॒प॒वस॒तीत्यु॑प - वस॑ति । 34) तेन॑ ग्रा॒म्या-न्ग्रा॒म्या-न्तेन॒ तेन॑ ग्रा॒म्यान् । 35) ग्रा॒म्या नवाव॑ ग्रा॒म्या-न्ग्रा॒म्या नव॑ । 36) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 37) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् । 38) यदा॑र॒ण्यस्या॑ र॒ण्यस्य॒ य-द्यदा॑र॒ण्यस्य॑ । 39) आ॒र॒ण्यस्या॒ श्ञात्य॒श्ञा त्या॑र॒ण्यस्या॑ र॒ण्यस्या॒ श्ञाति॑ । 40) अ॒श्ञाति॒ तेन॒ तेना॒श्ञा त्य॒श्ञाति॒ तेन॑ । 41) तेना॑र॒ण्या ना॑र॒ण्या-न्तेन॒ तेना॑र॒ण्यान् । 42) आ॒र॒ण्यान्. य-द्यदा॑र॒ण्या ना॑र॒ण्यान्. यत् । 43) यदना᳚श्वा॒ नना᳚श्वा॒न्॒. य-द्यदना᳚श्वान् । 44) अना᳚श्वा नुप॒वसे॑ दुप॒वसे॒ दना᳚श्वा॒ नना᳚श्वा नुप॒वसे᳚त् । 45) उ॒प॒वसे᳚-त्पितृदेव॒त्यः॑ पितृदेव॒त्य॑ उप॒वसे॑ दुप॒वसे᳚-त्पितृदेव॒त्यः॑ । 45) उ॒प॒वसे॒दित्यु॑प - वसे᳚त् । 46) पि॒तृ॒दे॒व॒त्य॑-स्स्या-थ्स्या-त्पितृदेव॒त्यः॑ पितृदेव॒त्य॑-स्स्यात् । 46) पि॒तृ॒दे॒व॒त्य॑ इति॑ पितृ - दे॒व॒त्यः॑ । 47) स्या॒दा॒र॒ण्य स्या॑र॒ण्यस्य॑ स्या-थ्स्यादार॒ण्यस्य॑ । 48) आ॒र॒ण्यस्या᳚ श्ञा त्यश्ञा त्यार॒ण्यस्या॑ र॒ण्यस्या᳚ श्ञाति । 49) अ॒श्ञा॒ती॒ न्द्रि॒य मि॑न्द्रि॒य म॑श्ञा त्यश्ञाती न्द्रि॒यम् । 50) इ॒न्द्रि॒यं-वैँ वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ । ॥ 23 ॥ (50/57)
1) वा आ॑र॒ण्य मा॑र॒ण्यं-वैँ वा आ॑र॒ण्यम् । 2) आ॒र॒ण्य मि॑न्द्रि॒य मि॑न्द्रि॒य मा॑र॒ण्य मा॑र॒ण्य मि॑न्द्रि॒यम् । 3) इ॒न्द्रि॒य मे॒वैवे न्द्रि॒य मि॑न्द्रि॒य मे॒व । 4) ए॒वात्म-न्ना॒त्म-न्ने॒वैवात्मन्न् । 5) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 6) ध॒त्ते॒ य-द्य-द्ध॑त्ते धत्ते॒ यत् । 7) यदना᳚श्वा॒ नना᳚श्वा॒न्॒. य-द्यदना᳚श्वान् । 8) अना᳚श्वा नुप॒वसे॑ दुप॒वसे॒ दना᳚श्वा॒ नना᳚श्वा नुप॒वसे᳚त् । 9) उ॒प॒वसे॒-त्क्षोधु॑कः॒, क्षोधु॑क उप॒वसे॑ दुप॒वसे॒-त्क्षोधु॑कः । 9) उ॒प॒वसे॒दित्यु॑प - वसे᳚त् । 10) क्षोधु॑क-स्स्या-थ्स्या॒-त्क्षोधु॑कः॒, क्षोधु॑क-स्स्यात् । 11) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् । 12) यद॑श्ञी॒या द॑श्ञी॒या-द्य-द्यद॑श्ञी॒यात् । 13) अ॒श्ञी॒या-द्रु॒द्रो रु॒द्रो᳚ ऽश्ञी॒या द॑श्ञी॒या-द्रु॒द्रः । 14) रु॒द्रो᳚ ऽस्यास्य रु॒द्रो रु॒द्रो᳚ ऽस्य । 15) अ॒स्य॒ प॒शू-न्प॒शू न॑स्यास्य प॒शून् । 16) प॒शू न॒भ्य॑भि प॒शू-न्प॒शू न॒भि । 17) अ॒भि म॑न्येत मन्येता॒भ्य॑भि म॑न्येत । 18) म॒न्ये॒ता॒पो॑ ऽपो म॑न्येत मन्येता॒पः । 19) अ॒पो᳚ ऽश्ञा त्यश्ञात्य॒पो᳚(1॒) ऽपो᳚ ऽश्ञाति । 20) अ॒श्ञा॒ति॒ त-त्तद॑श्ञा त्यश्ञाति॒ तत् । 21) त-न्न न त-त्त-न्न । 22) ने वे॑ व॒ न ने व॑ । 23) इ॒वा॒शि॒त म॑शि॒त मि॑वे वाशि॒तम् । 24) अ॒शि॒त-न्न नाशि॒त म॑शि॒त-न्न । 25) ने वे॑ व॒ न ने व॑ । 26) इ॒वान॑शित॒ मन॑शित मिवे॒ वान॑शितम् । 27) अन॑शित॒-न्न नान॑शित॒ मन॑शित॒-न्न । 28) न क्षोधु॑कः॒, क्षोधु॑को॒ न न क्षोधु॑कः । 29) क्षोधु॑को॒ भव॑ति॒ भव॑ति॒ क्षोधु॑कः॒, क्षोधु॑को॒ भव॑ति । 30) भव॑ति॒ न न भव॑ति॒ भव॑ति॒ न । 31) नास्या᳚स्य॒ न नास्य॑ । 32) अ॒स्य॒ रु॒द्रो रु॒द्रो᳚ ऽस्यास्य रु॒द्रः । 33) रु॒द्रः प॒शू-न्प॒शू-न्रु॒द्रो रु॒द्रः प॒शून् । 34) प॒शू न॒भ्य॑भि प॒शू-न्प॒शू न॒भि । 35) अ॒भि म॑न्यते मन्यते॒ ऽभ्य॑भि म॑न्यते । 36) म॒न्य॒ते॒ वज्रो॒ वज्रो॑ मन्यते मन्यते॒ वज्रः॑ । 37) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै । 38) वै य॒ज्ञो य॒ज्ञो वै वै य॒ज्ञः । 39) य॒ज्ञः, क्षु-त्क्षु-द्य॒ज्ञो य॒ज्ञः, क्षुत् । 40) क्षु-त्खलु॒ खलु॒ क्षु-त्क्षु-त्खलु॑ । 41) खलु॒ वै वै खलु॒ खलु॒ वै । 42) वै म॑नु॒ष्य॑स्य मनु॒ष्य॑स्य॒ वै वै म॑नु॒ष्य॑स्य । 43) म॒नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो मनु॒ष्य॑स्य मनु॒ष्य॑स्य॒ भ्रातृ॑व्यः । 44) भ्रातृ॑व्यो॒ य-द्य-द्भ्रातृ॑व्यो॒ भ्रातृ॑व्यो॒ यत् । 45) यदना᳚श्वा॒ नना᳚श्वा॒न्॒. य-द्यदना᳚श्वान् । 46) अना᳚श्वा नुप॒वस॑ त्युप॒वस॒ त्यना᳚श्वा॒ नना᳚श्वा नुप॒वस॑ति । 47) उ॒प॒वस॑ति॒ वज्रे॑ण॒ वज्रे॑णो प॒वस॑ त्युप॒वस॑ति॒ वज्रे॑ण । 47) उ॒प॒वस॒तीत्यु॑प - वस॑ति । 48) वज्रे॑णै॒ वैव वज्रे॑ण॒ वज्रे॑ णै॒व । 49) ए॒व सा॒क्षा-थ्सा॒क्षा दे॒वैव सा॒क्षात् । 50) सा॒क्षा-त्क्षुध॒-ङ्क्षुध(ग्म्॑) सा॒क्षा-थ्सा॒क्षा-त्क्षुध᳚म् । 50) सा॒क्षादिति॑ स - अ॒क्षात् । 51) क्षुध॒-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-ङ्क्षुध॒-ङ्क्षुध॒-म्भ्रातृ॑व्यम् । 52) भ्रातृ॑व्यग्ं हन्ति हन्ति॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्यग्ं हन्ति । 53) ह॒न्तीति॑ हन्ति । ॥ 24 ॥ (53/56) ॥ अ. 7 ॥
1) यो वै वै यो यो वै । 2) वै श्र॒द्धाग् श्र॒द्धां-वैँ वै श्र॒द्धाम् । 3) श्र॒द्धा मना॑र॒भ्या ना॑रभ्य श्र॒द्धाग् श्र॒द्धा मना॑रभ्य । 3) श्र॒द्धामिति॑ श्रत् - धाम् । 4) अना॑रभ्य य॒ज्ञेन॑ य॒ज्ञेना ना॑र॒भ्या ना॑रभ्य य॒ज्ञेन॑ । 4) अना॑र॒भ्येत्यना᳚ - र॒भ्य॒ । 5) य॒ज्ञेन॒ यज॑ते॒ यज॑ते य॒ज्ञेन॑ य॒ज्ञेन॒ यज॑ते । 6) यज॑ते॒ न न यज॑ते॒ यज॑ते॒ न । 7) नास्या᳚स्य॒ न नास्य॑ । 8) अ॒स्ये॒ ष्टाये॒ ष्टाया᳚स्यास्ये॒ ष्टाय॑ । 9) इ॒ष्टाय॒ श्रच्छ्रदि॒ष्टाये॒ ष्टाय॒ श्रत् । 10) श्र-द्द॑धते दधते॒ श्रच्छ्र-द्द॑धते । 11) द॒ध॒ते॒ ऽपो॑ ऽपो द॑धते दधते॒ ऽपः । 12) अ॒पः प्र प्रापो॑ ऽपः प्र । 13) प्र ण॑यति नयति॒ प्र प्र ण॑यति । 14) न॒य॒ति॒ श्र॒द्धा श्र॒द्धा न॑यति नयति श्र॒द्धा । 15) श्र॒द्धा वै वै श्र॒द्धा श्र॒द्धा वै । 15) श्र॒द्धेति॑ श्रत् - धा । 16) वा आप॒ आपो॒ वै वा आपः॑ । 17) आप॑-श्श्र॒द्धाग् श्र॒द्धा माप॒ आप॑-श्श्र॒द्धाम् । 18) श्र॒द्धा मे॒वैव श्र॒द्धाग् श्र॒द्धा मे॒व । 18) श्र॒द्धामिति॑ श्रत् - धाम् । 19) ए॒वा रभ्या॒ रभ्यै॒ वैवारभ्य॑ । 20) आ॒रभ्य॑ य॒ज्ञेन॑ य॒ज्ञेना॒ रभ्या॒रभ्य॑ य॒ज्ञेन॑ । 20) आ॒रभ्येत्या᳚ - रभ्य॑ । 21) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते । 22) य॒ज॒त॒ उ॒भय॑ उ॒भये॑ यजते यजत उ॒भये᳚ । 23) उ॒भये᳚ ऽस्यास्यो॒भय॑ उ॒भये᳚ ऽस्य । 24) अ॒स्य॒ दे॒व॒म॒नु॒ष्या दे॑वमनु॒ष्या अ॑स्यास्य देवमनु॒ष्याः । 25) दे॒व॒म॒नु॒ष्या इ॒ष्टाये॒ ष्टाय॑ देवमनु॒ष्या दे॑वमनु॒ष्या इ॒ष्टाय॑ । 25) दे॒व॒म॒नु॒ष्या इति॑ देव - म॒नु॒ष्याः । 26) इ॒ष्टाय॒ श्रच्छ्रदि॒ष्टाये॒ ष्टाय॒ श्रत् । 27) श्र-द्द॑धते दधते॒ श्रच्छ्र-द्द॑धते । 28) द॒ध॒ते॒ त-त्त-द्द॑धते दधते॒ तत् । 29) तदा॑हु राहु॒ स्त-त्तदा॑हुः । 30) आ॒हु॒ रत्यत्या॑हु राहु॒रति॑ । 31) अति॒ वै वा अत्यति॒ वै । 32) वा ए॒ता ए॒ता वै वा ए॒ताः । 33) ए॒ता वर्त्रं॒-वँर्त्र॑ मे॒ता ए॒ता वर्त्र᳚म् । 34) वर्त्र॑-न्नेदन्ति नेदन्ति॒ वर्त्रं॒-वँर्त्र॑-न्नेदन्ति । 35) ने॒द॒ न्त्यत्यति॑ नेदन्ति नेद॒न्त्यति॑ । 36) अति॒ वाचं॒-वाँच॒ मत्यति॒ वाच᳚म् । 37) वाच॒-म्मनो॒ मनो॒ वाचं॒-वाँच॒-म्मनः॑ । 38) मनो॒ वाव वाव मनो॒ मनो॒ वाव । 39) वावैता ए॒ता वाव वावैताः । 40) ए॒ता न नैता ए॒ता न । 41) नात्यति॒ न नाति॑ । 42) अति॑ नेदन्ति नेद॒ न्त्यत्यति॑ नेदन्ति । 43) ने॒द॒ न्तीतीति॑ नेदन्ति नेद॒न्तीति॑ । 44) इति॒ मन॑सा॒ मन॒सेतीति॒ मन॑सा । 45) मन॑सा॒ प्र प्र मन॑सा॒ मन॑सा॒ प्र । 46) प्र ण॑यति नयति॒ प्र प्र ण॑यति । 47) न॒य॒ती॒य मि॒य-न्न॑यति नयती॒यम् । 48) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 49) वै मनो॒ मनो॒ वै वै मनः॑ । 50) मनो॒ ऽनया॒ ऽनया॒ मनो॒ मनो॒ ऽनया᳚ । ॥ 25 ॥ (50/56)
1) अ॒नयै॒ वैवानया॒ ऽनयै॒व । 2) ए॒वैना॑ एना ए॒वैवैनाः᳚ । 3) ए॒नाः॒ प्र प्रैना॑ एनाः॒ प्र । 4) प्र ण॑यति नयति॒ प्र प्र ण॑यति । 5) न॒य॒ त्यस्क॑न्नहवि॒ रस्क॑न्नहवि-र्नयति नय॒ त्यस्क॑न्नहविः । 6) अस्क॑न्नहवि-र्भवति भव॒ त्यस्क॑न्नहवि॒ रस्क॑न्नहवि-र्भवति । 6) अस्क॑न्नहवि॒रित्यस्क॑न्न - ह॒विः॒ । 7) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 8) य ए॒व मे॒वं-योँ य ए॒वम् । 9) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 10) वेद॑ यज्ञायु॒धानि॑ यज्ञायु॒धानि॒ वेद॒ वेद॑ यज्ञायु॒धानि॑ । 11) य॒ज्ञा॒यु॒धानि॒ सग्ं सं-यँ॑ज्ञायु॒धानि॑ यज्ञायु॒धानि॒ सम् । 11) य॒ज्ञा॒यु॒धानीति॑ यज्ञ - आ॒यु॒धानि॑ । 12) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति । 13) भ॒र॒ति॒ य॒ज्ञो य॒ज्ञो भ॑रति भरति य॒ज्ञः । 14) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । 15) वै य॑ज्ञायु॒धानि॑ यज्ञायु॒धानि॒ वै वै य॑ज्ञायु॒धानि॑ । 16) य॒ज्ञा॒यु॒धानि॑ य॒ज्ञं-यँ॒ज्ञं-यँ॑ज्ञायु॒धानि॑ यज्ञायु॒धानि॑ य॒ज्ञम् । 16) य॒ज्ञा॒यु॒धानीति॑ यज्ञ - आ॒यु॒धानि॑ । 17) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 18) ए॒व त-त्तदे॒वैव तत् । 19) त-थ्सग्ं स-न्त-त्त-थ्सम् । 20) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति । 21) भ॒र॒ति॒ य-द्य-द्भ॑रति भरति॒ यत् । 22) यदेक॑ मेक॒ मेक॑मेकं॒-यँ-द्यदेक॑ मेकम् । 23) एक॑मेकग्ं स॒म्भरे᳚-थ्स॒म्भरे॒ देक॑मेक॒ मेक॑मेकग्ं स॒म्भरे᳚त् । 23) एक॑मेक॒मित्येक᳚म् - ए॒क॒म् । 24) स॒म्भरे᳚-त्पितृदेव॒त्या॑नि पितृदेव॒त्या॑नि स॒म्भरे᳚-थ्स॒म्भरे᳚-त्पितृदेव॒त्या॑नि । 24) स॒म्भरे॒दिति॑ सं - भरे᳚त् । 25) पि॒तृ॒दे॒व॒त्या॑नि स्यु-स्स्युः पितृदेव॒त्या॑नि पितृदेव॒त्या॑नि स्युः । 25) पि॒तृ॒दे॒व॒त्या॑नीति॑ पितृ - दे॒व॒त्या॑नि । 26) स्यु॒-र्य-द्य-थ्स्यु॑-स्स्यु॒-र्यत् । 27) य-थ्स॒ह स॒ह य-द्य-थ्स॒ह । 28) स॒ह सर्वा॑णि॒ सर्वा॑णि स॒ह स॒ह सर्वा॑णि । 29) सर्वा॑णि मानु॒षाणि॑ मानु॒षाणि॒ सर्वा॑णि॒ सर्वा॑णि मानु॒षाणि॑ । 30) मा॒नु॒षाणि॒ द्वेद्वे॒ द्वेद्वे॑ मानु॒षाणि॑ मानु॒षाणि॒ द्वेद्वे᳚ । 31) द्वेद्वे॒ सग्ं स-न्द्वेद्वे॒ द्वेद्वे॒ सम् । 31) द्वेद्वे॒ इति॒ द्वे - द्वे॒ । 32) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति । 33) भ॒र॒ति॒ या॒ज्या॒नु॒वा॒क्य॑यो-र्याज्यानुवा॒क्य॑यो-र्भरति भरति याज्यानुवा॒क्य॑योः । 34) या॒ज्या॒नु॒वा॒क्य॑यो रे॒वैव या᳚ज्यानुवा॒क्य॑यो-र्याज्यानुवा॒क्य॑यो रे॒व । 34) या॒ज्या॒नु॒वा॒क्य॑यो॒रिति॑ याज्या - अ॒नु॒वा॒क्य॑योः । 35) ए॒व रू॒पग्ं रू॒प मे॒वैव रू॒पम् । 36) रू॒प-ङ्क॑रोति करोति रू॒पग्ं रू॒प-ङ्क॑रोति । 37) क॒रो॒त्यथो॒ अथो॑ करोति करो॒त्यथो᳚ । 38) अथो॑ मिथु॒न-म्मि॑थु॒न मथो॒ अथो॑ मिथु॒नम् । 38) अथो॒ इत्यथो᳚ । 39) मि॒थु॒न मे॒वैव मि॑थु॒न-म्मि॑थु॒न मे॒व । 40) ए॒व यो य ए॒वैव यः । 41) यो वै वै यो यो वै । 42) वै दश॒ दश॒ वै वै दश॑ । 43) दश॑ यज्ञायु॒धानि॑ यज्ञायु॒धानि॒ दश॒ दश॑ यज्ञायु॒धानि॑ । 44) य॒ज्ञा॒यु॒धानि॒ वेद॒ वेद॑ यज्ञायु॒धानि॑ यज्ञायु॒धानि॒ वेद॑ । 44) य॒ज्ञा॒यु॒धानीति॑ यज्ञ - आ॒यु॒धानि॑ । 45) वेद॑ मुख॒तो मु॑ख॒तो वेद॒ वेद॑ मुख॒तः । 46) मु॒ख॒तो᳚ ऽस्यास्य मुख॒तो मु॑ख॒तो᳚ ऽस्य । 47) अ॒स्य॒ य॒ज्ञो य॒ज्ञो᳚ ऽस्यास्य य॒ज्ञः । 48) य॒ज्ञः क॑ल्पते कल्पते य॒ज्ञो य॒ज्ञः क॑ल्पते । 49) क॒ल्प॒ते॒ स्फ्य-स्स्फ्यः क॑ल्पते कल्पते॒ स्फ्यः । 50) स्फ्यश्च॑ च॒ स्फ्य-स्स्फ्यश्च॑ । ॥ 26 ॥ (50/60)
1) च॒ क॒पाला॑नि क॒पाला॑नि च च क॒पाला॑नि । 2) क॒पाला॑नि च च क॒पाला॑नि क॒पाला॑नि च । 3) चा॒ग्नि॒हो॒त्र॒हव॑ ण्यग्निहोत्र॒हव॑णी च चाग्निहोत्र॒हव॑णी । 4) अ॒ग्नि॒हो॒त्र॒हव॑णी च चाग्निहोत्र॒हव॑ ण्यग्निहोत्र॒हव॑णी च । 4) अ॒ग्नि॒हो॒त्र॒हव॒णीत्य॑ग्निहोत्र - हव॑नी । 5) च॒ शूर्प॒(ग्म्॒) शूर्प॑-ञ्च च॒ शूर्प᳚म् । 6) शूर्प॑-ञ्च च॒ शूर्प॒(ग्म्॒) शूर्प॑-ञ्च । 7) च॒ कृ॒ष्णा॒जि॒न-ङ्कृ॑ष्णाजि॒न-ञ्च॑ च कृष्णाजि॒नम् । 8) कृ॒ष्णा॒जि॒न-ञ्च॑ च कृष्णाजि॒न-ङ्कृ॑ष्णाजि॒न-ञ्च॑ । 8) कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । 9) च॒ शम्या॒ शम्या॑ च च॒ शम्या᳚ । 10) शम्या॑ च च॒ शम्या॒ शम्या॑ च । 11) चो॒लूख॑ल मु॒लूख॑ल-ञ्च चो॒लूख॑लम् । 12) उ॒लूख॑ल-ञ्च चो॒लूख॑ल मु॒लूख॑ल-ञ्च । 13) च॒ मुस॑ल॒-म्मुस॑ल-ञ्च च॒ मुस॑लम् । 14) मुस॑ल-ञ्च च॒ मुस॑ल॒-म्मुस॑ल-ञ्च । 15) च॒ दृ॒ष-द्दृ॒षच् च॑ च दृ॒षत् । 16) दृ॒षच् च॑ च दृ॒ष-द्दृ॒षच् च॑ । 17) चोप॒लोप॑ला च॒ चोप॑ला । 18) उप॑ला च॒ चोप॒लोप॑ला च । 19) चै॒तान्ये॒तानि॑ च चै॒तानि॑ । 20) ए॒तानि॒ वै वा ए॒तान्ये॒तानि॒ वै । 21) वै दश॒ दश॒ वै वै दश॑ । 22) दश॑ यज्ञायु॒धानि॑ यज्ञायु॒धानि॒ दश॒ दश॑ यज्ञायु॒धानि॑ । 23) य॒ज्ञा॒यु॒धानि॒ यो यो य॑ज्ञायु॒धानि॑ यज्ञायु॒धानि॒ यः । 23) य॒ज्ञा॒यु॒धानीति॑ यज्ञ - आ॒यु॒धानि॑ । 24) य ए॒व मे॒वं-योँ य ए॒वम् । 25) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 26) वेद॑ मुख॒तो मु॑ख॒तो वेद॒ वेद॑ मुख॒तः । 27) मु॒ख॒तो᳚ ऽस्यास्य मुख॒तो मु॑ख॒तो᳚ ऽस्य । 28) अ॒स्य॒ य॒ज्ञो य॒ज्ञो᳚ ऽस्यास्य य॒ज्ञः । 29) य॒ज्ञः क॑ल्पते कल्पते य॒ज्ञो य॒ज्ञः क॑ल्पते । 30) क॒ल्प॒ते॒ यो यः क॑ल्पते कल्पते॒ यः । 31) यो वै वै यो यो वै । 32) वै दे॒वेभ्यो॑ दे॒वेभ्यो॒ वै वै दे॒वेभ्यः॑ । 33) दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ प्रति॒प्रोच्य॑ दे॒वेभ्यो॑ दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ । 34) प्र॒ति॒प्रोच्य॑ य॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒प्रोच्य॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॑ । 34) प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । 35) य॒ज्ञेन॒ यज॑ते॒ यज॑ते य॒ज्ञेन॑ य॒ज्ञेन॒ यज॑ते । 36) यज॑ते जु॒षन्ते॑ जु॒षन्ते॒ यज॑ते॒ यज॑ते जु॒षन्ते᳚ । 37) जु॒षन्ते᳚ ऽस्यास्य जु॒षन्ते॑ जु॒षन्ते᳚ ऽस्य । 38) अ॒स्य॒ दे॒वा दे॒वा अ॑स्यास्य दे॒वाः । 39) दे॒वा ह॒व्यग्ं ह॒व्य-न्दे॒वा दे॒वा ह॒व्यम् । 40) ह॒व्यग्ं ह॒विर्-ह॒विर्-ह॒व्यग्ं ह॒व्यग्ं ह॒विः । 41) ह॒वि-र्नि॑रु॒प्यमा॑ण-न्निरु॒प्यमा॑णग्ं ह॒विर्-ह॒वि-र्नि॑रु॒प्यमा॑णम् । 42) नि॒रु॒प्यमा॑ण म॒भ्य॑भि नि॑रु॒प्यमा॑ण-न्निरु॒प्यमा॑ण म॒भि । 42) नि॒रु॒प्यमा॑ण॒मिति॑ निः - उ॒प्यमा॑नम् । 43) अ॒भि म॑न्त्रयेत मन्त्रयेता॒भ्य॑भि म॑न्त्रयेत । 44) म॒न्त्र॒ये॒ता॒ग्नि म॒ग्नि-म्म॑न्त्रयेत मन्त्रयेता॒ग्निम् । 45) अ॒ग्निग्ं होता॑र॒(ग्म्॒) होता॑र म॒ग्नि म॒ग्निग्ं होता॑रम् । 46) होता॑र मि॒हे ह होता॑र॒(ग्म्॒) होता॑र मि॒ह । 47) इ॒ह त-न्त मि॒हे ह तम् । 48) तग्ं हु॑वे हुवे॒ त-न्तग्ं हु॑वे । 49) हु॒व॒ इतीति॑ हुवे हुव॒ इति॑ । 50) इति॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ इतीति॑ दे॒वेभ्यः॑ । ॥ 27 ॥ (50/55)
1) दे॒वेभ्य॑ ए॒वैव दे॒वेभ्यो॑ दे॒वेभ्य॑ ए॒व । 2) ए॒व प्र॑ति॒प्रोच्य॑ प्रति॒प्रो च्यै॒वैव प्र॑ति॒प्रोच्य॑ । 3) प्र॒ति॒प्रोच्य॑ य॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒प्रोच्य॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॑ । 3) प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । 4) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते । 5) य॒ज॒ते॒ जु॒षन्ते॑ जु॒षन्ते॑ यजते यजते जु॒षन्ते᳚ । 6) जु॒षन्ते᳚ ऽस्यास्य जु॒षन्ते॑ जु॒षन्ते᳚ ऽस्य । 7) अ॒स्य॒ दे॒वा दे॒वा अ॑स्यास्य दे॒वाः । 8) दे॒वा ह॒व्यग्ं ह॒व्य-न्दे॒वा दे॒वा ह॒व्यम् । 9) ह॒व्य मे॒ष ए॒ष ह॒व्यग्ं ह॒व्य मे॒षः । 10) ए॒ष वै वा ए॒ष ए॒ष वै । 11) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 12) य॒ज्ञस्य॒ ग्रहो॒ ग्रहो॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ ग्रहः॑ । 13) ग्रहो॑ गृही॒त्वा गृ॑ही॒त्वा ग्रहो॒ ग्रहो॑ गृही॒त्वा । 14) गृ॒ही॒त्वैवैव गृ॑ही॒त्वा गृ॑ही॒त्वैव । 15) ए॒व य॒ज्ञेन॑ य॒ज्ञेनै॒वैव य॒ज्ञेन॑ । 16) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते । 17) य॒ज॒ते॒ त-त्त-द्य॑जते यजते॒ तत् । 18) तदु॑दि॒ त्वोदि॒त्वा त-त्तदु॑दि॒त्वा । 19) उ॒दि॒त्वा वाचं॒-वाँच॑ मुदि॒ त्वोदि॒त्वा वाच᳚म् । 20) वाचं॑-यँच्छति यच्छति॒ वाचं॒-वाँचं॑-यँच्छति । 21) य॒च्छ॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ यच्छति यच्छति य॒ज्ञस्य॑ । 22) य॒ज्ञस्य॒ धृत्यै॒ धृत्यै॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ धृत्यै᳚ । 23) धृत्या॒ अथो॒ अथो॒ धृत्यै॒ धृत्या॒ अथो᳚ । 24) अथो॒ मन॑सा॒ मन॒सा ऽथो॒ अथो॒ मन॑सा । 24) अथो॒ इत्य॒थो᳚ । 25) मन॑सा॒ वै वै मन॑सा॒ मन॑सा॒ वै । 26) वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः । 27) प्र॒जाप॑ति-र्य॒ज्ञं-यँ॒ज्ञ-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्य॒ज्ञम् । 27) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 28) य॒ज्ञ म॑तनु तातनुत य॒ज्ञं-यँ॒ज्ञ म॑तनुत । 29) अ॒त॒नु॒त॒ मन॑सा॒ मन॑सा ऽतनुतातनुत॒ मन॑सा । 30) मन॑सै॒वैव मन॑सा॒ मन॑सै॒व । 31) ए॒व त-त्तदे॒वैव तत् । 32) त-द्य॒ज्ञं-यँ॒ज्ञ-न्त-त्त-द्य॒ज्ञम् । 33) य॒ज्ञ-न्त॑नुते तनुते य॒ज्ञं-यँ॒ज्ञ-न्त॑नुते । 34) त॒नु॒ते॒ रक्ष॑सा॒(ग्म्॒) रक्ष॑सा-न्तनुते तनुते॒ रक्ष॑साम् । 35) रक्ष॑सा॒ मन॑न्ववचारा॒ यान॑न्ववचाराय॒ रक्ष॑सा॒(ग्म्॒) रक्ष॑सा॒ मन॑न्ववचाराय । 36) अन॑न्ववचाराय॒ यो यो ऽन॑न्ववचारा॒ यान॑न्ववचाराय॒ यः । 36) अन॑न्ववचारा॒येत्यन॑नु - अ॒व॒चा॒रा॒य॒ । 37) यो वै वै यो यो वै । 38) वै य॒ज्ञं-यँ॒ज्ञं-वैँ वै य॒ज्ञम् । 39) य॒ज्ञं-योँगे॒ योगे॑ य॒ज्ञं-यँ॒ज्ञं-योँगे᳚ । 40) योग॒ आग॑त॒ आग॑ते॒ योगे॒ योग॒ आग॑ते । 41) आग॑ते यु॒नक्ति॑ यु॒नक्त्याग॑त॒ आग॑ते यु॒नक्ति॑ । 41) आग॑त॒ इत्या - ग॒ते॒ । 42) यु॒नक्ति॑ यु॒ङ्क्ते यु॒ङ्क्ते यु॒नक्ति॑ यु॒नक्ति॑ यु॒ङ्क्ते । 43) यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ युञ्जा॒नेषु॑ यु॒ङ्क्ते यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ । 44) यु॒ञ्जा॒नेषु॒ कः को यु॑ञ्जा॒नेषु॑ युञ्जा॒नेषु॒ कः । 45) कस्त्वा᳚ त्वा॒ कः कस्त्वा᳚ । 46) त्वा॒ यु॒न॒क्ति॒ यु॒न॒क्ति॒ त्वा॒ त्वा॒ यु॒न॒क्ति॒ । 47) यु॒न॒क्ति॒ स स यु॑नक्ति युनक्ति॒ सः । 48) स त्वा᳚ त्वा॒ स स त्वा᳚ । 49) त्वा॒ यु॒न॒क्तु॒ यु॒न॒क्तु॒ त्वा॒ त्वा॒ यु॒न॒क्तु॒ । 50) यु॒न॒क्त्वितीति॑ युनक्तु युन॒क्त्विति॑ । 51) इत्या॑हा॒हे तीत्या॑ह । 52) आ॒ह॒ प्र॒जाप॑तिः प्र॒जाप॑ति राहाह प्र॒जाप॑तिः । 53) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै । 53) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 54) वै कः को वै वै कः । 55) कः प्र॒जाप॑तिना प्र॒जाप॑तिना॒ कः कः प्र॒जाप॑तिना । 56) प्र॒जाप॑ति नै॒वैव प्र॒जाप॑तिना प्र॒जाप॑ति नै॒व । 56) प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । 57) ए॒वैन॑ मेन मे॒ वैवैन᳚म् । 58) ए॒नं॒-युँ॒न॒क्ति॒ यु॒न॒क्त्ये॒न॒ मे॒नं॒-युँ॒न॒क्ति॒ । 59) यु॒न॒क्ति॒ यु॒ङ्क्ते यु॒ङ्क्ते यु॑नक्ति युनक्ति यु॒ङ्क्ते । 60) यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ युञ्जा॒नेषु॑ यु॒ङ्क्ते यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ । 61) यु॒ञ्जा॒नेष्विति॑ युञ्जा॒नेषु॑ । ॥ 28 ॥ (61/68) ॥ अ. 8 ॥
1) प्र॒जाप॑ति-र्य॒ज्ञान्. य॒ज्ञा-न्प्र॒जाप॑तिः प्र॒जाप॑ति-र्य॒ज्ञान् । 1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 2) य॒ज्ञा न॑सृज तासृजत य॒ज्ञान्. य॒ज्ञा न॑सृजत । 3) अ॒सृ॒ज॒ ता॒ग्नि॒हो॒त्र म॑ग्निहो॒त्र म॑सृज तासृजता ग्निहो॒त्रम् । 4) अ॒ग्नि॒हो॒त्र-ञ्च॑ चाग्निहो॒त्र म॑ग्निहो॒त्र-ञ्च॑ । 4) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । 5) चा॒ग्नि॒ष्टो॒म म॑ग्निष्टो॒म-ञ्च॑ चाग्निष्टो॒मम् । 6) अ॒ग्नि॒ष्टो॒म-ञ्च॑ चाग्निष्टो॒म म॑ग्निष्टो॒म-ञ्च॑ । 6) अ॒ग्नि॒ष्टो॒ममित्य॑ग्नि - स्तो॒मम् । 7) च॒ पौ॒र्ण॒मा॒सी-म्पौ᳚र्णमा॒सी-ञ्च॑ च पौर्णमा॒सीम् । 8) पौ॒र्ण॒मा॒सी-ञ्च॑ च पौर्णमा॒सी-म्पौ᳚र्णमा॒सी-ञ्च॑ । 8) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् । 9) चो॒क्थ्य॑ मु॒क्थ्य॑-ञ्च चो॒क्थ्य᳚म् । 10) उ॒क्थ्य॑-ञ्च चो॒क्थ्य॑ मु॒क्थ्य॑-ञ्च । 11) चा॒मा॒वा॒स्या॑ ममावा॒स्या᳚-ञ्च चामावा॒स्या᳚म् । 12) अ॒मा॒वा॒स्या᳚-ञ्च चामावा॒स्या॑ ममावा॒स्या᳚-ञ्च । 12) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् । 13) चा॒ति॒रा॒त्र म॑तिरा॒त्र-ञ्च॑ चातिरा॒त्रम् । 14) अ॒ति॒रा॒त्र-ञ्च॑ चातिरा॒त्र म॑तिरा॒त्र-ञ्च॑ । 14) अ॒ति॒रा॒त्रमित्य॑ति - रा॒त्रम् । 15) च॒ ताग् स्ताग्श्च॑ च॒ तान् । 16) ता नुदु-त्ताग्स्ता नुत् । 17) उद॑मिमी तामिमी॒ तोदुद॑ मिमीत । 18) अ॒मि॒मी॒त॒ याव॒-द्याव॑ दमिमी तामिमीत॒ याव॑त् । 19) याव॑दग्निहो॒त्र म॑ग्निहो॒त्रं-याँव॒-द्याव॑दग्निहो॒त्रम् । 20) अ॒ग्नि॒हो॒त्र मासी॒दासी॑ दग्निहो॒त्र म॑ग्निहो॒त्र मासी᳚त् । 20) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । 21) आसी॒-त्तावा॒-न्तावा॒ नासी॒ दासी॒-त्तावान्॑ । 22) तावा॑ नग्निष्टो॒मो᳚ ऽग्निष्टो॒म स्तावा॒-न्तावा॑ नग्निष्टो॒मः । 23) अ॒ग्नि॒ष्टो॒मो याव॑ती॒ याव॑ त्यग्निष्टो॒मो᳚ ऽग्निष्टो॒मो याव॑ती । 23) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । 24) याव॑ती पौर्णमा॒सी पौ᳚र्णमा॒सी याव॑ती॒ याव॑ती पौर्णमा॒सी । 25) पौ॒र्ण॒मा॒सी तावा॒-न्तावा᳚-न्पौर्णमा॒सी पौ᳚र्णमा॒सी तावान्॑ । 25) पौ॒र्ण॒मा॒सीति॑ पौर्ण - मा॒सी । 26) तावा॑ नु॒क्थ्य॑ उ॒क्थ्य॑ स्तावा॒-न्तावा॑ नु॒क्थ्यः॑ । 27) उ॒क्थ्यो॑ याव॑ती॒ याव॑त्यु॒क्थ्य॑ उ॒क्थ्यो॑ याव॑ती । 28) याव॑त्यमावा॒स्या॑ ऽमावा॒स्या॑ याव॑ती॒ याव॑त्यमावा॒स्या᳚ । 29) अ॒मा॒वा॒स्या॑ तावा॒-न्तावा॑ नमावा॒स्या॑ ऽमावा॒स्या॑ तावान्॑ । 29) अ॒मा॒वा॒स्येत्य॑मा - वा॒स्या᳚ । 30) तावा॑ नतिरा॒त्रो॑ ऽतिरा॒त्र स्तावा॒-न्तावा॑ नतिरा॒त्रः । 31) अ॒ति॒रा॒त्रो यो यो॑ ऽतिरा॒त्रो॑ ऽतिरा॒त्रो यः । 31) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । 32) य ए॒व मे॒वं-योँ य ए॒वम् । 33) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 34) वि॒द्वा न॑ग्निहो॒त्र म॑ग्निहो॒त्रं-विँ॒द्वान्. वि॒द्वा न॑ग्निहो॒त्रम् । 35) अ॒ग्नि॒हो॒त्र-ञ्जु॒होति॑ जु॒हो त्य॑ग्निहो॒त्र म॑ग्निहो॒त्र-ञ्जु॒होति॑ । 35) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । 36) जु॒होति॒ याव॒-द्याव॑ज् जु॒होति॑ जु॒होति॒ याव॑त् । 37) याव॑ दग्निष्टो॒मे ना᳚ग्निष्टो॒मेन॒ याव॒-द्याव॑ दग्निष्टो॒मेन॑ । 38) अ॒ग्नि॒ष्टो॒मे नो॑पा॒प्नो त्यु॑पा॒प्नो त्य॑ग्निष्टो॒मे ना᳚ग्निष्टो॒मे नो॑पा॒प्नोति॑ । 38) अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि - स्तो॒मेन॑ । 39) उ॒पा॒प्नोति॒ ताव॒-त्ताव॑दुपा॒प्नो त्यु॑पा॒प्नोति॒ ताव॑त् । 39) उ॒पा॒प्नोतीत्यु॑प - आ॒प्नोति॑ । 40) ताव॒ दुपोप॒ ताव॒-त्ताव॒ दुप॑ । 41) उपा᳚प्नो त्याप्नो॒ त्यु पोपा᳚प्नोति । 42) आ॒प्नो॒ति॒ यो य आ᳚प्नो त्याप्नोति॒ यः । 43) य ए॒व मे॒वं-योँ य ए॒वम् । 44) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 45) वि॒द्वा-न्पौ᳚र्णमा॒सी-म्पौ᳚र्णमा॒सीं-विँ॒द्वान्. वि॒द्वा-न्पौ᳚र्णमा॒सीम् । 46) पौ॒र्ण॒मा॒सीं-यँज॑ते॒ यज॑ते पौर्णमा॒सी-म्पौ᳚र्णमा॒सीं-यँज॑ते । 46) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् । 47) यज॑ते॒ याव॒-द्याव॒-द्यज॑ते॒ यज॑ते॒ याव॑त् । 48) याव॑ दु॒क्थ्ये॑ नो॒क्थ्ये॑न॒ याव॒-द्याव॑ दु॒क्थ्ये॑न । 49) उ॒क्थ्ये॑ नोपा॒प्नो त्यु॑पा॒प्नो त्यु॒क्थ्ये॑ नो॒क्थ्ये॑नोपा॒प्नोति॑ । 50) उ॒पा॒प्नोति॒ ताव॒-त्ताव॑दुपा॒प्नो त्यु॑पा॒प्नोति॒ ताव॑त् । 50) उ॒पा॒प्नोतीत्यु॑प - आ॒प्नोति॑ । ॥ 29 ॥ (50/66)
1) ताव॒ दुपोप॒ ताव॒-त्ताव॒ दुप॑ । 2) उपा᳚प्नो त्याप्नो॒ त्युपोपा᳚प्नोति । 3) आ॒प्नो॒ति॒ यो य आ᳚प्नो त्याप्नोति॒ यः । 4) य ए॒व मे॒वं-योँ य ए॒वम् । 5) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 6) वि॒द्वा न॑मावा॒स्या॑ ममावा॒स्यां᳚-विँ॒द्वान्. वि॒द्वा न॑मावा॒स्या᳚म् । 7) अ॒मा॒वा॒स्यां᳚-यँज॑ते॒ यज॑ते ऽमावा॒स्या॑ ममावा॒स्यां᳚-यँज॑ते । 7) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् । 8) यज॑ते॒ याव॒-द्याव॒-द्यज॑ते॒ यज॑ते॒ याव॑त् । 9) याव॑ दतिरा॒त्रे णा॑तिरा॒त्रेण॒ याव॒-द्याव॑ दतिरा॒त्रेण॑ । 10) अ॒ति॒रा॒त्रे णो॑पा॒प्नो त्यु॑पा॒प्नो त्य॑तिरा॒त्रे णा॑तिरा॒त्रे णो॑पा॒प्नोति॑ । 10) अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ । 11) उ॒पा॒प्नोति॒ ताव॒-त्ताव॑दुपा॒प्नो त्यु॑पा॒प्नोति॒ ताव॑त् । 11) उ॒पा॒प्नोतीत्यु॑प - आ॒प्नोति॑ । 12) ताव॒ दुपोप॒ ताव॒-त्ताव॒ दुप॑ । 13) उपा᳚प्नो त्याप्नो॒ त्युपोपा᳚प्नोति । 14) आ॒प्नो॒ति॒ प॒र॒मे॒ष्ठिनः॑ परमे॒ष्ठिन॑ आप्नो त्याप्नोति परमे॒ष्ठिनः॑ । 15) प॒र॒मे॒ष्ठिनो॒ वै वै प॑रमे॒ष्ठिनः॑ परमे॒ष्ठिनो॒ वै । 16) वा ए॒ष ए॒ष वै वा ए॒षः । 17) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः । 18) य॒ज्ञो ऽग्रे ऽग्रे॑ य॒ज्ञो य॒ज्ञो ऽग्रे᳚ । 19) अग्र॑ आसी दासी॒ दग्रे ऽग्र॑ आसीत् । 20) आ॒सी॒-त्तेन॒ तेना॑सी दासी॒-त्तेन॑ । 21) तेन॒ स स तेन॒ तेन॒ सः । 22) स प॑र॒मा-म्प॑र॒माग्ं स स प॑र॒माम् । 23) प॒र॒मा-ङ्काष्ठा॒-ङ्काष्ठा᳚-म्पर॒मा-म्प॑र॒मा-ङ्काष्ठा᳚म् । 24) काष्ठा॑ मगच्छ दगच्छ॒-त्काष्ठा॒-ङ्काष्ठा॑ मगच्छत् । 25) अ॒ग॒च्छ॒-त्तेन॒ तेना॑गच्छ दगच्छ॒-त्तेन॑ । 26) तेन॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-न्तेन॒ तेन॑ प्र॒जाप॑तिम् । 27) प्र॒जाप॑ति-न्नि॒रवा॑सायय-न्नि॒रवा॑सायय-त्प्र॒जाप॑ति-म्प्र॒जाप॑ति-न्नि॒रवा॑साययत् । 27) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 28) नि॒रवा॑सायय॒-त्तेन॒ तेन॑ नि॒रवा॑सायय-न्नि॒रवा॑सायय॒-त्तेन॑ । 28) नि॒रवा॑सायय॒दिति॑ निः - अवा॑साययत् । 29) तेन॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒ स्तेन॒ तेन॑ प्र॒जाप॑तिः । 30) प्र॒जाप॑तिः पर॒मा-म्प॑र॒मा-म्प्र॒जाप॑तिः प्र॒जाप॑तिः पर॒माम् । 30) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 31) प॒र॒मा-ङ्काष्ठा॒-ङ्काष्ठा᳚-म्पर॒मा-म्प॑र॒मा-ङ्काष्ठा᳚म् । 32) काष्ठा॑ मगच्छ दगच्छ॒-त्काष्ठा॒-ङ्काष्ठा॑ मगच्छत् । 33) अ॒ग॒च्छ॒-त्तेन॒ तेना॑गच्छ दगच्छ॒-त्तेन॑ । 34) तेने न्द्र॒ मिन्द्र॒-न्तेन॒ तेने न्द्र᳚म् । 35) इन्द्र॑-न्नि॒रवा॑सायय-न्नि॒रवा॑सायय॒ दिन्द्र॒ मिन्द्र॑-न्नि॒रवा॑साययत् । 36) नि॒रवा॑सायय॒-त्तेन॒ तेन॑ नि॒रवा॑सायय-न्नि॒रवा॑सायय॒-त्तेन॑ । 36) नि॒रवा॑सायय॒दिति॑ निः - अवा॑साययत् । 37) तेने न्द्र॒ इन्द्र॒ स्तेन॒ तेने न्द्रः॑ । 38) इन्द्रः॑ पर॒मा-म्प॑र॒मा मिन्द्र॒ इन्द्रः॑ पर॒माम् । 39) प॒र॒मा-ङ्काष्ठा॒-ङ्काष्ठा᳚-म्पर॒मा-म्प॑र॒मा-ङ्काष्ठा᳚म् । 40) काष्ठा॑ मगच्छ दगच्छ॒-त्काष्ठा॒-ङ्काष्ठा॑ मगच्छत् । 41) अ॒ग॒च्छ॒-त्तेन॒ तेना॑गच्छ दगच्छ॒-त्तेन॑ । 42) तेना॒ग्नीषोमा॑ व॒ग्नीषोमौ॒ तेन॒ तेना॒ग्नीषोमौ᳚ । 43) अ॒ग्नीषोमौ॑ नि॒रवा॑सायय-न्नि॒रवा॑सायय द॒ग्नीषोमा॑ व॒ग्नीषोमौ॑ नि॒रवा॑साययत् । 43) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । 44) नि॒रवा॑सायय॒-त्तेन॒ तेन॑ नि॒रवा॑सायय-न्नि॒रवा॑सायय॒-त्तेन॑ । 44) नि॒रवा॑सायय॒दिति॑ निः - अवा॑साययत् । 45) तेना॒ग्नीषोमा॑ व॒ग्नीषोमौ॒ तेन॒ तेना॒ग्नीषोमौ᳚ । 46) अ॒ग्नीषोमौ॑ पर॒मा-म्प॑र॒मा म॒ग्नीषोमा॑ व॒ग्नीषोमौ॑ पर॒माम् । 46) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । 47) प॒र॒मा-ङ्काष्ठा॒-ङ्काष्ठा᳚-म्पर॒मा-म्प॑र॒मा-ङ्काष्ठा᳚म् । 48) काष्ठा॑ मगच्छता मगच्छता॒-ङ्काष्ठा॒-ङ्काष्ठा॑ मगच्छताम् । 49) अ॒ग॒च्छ॒तां॒-योँ यो॑ ऽगच्छता मगच्छतां॒-यः ँ। 50) य ए॒व मे॒वं-योँ य ए॒वम् । ॥ 30 ॥ (50/60)
1) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 2) वि॒द्वा-न्द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्शपूर्णमा॒सौ । 3) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ यज॑ते । 3) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 4) यज॑ते पर॒मा-म्प॑र॒मां-यँज॑ते॒ यज॑ते पर॒माम् । 5) प॒र॒मा मे॒वैव प॑र॒मा-म्प॑र॒मा मे॒व । 6) ए॒व काष्ठा॒-ङ्काष्ठा॑ मे॒वैव काष्ठा᳚म् । 7) काष्ठा᳚-ङ्गच्छति गच्छति॒ काष्ठा॒-ङ्काष्ठा᳚-ङ्गच्छति । 8) ग॒च्छ॒ति॒ यो यो ग॑च्छति गच्छति॒ यः । 9) यो वै वै यो यो वै । 10) वै प्रजा॑तेन॒ प्रजा॑तेन॒ वै वै प्रजा॑तेन । 11) प्रजा॑तेन य॒ज्ञेन॑ य॒ज्ञेन॒ प्रजा॑तेन॒ प्रजा॑तेन य॒ज्ञेन॑ । 11) प्रजा॑ते॒नेति॒ प्र - जा॒ते॒न॒ । 12) य॒ज्ञेन॒ यज॑ते॒ यज॑ते य॒ज्ञेन॑ य॒ज्ञेन॒ यज॑ते । 13) यज॑ते॒ प्र प्र यज॑ते॒ यज॑ते॒ प्र । 14) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ । 15) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 15) प्र॒जयेति॑ प्र - जया᳚ । 16) प॒शुभि॑-र्मिथु॒नै-र्मि॑थु॒नैः प॒शुभिः॑ प॒शुभि॑-र्मिथु॒नैः । 16) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 17) मि॒थु॒नै-र्जा॑यते जायते मिथु॒नै-र्मि॑थु॒नै-र्जा॑यते । 18) जा॒य॒ते॒ द्वाद॑श॒ द्वाद॑श जायते जायते॒ द्वाद॑श । 19) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 20) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 21) सं॒वँ॒थ्स॒रो द्वाद॑श॒ द्वाद॑श संवँथ्स॒र-स्सं॑वँथ्स॒रो द्वाद॑श । 21) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 22) द्वाद॑श द्व॒न्द्वानि॑ द्व॒न्द्वानि॒ द्वाद॑श॒ द्वाद॑श द्व॒न्द्वानि॑ । 23) द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयो᳚-र्दर्शपूर्णमा॒सयो᳚-र्द्व॒न्द्वानि॑ द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयोः᳚ । 23) द्व॒न्द्वानीति॑ द्वं - द्वानि॑ । 24) द॒र्॒श॒पू॒र्ण॒मा॒सयो॒ स्तानि॒ तानि॑ दर्शपूर्णमा॒सयो᳚-र्दर्शपूर्णमा॒सयो॒ स्तानि॑ । 24) द॒र्॒श॒पू॒र्ण॒मा॒सयो॒रिति॑ दर्श - पू॒र्ण॒मा॒सयोः᳚ । 25) तानि॑ स॒म्पाद्या॑नि स॒म्पाद्या॑नि॒ तानि॒ तानि॑ स॒म्पाद्या॑नि । 26) स॒म्पाद्या॒नी तीति॑ स॒म्पाद्या॑नि स॒म्पाद्या॒नी ति॑ । 26) स॒म्पाद्या॒नीति॑ सं - पाद्या॑नि । 27) इत्या॑हु राहु॒ रिती त्या॑हुः । 28) आ॒हु॒-र्व॒थ्सं-वँ॒थ्स मा॑हु राहु-र्व॒थ्सम् । 29) व॒थ्स-ञ्च॑ च व॒थ्सं-वँ॒थ्स-ञ्च॑ । 30) चो॒पा॒व॒सृ॒ज त्यु॑पावसृ॒जति॑ च चोपावसृ॒जति॑ । 31) उ॒पा॒व॒सृ॒ज त्यु॒खा मु॒खा मु॑पावसृ॒ज त्यु॑पावसृ॒ज त्यु॒खाम् । 31) उ॒पा॒व॒सृ॒जतीत्यु॑प - अ॒व॒सृ॒जति॑ । 32) उ॒खा-ञ्च॑ चो॒खा मु॒खा-ञ्च॑ । 33) चाध्यधि॑ च॒ चाधि॑ । 34) अधि॑ श्रयति श्रय॒ त्यध्यधि॑ श्रयति । 35) श्र॒य॒त्यवाव॑ श्रयति श्रय॒त्यव॑ । 36) अव॑ च॒ चावाव॑ च । 37) च॒ हन्ति॒ हन्ति॑ च च॒ हन्ति॑ । 38) हन्ति॑ दृ॒षदौ॑ दृ॒षदौ॒ हन्ति॒ हन्ति॑ दृ॒षदौ᳚ । 39) दृ॒षदौ॑ च च दृ॒षदौ॑ दृ॒षदौ॑ च । 40) च॒ स॒माह॑न्ति स॒माह॑न्ति च च स॒माह॑न्ति । 41) स॒माह॒ न्त्यध्यधि॑ स॒माह॑न्ति स॒माह॒ न्त्यधि॑ । 41) स॒माह॒न्तीति॑ सं - आह॑न्ति । 42) अधि॑ च॒ चाध्यधि॑ च । 43) च॒ वप॑ते॒ वप॑ते च च॒ वप॑ते । 44) वप॑ते क॒पाला॑नि क॒पाला॑नि॒ वप॑ते॒ वप॑ते क॒पाला॑नि । 45) क॒पाला॑नि च च क॒पाला॑नि क॒पाला॑नि च । 46) चोपोप॑ च॒ चोप॑ । 47) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 48) द॒धा॒ति॒ पु॒रो॒डाश॑-म्पुरो॒डाश॑-न्दधाति दधाति पुरो॒डाश᳚म् । 49) पु॒रो॒डाश॑-ञ्च च पुरो॒डाश॑-म्पुरो॒डाश॑-ञ्च । 50) चा॒धि॒श्रय॑ त्यधि॒श्रय॑ति च चाधि॒श्रय॑ति । ॥ 31 ॥ (50/60)
1) अ॒धि॒श्रय॒ त्याज्य॒ माज्य॑ मधि॒श्रय॑ त्यधि॒श्रय॒ त्याज्य᳚म् । 1) अ॒धि॒श्रय॒तीत्य॑धि - श्रय॑ति । 2) आज्य॑-ञ्च॒ चाज्य॒ माज्य॑-ञ्च । 3) च॒ स्त॒म्ब॒य॒जु-स्स्त॑म्बय॒जुश्च॑ च स्तम्बय॒जुः । 4) स्त॒म्ब॒य॒जुश्च॑ च स्तम्बय॒जु-स्स्त॑म्बय॒जुश्च॑ । 4) स्त॒म्ब॒य॒जुरिति॑ स्तम्ब - य॒जुः । 5) च॒ हर॑ति॒ हर॑ति च च॒ हर॑ति । 6) हर॑त्य॒ भ्य॑भि हर॑ति॒ हर॑ त्य॒भि । 7) अ॒भि च॑ चा॒भ्य॑भि च॑ । 8) च॒ गृ॒ह्णा॒ति॒ गृ॒ह्णा॒ति॒ च॒ च॒ गृ॒ह्णा॒ति॒ । 9) गृ॒ह्णा॒ति॒ वेदिं॒-वेँदि॑-ङ्गृह्णाति गृह्णाति॒ वेदि᳚म् । 10) वेदि॑-ञ्च च॒ वेदिं॒-वेँदि॑-ञ्च । 11) च॒ प॒रि॒गृ॒ह्णाति॑ परिगृ॒ह्णाति॑ च च परिगृ॒ह्णाति॑ । 12) प॒रि॒गृ॒ह्णाति॒ पत्नी॒-म्पत्नी᳚-म्परिगृ॒ह्णाति॑ परिगृ॒ह्णाति॒ पत्नी᳚म् । 12) प॒रि॒गृ॒ह्णातीति॑ परि - गृ॒ह्णाति॑ । 13) पत्नी᳚-ञ्च च॒ पत्नी॒-म्पत्नी᳚-ञ्च । 14) च॒ सग्ं स-ञ्च॑ च॒ सम् । 15) स-न्न॑ह्यति नह्यति॒ सग्ं स-न्न॑ह्यति । 16) न॒ह्य॒ति॒ प्रोक्ष॑णीः॒ प्रोक्ष॑णी-र्नह्यति नह्यति॒ प्रोक्ष॑णीः । 17) प्रोक्ष॑णीश्च च॒ प्रोक्ष॑णीः॒ प्रोक्ष॑णीश्च । 17) प्रोक्ष॑णी॒रिति॑ प्र - उक्ष॑णीः । 18) चा॒सा॒दय॑ त्यासा॒दय॑ति च चासा॒दय॑ति । 19) आ॒सा॒दय॒ त्याज्य॒ माज्य॑ मासा॒दय॑ त्यासा॒दय॒ त्याज्य᳚म् । 19) आ॒सा॒दय॒तीत्या᳚ - सा॒दय॑ति । 20) आज्य॑-ञ्च॒ चाज्य॒ माज्य॑-ञ्च । 21) चै॒ता न्ये॒तानि॑ च चै॒तानि॑ । 22) ए॒तानि॒ वै वा ए॒ता न्ये॒तानि॒ वै । 23) वै द्वाद॑श॒ द्वाद॑श॒ वै वै द्वाद॑श । 24) द्वाद॑श द्व॒न्द्वानि॑ द्व॒न्द्वानि॒ द्वाद॑श॒ द्वाद॑श द्व॒न्द्वानि॑ । 25) द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयो᳚-र्दर्शपूर्णमा॒सयो᳚-र्द्व॒न्द्वानि॑ द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयोः᳚ । 25) द्व॒न्द्वानीति॑ द्वं - द्वानि॑ । 26) द॒र्॒श॒पू॒र्ण॒मा॒सयो॒ स्तानि॒ तानि॑ दर्शपूर्णमा॒सयो᳚-र्दर्शपूर्णमा॒सयो॒ स्तानि॑ । 26) द॒र्॒श॒पू॒र्ण॒मा॒सयो॒रिति॑ दर्श - पू॒र्ण॒मा॒सयोः᳚ । 27) तानि॒ यो य स्तानि॒ तानि॒ यः । 28) य ए॒व मे॒वं-योँ य ए॒वम् । 29) ए॒वग्ं स॒म्पाद्य॑ स॒म्पाद्यै॒व मे॒वग्ं स॒म्पाद्य॑ । 30) स॒म्पाद्य॒ यज॑ते॒ यज॑ते स॒म्पाद्य॑ स॒म्पाद्य॒ यज॑ते । 30) स॒म्पाद्येति॑ सं - पाद्य॑ । 31) यज॑ते॒ प्रजा॑तेन॒ प्रजा॑तेन॒ यज॑ते॒ यज॑ते॒ प्रजा॑तेन । 32) प्रजा॑ते नै॒वैव प्रजा॑तेन॒ प्रजा॑ते नै॒व । 32) प्रजा॑ते॒नेति॒ प्र - जा॒ते॒न॒ । 33) ए॒व य॒ज्ञेन॑ य॒ज्ञे नै॒वैव य॒ज्ञेन॑ । 34) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते । 35) य॒ज॒ते॒ प्र प्र य॑जते यजते॒ प्र । 36) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ । 37) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 37) प्र॒जयेति॑ प्र - जया᳚ । 38) प॒शुभि॑-र्मिथु॒नै-र्मि॑थु॒नैः प॒शुभिः॑ प॒शुभि॑-र्मिथु॒नैः । 38) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 39) मि॒थु॒नै-र्जा॑यते जायते मिथु॒नै-र्मि॑थु॒नै-र्जा॑यते । 40) जा॒य॒त॒ इति॑ जायते । ॥ 32 ॥ (40/51) ॥ अ. 9 ॥
1) ध्रु॒वो᳚ ऽस्यसि ध्रु॒वो ध्रु॒वो॑ ऽसि । 2) अ॒सि॒ ध्रु॒वो ध्रु॒वो᳚ ऽस्यसि ध्रु॒वः । 3) ध्रु॒वो॑ ऽह म॒ह-न्ध्रु॒वो ध्रु॒वो॑ ऽहम् । 4) अ॒हग्ं स॑जा॒तेषु॑ सजा॒ते ष्व॒ह म॒हग्ं स॑जा॒तेषु॑ । 5) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् । 5) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । 6) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ । 7) इत्या॑हा॒हे तीत्या॑ह । 8) आ॒ह॒ ध्रु॒वा-न्ध्रु॒वा ना॑हाह ध्रु॒वान् । 9) ध्रु॒वा ने॒वैव ध्रु॒वा-न्ध्रु॒वा ने॒व । 10) ए॒वैना॑ नेना ने॒वै वैनान्॑ । 11) ए॒ना॒न् कु॒रु॒ते॒ कु॒रु॒त॒ ए॒ना॒ ने॒ना॒न् कु॒रु॒ते॒ । 12) कु॒रु॒त॒ उ॒ग्र उ॒ग्रः कु॑रुते कुरुत उ॒ग्रः । 13) उ॒ग्रो᳚ ऽस्यस्यु॒ग्र उ॒ग्रो॑ ऽसि । 14) अ॒स्यु॒ग्र उ॒ग्रो᳚ ऽस्यस्यु॒ग्रः । 15) उ॒ग्रो॑ ऽह म॒ह मु॒ग्र उ॒ग्रो॑ ऽहम् । 16) अ॒हग्ं स॑जा॒तेषु॑ सजा॒तेष्व॒ह म॒हग्ं स॑जा॒तेषु॑ । 17) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् । 17) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । 18) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ । 19) इत्या॑हा॒हे तीत्या॑ह । 20) आ॒हा प्र॑तिवादि॒नो ऽप्र॑तिवादिन आहा॒हा प्र॑तिवादिनः । 21) अप्र॑तिवादिन ए॒वै वाप्र॑तिवादि॒नो ऽप्र॑तिवादिन ए॒व । 21) अप्र॑तिवादिन॒ इत्यप्र॑ति - वा॒दि॒नः॒ । 22) ए॒वैना॑ नेना ने॒वै वैनान्॑ । 23) ए॒ना॒न् कु॒रु॒ते॒ कु॒रु॒त॒ ए॒ना॒ ने॒ना॒न् कु॒रु॒ते॒ । 24) कु॒रु॒ते॒ ऽभि॒भू र॑भि॒भूः कु॑रुते कुरुते ऽभि॒भूः । 25) अ॒भि॒भू र॑स्यस्यभि॒भू र॑भि॒भू र॑सि । 25) अ॒भि॒भूरित्य॑भि - भूः । 26) अ॒स्य॒भि॒भू र॑भि॒भू र॑स्यस्यभि॒भूः । 27) अ॒भि॒भू र॒ह म॒ह म॑भि॒भू र॑भि॒भू र॒हम् । 27) अ॒भि॒भूरित्य॑भि - भूः । 28) अ॒हग्ं स॑जा॒तेषु॑ सजा॒तेष्व॒ह म॒हग्ं स॑जा॒तेषु॑ । 29) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् । 29) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । 30) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ । 31) इत्या॑हा॒हे तीत्या॑ह । 32) आ॒ह॒ यो य आ॑हाह॒ यः । 33) य ए॒वैव यो य ए॒व । 34) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 35) ए॒न॒-म्प्र॒त्यु॒त्पिपी॑ते प्रत्यु॒त्पिपी॑त एन मेन-म्प्रत्यु॒त्पिपी॑ते । 36) प्र॒त्यु॒त्पिपी॑ते॒ त-न्त-म्प्र॑त्यु॒त्पिपी॑ते प्रत्यु॒त्पिपी॑ते॒ तम् । 36) प्र॒त्यु॒त्पिपी॑त॒ इति॑ प्रति - उ॒त्पिपी॑ते । 37) त मुपोप॒ त-न्त मुप॑ । 38) उपा᳚स्यते ऽस्यत॒ उपोपा᳚स्यते । 39) अ॒स्य॒ते॒ यु॒नज्मि॑ यु॒न ज्म्य॑स्यते ऽस्यते यु॒नज्मि॑ । 40) यु॒नज्मि॑ त्वा त्वा यु॒नज्मि॑ यु॒नज्मि॑ त्वा । 41) त्वा॒ ब्रह्म॑णा॒ ब्रह्म॑णा त्वा त्वा॒ ब्रह्म॑णा । 42) ब्रह्म॑णा॒ दैव्ये॑न॒ दैव्ये॑न॒ ब्रह्म॑णा॒ ब्रह्म॑णा॒ दैव्ये॑न । 43) दैव्ये॒ने तीति॒ दैव्ये॑न॒ दैव्ये॒ने ति॑ । 44) इत्या॑हा॒हे तीत्या॑ह । 45) आ॒है॒ष ए॒ष आ॑हा है॒षः । 46) ए॒ष वै वा ए॒ष ए॒ष वै । 47) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 48) अ॒ग्ने-र्योगो॒ योगो॒ ऽग्ने र॒ग्ने-र्योगः॑ । 49) योग॒ स्तेन॒ तेन॒ योगो॒ योग॒ स्तेन॑ । 50) तेनै॒ वैव तेन॒ तेनै॒व । ॥ 33 ॥ (50/57)
1) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 2) ए॒नं॒-युँ॒न॒क्ति॒ यु॒न॒-क्त्ये॒न॒ मे॒नं॒-युँ॒न॒क्ति॒ । 3) यु॒न॒क्ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ युनक्ति युनक्ति य॒ज्ञस्य॑ । 4) य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै । 5) वै समृ॑द्धेन॒ समृ॑द्धेन॒ वै वै समृ॑द्धेन । 6) समृ॑द्धेन दे॒वा दे॒वा-स्समृ॑द्धेन॒ समृ॑द्धेन दे॒वाः । 6) समृ॑द्धे॒नेति॒ सं - ऋ॒द्धे॒न॒ । 7) दे॒वा-स्सु॑व॒र्गग्ं सु॑व॒र्ग-न्दे॒वा दे॒वा-स्सु॑व॒र्गम् । 8) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 8) सु॒व॒र्गमिति॑ सुवः - गम् । 9) लो॒क मा॑य-न्नायन्न् ँलो॒कम् ँलो॒क मा॑यन्न् । 10) आ॒य॒न्॒. य॒ज्ञस्य॑ य॒ज्ञस्या॑य-न्नायन्. य॒ज्ञस्य॑ । 11) य॒ज्ञस्य॒ व्यृ॑द्धेन॒ व्यृ॑द्धेन य॒ज्ञस्य॑ य॒ज्ञस्य॒ व्यृ॑द्धेन । 12) व्यृ॑द्धे॒नासु॑रा॒ नसु॑रा॒न् व्यृ॑द्धेन॒ व्यृ॑द्धे॒नासु॑रान् । 12) व्यृ॑द्धे॒नेति॒ वि - ऋ॒द्धे॒न॒ । 13) असु॑रा॒-न्परा॒ परा ऽसु॑रा॒ नसु॑रा॒-न्परा᳚ । 14) परा॑ ऽभावय-न्नभावय॒-न्परा॒ परा॑ ऽभावयन्न् । 15) अ॒भा॒व॒य॒न्॒. य-द्यद॑भावय-न्नभावय॒न्॒. यत् । 16) य-न्मे॑ मे॒ य-द्य-न्मे᳚ । 17) मे॒ अ॒ग्ने॒ ऽग्ने॒ मे॒ मे॒ अ॒ग्ने॒ । 18) अ॒ग्ने॒ अ॒स्यास्याग्ने᳚ ऽग्ने अ॒स्य । 19) अ॒स्य य॒ज्ञस्य॑ य॒ज्ञ स्या॒स्यास्य य॒ज्ञस्य॑ । 20) य॒ज्ञस्य॒ रिष्या॒-द्रिष्या᳚-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ रिष्या᳚त् । 21) रिष्या॒ दितीति॒ रिष्या॒-द्रिष्या॒ दिति॑ । 22) इत्या॑हा॒हे तीत्या॑ह । 23) आ॒ह॒ य॒ज्ञस्य॑ य॒ज्ञ स्या॑हाह य॒ज्ञस्य॑ । 24) य॒ज्ञस्यै॒ वैव य॒ज्ञस्य॑ य॒ज्ञस्यै॒व । 25) ए॒व त-त्तदे॒ वैव तत् । 26) त-थ्समृ॑द्धेन॒ समृ॑द्धेन॒ त-त्त-थ्समृ॑द्धेन । 27) समृ॑द्धेन॒ यज॑मानो॒ यज॑मान॒-स्समृ॑द्धेन॒ समृ॑द्धेन॒ यज॑मानः । 27) समृ॑द्धे॒नेति॒ सं - ऋ॒द्धे॒न॒ । 28) यज॑मान-स्सुव॒र्गग्ं सु॑व॒र्गं-यँज॑मानो॒ यज॑मान-स्सुव॒र्गम् । 29) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 29) सु॒व॒र्गमिति॑ सुवः - गम् । 30) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 31) ए॒ति॒ य॒ज्ञस्य॑ य॒ज्ञ स्यै᳚त्येति य॒ज्ञस्य॑ । 32) य॒ज्ञस्य॒ व्यृ॑द्धेन॒ व्यृ॑द्धेन य॒ज्ञस्य॑ य॒ज्ञस्य॒ व्यृ॑द्धेन । 33) व्यृ॑द्धेन॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒न् व्यृ॑द्धेन॒ व्यृ॑द्धेन॒ भ्रातृ॑व्यान् । 33) व्यृ॑द्धे॒नेति॒ वि - ऋ॒द्धे॒न॒ । 34) भ्रातृ॑व्या॒-न्परा॒ परा॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒-न्परा᳚ । 35) परा॑ भावयति भावयति॒ परा॒ परा॑ भावयति । 36) भा॒व॒य॒ त्य॒ग्नि॒हो॒त्र म॑ग्निहो॒त्र-म्भा॑वयति भावय त्यग्निहो॒त्रम् । 37) अ॒ग्नि॒हो॒त्र मे॒ताभि॑ रे॒ताभि॑ रग्निहो॒त्र म॑ग्निहो॒त्र मे॒ताभिः॑ । 37) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । 38) ए॒ताभि॒-र्व्याहृ॑तीभि॒-र्व्याहृ॑तीभि रे॒ताभि॑ रे॒ताभि॒-र्व्याहृ॑तीभिः । 39) व्याहृ॑तीभि॒ रुपोप॒ व्याहृ॑तीभि॒-र्व्याहृ॑तीभि॒ रुप॑ । 39) व्याहृ॑तीभि॒रिति॒ व्याहृ॑ति - भिः॒ । 40) उप॑ सादये-थ्सादये॒ दुपोप॑ सादयेत् । 41) सा॒द॒ये॒-द्य॒ज्ञ॒मु॒खं-यँ॑ज्ञमु॒खग्ं सा॑दये-थ्सादये-द्यज्ञमु॒खम् । 42) य॒ज्ञ॒मु॒खं-वैँ वै य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खं-वैँ । 42) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 43) वा अ॑ग्निहो॒त्र म॑ग्निहो॒त्रं-वैँ वा अ॑ग्निहो॒त्रम् । 44) अ॒ग्नि॒हो॒त्र-म्ब्रह्म॒ ब्रह्मा᳚ग्निहो॒त्र म॑ग्निहो॒त्र-म्ब्रह्म॑ । 44) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । 45) ब्रह्मै॒ता ए॒ता ब्रह्म॒ ब्रह्मै॒ताः । 46) ए॒ता व्याहृ॑तयो॒ व्याहृ॑तय ए॒ता ए॒ता व्याहृ॑तयः । 47) व्याहृ॑तयो यज्ञमु॒खे य॑ज्ञमु॒खे व्याहृ॑तयो॒ व्याहृ॑तयो यज्ञमु॒खे । 47) व्याहृ॑तय॒ इति॑ वि - आहृ॑तयः । 48) य॒ज्ञ॒मु॒ख ए॒वैव य॑ज्ञमु॒खे य॑ज्ञमु॒ख ए॒व । 48) य॒ज्ञ॒मु॒ख इति॑ यज्ञ - मु॒खे । 49) ए॒व ब्रह्म॒ ब्रह्मै॒वैव ब्रह्म॑ । 50) ब्रह्म॑ कुरुते कुरुते॒ ब्रह्म॒ ब्रह्म॑ कुरुते । ॥ 34 ॥ (50/62)
1) कु॒रु॒ते॒ सं॒वँ॒थ्स॒रे सं॑वँथ्स॒रे कु॑रुते कुरुते संवँथ्स॒रे । 2) सं॒वँ॒थ्स॒रे प॒र्याग॑ते प॒र्याग॑ते संवँथ्स॒रे सं॑वँथ्स॒रे प॒र्याग॑ते । 2) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 3) प॒र्याग॑त ए॒ताभि॑ रे॒ताभिः॑ प॒र्याग॑ते प॒र्याग॑त ए॒ताभिः॑ । 3) प॒र्याग॑त॒ इति॑ परि - आग॑ते । 4) ए॒ताभि॑ रे॒ वैवैताभि॑ रे॒ताभि॑ रे॒व । 5) ए॒वो पोपै॒वै वोप॑ । 6) उप॑ सादये-थ्सादये॒ दुपोप॑ सादयेत् । 7) सा॒द॒ये॒-द्ब्रह्म॑णा॒ ब्रह्म॑णा सादये-थ्सादये॒-द्ब्रह्म॑णा । 8) ब्रह्म॑णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 9) ए॒वोभ॒यत॑ उभ॒यत॑ ए॒वै वोभ॒यतः॑ । 10) उ॒भ॒यत॑-स्संवँथ्स॒रग्ं सं॑वँथ्स॒र मु॑भ॒यत॑ उभ॒यत॑-स्संवँथ्स॒रम् । 11) सं॒वँ॒थ्स॒र-म्परि॒ परि॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र-म्परि॑ । 11) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 12) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति । 13) गृ॒ह्णा॒ति॒ द॒र्॒श॒पू॒र्ण॒मा॒सौ द॑र्शपूर्णमा॒सौ गृ॑ह्णाति गृह्णाति दर्शपूर्णमा॒सौ । 14) द॒र्॒श॒पू॒र्ण॒मा॒सौ चा॑तुर्मा॒स्यानि॑ चातुर्मा॒स्यानि॑ दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ चा॑तुर्मा॒स्यानि॑ । 14) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 15) चा॒तु॒र्मा॒स्या न्या॒लभ॑मान आ॒लभ॑मान श्चातुर्मा॒स्यानि॑ चातुर्मा॒स्या न्या॒लभ॑मानः । 15) चा॒तु॒र्मा॒स्यानीति॑ चातुः - मा॒स्यानि॑ । 16) आ॒लभ॑मान ए॒ताभि॑ रे॒ताभि॑ रा॒लभ॑मान आ॒लभ॑मान ए॒ताभिः॑ । 16) आ॒लभ॑मान॒ इत्या᳚ - लभ॑मानः । 17) ए॒ताभि॒-र्व्याहृ॑तीभि॒-र्व्याहृ॑तीभि रे॒ताभि॑ रे॒ताभि॒-र्व्याहृ॑तीभिः । 18) व्याहृ॑तीभिर्-ह॒वीग्ंषि॑ ह॒वीग्ंषि॒ व्याहृ॑तीभि॒-र्व्याहृ॑तीभिर्-ह॒वीग्ंषि॑ । 18) व्याहृ॑तीभि॒रिति॒ व्याहृ॑ति - भिः॒ । 19) ह॒वीग्ष्या ह॒वीग्ंषि॑ ह॒वीग्ष्या । 20) आ सा॑दये-थ्सादये॒दा सा॑दयेत् । 21) सा॒द॒ये॒-द्य॒ज्ञ॒मु॒खं-यँ॑ज्ञमु॒खग्ं सा॑दये-थ्सादये-द्यज्ञमु॒खम् । 22) य॒ज्ञ॒मु॒खं-वैँ वै य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खं-वैँ । 22) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 23) वै द॑र्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ वै वै द॑र्शपूर्णमा॒सौ । 24) द॒र्॒श॒पू॒र्ण॒मा॒सौ चा॑तुर्मा॒स्यानि॑ चातुर्मा॒स्यानि॑ दर्शपूर्णमा॒सौ द॑र्शपूर्णमा॒सौ चा॑तुर्मा॒स्यानि॑ । 24) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्श - पू॒र्ण॒मा॒सौ । 25) चा॒तु॒र्मा॒स्यानि॒ ब्रह्म॒ ब्रह्म॑ चातुर्मा॒स्यानि॑ चातुर्मा॒स्यानि॒ ब्रह्म॑ । 25) चा॒तु॒र्मा॒स्यानीति॑ चातुः - मा॒स्यानि॑ । 26) ब्रह्मै॒ता ए॒ता ब्रह्म॒ ब्रह्मै॒ताः । 27) ए॒ता व्याहृ॑तयो॒ व्याहृ॑तय ए॒ता ए॒ता व्याहृ॑तयः । 28) व्याहृ॑तयो यज्ञमु॒खे य॑ज्ञमु॒खे व्याहृ॑तयो॒ व्याहृ॑तयो यज्ञमु॒खे । 28) व्याहृ॑तय॒ इति॑ वि - आहृ॑तयः । 29) य॒ज्ञ॒मु॒ख ए॒वैव य॑ज्ञमु॒खे य॑ज्ञमु॒ख ए॒व । 29) य॒ज्ञ॒मु॒ख इति॑ यज्ञ - मु॒खे । 30) ए॒व ब्रह्म॒ ब्रह्मै॒वैव ब्रह्म॑ । 31) ब्रह्म॑ कुरुते कुरुते॒ ब्रह्म॒ ब्रह्म॑ कुरुते । 32) कु॒रु॒ते॒ सं॒वँ॒थ्स॒रे सं॑वँथ्स॒रे कु॑रुते कुरुते संवँथ्स॒रे । 33) सं॒वँ॒थ्स॒रे प॒र्याग॑ते प॒र्याग॑ते संवँथ्स॒रे सं॑वँथ्स॒रे प॒र्याग॑ते । 33) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 34) प॒र्याग॑त ए॒ताभि॑ रे॒ताभिः॑ प॒र्याग॑ते प॒र्याग॑त ए॒ताभिः॑ । 34) प॒र्याग॑त॒ इति॑ परि - आग॑ते । 35) ए॒ताभि॑ रे॒ वैवैताभि॑ रे॒ताभि॑ रे॒व । 36) ए॒वै वैवा । 37) आ सा॑दये-थ्सादये॒दा सा॑दयेत् । 38) सा॒द॒ये॒-द्ब्रह्म॑णा॒ ब्रह्म॑णा सादये-थ्सादये॒-द्ब्रह्म॑णा । 39) ब्रह्म॑णै॒ वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 40) ए॒वोभ॒यत॑ उभ॒यत॑ ए॒वै वोभ॒यतः॑ । 41) उ॒भ॒यत॑-स्संवँथ्स॒रग्ं सं॑वँथ्स॒र मु॑भ॒यत॑ उभ॒यत॑-स्संवँथ्स॒रम् । 42) सं॒वँ॒थ्स॒र-म्परि॒ परि॑ संवँथ्स॒रग्ं सं॑वँथ्स॒र-म्परि॑ । 42) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 43) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति । 44) गृ॒ह्णा॒ति॒ य-द्य-द्गृ॑ह्णाति गृह्णाति॒ यत् । 45) य-द्वै वै य-द्य-द्वै । 46) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 47) य॒ज्ञस्य॒ साम्ना॒ साम्ना॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ साम्ना᳚ । 48) साम्ना᳚ क्रि॒यते᳚ क्रि॒यते॒ साम्ना॒ साम्ना᳚ क्रि॒यते᳚ । 49) क्रि॒यते॑ रा॒ष्ट्रग्ं रा॒ष्ट्र-ङ्क्रि॒यते᳚ क्रि॒यते॑ रा॒ष्ट्रम् । 50) रा॒ष्ट्रं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ रा॒ष्ट्रग्ं रा॒ष्ट्रं-यँ॒ज्ञस्य॑ । ॥ 35 ॥ (50/65)
1) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः । 2) आ॒शी-र्ग॑च्छति गच्छ त्या॒शी रा॒शी-र्ग॑च्छति । 2) आ॒शीरित्या᳚ - शीः । 3) ग॒च्छ॒ति॒ य-द्य-द्ग॑च्छति गच्छति॒ यत् । 4) यदृ॒चर्चा य-द्यदृ॒चा । 5) ऋ॒चा विशं॒-विँश॑ मृ॒चर्चा विश᳚म् । 6) विशं॑-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ विशं॒-विँशं॑-यँ॒ज्ञस्य॑ । 7) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः । 8) आ॒शी-र्ग॑च्छति गच्छ त्या॒शी रा॒शी-र्ग॑च्छति । 8) आ॒शीरित्या᳚ - शीः । 9) ग॒च्छ॒ त्यथाथ॑ गच्छति गच्छ॒ त्यथ॑ । 10) अथ॑ ब्राह्म॒णो ब्रा᳚ह्म॒णो ऽथाथ॑ ब्राह्म॒णः । 11) ब्रा॒ह्म॒णो॑ ऽना॒शीर्के॑णा ना॒शीर्के॑ण ब्राह्म॒णो ब्रा᳚ह्म॒णो॑ ऽना॒शीर्के॑ण । 12) अ॒ना॒शीर्के॑ण य॒ज्ञेन॑ य॒ज्ञेना॑ ना॒शीर्के॑णा ना॒शीर्के॑ण य॒ज्ञेन॑ । 13) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते । 14) य॒ज॒ते॒ सा॒मि॒धे॒नी-स्सा॑मिधे॒नी-र्य॑जते यजते सामिधे॒नीः । 15) सा॒मि॒धे॒नी र॑नुव॒क्ष्य-न्न॑नुव॒क्ष्य-न्थ्सा॑मिधे॒नी-स्सा॑मिधे॒नी र॑नुव॒क्ष्यन्न् । 15) सा॒मि॒धे॒नीरिति॑ साम् - इ॒धे॒नीः । 16) अ॒नु॒व॒क्ष्य-न्ने॒ता ए॒ता अ॑नुव॒क्ष्य-न्न॑नुव॒क्ष्य-न्ने॒ताः । 16) अ॒नु॒व॒क्ष्यन्नित्य॑नु - व॒क्ष्यन्न् । 17) ए॒ता व्याहृ॑ती॒-र्व्याहृ॑तीरे॒ता ए॒ता व्याहृ॑तीः । 18) व्याहृ॑तीः पु॒रस्ता᳚-त्पु॒रस्ता॒-द्व्याहृ॑ती॒-र्व्याहृ॑तीः पु॒रस्ता᳚त् । 18) व्याहृ॑ती॒रिति॑ वि - आहृ॑तीः । 19) पु॒रस्ता᳚-द्दद्ध्या-द्दद्ध्या-त्पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्दद्ध्यात् । 20) द॒द्ध्या॒-द्ब्रह्म॒ ब्रह्म॑ दद्ध्या-द्दद्ध्या॒-द्ब्रह्म॑ । 21) ब्रह्मै॒ वैव ब्रह्म॒ ब्रह्मै॒व । 22) ए॒व प्र॑ति॒पद॑-म्प्रति॒पद॑ मे॒वैव प्र॑ति॒पद᳚म् । 23) प्र॒ति॒पद॑-ङ्कुरुते कुरुते प्रति॒पद॑-म्प्रति॒पद॑-ङ्कुरुते । 23) प्र॒ति॒पद॒मिति॑ प्रति - पद᳚म् । 24) कु॒रु॒ते॒ तथा॒ तथा॑ कुरुते कुरुते॒ तथा᳚ । 25) तथा᳚ ब्राह्म॒णो ब्रा᳚ह्म॒ण स्तथा॒ तथा᳚ ब्राह्म॒णः । 26) ब्रा॒ह्म॒ण-स्साशी᳚र्केण॒ साशी᳚र्केण ब्राह्म॒णो ब्रा᳚ह्म॒ण-स्साशी᳚र्केण । 27) साशी᳚र्केण य॒ज्ञेन॑ य॒ज्ञेन॒ साशी᳚र्केण॒ साशी᳚र्केण य॒ज्ञेन॑ । 27) साशी᳚र्के॒णेति॒ स - आ॒शी॒र्के॒ण॒ । 28) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते । 29) य॒ज॒ते॒ यं-यंँ य॑जते यजते॒ यम् । 30) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 31) का॒मये॑त॒ यज॑मानं॒-यँज॑मान-ङ्का॒मये॑त का॒मये॑त॒ यज॑मानम् । 32) यज॑मान॒-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्यं॒-यँज॑मानं॒-यँज॑मान॒-म्भ्रातृ॑व्यम् । 33) भ्रातृ॑व्य मस्यास्य॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मस्य । 34) अ॒स्य॒ य॒ज्ञस्य॑ य॒ज्ञ स्या᳚स्यास्य य॒ज्ञस्य॑ । 35) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः । 36) आ॒शी-र्ग॑च्छे-द्गच्छे दा॒शी रा॒शी-र्ग॑च्छेत् । 36) आ॒शीरित्या᳚ - शीः । 37) ग॒च्छे॒ दितीति॑ गच्छे-द्गच्छे॒ दिति॑ । 38) इति॒ तस्य॒ तस्ये तीति॒ तस्य॑ । 39) तस्यै॒ता ए॒ता स्तस्य॒ तस्यै॒ताः । 40) ए॒ता व्याहृ॑ती॒-र्व्याहृ॑तीरे॒ता ए॒ता व्याहृ॑तीः । 41) व्याहृ॑तीः पुरोनुवा॒क्या॑या-म्पुरोनुवा॒क्या॑यां॒-व्याँहृ॑ती॒-र्व्याहृ॑तीः पुरोनुवा॒क्या॑याम् । 41) व्याहृ॑ती॒रिति॑ वि - आहृ॑तीः । 42) पु॒रो॒नु॒वा॒क्या॑या-न्दद्ध्या-द्दद्ध्या-त्पुरोनुवा॒क्या॑या-म्पुरोनुवा॒क्या॑या-न्दद्ध्यात् । 42) पु॒रो॒नु॒वा॒क्या॑या॒मिति॑ पुरः - अ॒नु॒वा॒क्या॑याम् । 43) द॒द्ध्या॒-द्भ्रा॒तृ॒व्य॒दे॒व॒त्या᳚ भ्रातृव्यदेव॒त्या॑ दद्ध्या-द्दद्ध्या-द्भ्रातृव्यदेव॒त्या᳚ । 44) भ्रा॒तृ॒व्य॒दे॒व॒त्या॑ वै वै भ्रा॑तृव्यदेव॒त्या᳚ भ्रातृव्यदेव॒त्या॑ वै । 44) भ्रा॒तृ॒व्य॒दे॒व॒त्येति॑ भ्रातृव्य - दे॒व॒त्या᳚ । 45) वै पु॑रोनुवा॒क्या॑ पुरोनुवा॒क्या॑ वै वै पु॑रोनुवा॒क्या᳚ । 46) पु॒रो॒नु॒वा॒क्या᳚ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-म्पुरोनुवा॒क्या॑ पुरोनुवा॒क्या᳚ भ्रातृ॑व्यम् । 46) पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ । 47) भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒व । 48) ए॒वास्या᳚ स्यै॒ वैवास्य॑ । 49) अ॒स्य॒ य॒ज्ञस्य॑ य॒ज्ञ स्या᳚स्यास्य य॒ज्ञस्य॑ । 50) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः । ॥ 36 ॥ (50/62)
1) आ॒शी-र्ग॑च्छति गच्छ त्या॒शी रा॒शी-र्ग॑च्छति । 1) आ॒शीरित्या᳚ - शीः । 2) ग॒च्छ॒ति॒ यान्. या-न्ग॑च्छति गच्छति॒ यान् । 3) यान् का॒मये॑त का॒मये॑त॒ यान्. यान् का॒मये॑त । 4) का॒मये॑त॒ यज॑माना॒न्॒. यज॑मानान् का॒मये॑त का॒मये॑त॒ यज॑मानान् । 5) यज॑माना-न्थ्स॒माव॑ती स॒माव॑ती॒ यज॑माना॒न्॒. यज॑माना-न्थ्स॒माव॑ती । 6) स॒माव॑ त्येना नेना-न्थ्स॒माव॑ती स॒माव॑ त्येनान् । 7) ए॒ना॒न्॒. य॒ज्ञस्य॑ य॒ज्ञ स्यै॑ना नेनान्. य॒ज्ञस्य॑ । 8) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः । 9) आ॒शी-र्ग॑च्छे-द्गच्छे दा॒शी रा॒शी-र्ग॑च्छेत् । 9) आ॒शीरित्या᳚ - शीः । 10) ग॒च्छे॒ दितीति॑ गच्छे-द्गच्छे॒ दिति॑ । 11) इति॒ तेषा॒-न्तेषा॒ मितीति॒ तेषा᳚म् । 12) तेषा॑ मे॒ता ए॒ता स्तेषा॒-न्तेषा॑ मे॒ताः । 13) ए॒ता व्याहृ॑ती॒-र्व्याहृ॑तीरे॒ता ए॒ता व्याहृ॑तीः । 14) व्याहृ॑तीः पुरोनुवा॒क्या॑याः पुरोनुवा॒क्या॑या॒ व्याहृ॑ती॒-र्व्याहृ॑तीः पुरोनुवा॒क्या॑याः । 14) व्याहृ॑ती॒रिति॑ वि - आहृ॑तीः । 15) पु॒रो॒नु॒वा॒क्या॑या अर्ध॒र्चे᳚ ऽर्ध॒र्चे पु॑रोनुवा॒क्या॑याः पुरोनुवा॒क्या॑या अर्ध॒र्चे । 15) पु॒रो॒नु॒वा॒क्या॑या॒ इति॑ पुरः - अ॒नु॒वा॒क्या॑याः । 16) अ॒र्ध॒र्च एका॒ मेका॑ मर्ध॒र्चे᳚ ऽर्ध॒र्च एका᳚म् । 16) अ॒र्ध॒र्च इत्य॑र्ध - ऋ॒चे । 17) एका᳚-न्दद्ध्या-द्दद्ध्या॒ देका॒ मेका᳚-न्दद्ध्यात् । 18) द॒द्ध्या॒-द्या॒ज्या॑यै या॒ज्या॑यै दद्ध्या-द्दद्ध्या-द्या॒ज्या॑यै । 19) या॒ज्या॑यै पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्या॒ज्या॑यै या॒ज्या॑यै पु॒रस्ता᳚त् । 20) पु॒रस्ता॒ देका॒ मेका᳚-म्पु॒रस्ता᳚-त्पु॒रस्ता॒ देका᳚म् । 21) एकां᳚-याँ॒ज्या॑या या॒ज्या॑या॒ एका॒ मेकां᳚-याँ॒ज्या॑याः । 22) या॒ज्या॑या अर्ध॒र्चे᳚ ऽर्ध॒र्चे या॒ज्या॑या या॒ज्या॑या अर्ध॒र्चे । 23) अ॒र्ध॒र्च एका॒ मेका॑ मर्ध॒र्चे᳚ ऽर्ध॒र्च एका᳚म् । 23) अ॒र्ध॒र्च इत्य॑र्ध - ऋ॒चे । 24) एका॒-न्तथा॒ तथैका॒ मेका॒-न्तथा᳚ । 25) तथै॑ना नेना॒-न्तथा॒ तथै॑नान् । 26) ए॒ना॒-न्थ्स॒माव॑ती स॒माव॑ त्येना नेना-न्थ्स॒माव॑ती । 27) स॒माव॑ती य॒ज्ञस्य॑ य॒ज्ञस्य॑ स॒माव॑ती स॒माव॑ती य॒ज्ञस्य॑ । 28) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः । 29) आ॒शी-र्ग॑च्छति गच्छ त्या॒शी रा॒शी-र्ग॑च्छति । 29) आ॒शीरित्या᳚ - शीः । 30) ग॒च्छ॒ति॒ यथा॒ यथा॑ गच्छति गच्छति॒ यथा᳚ । 31) यथा॒ वै वै यथा॒ यथा॒ वै । 32) वै प॒र्जन्यः॑ प॒र्जन्यो॒ वै वै प॒र्जन्यः॑ । 33) प॒र्जन्य॒-स्सुवृ॑ष्ट॒(ग्म्॒) सुवृ॑ष्ट-म्प॒र्जन्यः॑ प॒र्जन्य॒-स्सुवृ॑ष्टम् । 34) सुवृ॑ष्टं॒-वँर्ष॑ति॒ वर्ष॑ति॒ सुवृ॑ष्ट॒(ग्म्॒) सुवृ॑ष्टं॒-वँर्ष॑ति । 34) सुवृ॑ष्ट॒मिति॒ सु - वृ॒ष्ट॒म् । 35) वर्ष॑ त्ये॒व मे॒वं-वँर्ष॑ति॒ वर्ष॑ त्ये॒वम् । 36) ए॒वं-यँ॒ज्ञो य॒ज्ञ ए॒व मे॒वं-यँ॒ज्ञः । 37) य॒ज्ञो यज॑मानाय॒ यज॑मानाय य॒ज्ञो य॒ज्ञो यज॑मानाय । 38) यज॑मानाय वर्षति वर्षति॒ यज॑मानाय॒ यज॑मानाय वर्षति । 39) व॒र्॒ष॒ति॒ स्थल॑या॒ स्थल॑या वर्षति वर्षति॒ स्थल॑या । 40) स्थल॑यो द॒क मु॑द॒कग्ग् स्थल॑या॒ स्थल॑यो द॒कम् । 41) उ॒द॒क-म्प॑रिगृ॒ह्णन्ति॑ परिगृ॒ह्ण न्त्यु॑द॒क मु॑द॒क-म्प॑रिगृ॒ह्णन्ति॑ । 42) प॒रि॒गृ॒ह्ण न्त्या॒शिषा॒ ऽऽशिषा॑ परिगृ॒ह्णन्ति॑ परिगृ॒ह्ण न्त्या॒शिषा᳚ । 42) प॒रि॒गृ॒ह्णन्तीति॑ परि - गृ॒ह्णन्ति॑ । 43) आ॒शिषा॑ य॒ज्ञं-यँ॒ज्ञ मा॒शिषा॒ ऽऽशिषा॑ य॒ज्ञम् । 43) आ॒शिषेत्या᳚ - शिषा᳚ । 44) य॒ज्ञं-यँज॑मानो॒ यज॑मानो य॒ज्ञं-यँ॒ज्ञं-यँज॑मानः । 45) यज॑मानः॒ परि॒ परि॒ यज॑मानो॒ यज॑मानः॒ परि॑ । 46) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति । 47) गृ॒ह्णा॒ति॒ मनो॒ मनो॑ गृह्णाति गृह्णाति॒ मनः॑ । 48) मनो᳚ ऽस्यसि॒ मनो॒ मनो॑ ऽसि । 49) अ॒सि॒ प्रा॒जा॒प॒त्य-म्प्रा॑जाप॒त्य म॑स्यसि प्राजाप॒त्यम् । 50) प्रा॒जा॒प॒त्य-म्मन॑सा॒ मन॑सा प्राजाप॒त्य-म्प्रा॑जाप॒त्य-म्मन॑सा । 50) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । ॥ 37 ॥ (50/61)
1) मन॑सा मा मा॒ मन॑सा॒ मन॑सा मा । 2) मा॒ भू॒तेन॑ भू॒तेन॑ मा मा भू॒तेन॑ । 3) भू॒तेना भू॒तेन॑ भू॒तेना । 4) आ वि॑श वि॒शा वि॑श । 5) वि॒शे तीति॑ विश वि॒शे ति॑ । 6) इत्या॑ हा॒हे तीत्या॑ह । 7) आ॒ह॒ मनो॒ मन॑ आहाह॒ मनः॑ । 8) मनो॒ वै वै मनो॒ मनो॒ वै । 9) वै प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्यं-वैँ वै प्रा॑जाप॒त्यम् । 10) प्रा॒जा॒प॒त्य-म्प्रा॑जाप॒त्यः प्रा॑जाप॒त्यः प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्यः । 10) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । 11) प्रा॒जा॒प॒त्यो य॒ज्ञो य॒ज्ञः प्रा॑जाप॒त्यः प्रा॑जाप॒त्यो य॒ज्ञः । 11) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । 12) य॒ज्ञो मनो॒ मनो॑ य॒ज्ञो य॒ज्ञो मनः॑ । 13) मन॑ ए॒वैव मनो॒ मन॑ ए॒व । 14) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 15) य॒ज्ञ मा॒त्म-न्ना॒त्मन्. य॒ज्ञं-यँ॒ज्ञ मा॒त्मन्न् । 16) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 17) ध॒त्ते॒ वाग् वाग् ध॑त्ते धत्ते॒ वाक् । 18) वाग॑स्यसि॒ वाग् वाग॑सि । 19) अ॒स्यै॒ न्द्र्यै᳚(1॒)न्द्र्य॑स्य स्यै॒न्द्री । 20) ऐ॒न्द्री स॑पत्न॒क्षय॑णी सपत्न॒क्षय॑ण् यै॒न्द्र्यै᳚न्द्री स॑पत्न॒क्षय॑णी । 21) स॒प॒त्न॒क्षय॑णी वा॒चा वा॒चा स॑पत्न॒क्षय॑णी सपत्न॒क्षय॑णी वा॒चा । 21) स॒प॒त्न॒क्षय॒णीति॑ सपत्न - क्षय॑णी । 22) वा॒चा मा॑ मा वा॒चा वा॒चा मा᳚ । 23) मे॒न्द्रि॒येणे᳚ न्द्रि॒येण॑ मा मेन्द्रि॒येण॑ । 24) इ॒न्द्रि॒ये णेन्द्रि॒येणे᳚ न्द्रि॒येणा । 25) आ वि॑श वि॒शा वि॑श । 26) वि॒शे तीति॑ विश वि॒शे ति॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒है॒न्द्र्यै᳚(1॒)न्द्र्या॑हा है॒न्द्री । 29) ऐ॒न्द्री वै वा ऐ॒न्द्र्यै᳚न्द्री वै । 30) वै वाग् वाग् वै वै वाक् । 31) वाग् वाचं॒-वाँचं॒-वाँग् वाग् वाच᳚म् । 32) वाच॑ मे॒वैव वाचं॒-वाँच॑ मे॒व । 33) ए॒वैन्द्री मै॒न्द्री मे॒वै वैन्द्रीम् । 34) ऐ॒न्द्री मा॒त्म-न्ना॒त्म-न्नै॒न्द्री मै॒न्द्री मा॒त्मन्न् । 35) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 36) ध॒त्त॒ इति॑ धत्ते । ॥ 38 ॥ (36/39) ॥ अ. 10 ॥
1) यो वै वै यो यो वै । 2) वै स॑प्तद॒शग्ं स॑प्तद॒शं-वैँ वै स॑प्तद॒शम् । 3) स॒प्त॒द॒श-म्प्र॒जाप॑ति-म्प्र॒जाप॑तिग्ं सप्तद॒शग्ं स॑प्तद॒श-म्प्र॒जाप॑तिम् । 3) स॒प्त॒द॒शमिति॑ सप्त - द॒शम् । 4) प्र॒जाप॑तिं-यँ॒ज्ञं-यँ॒ज्ञ-म्प्र॒जाप॑ति-म्प्र॒जाप॑तिं-यँ॒ज्ञम् । 4) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 5) य॒ज्ञ म॒न्वाय॑त्त म॒न्वाय॑त्तं-यँ॒ज्ञं-यँ॒ज्ञ म॒न्वाय॑त्तम् । 6) अ॒न्वाय॑त्तं॒-वेँद॒ वेदा॒न्वाय॑त्त म॒न्वाय॑त्तं॒-वेँद॑ । 6) अ॒न्वाय॑त्त॒मित्य॑नु - आय॑त्तम् । 7) वेद॒ प्रति॒ प्रति॒ वेद॒ वेद॒ प्रति॑ । 8) प्रति॑ य॒ज्ञेन॑ य॒ज्ञेन॒ प्रति॒ प्रति॑ य॒ज्ञेन॑ । 9) य॒ज्ञेन॑ तिष्ठति तिष्ठति य॒ज्ञेन॑ य॒ज्ञेन॑ तिष्ठति । 10) ति॒ष्ठ॒ति॒ न न ति॑ष्ठति तिष्ठति॒ न । 11) न य॒ज्ञा-द्य॒ज्ञा-न्न न य॒ज्ञात् । 12) य॒ज्ञा-द्भ्र(ग्म्॑)शते भ्रग्ंशते य॒ज्ञा-द्य॒ज्ञा-द्भ्र(ग्म्॑)शते । 13) भ्र॒(ग्म्॒)श॒त॒ आ भ्र(ग्म्॑)शते भ्रग्ंशत॒ आ । 14) आ श्रा॑वय श्राव॒या श्रा॑वय । 15) श्रा॒व॒ये तीति॑ श्रावय श्राव॒ये ति॑ । 16) इति॒ चतु॑रक्षर॒-ञ्चतु॑रक्षर॒ मितीति॒ चतु॑रक्षरम् । 17) चतु॑रक्षर॒ मस्त्वस्तु॒ चतु॑रक्षर॒-ञ्चतु॑रक्षर॒ मस्तु॑ । 17) चतु॑रक्षर॒मिति॒ चतुः॑ - अ॒क्ष॒र॒म् । 18) अस्तु॒ श्रौष॒ट् छ्रौष॒ डस्त्वस्तु॒ श्रौष॑ट् । 19) श्रौष॒ डितीति॒ श्रौष॒ट् छ्रौष॒ डिति॑ । 20) इति॒ चतु॑रक्षर॒-ञ्चतु॑रक्षर॒ मितीति॒ चतु॑रक्षरम् । 21) चतु॑रक्षरं॒-यँज॒ यज॒ चतु॑रक्षर॒-ञ्चतु॑रक्षरं॒-यँज॑ । 21) चतु॑रक्षर॒मिति॒ चतुः॑ - अ॒क्ष॒र॒म् । 22) यजे तीति॒ यज॒ यजे ति॑ । 23) इति॒ द्व्य॑क्षर॒-न्द्व्य॑क्षर॒ मितीति॒ द्व्य॑क्षरम् । 24) द्व्य॑क्षरं॒-येँ ये द्व्य॑क्षर॒-न्द्व्य॑क्षरं॒-येँ । 24) द्व्य॑क्षर॒मिति॒ द्वि - अ॒क्ष॒र॒म् । 25) ये यजा॑महे॒ यजा॑महे॒ ये ये यजा॑महे । 26) यजा॑मह॒ इतीति॒ यजा॑महे॒ यजा॑मह॒ इति॑ । 27) इति॒ पञ्चा᳚क्षर॒-म्पञ्चा᳚क्षर॒ मितीति॒ पञ्चा᳚क्षरम् । 28) पञ्चा᳚क्षर-न्द्व्यक्ष॒रो द्व्य॑क्ष॒रः पञ्चा᳚क्षर॒-म्पञ्चा᳚क्षर-न्द्व्यक्ष॒रः । 28) पञ्चा᳚क्षर॒मिति॒ पञ्च॑ - अ॒क्ष॒र॒म् । 29) द्व्य॒क्ष॒रो व॑षट्का॒रो व॑षट्का॒रो द्व्य॑क्ष॒रो द्व्य॑क्ष॒रो व॑षट्का॒रः । 29) द्व्य॒क्ष॒र इति॑ द्वि - अ॒क्ष॒रः । 30) व॒ष॒ट्का॒र ए॒ष ए॒ष व॑षट्का॒रो व॑षट्का॒र ए॒षः । 30) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । 31) ए॒ष वै वा ए॒ष ए॒ष वै । 32) वै स॑प्तद॒श-स्स॑प्तद॒शो वै वै स॑प्तद॒शः । 33) स॒प्त॒द॒शः प्र॒जाप॑तिः प्र॒जाप॑ति-स्सप्तद॒श-स्स॑प्तद॒शः प्र॒जाप॑तिः । 33) स॒प्त॒द॒श इति॑ सप्त - द॒शः । 34) प्र॒जाप॑ति-र्य॒ज्ञं-यँ॒ज्ञ-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्य॒ज्ञम् । 34) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 35) य॒ज्ञ म॒न्वाय॑त्तो॒ ऽन्वाय॑त्तो य॒ज्ञं-यँ॒ज्ञ म॒न्वाय॑त्तः । 36) अ॒न्वाय॑त्तो॒ यो यो᳚ ऽन्वाय॑त्तो॒ ऽन्वाय॑त्तो॒ यः । 36) अ॒न्वाय॑त्त॒ इत्य॑नु - आय॑त्तः । 37) य ए॒व मे॒वं-योँ य ए॒वम् । 38) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 39) वेद॒ प्रति॒ प्रति॒ वेद॒ वेद॒ प्रति॑ । 40) प्रति॑ य॒ज्ञेन॑ य॒ज्ञेन॒ प्रति॒ प्रति॑ य॒ज्ञेन॑ । 41) य॒ज्ञेन॑ तिष्ठति तिष्ठति य॒ज्ञेन॑ य॒ज्ञेन॑ तिष्ठति । 42) ति॒ष्ठ॒ति॒ न न ति॑ष्ठति तिष्ठति॒ न । 43) न य॒ज्ञा-द्य॒ज्ञा-न्न न य॒ज्ञात् । 44) य॒ज्ञा-द्भ्र(ग्म्॑)शते भ्रग्ंशते य॒ज्ञा-द्य॒ज्ञा-द्भ्र(ग्म्॑)शते । 45) भ्र॒(ग्म्॒)श॒ते॒ यो यो भ्र(ग्म्॑)शते भ्रग्ंशते॒ यः । 46) यो वै वै यो यो वै । 47) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 48) य॒ज्ञस्य॒ प्राय॑ण॒-म्प्राय॑णं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ प्राय॑णम् । 49) प्राय॑ण॒-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-म्प्राय॑ण॒-म्प्राय॑ण॒-म्प्रति॒ष्ठाम् । 49) प्राय॑ण॒मिति॑ प्र - अय॑नम् । 50) प्र॒ति॒ष्ठा मु॒दय॑न मु॒दय॑न-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा मु॒दय॑नम् । 50) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ॥ 39 ॥ (50/64)
1) उ॒दय॑नं॒-वेँद॒ वेदो॒दय॑न मु॒दय॑नं॒-वेँद॑ । 1) उ॒दय॑न॒मित्यु॑त् - अय॑नम् । 2) वेद॒ प्रति॑ष्ठितेन॒ प्रति॑ष्ठितेन॒ वेद॒ वेद॒ प्रति॑ष्ठितेन । 3) प्रति॑ष्ठिते॒ नारि॑ष्टे॒ नारि॑ष्टेन॒ प्रति॑ष्ठितेन॒ प्रति॑ष्ठिते॒ नारि॑ष्टेन । 3) प्रति॑ष्ठिते॒नेति॒ प्रति॑ - स्थि॒ते॒न॒ । 4) अरि॑ष्टेन य॒ज्ञेन॑ य॒ज्ञे नारि॑ष्टे॒ नारि॑ष्टेन य॒ज्ञेन॑ । 5) य॒ज्ञेन॑ स॒(ग्ग्॒)स्थाग्ं स॒(ग्ग्॒)स्थां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ स॒(ग्ग्॒)स्थाम् । 6) स॒(ग्ग्॒)स्था-ङ्ग॑च्छति गच्छति स॒(ग्ग्॒)स्थाग्ं स॒(ग्ग्॒)स्था-ङ्ग॑च्छति । 6) स॒(ग्ग्॒)स्थामिति॑ सं - स्थाम् । 7) ग॒च्छ॒त्या ग॑च्छति गच्छ॒त्या । 8) आ श्रा॑वय श्राव॒या श्रा॑वय । 9) श्रा॒व॒या स्त्वस्तु॑ श्रावय श्राव॒यास्तु॑ । 10) अस्तु॒ श्रौष॒ट् छ्रौष॒ डस्त्वस्तु॒ श्रौष॑ट् । 11) श्रौष॒ड् यज॒ यज॒ श्रौष॒ट् छ्रौष॒ड् यज॑ । 12) यज॒ ये ये यज॒ यज॒ ये । 13) ये यजा॑महे॒ यजा॑महे॒ ये ये यजा॑महे । 14) यजा॑महे वषट्का॒रो व॑षट्का॒रो यजा॑महे॒ यजा॑महे वषट्का॒रः । 15) व॒ष॒ट्का॒र ए॒तदे॒त-द्व॑षट्का॒रो व॑षट्का॒र ए॒तत् । 15) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । 16) ए॒त-द्वै वा ए॒तदे॒त-द्वै । 17) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 18) य॒ज्ञस्य॒ प्राय॑ण॒-म्प्राय॑णं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ प्राय॑णम् । 19) प्राय॑ण मे॒षैषा प्राय॑ण॒-म्प्राय॑ण मे॒षा । 19) प्राय॑ण॒मिति॑ प्र - अय॑नम् । 20) ए॒षा प्र॑ति॒ष्ठा प्र॑ति॒ष्ठैषैषा प्र॑ति॒ष्ठा । 21) प्र॒ति॒ष्ठै तदे॒त-त्प्र॑ति॒ष्ठा प्र॑ति॒ष्ठैतत् । 21) प्र॒ति॒ष्ठेति॑ प्रति - स्था । 22) ए॒त दु॒दय॑न मु॒दय॑न मे॒त दे॒त दु॒दय॑नम् । 23) उ॒दय॑नं॒-योँ य उ॒दय॑न मु॒दय॑नं॒-यः ँ। 23) उ॒दय॑न॒मित्यु॑त् - अय॑नम् । 24) य ए॒व मे॒वं-योँ य ए॒वम् । 25) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 26) वेद॒ प्रति॑ष्ठितेन॒ प्रति॑ष्ठितेन॒ वेद॒ वेद॒ प्रति॑ष्ठितेन । 27) प्रति॑ष्ठिते॒ नारि॑ष्टे॒ नारि॑ष्टेन॒ प्रति॑ष्ठितेन॒ प्रति॑ष्ठिते॒ नारि॑ष्टेन । 27) प्रति॑ष्ठिते॒नेति॒ प्रति॑ - स्थि॒ते॒न॒ । 28) अरि॑ष्टेन य॒ज्ञेन॑ य॒ज्ञे नारि॑ष्टे॒ नारि॑ष्टेन य॒ज्ञेन॑ । 29) य॒ज्ञेन॑ स॒(ग्ग्॒)स्थाग्ं स॒(ग्ग्॒)स्थां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ स॒(ग्ग्॒)स्थाम् । 30) स॒(ग्ग्॒)स्था-ङ्ग॑च्छति गच्छति स॒(ग्ग्॒)स्थाग्ं स॒(ग्ग्॒)स्था-ङ्ग॑च्छति । 30) स॒(ग्ग्॒)स्थामिति॑ सं - स्थाम् । 31) ग॒च्छ॒ति॒ यो यो ग॑च्छति गच्छति॒ यः । 32) यो वै वै यो यो वै । 33) वै सू॒नृता॑यै सू॒नृता॑यै॒ वै वै सू॒नृता॑यै । 34) सू॒नृता॑यै॒ दोह॒-न्दोह(ग्म्॑) सू॒नृता॑यै सू॒नृता॑यै॒ दोह᳚म् । 35) दोहं॒-वेँद॒ वेद॒ दोह॒-न्दोहं॒-वेँद॑ । 36) वेद॑ दु॒हे दु॒हे वेद॒ वेद॑ दु॒हे । 37) दु॒ह ए॒वैव दु॒हे दु॒ह ए॒व । 38) ए॒वैना॑ मेना मे॒वै वैना᳚म् । 39) ए॒नां॒-यँ॒ज्ञो य॒ज्ञ ए॑ना मेनां-यँ॒ज्ञः । 40) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । 41) वै सू॒नृता॑ सू॒नृता॒ वै वै सू॒नृता᳚ । 42) सू॒नृता ऽऽसू॒नृता॑ सू॒नृता । 43) आ श्रा॑वय श्राव॒या श्रा॑वय । 44) श्रा॒व॒ये तीति॑ श्रावय श्राव॒ये ति॑ । 45) इत्येतीत्या । 46) ऐवैवैव । 47) ए॒वैना॑ मेना मे॒वै वैना᳚म् । 48) ए॒ना॒ म॒ह्व॒ द॒ह्व॒ दे॒ना॒ मे॒ना॒ म॒ह्व॒त् । 49) अ॒ह्व॒ दस्त्व स्त्व॑ह्व दह्व॒ दस्तु॑ । 50) अस्तु॒ श्रौष॒ट् छ्रौष॒ डस्त्वस्तु॒ श्रौष॑ट् । ॥ 40 ॥ (50/59)
1) श्रौष॒ डितीति॒ श्रौष॒ट् छ्रौष॒ डिति॑ । 2) इत्यु॒पावा᳚स्रा गु॒पावा᳚स्रा॒ गिती त्यु॒पावा᳚स्राक् । 3) उ॒पावा᳚स्रा॒ग् यज॒ यजो॒पावा᳚ स्रागु॒पावा᳚स्रा॒ग् यज॑ । 3) उ॒पावा᳚स्रा॒गित्यु॑प - अवा᳚स्राक् । 4) यजे तीति॒ यज॒ यजे ति॑ । 5) इत्यु दुदि तीत्युत् । 6) उद॑नैषी दनैषी॒ दुदु द॑नैषीत् । 7) अ॒नै॒षी॒-द्ये ये॑ ऽनैषी दनैषी॒-द्ये । 8) ये यजा॑महे॒ यजा॑महे॒ ये ये यजा॑महे । 9) यजा॑मह॒ इतीति॒ यजा॑महे॒ यजा॑मह॒ इति॑ । 10) इत्युपोपे तीत्युप॑ । 11) उपा॑स दद सद॒ दुपो पा॑सदत् । 12) अ॒स॒द॒-द्व॒ष॒ट्का॒रेण॑ वषट्का॒रेणा॑ सद दसद-द्वषट्का॒रेण॑ । 13) व॒ष॒ट्का॒रेण॑ दोग्धि दोग्धि वषट्का॒रेण॑ वषट्का॒रेण॑ दोग्धि । 13) व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ । 14) दो॒ग्ध्ये॒ष ए॒ष दो᳚ग्धि दोग्ध्ये॒षः । 15) ए॒ष वै वा ए॒ष ए॒ष वै । 16) वै सू॒नृता॑यै सू॒नृता॑यै॒ वै वै सू॒नृता॑यै । 17) सू॒नृता॑यै॒ दोहो॒ दोह॑-स्सू॒नृता॑यै सू॒नृता॑यै॒ दोहः॑ । 18) दोहो॒ यो यो दोहो॒ दोहो॒ यः । 19) य ए॒व मे॒वं-योँ य ए॒वम् । 20) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 21) वेद॑ दु॒हे दु॒हे वेद॒ वेद॑ दु॒हे । 22) दु॒ह ए॒वैव दु॒हे दु॒ह ए॒व । 23) ए॒वैना॑ मेना मे॒वै वैना᳚म् । 24) ए॒ना॒-न्दे॒वा दे॒वा ए॑ना मेना-न्दे॒वाः । 25) दे॒वा वै वै दे॒वा दे॒वा वै । 26) वै स॒त्रग्ं स॒त्रं-वैँ वै स॒त्रम् । 27) स॒त्र मा॑सतासत स॒त्रग्ं स॒त्र मा॑सत । 28) आ॒स॒त॒ तेषा॒-न्तेषा॑ मास तासत॒ तेषा᳚म् । 29) तेषा॒-न्दिशो॒ दिश॒ स्तेषा॒-न्तेषा॒-न्दिशः॑ । 30) दिशो॑ ऽदस्य-न्नदस्य॒-न्दिशो॒ दिशो॑ ऽदस्यन्न् । 31) अ॒द॒स्य॒-न्ते ते॑ ऽदस्य-न्नदस्य॒-न्ते । 32) त ए॒ता मे॒ता-न्ते त ए॒ताम् । 33) ए॒ता मा॒र्द्रा मा॒र्द्रा मे॒ता मे॒ता मा॒र्द्राम् । 34) आ॒र्द्रा-म्प॒ङ्क्ति-म्प॒ङ्क्ति मा॒र्द्रा मा॒र्द्रा-म्प॒ङ्क्तिम् । 35) प॒ङ्क्ति म॑पश्य-न्नपश्य-न्प॒ङ्क्ति-म्प॒ङ्क्ति म॑पश्यन्न् । 36) अ॒प॒श्य॒-न्ना ऽप॑श्य-न्नपश्य॒-न्ना । 37) आ श्रा॑वय श्राव॒या श्रा॑वय । 38) श्रा॒व॒ये तीति॑ श्रावय श्राव॒ये ति॑ । 39) इति॑ पुरोवा॒त-म्पु॑रोवा॒त मितीति॑ पुरोवा॒तम् । 40) पु॒रो॒वा॒त म॑जनय-न्नजनय-न्पुरोवा॒त-म्पु॑रोवा॒त म॑जनयन्न् । 40) पु॒रो॒वा॒तमिति॑ पुरः - वा॒तम् । 41) अ॒ज॒न॒य॒-न्नस्त्व स्त्व॑जनय-न्नजनय॒-न्नस्तु॑ । 42) अस्तु॒ श्रौष॒ट् छ्रौष॒ डस्त्वस्तु॒ श्रौष॑ट् । 43) श्रौष॒ डितीति॒ श्रौष॒ट् छ्रौष॒ डिति॑ । 44) इत्य॒भ्र म॒भ्र मिती त्य॒भ्रम् । 45) अ॒भ्रग्ं सग्ं स म॒भ्र म॒भ्रग्ं सम् । 46) स म॑प्लावय-न्नप्लावय॒-न्थ्सग्ं स म॑प्लावयन्न् । 47) अ॒प्ला॒व॒य॒न्॒. यज॒ यजा᳚प्लावय-न्नप्लावय॒न्॒. यज॑ । 48) यजे तीति॒ यज॒ यजे ति॑ । 49) इति॑ वि॒द्युतं॑-विँ॒द्युत॒ मितीति॑ वि॒द्युत᳚म् । 50) वि॒द्युत॑ मजनय-न्नजनयन्. वि॒द्युतं॑-विँ॒द्युत॑ मजनयन्न् । 50) वि॒द्युत॒मिति॑ वि - द्युत᳚म् । ॥ 41 ॥ (50/54)
1) अ॒ज॒न॒य॒न्॒. ये ये॑ ऽजनय-न्नजनय॒न्॒. ये । 2) ये यजा॑महे॒ यजा॑महे॒ ये ये यजा॑महे । 3) यजा॑मह॒ इतीति॒ यजा॑महे॒ यजा॑मह॒ इति॑ । 4) इति॒ प्र प्रे तीति॒ प्र । 5) प्राव॑र्षय-न्नवर्षय॒-न्प्र प्राव॑र्षयन्न् । 6) अ॒व॒र्॒ष॒य॒-न्न॒भ्या᳚(1॒)भ्य॑वर्षय-न्नवर्षय-न्न॒भि । 7) अ॒भ्य॑ स्तनय-न्नस्तनय-न्न॒भ्या᳚(1॒)भ्य॑ स्तनयन्न् । 8) अ॒स्त॒न॒य॒न्॒. व॒ष॒ट्का॒रेण॑ वषट्का॒रेणा᳚ स्तनय-न्नस्तनयन्. वषट्का॒रेण॑ । 9) व॒ष॒ट्का॒रेण॒ तत॒स्ततो॑ वषट्का॒रेण॑ वषट्का॒रेण॒ ततः॑ । 9) व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ । 10) ततो॒ वै वै तत॒ स्ततो॒ वै । 11) वै तेभ्य॒ स्तेभ्यो॒ वै वै तेभ्यः॑ । 12) तेभ्यो॒ दिशो॒ दिश॒ स्तेभ्य॒ स्तेभ्यो॒ दिशः॑ । 13) दिशः॒ प्र प्र दिशो॒ दिशः॒ प्र । 14) प्राप्या॑यन्ता प्यायन्त॒ प्र प्राप्या॑यन्त । 15) अ॒प्या॒य॒न्त॒ यो यो᳚ ऽप्यायन्ता प्यायन्त॒ यः । 16) य ए॒व मे॒वं-योँ य ए॒वम् । 17) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 18) वेद॒ प्र प्र वेद॒ वेद॒ प्र । 19) प्रास्मा॑ अस्मै॒ प्र प्रास्मै᳚ । 20) अ॒स्मै॒ दिशो॒ दिशो᳚ ऽस्मा अस्मै॒ दिशः॑ । 21) दिशः॑ प्यायन्ते प्यायन्ते॒ दिशो॒ दिशः॑ प्यायन्ते । 22) प्या॒य॒न्ते॒ प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्प्यायन्ते प्यायन्ते प्र॒जाप॑तिम् । 23) प्र॒जाप॑ति-न्त्वो॒वेद॑ त्वो॒वेद॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति-न्त्वो॒वेद॑ । 23) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 24) त्वो॒वेद॑ प्र॒जाप॑तिः प्र॒जाप॑ति स्त्वो॒वेद॑ त्वो॒वेद॑ प्र॒जाप॑तिः । 24) त्वो॒वेदेति॑ त्वः - वेद॑ । 25) प्र॒जाप॑ति स्त्वंवेँद त्वंवेँद प्र॒जाप॑तिः प्र॒जाप॑ति स्त्वंवेँद । 25) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 26) त्वं॒वेँ॒द॒ यं-यँ-न्त्वं॑वेँद त्वंवेँद॒ यम् । 26) त्वं॒वेँ॒देति॑ त्वं - वे॒द॒ । 27) य-म्प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्यं-यँ-म्प्र॒जाप॑तिः । 28) प्र॒जाप॑ति॒-र्वेद॒ वेद॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वेद॑ । 28) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 29) वेद॒ स स वेद॒ वेद॒ सः । 30) स पुण्यः॒ पुण्य॒-स्स स पुण्यः॑ । 31) पुण्यो॑ भवति भवति॒ पुण्यः॒ पुण्यो॑ भवति । 32) भ॒व॒ त्ये॒ष ए॒ष भ॑वति भव त्ये॒षः । 33) ए॒ष वै वा ए॒ष ए॒ष वै । 34) वै छ॑न्द॒स्य॑ श्छन्द॒स्यो॑ वै वै छ॑न्द॒स्यः॑ । 35) छ॒न्द॒स्यः॑ प्र॒जाप॑तिः प्र॒जाप॑ति श्छन्द॒स्य॑ श्छन्द॒स्यः॑ प्र॒जाप॑तिः । 36) प्र॒जाप॑ति॒रा प्र॒जाप॑तिः प्र॒जाप॑ति॒रा । 36) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 37) आ श्रा॑वय श्राव॒या श्रा॑वय । 38) श्रा॒व॒या स्त्वस्तु॑ श्रावय श्राव॒यास्तु॑ । 39) अस्तु॒ श्रौष॒ट् छ्रौष॒ डस्त्वस्तु॒ श्रौष॑ट् । 40) श्रौष॒ड् यज॒ यज॒ श्रौष॒ट् छ्रौष॒ड् यज॑ । 41) यज॒ ये ये यज॒ यज॒ ये । 42) ये यजा॑महे॒ यजा॑महे॒ ये ये यजा॑महे । 43) यजा॑महे वषट्का॒रो व॑षट्का॒रो यजा॑महे॒ यजा॑महे वषट्का॒रः । 44) व॒ष॒ट्का॒रो यो यो व॑षट्का॒रो व॑षट्का॒रो यः । 44) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । 45) य ए॒व मे॒वं-योँ य ए॒वम् । 46) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 47) वेद॒ पुण्यः॒ पुण्यो॒ वेद॒ वेद॒ पुण्यः॑ । 48) पुण्यो॑ भवति भवति॒ पुण्यः॒ पुण्यो॑ भवति । 49) भ॒व॒ति॒ व॒स॒न्तं-वँ॑स॒न्त-म्भ॑वति भवति वस॒न्तम् । 50) व॒स॒न्त मृ॑तू॒ना मृ॑तू॒नां-वँ॑स॒न्तं-वँ॑स॒न्त मृ॑तू॒नाम् । ॥ 42 ॥ (50/58)
1) ऋ॒तू॒ना-म्प्री॑णामि प्रीणा म्यृतू॒ना मृ॑तू॒ना-म्प्री॑णामि । 2) प्री॒णा॒ मीतीति॑ प्रीणामि प्रीणा॒ मीति॑ । 3) इत्या॑हा॒हे तीत्या॑ह । 4) आ॒ह॒ र्तव॑ ऋ॒तव॑ आहाह॒ र्तवः॑ । 5) ऋ॒तवो॒ वै वा ऋ॒तव॑ ऋ॒तवो॒ वै । 6) वै प्र॑या॒जाः प्र॑या॒जा वै वै प्र॑या॒जाः । 7) प्र॒या॒जा ऋ॒तू नृ॒तू-न्प्र॑या॒जाः प्र॑या॒जा ऋ॒तून् । 7) प्र॒या॒जा इति॑ प्र - या॒जाः । 8) ऋ॒तू ने॒वैव र्तू नृ॒तू ने॒व । 9) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति । 10) प्री॒णा॒ति॒ ते ते प्री॑णाति प्रीणाति॒ ते । 11) ते᳚ ऽस्मा अस्मै॒ ते ते᳚ ऽस्मै । 12) अ॒स्मै॒ प्री॒ताः प्री॒ता अ॑स्मा अस्मै प्री॒ताः । 13) प्री॒ता य॑थापू॒र्वं-यँ॑थापू॒र्व-म्प्री॒ताः प्री॒ता य॑थापू॒र्वम् । 14) य॒था॒पू॒र्व-ङ्क॑ल्पन्ते कल्पन्ते यथापू॒र्वं-यँ॑थापू॒र्व-ङ्क॑ल्पन्ते । 14) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । 15) क॒ल्प॒न्ते॒ कल्प॑न्ते॒ कल्प॑न्ते कल्पन्ते कल्पन्ते॒ कल्प॑न्ते । 16) कल्प॑न्ते ऽस्मा अस्मै॒ कल्प॑न्ते॒ कल्प॑न्ते ऽस्मै । 17) अ॒स्मा॒ ऋ॒तव॑ ऋ॒तवो᳚ ऽस्मा अस्मा ऋ॒तवः॑ । 18) ऋ॒तवो॒ यो य ऋ॒तव॑ ऋ॒तवो॒ यः । 19) य ए॒व मे॒वं-योँ य ए॒वम् । 20) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 21) वेदा॒ग्नीषोम॑यो र॒ग्नीषोम॑यो॒-र्वेद॒ वेदा॒ग्नीषोम॑योः । 22) अ॒ग्नीषोम॑यो र॒ह म॒ह म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो र॒हम् । 22) अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः । 23) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 24) दे॒व॒य॒ज्यया॒ चक्षु॑ष्मा॒(ग्ग्॒) श्चक्षु॑ष्मा-न्देवय॒ज्यया॑ देवय॒ज्यया॒ चक्षु॑ष्मान् । 24) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 25) चक्षु॑ष्मा-न्भूयास-म्भूयास॒-ञ्चक्षु॑ष्मा॒(ग्ग्॒) श्चक्षु॑ष्मा-न्भूयासम् । 26) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒हा॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या माहाहा॒ ग्नीषोमा᳚भ्याम् । 29) अ॒ग्नीषोमा᳚भ्यां॒-वैँ वा अ॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्यां॒-वैँ । 29) अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् । 30) वै य॒ज्ञो य॒ज्ञो वै वै य॒ज्ञः । 31) य॒ज्ञ श्चक्षु॑ष्मा॒(ग्ग्॒) श्चक्षु॑ष्मान्. य॒ज्ञो य॒ज्ञ श्चक्षु॑ष्मान् । 32) चक्षु॑ष्मा॒-न्ताभ्या॒-न्ताभ्या॒-ञ्चक्षु॑ष्मा॒(ग्ग्॒) श्चक्षु॑ष्मा॒-न्ताभ्या᳚म् । 33) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व । 34) ए॒व चक्षु॒ श्चक्षु॑ रे॒वैव चक्षुः॑ । 35) चक्षु॑ रा॒त्म-न्ना॒त्मग्ग् श्चक्षु॒ श्चक्षु॑ रा॒त्मन्न् । 36) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 37) ध॒त्ते॒ ऽग्ने र॒ग्ने-र्ध॑त्ते धत्ते॒ ऽग्नेः । 38) अ॒ग्ने र॒ह म॒ह म॒ग्ने र॒ग्ने र॒हम् । 39) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 40) दे॒व॒य॒ज्यया᳚ ऽन्ना॒दो᳚ ऽन्ना॒दो दे॑वय॒ज्यया॑ देवय॒ज्यया᳚ ऽन्ना॒दः । 40) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 41) अ॒न्ना॒दो भू॑यास-म्भूयास मन्ना॒दो᳚ ऽन्ना॒दो भू॑यासम् । 41) अ॒न्ना॒द इत्य॑न्न - अ॒दः । 42) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ । 43) इत्या॑हा॒हे तीत्या॑ह । 44) आ॒हा॒ग्नि र॒ग्नि रा॑हा हा॒ग्निः । 45) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै । 46) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 47) दे॒वाना॑ मन्ना॒दो᳚ ऽन्ना॒दो दे॒वाना᳚-न्दे॒वाना॑ मन्ना॒दः । 48) अ॒न्ना॒द स्तेन॒ तेना᳚न्ना॒दो᳚ ऽन्ना॒द स्तेन॑ । 48) अ॒न्ना॒द इत्य॑न्न - अ॒दः । 49) तेनै॒ वैव तेन॒ तेनै॒व । 50) ए॒वान्नाद्य॑ म॒न्नाद्य॑ मे॒वै वान्नाद्य᳚म् । ॥ 43 ॥ (50/58)
1) अ॒न्नाद्य॑ मा॒त्म-न्ना॒त्म-न्न॒न्नाद्य॑ म॒न्नाद्य॑ मा॒त्मन्न् । 1) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 2) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 3) ध॒त्ते॒ दब्धि॒-र्दब्धि॑-र्धत्ते धत्ते॒ दब्धिः॑ । 4) दब्धि॑ रस्यसि॒ दब्धि॒-र्दब्धि॑ रसि । 5) अ॒स्य द॒ब्धो ऽद॑ब्धो ऽस्य॒स्यद॑ब्धः । 6) अद॑ब्धो भूयास-म्भूयास॒ मद॒ब्धो ऽद॑ब्धो भूयासम् । 7) भू॒या॒स॒ म॒मु म॒मु-म्भू॑यास-म्भूयास म॒मुम् । 8) अ॒मु-न्द॑भेय-न्दभेय म॒मु म॒मु-न्द॑भेयम् । 9) द॒भे॒य॒ मितीति॑ दभेय-न्दभेय॒ मिति॑ । 10) इत्या॑हा॒हे तीत्या॑ह । 11) आ॒है॒त यै॒तया॑ ऽऽहा है॒तया᳚ । 12) ए॒तया॒ वै वा ए॒त यै॒तया॒ वै । 13) वै दब्ध्या॒ दब्ध्या॒ वै वै दब्ध्या᳚ । 14) दब्ध्या॑ दे॒वा दे॒वा दब्ध्या॒ दब्ध्या॑ दे॒वाः । 15) दे॒वा असु॑रा॒ नसु॑रा-न्दे॒वा दे॒वा असु॑रान् । 16) असु॑रा नदभ्नुव-न्नदभ्नुव॒-न्नसु॑रा॒ नसु॑रा नदभ्नुवन्न् । 17) अ॒द॒भ्नु॒व॒-न्तया॒ तया॑ ऽदभ्नुव-न्नदभ्नुव॒-न्तया᳚ । 18) तयै॒वैव तया॒ तयै॒व । 19) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् । 20) भ्रातृ॑व्य-न्दभ्नोति दभ्नोति॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-न्दभ्नोति । 21) द॒भ्नो॒ त्य॒ग्नीषोम॑यो र॒ग्नीषोम॑यो-र्दभ्नोति दभ्नो त्य॒ग्नीषोम॑योः । 22) अ॒ग्नीषोम॑यो र॒ह म॒ह म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो र॒हम् । 22) अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः । 23) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 24) दे॒व॒य॒ज्यया॑ वृत्र॒हा वृ॑त्र॒हा दे॑वय॒ज्यया॑ देवय॒ज्यया॑ वृत्र॒हा । 24) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 25) वृ॒त्र॒हा भू॑यास-म्भूयासं-वृँत्र॒हा वृ॑त्र॒हा भू॑यासम् । 25) वृ॒त्र॒हेति॑ वृत्र - हा । 26) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒हा॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या माहा हा॒ग्नीषोमा᳚भ्याम् । 29) अ॒ग्नीषोमा᳚भ्यां॒-वैँ वा अ॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्यां॒-वैँ । 29) अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् । 30) वा इन्द्र॒ इन्द्रो॒ वै वा इन्द्रः॑ । 31) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 32) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् । 33) अ॒ह॒-न्ताभ्या॒-न्ताभ्या॑ मह-न्नह॒-न्ताभ्या᳚म् । 34) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व । 35) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् । 36) भ्रातृ॑व्यग्ग् स्तृणुते स्तृणुते॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्यग्ग् स्तृणुते । 37) स्तृ॒णु॒त॒ इ॒न्द्रा॒ग्नि॒यो रि॑न्द्राग्नि॒यो-स्स्तृ॑णुते स्तृणुत इन्द्राग्नि॒योः । 38) इ॒न्द्रा॒ग्नि॒यो र॒ह म॒ह मि॑न्द्राग्नि॒यो रि॑न्द्राग्नि॒यो र॒हम् । 38) इ॒न्द्रा॒ग्नि॒योरिती᳚न्द्र - अ॒ग्नि॒योः । 39) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 40) दे॒व॒य॒ज्य ये᳚न्द्रिया॒वी न्द्रि॑या॒वी दे॑वय॒ज्यया॑ देवय॒ज्यये᳚ न्द्रिया॒वी । 40) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 41) इ॒न्द्रि॒या॒ व्य॑न्ना॒दो᳚ ऽन्ना॒द इ॑न्द्रिया॒वी न्द्रि॑या॒ व्य॑न्ना॒दः । 42) अ॒न्ना॒दो भू॑यास-म्भूयास मन्ना॒दो᳚ ऽन्ना॒दो भू॑यासम् । 42) अ॒न्ना॒द इत्य॑न्न - अ॒दः । 43) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ । 44) इत्या॑हा॒हे तीत्या॑ह । 45) आ॒हे॒ न्द्रि॒या॒वी न्द्रि॑या॒ व्या॑हाहे न्द्रिया॒वी । 46) इ॒न्द्रि॒या॒ व्ये॑वैवे न्द्रि॑या॒वी न्द्रि॑या॒ व्ये॑व । 47) ए॒वान्ना॒दो᳚ ऽन्ना॒द ए॒वै वान्ना॒दः । 48) अ॒न्ना॒दो भ॑वति भवत्यन्ना॒दो᳚ ऽन्ना॒दो भ॑वति । 48) अ॒न्ना॒द इत्य॑न्न - अ॒दः । 49) भ॒व॒ती न्द्र॒स्ये न्द्र॑स्य भवति भव॒ती न्द्र॑स्य । 50) इन्द्र॑स्या॒ह म॒ह मिन्द्र॒स्ये न्द्र॑स्या॒हम् । ॥ 44 ॥ (50/59)
1) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 2) दे॒व॒य॒ज्य ये᳚न्द्रिया॒वी न्द्रि॑या॒वी दे॑वय॒ज्यया॑ देवय॒ज्य ये᳚न्द्रिया॒वी । 2) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 3) इ॒न्द्रि॒या॒वी भू॑यास-म्भूयास मिन्द्रिया॒वी न्द्रि॑या॒वी भू॑यासम् । 4) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ । 5) इत्या॑हा॒हे तीत्या॑ह । 6) आ॒हे॒ न्द्रि॒या॒वी न्द्रि॑या॒ व्या॑हाहे न्द्रिया॒वी । 7) इ॒न्द्रि॒या॒ व्ये॑वैवे न्द्रि॑या॒वी न्द्रि॑या॒ व्ये॑व । 8) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 9) भ॒व॒ति॒ म॒हे॒न्द्रस्य॑ महे॒न्द्रस्य॑ भवति भवति महे॒न्द्रस्य॑ । 10) म॒हे॒ न्द्रस्या॒ह म॒ह-म्म॑हे॒न्द्रस्य॑ महे॒ न्द्रस्या॒हम् । 10) म॒हे॒न्द्रस्येति॑ महा - इ॒न्द्रस्य॑ । 11) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 12) दे॒व॒य॒ज्यया॑ जे॒मान॑-ञ्जे॒मान॑-न्देवय॒ज्यया॑ देवय॒ज्यया॑ जे॒मान᳚म् । 12) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 13) जे॒मान॑-म्महि॒मान॑-म्महि॒मान॑-ञ्जे॒मान॑-ञ्जे॒मान॑-म्महि॒मान᳚म् । 14) म॒हि॒मान॑-ङ्गमेय-ङ्गमेय-म्महि॒मान॑-म्महि॒मान॑-ङ्गमेयम् । 15) ग॒मे॒य॒ मितीति॑ गमेय-ङ्गमेय॒ मिति॑ । 16) इत्या॑हा॒हे तीत्या॑ह । 17) आ॒ह॒ जे॒मान॑-ञ्जे॒मान॑ माहाह जे॒मान᳚म् । 18) जे॒मान॑ मे॒वैव जे॒मान॑-ञ्जे॒मान॑ मे॒व । 19) ए॒व म॑हि॒मान॑-म्महि॒मान॑ मे॒वैव म॑हि॒मान᳚म् । 20) म॒हि॒मान॑-ङ्गच्छति गच्छति महि॒मान॑-म्महि॒मान॑-ङ्गच्छति । 21) ग॒च्छ॒त्य॒ग्ने र॒ग्ने-र्ग॑च्छति गच्छत्य॒ग्नेः । 22) अ॒ग्ने-स्स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽग्नेर॒ग्ने-स्स्वि॑ष्ट॒कृतः॑ । 23) स्वि॒ष्ट॒कृतो॒ ऽह म॒हग्ग् स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽहम् । 23) स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ । 24) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ । 25) दे॒व॒य॒ज्यया ऽऽयु॑ष्मा॒ नायु॑ष्मा-न्देवय॒ज्यया॑ देवय॒ज्यया ऽऽयु॑ष्मान् । 25) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ । 26) आयु॑ष्मान्. य॒ज्ञेन॑ य॒ज्ञेनायु॑ष्मा॒ नायु॑ष्मान्. य॒ज्ञेन॑ । 27) य॒ज्ञेन॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒ष्ठाम् । 28) प्र॒ति॒ष्ठा-ङ्ग॑मेय-ङ्गमेय-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मेयम् । 28) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 29) ग॒मे॒य॒ मितीति॑ गमेय-ङ्गमेय॒ मिति॑ । 30) इत्या॑हा॒हे तीत्या॑ह । 31) आ॒हायु॒ रायु॑ राहा॒हायुः॑ । 32) आयु॑ रे॒वैवायु॒ रायु॑रे॒व । 33) ए॒वात्म-न्ना॒त्म-न्ने॒वैवात्मन्न् । 34) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 35) ध॒त्ते॒ प्रति॒ प्रति॑ धत्ते धत्ते॒ प्रति॑ । 36) प्रति॑ य॒ज्ञेन॑ य॒ज्ञेन॒ प्रति॒ प्रति॑ य॒ज्ञेन॑ । 37) य॒ज्ञेन॑ तिष्ठति तिष्ठति य॒ज्ञेन॑ य॒ज्ञेन॑ तिष्ठति । 38) ति॒ष्ठ॒तीति॑ तिष्ठति । ॥ 45 ॥ (38/44) ॥ अ. 11 ॥
1) इन्द्रं॑-वोँ व॒ इन्द्र॒ मिन्द्रं॑-वः ँ। 2) वो॒ वि॒श्वतो॑ वि॒श्वतो॑ वो वो वि॒श्वतः॑ । 3) वि॒श्वत॒ स्परि॒ परि॑ वि॒श्वतो॑ वि॒श्वत॒ स्परि॑ । 4) परि॒ हवा॑महे॒ हवा॑महे॒ परि॒ परि॒ हवा॑महे । 5) हवा॑महे॒ जने᳚भ्यो॒ जने᳚भ्यो॒ हवा॑महे॒ हवा॑महे॒ जने᳚भ्यः । 6) जने᳚भ्य॒ इति॒ जने᳚भ्यः । 7) अ॒स्माक॑ मस्त्व स्त्व॒स्माक॑ म॒स्माक॑ मस्तु । 8) अ॒स्तु॒ केव॑लः॒ केव॑लो अस्त्वस्तु॒ केव॑लः । 9) केव॑ल॒ इति॒ केव॑लः । 10) इन्द्र॒-न्नरो॒ नर॒ इन्द्र॒ मिन्द्र॒-न्नरः॑ । 11) नरो॑ ने॒मधि॑ता ने॒मधि॑ता॒ नरो॒ नरो॑ ने॒मधि॑ता । 12) ने॒मधि॑ता हवन्ते हवन्ते ने॒मधि॑ता ने॒मधि॑ता हवन्ते । 12) ने॒मधि॒तेति॑ ने॒म - धि॒ता॒ । 13) ह॒व॒न्ते॒ य-द्यद्ध॑वन्ते हवन्ते॒ यत् । 14) य-त्पार्याः॒ पार्या॒ य-द्य-त्पार्याः᳚ । 15) पार्या॑ यु॒नज॑ते यु॒नज॑ते॒ पार्याः॒ पार्या॑ यु॒नज॑ते । 16) यु॒नज॑ते॒ धियो॒ धियो॑ यु॒नज॑ते यु॒नज॑ते॒ धियः॑ । 17) धिय॒ स्ता स्ता धियो॒ धिय॒ स्ताः । 18) ता इति॒ ताः । 19) शूरो॒ नृषा॑ता॒ नृषा॑ता॒ शूर॒-श्शूरो॒ नृषा॑ता । 20) नृषा॑ता॒ शव॑स॒-श्शव॑सो॒ नृषा॑ता॒ नृषा॑ता॒ शव॑सः । 20) नृषा॒तेति॒ नृ - सा॒ता॒ । 21) शव॑स श्चका॒न श्च॑का॒न-श्शव॑स॒-श्शव॑स श्चका॒नः । 22) च॒का॒न आ च॑का॒न श्च॑का॒न आ । 23) आ गोम॑ति॒ गोम॒त्या गोम॑ति । 24) गोम॑ति व्र॒जे व्र॒जे गोम॑ति॒ गोम॑ति व्र॒जे । 24) गोम॒तीति॒ गो - म॒ति॒ । 25) व्र॒जे भ॑ज भज व्र॒जे व्र॒जे भ॑ज । 26) भ॒जा॒ त्व-न्त्व-म्भ॑ज भजा॒ त्वम् । 27) त्व-न्नो॑ न॒स्त्व-न्त्व-न्नः॑ । 28) न॒ इति॑ नः । 29) इ॒न्द्रि॒याणि॑ शतक्रतो शतक्रतो इन्द्रि॒याणी᳚ न्द्रि॒याणि॑ शतक्रतो । 30) श॒त॒क्र॒तो॒ या या श॑तक्रतो शतक्रतो॒ या । 30) श॒त॒क्र॒तो॒ इति॑ शत - क्र॒तो॒ । 31) या ते॑ ते॒ या या ते᳚ । 32) ते॒ जने॑षु॒ जने॑षु ते ते॒ जने॑षु । 33) जने॑षु प॒ञ्चसु॑ प॒ञ्चसु॒ जने॑षु॒ जने॑षु प॒ञ्चसु॑ । 34) प॒ञ्चस्विति॑ प॒ञ्च - सु॒ । 35) इन्द्र॒ तानि॒ तानीन्द्रे न्द्र॒ तानि॑ । 36) तानि॑ ते ते॒ तानि॒ तानि॑ ते । 37) त॒ आ ते॑ त॒ आ । 38) आ वृ॑णे वृण॒ आ वृ॑णे । 39) वृ॒ण॒ इति॑ वृणे । 40) अनु॑ ते ते॒ अन्वनु॑ ते । 41) ते॒ दा॒यि॒ दा॒यि॒ ते॒ ते॒ दा॒यि॒ । 42) दा॒यि॒ म॒हे म॒हे दा॑यि दायि म॒हे । 43) म॒ह इ॑न्द्रि॒याये᳚ न्द्रि॒याय॑ म॒हे म॒ह इ॑न्द्रि॒याय॑ । 44) इ॒न्द्रि॒याय॑ स॒त्रा स॒त्रेन्द्रि॒याये᳚ न्द्रि॒याय॑ स॒त्रा । 45) स॒त्रा ते॑ ते स॒त्रा स॒त्रा ते᳚ । 46) ते॒ विश्वं॒-विँश्व॑-न्ते ते॒ विश्व᳚म् । 47) विश्व॒ मन्वनु॒ विश्वं॒-विँश्व॒ मनु॑ । 48) अनु॑ वृत्र॒हत्ये॑ वृत्र॒हत्ये॒ अन्वनु॑ वृत्र॒हत्ये᳚ । 49) वृ॒त्र॒हत्य॒ इति॑ वृत्र - हत्ये᳚ । 50) अनु॑ क्ष॒त्र-ङ्क्ष॒त्र मन्वनु॑ क्ष॒त्रम् । ॥ 46 ॥ (50/54)
1) क्ष॒त्र मन्वनु॑ क्ष॒त्र-ङ्क्ष॒त्र मनु॑ । 2) अनु॒ सह॒-स्सहो॒ अन्वनु॒ सहः॑ । 3) सहो॑ यजत्र यजत्र॒ सह॒-स्सहो॑ यजत्र । 4) य॒ज॒त्रे न्द्रे न्द्र॑ यजत्र यज॒त्रे न्द्र॑ । 5) इन्द्र॑ दे॒वेभि॑-र्दे॒वेभि॒ रिन्द्रे न्द्र॑ दे॒वेभिः॑ । 6) दे॒वेभि॒ रन्वनु॑ दे॒वेभि॑-र्दे॒वेभि॒ रनु॑ । 7) अनु॑ ते ते॒ अन्वनु॑ ते । 8) ते॒ नृ॒षह्ये॑ नृ॒षह्ये॑ ते ते नृ॒षह्ये᳚ । 9) नृ॒षह्य॒ इति॑ नृ - सह्ये᳚ । 10) आ यस्मि॒न्॒. यस्मि॒-न्ना यस्मिन्न्॑ । 11) यस्मि᳚-न्थ्स॒प्त स॒प्त यस्मि॒न्॒. यस्मि᳚-न्थ्स॒प्त । 12) स॒प्त वा॑स॒वा वा॑स॒वा-स्स॒प्त स॒प्त वा॑स॒वाः । 13) वा॒स॒वा स्तिष्ठ॑न्ति॒ तिष्ठ॑न्ति वास॒वा वा॑स॒वा स्तिष्ठ॑न्ति । 14) तिष्ठ॑न्ति स्वा॒रुह॑-स्स्वा॒रुह॒ स्तिष्ठ॑न्ति॒ तिष्ठ॑न्ति स्वा॒रुहः॑ । 15) स्वा॒रुहो॑ यथा यथा स्वा॒रुह॑-स्स्वा॒रुहो॑ यथा । 15) स्वा॒रुह॒ इति॑ स्व - रुहः॑ । 16) य॒थेति॑ यथा । 17) ऋषि॑र्-ह॒ हर्षि॒र्॒ऋषि॑र्-ह । 18) ह॒ दी॒र्घ॒श्रुत्त॑मो दीर्घ॒श्रुत्त॑मो ह ह दीर्घ॒श्रुत्त॑मः । 19) दी॒र्घ॒श्रुत्त॑म॒ इन्द्र॒स्ये न्द्र॑स्य दीर्घ॒श्रुत्त॑मो दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य । 19) दी॒र्घ॒श्रुत्त॑म॒ इति॑ दीर्घ॒श्रुत् - त॒मः॒ । 20) इन्द्र॑स्य घ॒र्मो घ॒र्म इन्द्र॒स्ये न्द्र॑स्य घ॒र्मः । 21) घ॒र्मो अति॑थि॒ रति॑थि-र्घ॒र्मो घ॒र्मो अति॑थिः । 22) अति॒थिरित्यति॑थिः । 23) आ॒मासु॑ प॒क्व-म्प॒क्व मा॒मा स्वा॒मासु॑ प॒क्वम् । 24) प॒क्व मैर॑य॒ ऐर॑यः प॒क्व-म्प॒क्व मैर॑यः । 25) ऐर॑य॒ ऐर॑य॒ ऐर॑य॒ आ । 26) आ सूर्य॒(ग्म्॒) सूर्य॒ मा सूर्य᳚म् । 27) सूर्य(ग्म्॑) रोहयो रोहय॒-स्सूर्य॒(ग्म्॒) सूर्य(ग्म्॑) रोहयः । 28) रो॒ह॒यो॒ दि॒वि दि॒वि रो॑हयो रोहयो दि॒वि । 29) दि॒वीति॑ दि॒वि । 30) घ॒र्म-न्न न घ॒र्म-ङ्घ॒र्म-न्न । 31) न साम॒-न्थ्साम॒-न्न न सामन्न्॑ । 32) साम॑-न्तपत तपत॒ साम॒-न्थ्साम॑-न्तपत । 33) त॒प॒ता॒ सु॒वृ॒क्तिभि॑-स्सुवृ॒क्तिभि॑ स्तपत तपता सुवृ॒क्तिभिः॑ । 34) सु॒वृ॒क्तिभि॒-र्जुष्ट॒-ञ्जुष्ट(ग्म्॑) सुवृ॒क्तिभि॑-स्सुवृ॒क्तिभि॒-र्जुष्ट᳚म् । 34) सु॒वृ॒क्तिभि॒रिति॑ सुवृ॒क्ति - भिः॒ । 35) जुष्ट॒-ङ्गिर्व॑णसे॒ गिर्व॑णसे॒ जुष्ट॒-ञ्जुष्ट॒-ङ्गिर्व॑णसे । 36) गिर्व॑णसे॒ गिरो॒ गिरो॒ गिर्व॑णसे॒ गिर्व॑णसे॒ गिरः॑ । 37) गिर॒ इति॒ गिरः॑ । 38) इन्द्र॒ मिदिदिन्द्र॒ मिन्द्र॒ मित् । 39) इ-द्गा॒थिनो॑ गा॒थिन॒ इदि-द्गा॒थिनः॑ । 40) गा॒थिनो॑ बृ॒ह-द्बृ॒ह-द्गा॒थिनो॑ गा॒थिनो॑ बृ॒हत् । 41) बृ॒हदिन्द्र॒ मिन्द्र॑-म्बृ॒ह-द्बृ॒हदिन्द्र᳚म् । 42) इन्द्र॑ म॒र्केभि॑ र॒र्केभि॒ रिन्द्र॒ मिन्द्र॑ म॒र्केभिः॑ । 43) अ॒र्केभि॑ र॒र्किणो॑ अ॒र्किणो॑ अ॒र्केभि॑ र॒र्केभि॑ र॒र्किणः॑ । 44) अ॒र्किण॒ इत्य॒र्किणः॑ । 45) इन्द्रं॒-वाँणी॒-र्वाणी॒ रिन्द्र॒ मिन्द्रं॒-वाँणीः᳚ । 46) वाणी॑ रनूष तानूषत॒ वाणी॒-र्वाणी॑ रनूषत । 47) अ॒नू॒ष॒तेत्ये॑नूषत । 48) गाय॑न्ति त्वा त्वा॒ गाय॑न्ति॒ गाय॑न्ति त्वा । 49) त्वा॒ गा॒य॒त्रिणो॑ गाय॒त्रिण॑ स्त्वा त्वा गाय॒त्रिणः॑ । 50) गा॒य॒त्रिणो ऽर्च॒न्त्यर्च॑न्ति गाय॒त्रिणो॑ गाय॒त्रिणो ऽर्च॑न्ति । ॥ 47 ॥ (50/53)
1) अर्च॑न्त्य॒र्क म॒र्क मर्च॒ न्त्यर्च॑ न्त्य॒र्कम् । 2) अ॒र्क म॒र्किणो॑ अ॒र्किणो॑ अ॒र्क म॒र्क म॒र्किणः॑ । 3) अ॒र्किण॒ इत्य॒र्किणः॑ । 4) ब्र॒ह्माण॑ स्त्वा त्वा ब्र॒ह्माणो᳚ ब्र॒ह्माण॑ स्त्वा । 5) त्वा॒ श॒त॒क्र॒तो॒ श॒त॒क्र॒तो॒ त्वा॒ त्वा॒ श॒त॒क्र॒तो॒ । 6) श॒त॒क्र॒त वुदु च्छ॑तक्रतो शतक्र॒त वुत् । 6) श॒त॒क्र॒त॒विति॑ शत - क्र॒तो॒ । 7) उ-द्व॒(ग्म्॒)शं-वँ॒(ग्म्॒)श मुदु-द्व॒(ग्म्॒)शम् । 8) व॒(ग्म्॒)श मि॑वे व व॒(ग्म्॒)शं-वँ॒(ग्म्॒)श मि॑व । 9) इ॒व॒ ये॒मि॒रे॒ ये॒मि॒र॒ इ॒वे॒ व॒ ये॒मि॒रे॒ । 10) ये॒मि॒र॒ इति॑ येमिरे । 11) अ॒(ग्म्॒)हो॒मुचे॒ प्र प्रा(ग्म्॑)हो॒मुचे ऽग्ं॑हो॒मुचे॒ प्र । 11) अ॒(ग्म्॒)हो॒मुच॒ इत्य(ग्म्॑)हः - मुचे᳚ । 12) प्र भ॑रेम भरेम॒ प्र प्र भ॑रेम । 13) भ॒रे॒मा॒ म॒नी॒षा-म्म॑नी॒षा-म्भ॑रेम भरेमा मनी॒षाम् । 14) म॒नी॒षा मो॑षिष्ठ॒दावंन॑ ओषिष्ठ॒दावंने॑ मनी॒षा-म्म॑नी॒षा मो॑षिष्ठ॒दावंने᳚ । 15) ओ॒षि॒ष्ठ॒दावंने॑ सुम॒तिग्ं सु॑म॒ति मो॑षिष्ठ॒दावंन॑ ओषिष्ठ॒दावंने॑ सुम॒तिम् । 15) ओ॒षि॒ष्ठ॒दावंन॒ इत्यो॑षिष्ठ - दावंने᳚ । 16) सु॒म॒ति-ङ्गृ॑णा॒ना गृ॑णा॒ना-स्सु॑म॒तिग्ं सु॑म॒ति-ङ्गृ॑णा॒नाः । 16) सु॒म॒तिमिति॑ सु - म॒तिम् । 17) गृ॒णा॒ना इति॑ गृणा॒नाः । 18) इ॒द मि॑न्द्रे न्द्रे॒ द मि॒द मि॑न्द्र । 19) इ॒न्द्र॒ प्रति॒ प्रती᳚न्द्रे न्द्र॒ प्रति॑ । 20) प्रति॑ ह॒व्यग्ं ह॒व्य-म्प्रति॒ प्रति॑ ह॒व्यम् । 21) ह॒व्य-ङ्गृ॑भाय गृभाय ह॒व्यग्ं ह॒व्य-ङ्गृ॑भाय । 22) गृ॒भा॒य॒ स॒त्या-स्स॒त्या गृ॑भाय गृभाय स॒त्याः । 23) स॒त्या-स्स॑न्तु सन्तु स॒त्या-स्स॒त्या-स्स॑न्तु । 24) स॒न्तु॒ यज॑मानस्य॒ यज॑मानस्य सन्तु सन्तु॒ यज॑मानस्य । 25) यज॑मानस्य॒ कामाः॒ कामा॒ यज॑मानस्य॒ यज॑मानस्य॒ कामाः᳚ । 26) कामा॒ इति॒ कामाः᳚ । 27) वि॒वेष॒ य-द्य-द्वि॒वेष॑ वि॒वेष॒ यत् । 28) य-न्मा॑ मा॒ य-द्य-न्मा᳚ । 29) मा॒ धि॒षणा॑ धि॒षणा॑ मा मा धि॒षणा᳚ । 30) धि॒षणा॑ ज॒जान॑ ज॒जान॑ धि॒षणा॑ धि॒षणा॑ ज॒जान॑ । 31) ज॒जान॒ स्तवै॒ स्तवै॑ ज॒जान॑ ज॒जान॒ स्तवै᳚ । 32) स्तवै॑ पु॒रा पु॒रा स्तवै॒ स्तवै॑ पु॒रा । 33) पु॒रा पार्या॒-त्पार्या᳚-त्पु॒रा पु॒रा पार्या᳚त् । 34) पार्या॒ दिन्द्र॒ मिन्द्र॒-म्पार्या॒-त्पार्या॒ दिन्द्र᳚म् । 35) इन्द्र॒ मह्नो॒ अह्न॒ इन्द्र॒ मिन्द्र॒ मह्नः॑ । 36) अह्न॒ इत्यह्नः॑ । 37) अग्ंह॑सो॒ यत्र॒ यत्राग्ंह॑सो॒ अग्ंह॑सो॒ यत्र॑ । 38) यत्र॑ पी॒पर॑-त्पी॒पर॒-द्यत्र॒ यत्र॑ पी॒पर॑त् । 39) पी॒पर॒-द्यथा॒ यथा॑ पी॒पर॑-त्पी॒पर॒-द्यथा᳚ । 40) यथा॑ नो नो॒ यथा॒ यथा॑ नः । 41) नो॒ ना॒वा ना॒वा नो॑ नो ना॒वा । 42) ना॒वेवे॑ व ना॒वा ना॒वेव॑ । 43) इ॒व॒ यान्तं॒-याँन्त॑ मिवे व॒ यान्त᳚म् । 44) यान्त॑ मु॒भय॑ उ॒भये॒ यान्तं॒-याँन्त॑ मु॒भये᳚ । 45) उ॒भये॑ हवन्ते हवन्त उ॒भय॑ उ॒भये॑ हवन्ते । 46) ह॒व॒न्त॒ इति॑ हवन्ते । 47) प्र स॒म्राज(ग्म्॑) स॒म्राज॒-म्प्र प्र स॒म्राज᳚म् । 48) स॒म्राज॑-म्प्रथ॒म-म्प्र॑थ॒मग्ं स॒म्राज(ग्म्॑) स॒म्राज॑-म्प्रथ॒मम् । 48) स॒म्राज॒मिति॑ सं - राज᳚म् । 49) प्र॒थ॒म म॑द्ध्व॒राणा॑ मद्ध्व॒राणा᳚-म्प्रथ॒म-म्प्र॑थ॒म म॑द्ध्व॒राणा᳚म् । 50) अ॒द्ध्व॒राणा॑ मग्ंहो॒मुच॑ मग्ंहो॒मुच॑ मद्ध्व॒राणा॑ मद्ध्व॒राणा॑ मग्ंहो॒मुच᳚म् । ॥ 48 ॥ (50/55)
1) अ॒(ग्म्॒)हो॒मुचं॑-वृँष॒भं-वृँ॑ष॒भ म(ग्म्॑)हो॒मुच॑ मग्ंहो॒मुचं॑-वृँष॒भम् । 1) अ॒(ग्म्॒)हो॒मुच॒मित्य(ग्म्॑)हः - मुच᳚म् । 2) वृ॒ष॒भं-यँ॒ज्ञिया॑नां-यँ॒ज्ञिया॑नां-वृँष॒भं-वृँ॑ष॒भं-यँ॒ज्ञिया॑नाम् । 3) य॒ज्ञिया॑ना॒मिति॑ य॒ज्ञिया॑नाम् । 4) अ॒पा-न्नपा॑त॒-न्नपा॑त म॒पा म॒पा-न्नपा॑तम् । 5) नपा॑त मश्विना ऽश्विना॒ नपा॑त॒-न्नपा॑त मश्विना । 6) अ॒श्वि॒ना॒ हय॑न्त॒(ग्म्॒) हय॑न्त मश्विना ऽश्विना॒ हय॑न्तम् । 7) हय॑न्त म॒स्मि-न्न॒स्मिन्. हय॑न्त॒(ग्म्॒) हय॑न्त म॒स्मिन्न् । 8) अ॒स्मि-न्न॑रो नरो अ॒स्मि-न्न॒स्मि-न्न॑रः । 9) न॒र॒ इ॒न्द्रि॒य मि॑न्द्रि॒य-न्न॑रो नर इन्द्रि॒यम् । 10) इ॒न्द्रि॒य-न्ध॑त्त-न्धत्त मिन्द्रि॒य मि॑न्द्रि॒य-न्ध॑त्तम् । 11) ध॒त्त॒ मोज॒ ओजो॑ धत्त-न्धत्त॒ मोजः॑ । 12) ओज॒ इत्योजः॑ । 13) वि नो॑ नो॒ वि वि नः॑ । 14) न॒ इ॒न्द्रे॒ न्द्र॒ नो॒ न॒ इ॒न्द्र॒ । 15) इ॒न्द्र॒ मृधो॒ मृध॑ इन्द्रे न्द्र॒ मृधः॑ । 16) मृधो॑ जहि जहि॒ मृधो॒ मृधो॑ जहि । 17) ज॒हि॒ नी॒चा नी॒चा ज॑हि जहि नी॒चा । 18) नी॒चा य॑च्छ यच्छ नी॒चा नी॒चा य॑च्छ । 19) य॒च्छ॒ पृ॒त॒न्य॒तः पृ॑तन्य॒तो य॑च्छ यच्छ पृतन्य॒तः । 20) पृ॒त॒न्य॒त इति॑ पृतन्य॒तः । 21) अ॒ध॒स्प॒द-न्त-न्त म॑धस्प॒द म॑धस्प॒द-न्तम् । 21) अ॒ध॒स्प॒दमित्य॑धः - प॒दम् । 22) त मी॑ मी॒-न्त-न्त मी᳚म् । 23) ई॒-ङ्कृ॒धि॒ कृ॒धी॒ मी॒-ङ्कृ॒धि॒ । 24) कृ॒धि॒ यो यस्कृ॑धि कृधि॒ यः । 25) यो अ॒स्माग्ं अ॒स्मान्. यो यो अ॒स्मान् । 26) अ॒स्माग्ं अ॑भि॒दास॑ त्यभि॒दास॑ त्य॒स्माग्ं अ॒स्माग्ं अ॑भि॒दास॑ति । 27) अ॒भि॒दास॒तीत्य॑भि - दास॑ति । 28) इन्द्र॑ क्ष॒त्र-ङ्क्ष॒त्र मिन्द्रे न्द्र॑ क्ष॒त्रम् । 29) क्ष॒त्र म॒भ्य॑भि क्ष॒त्र-ङ्क्ष॒त्र म॒भि । 30) अ॒भि वा॒मं-वाँ॒म म॒भ्य॑भि वा॒मम् । 31) वा॒म मोज॒ ओजो॑ वा॒मं-वाँ॒म मोजः॑ । 32) ओजो ऽजा॑यथा॒ अजा॑यथा॒ ओज॒ ओजो ऽजा॑यथाः । 33) अजा॑यथा वृषभ वृष॒भाजा॑यथा॒ अजा॑यथा वृषभ । 34) वृ॒ष॒भ॒ च॒र्॒ष॒णी॒ना-ञ्च॑र्षणी॒नां-वृँ॑षभ वृषभ चर्षणी॒नाम् । 35) च॒र्॒ष॒णी॒नामिति॑ चर्षणी॒नाम् । 36) अपा॑नुदो ऽनुदो॒ अपापा॑नुदः । 37) अ॒नु॒दो॒ जन॒-ञ्जन॑ मनुदो ऽनुदो॒ जन᳚म् । 38) जन॑ ममित्र॒यन्त॑ ममित्र॒यन्त॒-ञ्जन॒-ञ्जन॑ ममित्र॒यन्त᳚म् । 39) अ॒मि॒त्र॒यन्त॑ मु॒रु मु॒रु म॑मित्र॒यन्त॑ ममित्र॒यन्त॑ मु॒रुम् । 39) अ॒मि॒त्र॒यन्त॒मित्य॑मित्र - यन्त᳚म् । 40) उ॒रु-न्दे॒वेभ्यो॑ दे॒वेभ्य॑ उ॒रु मु॒रु-न्दे॒वेभ्यः॑ । 41) दे॒वेभ्यो॑ अकृणो रकृणो-र्दे॒वेभ्यो॑ दे॒वेभ्यो॑ अकृणोः । 42) अ॒कृ॒णो॒रु॒ वु॒ व॒कृ॒णो॒ र॒कृ॒णो॒रु॒ । 43) उ॒ लो॒कम् ँलो॒क मु॑ वु लो॒कम् । 44) लो॒कमिति॑ लो॒कम् । 45) मृ॒गो न न मृ॒गो मृ॒गो न । 46) न भी॒मो भी॒मो न न भी॒मः । 47) भी॒मः कु॑च॒रः कु॑च॒रो भी॒मो भी॒मः कु॑च॒रः । 48) कु॒च॒रो गि॑रि॒ष्ठा गि॑रि॒ष्ठाः कु॑च॒रः कु॑च॒रो गि॑रि॒ष्ठाः । 49) गि॒रि॒ष्ठाः प॑रा॒वतः॑ परा॒वतो॑ गिरि॒ष्ठा गि॑रि॒ष्ठाः प॑रा॒वतः॑ । 49) गि॒रि॒ष्ठा इति॑ गिरि - स्थाः । 50) प॒रा॒वत॒ आ प॑रा॒वतः॑ परा॒वत॒ आ । 50) प॒रा॒वत॒ इति॑ परा - वतः॑ । ॥ 49 ॥ (50/55)
1) आ ज॑गाम जगा॒मा ज॑गाम । 2) ज॒गा॒मा॒ पर॑स्याः॒ पर॑स्या जगाम जगामा॒ पर॑स्याः । 3) पर॑स्या॒ इति॒ पर॑स्याः । 4) सृ॒कग्ं स॒(ग्म्॒)शाय॑ स॒(ग्म्॒)शाय॑ सृ॒कग्ं सृ॒कग्ं स॒(ग्म्॒)शाय॑ । 5) स॒(ग्म्॒)शाय॑ प॒वि-म्प॒विग्ं स॒(ग्म्॒)शाय॑ स॒(ग्म्॒)शाय॑ प॒विम् । 5) स॒(ग्म्॒)शायेति॑ सं - शाय॑ । 6) प॒वि मि॑न्द्रे न्द्र प॒वि-म्प॒वि मि॑न्द्र । 7) इ॒न्द्र॒ ति॒ग्म-न्ति॒ग्म मि॑न्द्रे न्द्र ति॒ग्मम् । 8) ति॒ग्मं-विँ वि ति॒ग्म-न्ति॒ग्मं-विँ । 9) वि शत्रू॒-ञ्छत्रू॒न्॒. वि वि शत्रून्॑ । 10) शत्रू᳚-न्ताढि ताढि॒ शत्रू॒-ञ्छत्रू᳚-न्ताढि । 11) ता॒ढि॒ वि वि ता॑ढि ताढि॒ वि । 12) वि मृधो॒ मृधो॒ वि वि मृधः॑ । 13) मृधो॑ नुदस्व नुदस्व॒ मृधो॒ मृधो॑ नुदस्व । 14) नु॒द॒स्वेति॑ नुदस्व । 15) वि शत्रू॒-ञ्छत्रू॒न्॒. वि वि शत्रून्॑ । 16) शत्रू॒न्॒. वि वि शत्रू॒-ञ्छत्रू॒न्॒. वि । 17) वि मृधो॒ मृधो॒ वि वि मृधः॑ । 18) मृधो॑ नुद नुद॒ मृधो॒ मृधो॑ नुद । 19) नु॒द॒ वि वि नु॑द नुद॒ वि । 20) वि वृ॒त्रस्य॑ वृ॒त्रस्य॒ वि वि वृ॒त्रस्य॑ । 21) वृ॒त्रस्य॒ हनू॒ हनू॑ वृ॒त्रस्य॑ वृ॒त्रस्य॒ हनू᳚ । 22) हनू॑ रुज रुज॒ हनू॒ हनू॑ रुज । 22) हनू॒ इति॒ हनू᳚ । 23) रु॒जेति॑ रुज । 24) वि म॒न्यु-म्म॒न्युं-विँ वि म॒न्युम् । 25) म॒न्यु मि॑न्द्रे न्द्र म॒न्यु-म्म॒न्यु मि॑न्द्र । 26) इ॒न्द्र॒ भा॒मि॒तो भा॑मि॒त इ॑न्द्रे न्द्र भामि॒तः । 27) भा॒मि॒तो॑ ऽमित्र॑स्या॒ मित्र॑स्य भामि॒तो भा॑मि॒तो॑ ऽमित्र॑स्य । 28) अ॒मित्र॑स्या भि॒दास॑तो अभि॒दास॑तो अ॒मित्र॑स्या॒ मित्र॑स्या भि॒दास॑तः । 29) अ॒भि॒दास॑त॒ इत्य॑भि - दास॑तः । 30) त्रा॒तार॒ मिन्द्र॒ मिन्द्र॑-न्त्रा॒तार॑-न्त्रा॒तार॒ मिन्द्र᳚म् । 31) इन्द्र॑ मवि॒तार॑ मवि॒तार॒ मिन्द्र॒ मिन्द्र॑ मवि॒तार᳚म् । 32) अ॒वि॒तार॒ मिन्द्र॒ मिन्द्र॑ मवि॒तार॑ मवि॒तार॒ मिन्द्र᳚म् । 33) इन्द्र॒(ग्म्॒) हवे॑हवे॒ हवे॑हव॒ इन्द्र॒ मिन्द्र॒(ग्म्॒) हवे॑हवे । 34) हवे॑हवे सु॒हव(ग्म्॑) सु॒हव॒(ग्म्॒) हवे॑हवे॒ हवे॑हवे सु॒हव᳚म् । 34) हवे॑हव॒ इति॒ हवे᳚ - ह॒वे॒ । 35) सु॒हव॒(ग्म्॒) शूर॒(ग्म्॒) शूर(ग्म्॑) सु॒हव(ग्म्॑) सु॒हव॒(ग्म्॒) शूर᳚म् । 35) सु॒हव॒मिति॑ सु - हव᳚म् । 36) शूर॒ मिन्द्र॒ मिन्द्र॒(ग्म्॒) शूर॒(ग्म्॒) शूर॒ मिन्द्र᳚म् । 37) इन्द्र॒मितीन्द्र᳚म् । 38) हु॒वे नु नु हु॒वे हु॒वे नु । 39) नु श॒क्रग्ं श॒क्र-न्नु नु श॒क्रम् । 40) श॒क्र-म्पु॑रुहू॒त-म्पु॑रुहू॒तग्ं श॒क्रग्ं श॒क्र-म्पु॑रुहू॒तम् । 41) पु॒रु॒हू॒त मिन्द्र॒ मिन्द्र॑-म्पुरुहू॒त-म्पु॑रुहू॒त मिन्द्र᳚म् । 41) पु॒रु॒हू॒तमिति॑ पुरु - हू॒तम् । 42) इन्द्र(ग्ग्॑) स्व॒स्ति स्व॒स्तीन्द्र॒ मिन्द्र(ग्ग्॑) स्व॒स्ति । 43) स्व॒स्ति नो॑ न-स्स्व॒स्ति स्व॒स्ति नः॑ । 44) नो॒ म॒घवा॑ म॒घवा॑ नो नो म॒घवा᳚ । 45) म॒घवा॑ धातु धातु म॒घवा॑ म॒घवा॑ धातु । 45) म॒घवेति॑ म॒घ - वा॒ । 46) धा॒त्विन्द्र॒ इन्द्रो॑ धातु धा॒त्विन्द्रः॑ । 47) इन्द्र॒ इतीन्द्रः॑ । 48) मा ते॑ ते॒ मा मा ते᳚ । 49) ते॒ अ॒स्या म॒स्या-न्ते॑ ते अ॒स्याम् । 50) अ॒स्याग्ं स॑हसाव-न्थ्सहसाव-न्न॒स्या म॒स्याग्ं स॑हसावन्न् । ॥ 50 ॥ (50/56)
1) स॒ह॒सा॒व॒-न्परि॑ष्टौ॒ परि॑ष्टौ सहसाव-न्थ्सहसाव॒-न्परि॑ष्टौ । 1) स॒ह॒सा॒व॒न्निति॑ सहसा - व॒न्न् । 2) परि॑ष्टा व॒घाया॒ घाय॒ परि॑ष्टौ॒ परि॑ष्टा व॒घाय॑ । 3) अ॒घाय॑ भूम भूमा॒घाया॒ घाय॑ भूम । 4) भू॒म॒ ह॒रि॒वो॒ ह॒रि॒वो॒ भू॒म॒ भू॒म॒ ह॒रि॒वः॒ । 5) ह॒रि॒वः॒ प॒रा॒दै प॑रा॒दै ह॑रिवो हरिवः परा॒दै । 5) ह॒रि॒व॒ इति॑ हरि - वः॒ । 6) प॒रा॒दा इति॑ परा - दै । 7) त्राय॑स्व नो न॒स्त्राय॑स्व॒ त्राय॑स्व नः । 8) नो॒ ऽवृ॒केभि॑ रवृ॒केभि॑-र्नो नो ऽवृ॒केभिः॑ । 9) अ॒वृ॒केभि॒-र्वरू॑थै॒-र्वरू॑थै रवृ॒केभि॑ रवृ॒केभि॒-र्वरू॑थैः । 10) वरू॑थै॒ स्तव॒ तव॒ वरू॑थै॒-र्वरू॑थै॒ स्तव॑ । 11) तव॑ प्रि॒यासः॑ प्रि॒यास॒ स्तव॒ तव॑ प्रि॒यासः॑ । 12) प्रि॒यास॑-स्सू॒रिषु॑ सू॒रिषु॑ प्रि॒यासः॑ प्रि॒यास॑-स्सू॒रिषु॑ । 13) सू॒रिषु॑ स्याम स्याम सू॒रिषु॑ सू॒रिषु॑ स्याम । 14) स्या॒मेति॑ स्याम । 15) अन॑व स्ते॒ ते ऽन॒वो ऽन॑वस्ते । 16) ते॒ रथ॒(ग्म्॒) रथ॑-न्ते ते॒ रथ᳚म् । 17) रथ॒ मश्वा॒या श्वा॑य॒ रथ॒(ग्म्॒) रथ॒ मश्वा॑य । 18) अश्वा॑य तक्ष-न्तक्ष॒-न्नश्वा॒या श्वा॑य तक्षन्न् । 19) त॒क्ष॒-न्त्वष्टा॒ त्वष्टा॑ तक्ष-न्तक्ष॒-न्त्वष्टा᳚ । 20) त्वष्टा॒ वज्रं॒-वँज्र॒-न्त्वष्टा॒ त्वष्टा॒ वज्र᳚म् । 21) वज्र॑-म्पुरुहूत पुरुहूत॒ वज्रं॒-वँज्र॑-म्पुरुहूत । 22) पु॒रु॒हू॒त॒ द्यु॒मन्त॑-न्द्यु॒मन्त॑-म्पुरुहूत पुरुहूत द्यु॒मन्त᳚म् । 22) पु॒रु॒हू॒तेति॑ पुरु - हू॒त॒ । 23) द्यु॒मन्त॒मिति॑ द्यु - मन्त᳚म् । 24) ब्र॒ह्माण॒ इन्द्र॒ मिन्द्र॑-म्ब्र॒ह्माणो᳚ ब्र॒ह्माण॒ इन्द्र᳚म् । 25) इन्द्र॑-म्म॒हय॑न्तो म॒हय॑न्त॒ इन्द्र॒ मिन्द्र॑-म्म॒हय॑न्तः । 26) म॒हय॑न्तो अ॒र्कै र॒र्कै-र्म॒हय॑न्तो म॒हय॑न्तो अ॒र्कैः । 27) अ॒र्कै रव॑र्धय॒-न्नव॑र्धय-न्न॒र्कै र॒र्कै रव॑र्धयन्न् । 28) अव॑र्धय॒-न्नह॒ये ऽह॒ये ऽव॑र्धय॒-न्नव॑र्धय॒-न्नह॑ये । 29) अह॑ये॒ हन्त॒वै हन्त॒वा अह॒ये ऽह॑ये॒ हन्त॒वै । 30) हन्त॒वा उ॑ वु॒ हन्त॒वै हन्त॒वा उ॑ । 31) उ॒ वित्यु॑ । 32) वृष्णे॒ य-द्य-द्वृष्णे॒ वृष्णे॒ यत् । 33) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 34) ते॒ वृष॑णो॒ वृष॑ण स्ते ते॒ वृष॑णः । 35) वृष॑णो अ॒र्क म॒र्कं-वृँष॑णो॒ वृष॑णो अ॒र्कम् । 36) अ॒र्क मर्चा॒ नर्चा॑ न॒र्क म॒र्क मर्चान्॑ । 37) अर्चा॒ निन्द्रे न्द्रार्चा॒ नर्चा॒ निन्द्र॑ । 38) इन्द्र॒ ग्रावा॑णो॒ ग्रावा॑ण॒ इन्द्रे न्द्र॒ ग्रावा॑णः । 39) ग्रावा॑णो॒ अदि॑ति॒ रदि॑ति॒-र्ग्रावा॑णो॒ ग्रावा॑णो॒ अदि॑तिः । 40) अदि॑ति-स्स॒जोषा᳚-स्स॒जोषा॒ अदि॑ति॒ रदि॑ति-स्स॒जोषाः᳚ । 41) स॒जोषा॒ इति॑ स - जोषाः᳚ । 42) अ॒न॒श्वासो॒ ये ये॑ ऽन॒श्वासो॑ ऽन॒श्वासो॒ ये । 43) ये प॒वयः॑ प॒वयो॒ ये ये प॒वयः॑ । 44) प॒वयो॑ ऽर॒था अ॑र॒थाः प॒वयः॑ प॒वयो॑ ऽर॒थाः । 45) अ॒र॒था इन्द्रे॑षिता॒ इन्द्रे॑षिता अर॒था अ॑र॒था इन्द्रे॑षिताः । 46) इन्द्रे॑षिता अ॒भ्यव॑र्तन्ता॒ भ्यव॑र्त॒न्ते न्द्रे॑षिता॒ इन्द्रे॑षिता अ॒भ्यव॑र्तन्त । 46) इन्द्रे॑षिता॒ इतीन्द्र॑ - इ॒षि॒ताः॒ । 47) अ॒भ्यव॑र्तन्त॒ दस्यू॒-न्दस्यू॑ न॒भ्यव॑र्तन्ता॒ भ्यव॑र्तन्त॒ दस्यून्॑ । 47) अ॒भ्यव॑र्त॒न्तेत्य॑भि - अव॑र्तन्त । 48) दस्यू॒निति॒ दस्यून्॑ । ॥ 51 ॥ (48, 53)
॥ अ. 12 ॥
Browse Related Categories: